प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत।सखा॑यः सोम॒पाव्ने॑॥ ७.०३१.०१
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नर॑।च॒कृ॒मा स॒त्यरा॑धसे॥ ७.०३१.०२
त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो।त्वं हि॑रण्य॒युर्व॑सो॥ ७.०३१.०३
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्।वि॒द्धी त्वस्य नो॑ वसो॥ ७.०३१.०४
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे।त्वे अपि॒ क्रतु॒र्मम॑॥ ७.०३१.०५
त्वं वर्मा॑सि स॒प्रथ॑ पुरोयो॒धश्च॑ वृत्रहन्।त्वया॒ प्रति॑ ब्रुवे यु॒जा॥ ७.०३१.०६
म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सह॑।म॒म्नाते॑ इन्द्र॒ रोद॑सी॥ ७.०३१.०७
तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री।नक्ष॑माणा स॒ह द्युभि॑॥ ७.०३१.०८
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑।सं ते॑ नमन्त कृ॒ष्टय॑॥ ७.०३१.०९
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम्। विश॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः॥ ७.०३१.१०
उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्रा॑। तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीरा॑॥ ७.०३१.११
इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै।हर्य॑श्वाय बर्हया॒ समा॒पीन्॥ ७.०३१.१२