प॒र्जन्या॑य॒ प्र गा॑यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे॑।स नो॒ यव॑समिच्छतु॥ ७.१०२.०१ यो गर्भ॒मोष॑धीनां॒ गवां॑ कृ॒णोत्यर्व॑ताम्।प॒र्जन्य॑ पुरु॒षीणा॑म्॥ ७.१०२.०२ तस्मा॒ इदा॒स्ये॑ ह॒विर्जु॒होता॒ मधु॑मत्तमम्।इळां॑ नः सं॒यतं॑ करत्॥ ७.१०२.०३