जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑। अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु॥ ६.०७५.०१
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम। धनु॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑ प्र॒दिशो॑ जयेम॥ ६.०७५.०२
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना। योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती॥ ६.०७५.०३
२
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑। अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न्॥ ६.०७५.०४
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑। इ॒षु॒धिः सङ्का॒ पृत॑नाश्च॒ सर्वा॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः॥ ६.०७५.०५
रथे॒ तिष्ठ॑न्नयति वा॒जिन॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः। अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑ प॒श्चादनु॑ यच्छन्ति र॒श्मय॑॥ ६.०७५.०६
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्त॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः॥ ६.०७५.०७
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑। तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः॥ ६.०७५.०८
स्वा॒दु॒षं॒सद॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒ शक्ती॑वन्तो गभी॒राः। चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः॥ ६.०७५.०९
ब्राह्म॑णास॒ पित॑र॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑। पू॒षा न॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत॥ ६.०७५.१०
४
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒ संन॑द्धा पतति॒ प्रसू॑ता। यत्रा॒ नर॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒ शर्म॑ यंसन्॥ ६.०७५.११
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः। सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒ शर्म॑ यच्छतु॥ ६.०७५.१२
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते। अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्स॒मत्सु॑ चोदय॥ ६.०७५.१३
अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः। ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑॥ ६.०७५.१४
आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म्। इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नम॑॥ ६.०७५.१५
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते। गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः॥ ६.०७५.१६
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व। तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु॥ ६.०७५.१७
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु॥ ६.०७५.१८
यो न॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम्॥ ६.०७५.१९
अथ प्रतीकविचारः। इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नम इति श्रुतेरिषवः पर्जन्यकारणभूता आहुतय एव। तज्जननी पृथिवी इषुधिः। धनुर्यज्ञः। यज्ञधनुषि आहुतीनां सन्धानं कृत्वा वृत्राणि वृष्ट्यावरणानि सूर्यरश्म्यावरणानि वा वेद्धव्यानि। अनेन समरेण उदकवृष्टेर्वा सूर्यरश्मेर्वा लाभः। इत्याधिभौतिकम्। अथाध्यात्मिकम्। इषवश्चित्तभावनाः। तदाधारभूता प्रकृतिरिषुधिः। धनुरुपासनं ध्यानं वा। इषुर्न धन्वन् प्रति धीयते मतिरिति श्रुतेः। ध्यानधनुषि चित्तभावनेषुसन्धानं कृत्वा। वृत्राणि मूलशख्निधारावरणानि चिद्रश्म्यावरणानि वा वेद्धव्यानि। अनेन समरेण मूलशख्निधाराया वा चिद्रश्मेर्वा लाभः। इत्याध्यात्मिकम्। धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं प्रगृह्य। नियम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमादेन वेद्धव्यं शरत्तन्मयो भवेत्॥ इत्याथर्वणश्लोकावत्रानुसन्धेयौ। को अद्य युङ्ख्ने धुरि गा ऋतस्य, रथी ऋतस्य नो भवेत्यादिश्रुतेः प्रकृतिनियतिभूतसत्यात्मकर्तमेव रथः लक्ष्यप्रापकरंहणप्रतीकः। अश्वाः प्राणाः। अश्वाजनि प्रचेतसोश्वान् समत्सु चोदयेति श्रुतेः प्रचेतोभिः कृता प्राणनियमनशख्निरेव कशा। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुख्नं भोख्नेत्याहुर्मनीषिणः॥ यस्तु विज्ञानवान् भवति युख्नेन मनसा सदा। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ ७
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्॥ इति हि काठकम्। अनया तत्त्वदृष्ट्या इमे मन्त्रा द्रष्टव्याः।