इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑। हु॒वेम॒ वाज॑सातये॥ ६.०५७.०१

सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑ सु॒तम्। क॒र॒म्भम॒न्य इ॑च्छति॥ ६.०५७.०२

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता। ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते॥ ६.०५७.०३

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः। तत्र॑ पू॒षाभ॑व॒त्सचा॑॥ ६.०५७.०४

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व। इन्द्र॑स्य॒ चा र॑भामहे॥ ६.०५७.०५

उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः। म॒ह्या इन्द्रं॑ स्व॒स्तये॑॥ ६.०५७.०६