तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम्।श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि॥ ५.०८२.०१

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम्।न मि॒नन्ति॑ स्व॒राज्य॑म्॥ ५.०८२.०२

स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑।तं भा॒गं चि॒त्रमी॑महे॥ ५.०८२.०३

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒ सौभ॑गम्।परा॑ दु॒ष्ष्वप्न्यं॑ सुव॥ ५.०८२.०४

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव।यद्भ॒द्रं तन्न॒ आ सु॑व॥ ५.०८२.०५

अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे।विश्वा॑ वा॒मानि॑ धीमहि॥ ५.०८२.०६

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे।स॒त्यस॑वं सवि॒तार॑म्॥ ५.०८२.०७

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन्।स्वा॒धीर्दे॒वः स॑वि॒ता॥ ५.०८२.०८

य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न।प्र च॑ सु॒वाति॑ सवि॒ता॥ ५.०८२.०९