आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत्।नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये॥ ५.०७२.०१
व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना।नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये॥ ५.०७२.०२
मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑।नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये॥ ५.०७२.०३