आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑।उपे॒मं चारु॑मध्व॒रम्॥ ५.०७१.०१ विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः।ई॒शा॒ना पि॑प्यतं॒ धिय॑॥ ५.०७१.०२ उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुष॑।अ॒स्य सोम॑स्य पी॒तये॑॥ ५.०७१.०३