प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा।महि॑क्षत्रावृ॒तं बृ॒हत्॥ ५.०६८.०१
स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च।दे॒वा दे॒वेषु॑ प्रश॒स्ता॥ ५.०६८.०२
ता न॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑।महि॑ वां क्ष॒त्रं दे॒वेषु॑॥ ५.०६८.०३
ऋ॒तमृ॒तेन॒ सप॑न्तेषि॒रं दक्ष॑माशाते।अ॒द्रुहा॑ दे॒वौ व॑र्धेते॥ ५.०६८.०४
वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः।बृ॒हन्तं॒ गर्त॑माशाते॥ ५.०६८.०५