आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा।वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे॥ ५.०६६.०१
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्यमाशा॑ते।अध॑ व्र॒तेव॒ मानु॑षं॒ स्वर्ण धा॑यि दर्श॒तम्॥ ५.०६६.०२
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम्।रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे॥ ५.०६६.०३
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता।नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा॥ ५.०६६.०४
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम्।ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः॥ ५.०६६.०५
आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रय॑।व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑॥ ५.०६६.०६