अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि।दे॒वेभि॑र्ह॒व्यदा॑तये॥ ५.०५१.०१
ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम्।अ॒ग्नेः पि॑बत जि॒ह्वया॑॥ ५.०५१.०२
विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि।दे॒वेभि॒ सोम॑पीतये॥ ५.०५१.०३
अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते।प्रि॒य इन्द्रा॑य वा॒यवे॑॥ ५.०५१.०४
वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये।पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रय॑॥ ५.०५१.०५
इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः।ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रय॑॥ ५.०५१.०६
सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः।नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रय॑॥ ५.०५१.०७
स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः।आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण॥ ५.०५१.०८
स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना।आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण॥ ५.०५१.०९
स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑।आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण॥ ५.०५१.१०
स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भग॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वण॑। स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑॥ ५.०५१.११
स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑। बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः॥ ५.०५१.१२
विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑। दे॒वा अ॑वन्त्वृ॒भव॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः॥ ५.०५१.१३
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति। स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि॥ ५.०५१.१४
स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव। पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि॥ ५.०५१.१५