यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः।राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र॥ ५.०३९.०१
यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र।वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑॥ ५.०३९.०२
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत्। तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑॥ ५.०३९.०३
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम्।इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिर॑॥ ५.०३९.०४
२
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म्। तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिर॑ शुम्भ॒न्त्यत्र॑यः॥ ५.०३९.०५