अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोन॑। त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभि॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत॥ ५.०२७.०१
यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति। वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑॥ ५.०२७.०२
ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः। यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑॥ ५.०२७.०३
यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑।दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते॥ ५.०२७.०४
यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षण॑।अश्व॑मेधस्य॒ दाना॒ सोमा॑ इव॒ त्र्या॑शिरः॥ ५.०२७.०५
इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म्।क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म्॥ ५.०२७.०६