बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑। यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः॥ ५.०१६.०१
स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः। वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति॥ ५.०१६.०२
अ॒स्य स्तोमे॑ म॒घोन॑ स॒ख्ये वृ॒द्धशो॑चिषः।
विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः॥ ५.०१६.०३
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑।तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः॥ ५.०१६.०४
नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र। २
ये व॒यं ये च॑ सू॒रय॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे॥ ५.०१६.०५