अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म्।इ॒येथ॑ ब॒र्हिरा॒सद॑म्॥ ४.००९.०१

स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः।दू॒तो विश्वे॑षां भुवत्॥ ४.००९.०२

स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु।उ॒त पोता॒ नि षी॑दति॥ ४.००९.०३

उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑।उ॒त ब्र॒ह्मा नि षी॑दति॥ ४.००९.०४

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम्।ह॒व्या च॒ मानु॑षाणाम्॥ ४.००९.०५

वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम्।ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे॥ ४.००९.०६

अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः।अ॒स्माकं॑ शृणुधी॒ हव॑म्॥ ४.००९.०७

परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वत॑।येन॒ रक्ष॑सि दा॒शुष॑॥ ४.००९.०८