क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि। गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑॥ ४.०५७.०१
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व। म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ पत॑यो मृळयन्तु॥ ४.०५७.०२
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम्। क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम॥ ४.०५७.०३
शु॒नं वा॒हाः शु॒नं नर॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। २
शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय॥ ४.०५७.०४
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथु॒ पय॑।तेने॒मामुप॑ सिञ्चतम्॥ ४.०५७.०५
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा। यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि॥ ४.०५७.०६
इन्द्र॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु।सा न॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्॥ ४.०५७.०७
शु॒नं न॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः। शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम्॥ ४.०५७.०८