इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती।उ॒क्थं मद॑श्च शस्यते॥ ४.०४९.०१
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती।चारु॒र्मदा॑य पी॒तये॑॥ ४.०४९.०२
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम्।सो॒म॒पा सोम॑पीतये॥ ४.०४९.०३
अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म्।अश्वा॑वन्तं सह॒स्रिण॑म्॥ ४.०४९.०४
इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे।अ॒स्य सोम॑स्य पी॒तये॑॥ ४.०४९.०५
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे।मा॒दये॑थां॒ तदो॑कसा॥ ४.०४९.०६