इ॒होप॑ यात शवसो नपात॒ सौध॑न्वना ऋभवो॒ माप॑ भूत। अ॒स्मिन्हि व॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः॥ ४.०३५.०१
आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः। सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा॥ ४.०३५.०२
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत। अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः॥ ४.०३५.०३
२
कि॒म्मय॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र। अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑॥ ४.०३५.०४
शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म्। शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः॥ ४.०३५.०५
यो व॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒ सव॑नं॒ मदा॑य। तस्मै॑ र॒यिमृ॑भव॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः॥ ४.०३५.०६
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते। समृ॒भुभि॑ पिबस्व रत्न॒धेभि॒ सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या॥ ४.०३५.०७
ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द। ते रत्नं॑ धात शवसो नपात॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः॥ ४.०३५.०८
यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः। तदृ॑भव॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभि॑ पिबध्वम्॥ ४.०३५.०९