अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते।दे॒वो दे॒वेषु॑ य॒ज्ञिय॑॥ ४.०१५.०१

परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व।आ दे॒वेषु॒ प्रयो॒ दध॑त्॥ ४.०१५.०२

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्।दध॒द्रत्ना॑नि दा॒शुषे॑॥ ४.०१५.०३

अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑।द्यु॒माँ अ॑मित्र॒दम्भ॑नः॥ ४.०१५.०४

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑।ति॒ग्मज॑म्भस्य मी॒ळ्हुष॑॥ ४.०१५.०५

तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म्।म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे॥ ४.०१५.०६

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः।अच्छा॒ न हू॒त उद॑रम्॥ ४.०१५.०७

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात्।प्रय॑ता स॒द्य आ द॑दे॥ ४.०१५.०८

ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः।दी॒र्घायु॑रस्तु॒ सोम॑कः॥ ४.०१५.०९

तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम्।दी॒र्घायु॑षं कृणोतन॥ ४.०१५.१०