अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म्।ऋ॒ध्यामा॑ त॒ ओहै॑॥ ४.०१०.०१
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः।र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑॥ ४.०१०.०२
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योति॑।अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः॥ ४.०१०.०३
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म।प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑॥ ४.०१०.०४
तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः।श्रि॒ये रु॒क्मो न रो॑चत उपा॒के॥ ४.०१०.०५
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम्।तत्ते॑ रु॒क्मो न रो॑चत स्वधावः॥ ४.०१०.०६
कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त्।इ॒त्था यज॑मानादृतावः॥ ४.०१०.०७
शि॒वा न॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे।सा नो॒ नाभि॒ सद॑ने॒ सस्मि॒न्नूध॑न्॥ ४.०१०.०८