इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन्। क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒ सखि॑भ्यः॥ ३.०६२.०१

अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति। स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे॥ ३.०६२.०२

अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒ सर्व॑वीरः। अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः॥ ३.०६२.०३

बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य।रास्व॒ रत्ना॑नि दा॒शुषे॑॥ ३.०६२.०४

शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत।अना॒म्योज॒ आ च॑के॥ ३.०६२.०५

वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम्।बृह॒स्पतिं॒ वरे॑ण्यम्॥ ३.०६२.०६

इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी।अ॒स्माभि॒स्तुभ्यं॑ शस्यते॥ ३.०६२.०७

तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म्।व॒धू॒युरि॑व॒ योष॑णाम्॥ ३.०६२.०८

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति।स न॑ पू॒षावि॒ता भु॑वत्॥ ३.०६२.०९

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि।धियो॒ यो न॑ प्रचो॒दया॑त्॥ ३.०६२.१०

दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒ पुरं॑ध्या।भग॑स्य रा॒तिमी॑महे॥ ३.०६२.११

दे॒वं नर॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑।न॒म॒स्यन्ति॑ धि॒येषि॒ताः॥ ३.०६२.१२

सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम्।ऋ॒तस्य॒ योनि॑मा॒सद॑म्॥ ३.०६२.१३

सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑।अ॒न॒मी॒वा इष॑स्करत्॥३.०६२.१४

अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒ सह॑मानः।सोम॑ स॒धस्थ॒मास॑दत्॥ ३.०६२.१५

आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम्।मध्वा॒ रजां॑सि सुक्रतू॥ ३.०६२.१६

उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः।द्राघि॑ष्ठाभिः शुचिव्रता॥ ३.०६२.१७

गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम्।पा॒तं सोम॑मृतावृधा॥ ३.०६२.१८