उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्।हरि॑भ्यां॒ यस्ते॑ अस्म॒युः॥ ३.०४२.०१
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्।कु॒विन्न्व॑स्य तृ॒प्णव॑॥ ३.०४२.०२
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः।आ॒वृते॒ सोम॑पीतये॥ ३.०४२.०३
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे।उ॒क्थेभि॑ कु॒विदा॒गम॑त्॥ ३.०४२.०४
इन्द्र॒ सोमा॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो।ज॒ठरे॑ वाजिनीवसो॥ ३.०४२.०५
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे।अधा॑ ते सु॒म्नमी॑महे॥ ३.०४२.०६
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब।आ॒गत्या॒ वृष॑भिः सु॒तम्॥ ३.०४२.०७
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑। ए॒ष रा॑रन्तु ते हृ॒दि॥ ३.०४२.०८
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे।कु॒शि॒कासो॑ अव॒स्यव॑॥ ३.०४२.०९