अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः।प्रा॒त॒सा॒वे धि॑यावसो॥ ३.०२८.०१
पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः।तं जु॑षस्व यविष्ठ्य॥ ३.०२८.०२
अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम्।सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः॥ ३.०२८.०३
माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व। अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीरा॑॥ ३.०२८.०४
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम्। अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम्॥ ३.०२८.०५
अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः।जु॒षस्व॑ ति॒रोअ॑ह्न्यम्॥ ३.०२८.०६