इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्।अ॒स्य पा॑तं धि॒येषि॒ता॥ ३.०१२.०१
इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः।अ॒या पा॑तमि॒मं सु॒तम्॥ ३.०१२.०२
इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे।ता सोम॑स्ये॒ह तृ॑म्पताम्॥ ३.०१२.०३
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता।इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा॥ ३.०१२.०४
प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तार॑।इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे॥ ३.०१२.०५
इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम्।सा॒कमेके॑न॒ कर्म॑णा॥ ३.०१२.०६
इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑।ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑॥ ३.०१२.०७
इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च।यु॒वोर॒प्तूर्यं॑ हि॒तम्॥ ३.०१२.०८
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः।तद्वां॑ चेति॒ प्र वी॒र्य॑म्॥ ३.०१२.०९