अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः।स वे॑द य॒ज्ञमा॑नु॒षक्॥ ३.०११.०१

स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः।अ॒ग्निर्धि॒या समृ॑ण्वति॥ ३.०११.०२

अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः।अर्थं॒ ह्य॑स्य त॒रणि॑॥ ३.०११.०३

अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम्।वह्निं॑ दे॒वा अ॑कृण्वत॥ ३.०११.०४

अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम्।तूर्णी॒ रथ॒ सदा॒ नव॑॥ ३.०११.०५

सा॒ह्वान्विश्वा॑ अभि॒युज॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः।अ॒ग्निस्तु॒विश्र॑वस्तमः॥ ३.०११.०६

अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्य॑।क्षयं॑ पाव॒कशो॑चिषः॥ ३.०११.०७

परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः।विप्रा॑सो जा॒तवे॑दसः॥ ३.०११.०८

अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे।त्वे दे॒वास॒ एरि॑रे॥ ३.०११.०९