त्वाम॑ग्ने मनी॒षिण॑ स॒म्राजं॑ चर्षणी॒नाम्।दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे॥ ३.०१०.०१

त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते।गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑॥ ३.०१०.०२

स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे।सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति॥ ३.०१०.०३

स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत्।अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते॥ ३.०१०.०४

प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत्।वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑॥ ३.०१०.०५

अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्य॑।म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः॥ ३.०१०.०६

अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज।होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिध॑॥ ३.०१०.०७

स न॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म्।भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑॥ ३.०१०.०८

तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒ समि॑न्धते।ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म्॥ ३.०१०.०९