वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि।य॒शस्त॑मस्य मी॒ळ्हुष॑॥ २.००८.०१
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम्।चारु॑प्रतीक॒ आहु॑तः॥ २.००८.०२
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑।यस्य॑ व्र॒तं न मीय॑ते॥ २.००८.०३
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑।अ॒ञ्जा॒नो अ॒जरै॑र॒भि॥ २.००८.०४
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः।विश्वा॒ अधि॒ श्रियो॑ दधे॥ २.००८.०५
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम्। अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः॥ २.००८.०६