वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि।नि॒युत्वा॒न्सोम॑पीतये॥ २.०४१.०१

नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते।गन्ता॑सि सुन्व॒तो गृ॒हम्॥ २.०४१.०२

शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः।आ या॑तं॒ पिब॑तं नरा॥ २.०४१.०३

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा।ममेदि॒ह श्रु॑तं॒ हव॑म्॥ २.०४१.०४

राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे।स॒हस्र॑स्थूण आसाते॥ २.०४१.०५

ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑।सचे॑ते॒ अन॑वह्वरम्॥ २.०४१.०६

गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना।व॒र्ती रु॑द्रा नृ॒पाय्य॑म्॥ २.०४१.०७

न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू।दु॒शंसो॒ मर्त्यो॑ रि॒पुः॥ २.०४१.०८

ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम्।धिष्ण्या॑ वरिवो॒विद॑म्॥ २.०४१.०९

इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्।स हि स्थि॒रो विच॑र्षणिः॥ २.०४१.१०

इन्द्र॑श्च मृ॒ळया॑ति नो॒ न न॑ प॒श्चाद॒घं न॑शत्।भ॒द्रं भ॑वाति नः पु॒रः॥ २.०४१.११

इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्।जेता॒ शत्रू॒न्विच॑र्षणिः॥ २.०४१.१२

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म्।एदं ब॒र्हिर्नि षी॑दत॥ २.०४१.१३

ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः।ए॒तं पि॑बत॒ काम्य॑म्॥ २.०४१.१४

इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ पूष॑रातयः।विश्वे॒ मम॑ श्रुता॒ हव॑म्॥ २.०४१.१५

अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति। अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि॥ २.०४१.१६

त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम्। शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः॥ २.०४१.१७

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति। या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति॥ २.०४१.१८

प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे।अ॒ग्निं च॑ हव्य॒वाह॑नम्॥ २.०४१.१९

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म्।य॒ज्ञं दे॒वेषु॑ यच्छताम्॥ २.०४१.२०

आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञिया॑।इ॒हाद्य सोम॑पीतये॥ २.०४१.२१