ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान्। अ॒र्य॒मा दे॒वैः स॒जोषा॑॥ १.०९०.०१

ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः। व्र॒ता र॑क्षन्ते वि॒श्वाहा॑॥ १.०९०.०२

ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः। बाध॑माना॒ अप॒ द्विष॑॥ १.०९०.०३

वि न॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑। पू॒षा भगो॒ वन्द्या॑सः॥ १.०९०.०४

उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ पूष॒न्विष्ण॒वेव॑यावः। कर्ता॑ नः स्वस्ति॒मत॑॥ १.०९०.०५

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः।माध्वी॑र्नः स॒न्त्वोष॑धीः॥ १.०९०.०६

मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रज॑। मधु॒ द्यौर॑स्तु नः पि॒ता॥ १.०९०.०७

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑। माध्वी॒र्गावो॑ भवन्तु नः॥ १.०९०.०८

शं नो॑ मि॒त्रः शं वरु॑ण॒ शं नो॑ भवत्वर्य॒मा।
शं न॒ इन्द्रो॒ बृह॒स्पति॒ शं नो॒ विष्णु॑रुरुक्र॒मः॥ १.०९०.०९