त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त। यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म्॥ १.०४५.०१

श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः।
तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह॥ १.०४५.०२

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत्।
अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म्॥ १.०४५.०३

महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत। राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑॥ १.०४५.०४

घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑।
याभि॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा॥ १.०४५.०५

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे॥ १.०४५.०६

नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम्।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु॥ १.०४५.०७

आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑।
बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑॥ १.०४५.०८

प्रा॒त॒र्याव्ण॑ सहस्कृत सोम॒पेया॑य सन्त्य।
इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो॥ १.०४५.०९

अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः।
अ॒यं सोम॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम्॥ १.०४५.१०