कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शंत॑मं हृ॒दे॥ १.०४३.०१

यथा॑ नो॒ अदि॑ति॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑। यथा॑ तो॒काय॑ रु॒द्रिय॑म्॥ १.०४३.०२

यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति। यथा॒ विश्वे॑ स॒जोष॑सः॥ १.०४३.०३

गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम्। तच्छं॒योः सु॒म्नमी॑महे॥ १.०४३.०४

यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते। श्रेष्ठो॑ दे॒वानां॒ वसु॑॥ १.०४३.०५

शं न॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑। नृभ्यो॒ नारि॑भ्यो॒ गवे॑॥ १.०४३.०६

अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम्। महि॒ श्रव॑स्तुविनृ॒म्णम्॥ १.०४३.०७

मा न॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त। आ न॑ इन्दो॒ वाजे॑ भज॥ १.०४३.०८

यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः॥ १.०४३.०९