समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित्। दू॒तो ह॒व्या क॒विर्व॑ह॥ १.१८८.०१
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते। दध॑त्सह॒स्रिणी॒रिष॑॥ १.१८८.०२
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न्। अग्ने॑ सहस्र॒सा अ॑सि॥ १.१८८.०३
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन्। यत्रा॑दित्या वि॒राज॑थ॥ १.१८८.०४
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः।दुरो॑ घृ॒तान्य॑क्षरन्॥ १.१८८.०५
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः। उ॒षासा॒वेह सी॑दताम्॥ १.१८८.०६
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी। य॒ज्ञं नो॑ यक्षतामि॒मम्॥ १.१८८.०७
भार॒तीळे॒ सर॑स्वति॒ या व॒ सर्वा॑ उपब्रु॒वे। ता न॑श्चोदयत श्रि॒ये॥ १.१८८.०८
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्समान॒जे। तेषां॑ नः स्फा॒तिमा य॑ज॥ १.१८८.०९
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्य॑ सृज। अ॒ग्निर्ह॒व्यानि॑ सिष्वदत्॥ १.१८८.१०
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते। स्वाहा॑कृतीषु रोचते॥ १.१८८.११