चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः। मरु॑तो॒ अहि॑भानवः॥ १.१७२.०१

आ॒रे सा व॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑। आ॒रे अश्मा॒ यमस्य॑थ॥ १.१७२.०२

तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ परि॑ वृङ्क्त सुदानवः। ऊ॒र्ध्वान्न॑ कर्त जी॒वसे॑॥ १.१७२.०३