कया॑ शु॒भा सव॑यस॒ सनी॑ळाः समा॒न्या म॒रुत॒ सं मि॑मिक्षुः।
कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या॥ १.१६५.०१
कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑न॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त।
श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम॥ १.१६५.०२
कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे॥ १.१६५.०३
ब्रह्मा॑णि मे म॒तय॒ शं सु॒तास॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑।
आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑॥ १.१६५.०४
अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒ः॑ शुम्भ॑मानाः।
महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑॥ १.१६५.०५
क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑।
अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः॥ १.१६५.०६
भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः।
भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म॥ १.१६५.०७
वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान्।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः॥ १.१६५.०८
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध॥ १.१६५.०९
एक॑स्य चिन्मे वि॒भ्व१स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा।
अ॒हं ह्यु१ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम्॥ १.१६५.१०
अम॑न्दन्मा मरुत॒ स्तोमो॒ अत्र॒ यन्मे॑ नर॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र।
इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभि॑॥ १.१६५.११
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्य॒ श्रव॒ एषो॒ दधा॑नाः।
सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम्॥ १.१६५.१२
को न्वत्र॑ मरुतो मामहे व॒ प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः।
मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म्॥ १.१६५.१३
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा। ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत्॥ १.१६५.१४
ए॒ष व॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्॥ १.१६५.१५