ऋक्संहितायाम् पूर्वं कस्मिंश्चिन् मन्त्रे समानानुपूर्वेणागतनां त्रयाणां पदानां ततोधिकानां वा पदपाठे, उत्तरत्र पुनस् तथैव पाठे, तावन्-मात्रस्य परित्यागेन मन्त्रशेषपाठ एव गणन्तपाठ इत्युतच्यते। क्रमपाठे तु स गणन्तपाठः संहितारूपेण पठ्यते। पदपाठ एव गणतपाठोपहितः तावान् मन्त्रावयवो लुप्यते। यदि पदपाठः शास्त्रीयस् तर्हि गणन्तपाठो ऽध्ययनपरम्पराप्राप्तोऽप्प्य् अशास्त्रीय एव। तत्र तावन्मन्त्रावयवलोपात्।