ऋग्वेदः
प्रथमं मण्डलम्
रङ्गनाथविरचिता ध्वनिदीपिका
रामः श्रुतिः श्रुती रामो न भेदः श्रुतिरामयोः। तस्मै श्रुत्यात्मने व्याख्यां रामायैतां समर्पये॥
राजते वेदविज्ञानसद्ग्रन्थः प्रेमिकोदितः। देवतातत्वजिज्ञासा येन मे वर्धिता हृदि॥
वाल्मीकिं यास्कमाचार्यं पाणिनिं सपतञ्जलिम्। श्रीबादरायणं स्कन्दं सायणार्यं जगद्धितम्॥
पूर्णप्रज्ञं महात्मानं भास्करं माधवं तथा। कपालिनं समालोड्य क्रियते ध्वनिदीपिका॥
वेदेन वेदो विज्ञेय आत्मा लभ्यो यथात्मना। एवं विचिन्त्य सुव्याख्यां विधत्ते रङ्गनायकः॥
सुखेन ध्वनिबोधाय वेदानां क्रियते हितः। अल्पग्रन्थोऽयमात्मार्थं सीतारामप्रसादतः॥ं
सुप्रसन्नो भव श्रीगुरुनाथ॥
अविद्या शर्वरी सपदि विनष्टा। विद्या सन्ध्या पुरतो दृष्टा॥
चन्द्रकला रेचकेन च पिहिता। सूर्यकला पूरकेन सुविहिता॥
विकसितं सहस्रदळं कमलम्। विलसितं प्रेमसुखं निर्मलम्॥
इति श्रीप्रेमिकेन्द्रकीर्तनं कवीन्द्राणां हृदय आधिभौतिकप्रकृतौ स्वाभाविक्या भावनयाऽऽध्यात्मिकदर्शनं द्योतयति। उषसि विद्यादर्शनं यथा। इयमेव श्रुत्याश्च गभीरा शैली। इयं ध्वनिदीपिका श्रुतेराध्यात्मिकभावविवरणाय प्रवर्तते। अनेनोज्जीवनाख्यपरमपुरुषार्थः साध्यते। आध्यात्मिकरीत्या श्रुतिदर्शनं न प्रथमतयाऽत्र क्रियते। नेदं स्वच्छन्दकल्पनम्। इदं शास्त्रसम्प्रदायविद्भिराचार्यैः पूर्वमेव कृतम्। प्रथमं श्रुतिरेव दर्शयति तत्। यत्र यत्र श्रुतिर्दर्शयतीत्यस्माभिस्तत्र तत्र व्याख्यास्यते। एवं श्रीरामायणेऽप्याध्यात्मिकदृष्टिरुपदिश्यते। बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ। इतीन्द्रस्य बलाधिदैवतत्वं, तस्मिन् जीवति वीरे तु हतमप्यहतं बलम्। हनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः॥ इति वायोः प्राणत्वं, इदमेवामृतं प्राहू राज्ञि राजर्षयः परे। वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः॥ इति सोमस्य धार्मिकरसत्वं, मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती। रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम॥ इति सरस्वत्या वाग्देवतात्वं, आकाशप्रभवो ब्रह्मा, कौसल्या सुषुवे रामं धातारमदितिर्यथेत्याभ्यामदितेः प्रकृतित्त्वं, पृथिवी वायुराकाशमापो ज्योतिश्च राघव। स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः॥ तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः॥ इति वरुणस्य प्रकृतिनियतिविषयकथनाद्वरुणस्य प्रकृतिनियत्यधिदैवतत्वमितीमानि सूच्यन्ते। रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा। इत्याधिभौतिकाप्स्वाध्यात्मिकशमितचित्तवृत्तियुख्नचित्तदर्शनमुच्यते। अहं ते हृदयं राम जिह्वा देवी सरस्वती। देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो॥ निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा। संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना॥ जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्। अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः॥ इति रामस्य सर्वदेवमयत्वमुच्यते। श्रीयास्केनापि निरुख्ने देवानामात्मतत्त्वेन दर्शनमुपदिश्यते। महाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते। एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति। आत्मजन्मानः। आत्मैव एषां रथो भवत्यात्माऽश्व आत्मा आयुधमात्मेषव आत्मा सर्वं देवस्य देवस्येति (7.1.5.)। एवं गीतासु श्रीवासुदेवेन यज्ञस्याध्यात्मिकोऽर्थः कथ्यते। श्रीशङ्करभगवत्पादैः बृहदारण्यकभाष्ये देवानां सात्त्विकवासनाप्रतीकत्त्वं रक्षसां राजसतामसवासनाप्रतीकत्त्वञ्च कथ्येते। देवासुराश्च प्राणा वागादयः। कथं पुनस्तेषां देवासुरत्त्वम्। उच्यते- शास्त्रजनितज्ञानकर्मभाविता द्योतनाद्देवा भवन्ति। त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुरा इति (1.3.1.)। तैः श्रीशङ्करभगवत्पादैरग्नेः क्रतुत्त्वं सत्सङ्कल्पत्त्वमीशोपनिषद्भाष्ये कथितम्। श्रीरामानुजाचार्यैर्वदार्थसङ्ग्रहे श्रीभाष्ये गीताभाष्ये च श्रुतिमन्त्रस्थदेवस्तुतीनामन्तर्यामिपरत्त्वं कर्मणां भगवदाराधनपरत्त्वमुच्यते। श्रीमध्वभगवत्पादैः ऋग्वेदस्य प्रथमचत्त्वारिंशत्सूख्नानां व्याख्या कृता। यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने। तथा निरुख्निं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये॥ इति स्वव्याख्याया लक्ष्यं दर्शयन्ति। सा व्याख्या सम्पूर्णतयाऽऽध्यात्मिकदृष्ट्यैव कृता। भत्तया ह्यलङ्कृताः सोमा मनांसीति सोम आध्यात्मिकदृष्टिरेकमुदाहरणम्। तदनु विवरणमपि श्रीजयतीर्थराघवेन्द्रादिभिर्दत्तम्। श्रीसायणेनापि तत्र तत्राऽऽध्यात्मिकदृष्टिरुच्यते। वायोर्मरुतां प्राणत्त्वमृभूणां रश्मित्त्वं सोमस्य रसत्त्वं सूर्यस्यात्मप्रतीकत्त्वमित्यादि सर्वं सायणभाष्येऽपि क्वचित्क्वचित् दृश्यत एव। उदाहरणं दीयते। न य ईषन्त इत्यस्य मन्त्रस्य भाष्यप्रकरणेऽन्तः सन्त इत्यस्य व्याख्याने सर्वप्राणिनां हृदि वर्तमानत्वात्तेषां मरुतां गमनं नास्तीति अध्यात्मं प्राणरूपेणावस्थानं दर्शितं भवतीति मरुतां प्राणत्त्वं सायणेनोच्यते। एवा नूनमित्यस्य मन्त्रस्य भाष्यप्रकरणे सुविद्वांसमिति पदस्य व्याख्यानसन्दर्भे अन्तर्यामित्त्वात् सुष्ठु सर्वं जानन्तमेवंविधमिन्द्रमिति देवानामिन्द्रादीनां हृदयेऽन्तर्वासित्त्वमुच्यते। आ मनीषामन्तरिक्षस्येत्यस्य मन्त्रस्य भाष्यप्रकरणे सायणेनोच्यते तरणित्वा ये पितुरस्य सश्चिर इत्यस्य व्याख्यानसन्दर्भे पितुः सर्वस्य जगतः पालकस्य अस्य सूर्यस्य तरणित्वा तरणित्वानि तरणकौशलानि सश्चिरे सूर्यरश्मिभूताः सन्तः प्रापुः। तदुख्नम्- आदित्यरश्मयोऽप्यृभव उच्यन्त इति। रथाय नावमित्यस्य मन्त्रस्य भाष्यप्रकरणे नौकायाः संसारसागरोत्तरणप्रतीकत्त्वं सायणेनोच्यते। हिरण्यरूपमुषसो व्युष्टावित्यस्य मन्त्रस्य भाष्यप्रकरण अदितिं दितिमित्यस्य व्याख्यानसन्दर्भे अदितिमखण्डनीयां भूमिं दितिं खण्डितां प्रजादिकामित्यदित्याः सामान्यप्रकृतित्त्वं दित्या विशेषप्रकृतित्त्वमुच्यते। ईशे यो विश्वस्येति मन्त्रविवरणप्रकरणे रथस्य लक्ष्यप्रापकरंहणभूतत्त्वाद्यज्ञ इति व्याख्यानं क्रियते सायणेन। पीवानं मेषमिति मन्त्रव्याख्यानप्रकरणे अप्स्वन्त इत्यस्य प्रकृतिस्थानां सूक्ष्माणामुदकानां मध्य इति सायणेनोच्यते। एवं सायणेनापि तत्र तत्राध्यात्मदृष्टिर्निरूपितेति ज्ञातव्या। भजनसम्प्रदाये च श्रीभगवन्नामबोधेन्द्रैराचार्यैराध्यात्मिकदृष्ट्यैव वेदमन्त्रान् दृष्ट्वा भगवन्नाममाहात्म्यप्रकटनाय नाममाहात्म्यगर्भितानां श्रुतिमन्त्राणां व्याख्या कृता भगवन्नामरसोदयाख्ये स्वग्रन्थे। तेन संरब्धाः केचन प्रौढिवादिमीमांसकाः ‘कर्मपरत्वेनैव वेदो द्रष्टव्यः। भगवन्नामविषये वेदो नोदाहर्तव्य’ इति प्रवृत्ताः। तदा श्रीधरवेङ्कटेशस्वामिनः वेदमन्त्राणां सदा कर्मपरतयैवार्थकल्पनमावश्यकं नेति निर्णेतुं भगवन्नामभूषणमिति एकं सद्ग्रन्थं प्रणीतवन्तः। तत्र केषाञ्चित् मीमांसकानां प्रौढिवादिनां वादखण्डनं मीमांसाया मूलशास्त्रद्वारा एव श्रीधरार्यैः क्रियते। अथ श्रुतौ भख्निनिरूपणविपुलीकरणाय प्रवृत्ता अस्मिन् काले श्रीश्रीकृष्णप्रेमिस्वामिनः वेदविज्ञानाख्ये स्वग्रन्थे विस्तृतरूपेण वेदे श्रवणकीर्तनादिसाधनभख्निं वात्सल्यमाधुर्यादिभावभख्निं परमप्रेमरूपसाध्यभख्निं च निरूपयन्ति। इदमपि श्रुतौ आध्यात्मिकदृष्टिसाध्यमेव। आधुनिकव्याख्यातॄणां दयानन्दगणपत्यादीनां वेदविवरणेऽप्याध्यात्मिकदृष्टिरुच्यते। यो देवानां नामधा एक एवेत्यादिश्रुतेः अग्न्यादिशब्दाः परमात्मनि मुख्यतया प्रवर्तन्त इति दयानन्दस्य स्वभाष्ये विवक्षा। तस्मिन्नेव भाष्ये श्रुतौ कथं प्रकृतितत्त्वानि प्रदर्शितानि धर्माश्च देशिता इति रूप्यन्ते। श्रीमदरविन्दमहोदयेन ऋग्वेदे स्थितानां बहूनां सूख्नानां विस्तीर्णमाध्यात्मिकविवरणं दीयते। तदनु श्रीकपालिशास्त्रिणा विस्तारतया ऋग्वेदस्थप्रथमशताधिकसूख्नानामाध्यात्मिकविवरणं कृतम्। तयोर्मन्त्रविवरणे अग्नेः कविक्रतुत्त्वं वायोर्मरुतां प्राणत्त्वं वरुणस्य पवित्रशख्नित्त्वमिन्द्रस्य बलत्त्वं सोमस्यानन्दत्त्वं सरस्वत्याश्चोदनात्त्वमुषसो ज्ञानोदयत्त्वं सवितुरात्मत्त्वमश्विनोः प्राणेशितृत्त्वं विस्तारतया बहुसूख्नोदाहरणैर्निरूप्यते। इदं सर्वं मनसि कृत्त्वा शास्त्राधारेण सम्प्रदायाधारेण च ध्यानेन प्रतिभया च श्रीरामचरणयोरविरतभख्निबलेन च तत्कृपाबलेन चायमल्पग्रन्थः सम्पूर्णतया ऋग्वेदमन्त्राणामाध्यात्मिकदृष्ट्या विवरणाय क्रियते। घर्मा समन्ता त्रिवृतमिति मन्त्रस्य सायणकृतविवरणमेवं भवति। समन्ता समन्तौ संव्याप्तदिगन्तौ घर्मा। घर्मौ दीप्यमानावग्न्यादित्यौ। त्रिवृतं त्रैलोक्यं व्यापतुः। स्वतेजोभिर्व्याप्तवन्तौ। मातरिश्वा अन्तरिक्षे वर्तमानो वायुः। तयोः अग्न्यादित्ययोः जुष्टिं प्रीतिं जगाम गतवान्। यदा। सहसामानम्। सामशब्द उपलक्षकः। वेदत्रयतेजःसहितम्। ईदृशमर्कमर्चनीयं सूर्यं देवा दीप्यमानाः स्वरश्मयो विदुः विविदुः लेभिरे प्रापुः तदा दिधिषाणाः लोकधारणशीलास्ते दिवः द्युलोकस्य सम्बन्धि पयः उदकम् अवेषन् व्याप्तवन्तः। यद्वा। समन्तौ सङ्गतौ घर्मौ स्वयं दीप्यमानौ जीवेश्वरौ त्रिवृतं सत्त्वरजस्तमोगुणात्मिकां मायां व्यापतुः। नियन्तृनियन्तव्यभावेन मातरिश्वा परमात्मा तयोर्जुष्टिं सम्भोख्नव्यपदार्थैः सञ्जातां प्रीतिं जगाम। गतवान् तं परमात्मानं वेदमयमिमं सूर्यमिति देवा जानन्तीति। इमां व्याख्याशैलीं मनसि कृत्वाऽस्मिन् ग्रन्थे तां शैलीमनुसृत्य व्याख्येयं क्रियते। मम ज्ञाने तु संस्कृतभाषायां सम्पूर्णतया ऋग्वेदमन्त्राणामाध्यात्मिकदृष्ट्या विवरणं प्रथमतयेदानीमेव क्रियते। विदुषां विद्वत्कृतप्रौढग्रन्था वेदज्ञानाय सन्त्येव। अयं ग्रन्थस्तु बालानां सुखबोधाय बालेन मया बालपाठरूपेण क्रियते। इमां बालव्याख्यामनुसृत्य भाविकाले श्रुतिमन्त्राणामबालानि प्रतिभापूर्णानि विस्तीर्णविवरणानि भूयासुरिति प्रार्थयामहे। नायं वादग्रन्थः। न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः। वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात्॥ इति रामायणे यथा तथेयं व्याख्या केवलं श्रुतिगौरवाय स्वानुभूतये च।
लुप्तांशाः (द्रष्टुं नोद्यम्)
Completeness status 01/050/11_udyannadya_mitramaha.md - 0 01/091/16_A_pyAyasva.md - 0 01/163/05_imA_te.md - 0 01/169 - 0 03/059 05/043/16_urau_devA.md - 0 05/043/17_samashvinoravasA_nUtanena.md - 0 05/062 - 0 06/015 - 0 06/017/03-05ab.md - 0 06/064 - 0 08/070/08_taM_vo.md - 0 09/026/04_tamahyanbhurijordhiyA_saMvasAnaM.md - 0 09/043/04_pavamAna_vidA.md - 0 09/092 - 0