+सर्व-प्रस्तुतिः

TODO: क्वचित् परिष्कार्यम्।

विस्तारः (द्रष्टुं नोद्यम्)

[[आश्वलायनश्रौतसूत्रम् Source: EB]]

अस्याऽऽश्वलायनश्रौतसूत्रस्य पुस्तकानि यैः परहितैकारतया प्रदत्तानि तेषां कर्मादीनिपुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते —

(क.) इति संज्ञितम् ~ आनन्दाश्रमस्थम्। अस्य लेखनकालः शके १७३२ प्रमोदसंवत्सरः।.

(ख.) इति संज्ञितम् – वे० शा० रा० सातारा ग्रामवासी बलाचार्य गजेन्द्रगडकर इत्येतेषाम्। पूर्वषट्कम्।

(ग.) इति संज्ञितम् – साताराग्रामस्यवे० शा० रा० वामदेवशास्त्री अभ्यंकर इत्येतेषाम्।अस्य लेखनकालः शके १७०९ प्लवंगनामसंवत्सरः।

(घ.) इति संज्ञितम् - पुण्यपत्तननिवासिनां वे०शा० रा० विश्वनाथ गंगाधर दातार इत्येतेषाम्। अस्य लेखनकालः शके १६६८ क्षयनामसंवत्सरः।

(ङ.) इति संज्ञितम् - आनन्दाश्रमस्थम्।

(च.) इति संज्ञितम् – वे० शा० रा० गोडबोले गणेशशास्त्री इत्येतेषाम्। अस्य लेखनकालःमुद्रिते सन १८६६।

(छ.) इति संज्ञितम् - मूलमानन्दाश्रमस्थम्।

(ज.) इति संज्ञितम् – मूलम्।वे० शा० रा० भिकाजी लक्ष्मण पाध्ये इत्येतेषाम्।

(झ) इति संज्ञितम्— वे ० रा० अनन्त बालकृष्ण सत्रे इत्येतेषाम्।

===========

ॐ तत्सद्ब्रह्मणे नमः।
नारायणकृतवृत्तिसमेतम् आश्वलायनश्रौतसूत्रम्।

टीका

श्रीमदाश्वलायनाचार्याय नमः।

प्रज्ञानानन्दमूर्तिः सकलदिगतिगः सर्वदा सन्ननन्यः
सर्वस्मात्स्वप्रकाशः स्थिरचरनिलयः प्रत्यगात्मा सदैव1
श्रौतस्मार्तक्रियात्मा श्रुतिमनननिदिध्यासवैराग्यलभ्यः
स ब्रह्मा विष्णुरीशः सकलमपि जगत्सर्वदाऽव्यादसौ नः2॥ १॥
गुणदोपविनिर्मुक्तं स्वप्रकाशमनाकुलम्।
गम्भीरबोधमानन्दं नमामि ब्रह्म शाश्वतम्॥ २॥
आश्वलायनसूत्रस्य भाष्यं भगवता कृतम्।
देवस्वामिसमाख्येन विस्तीर्णं सदनाकुलम्॥ ३॥
तत्प्रसादान्मयेदानीं क्रियते वृत्तिरीदृशी।
नारायणेन गार्ग्येण नरसिंहस्य सूनुना॥ ४॥


  1. “ख. ग. सदेवः । ङ. च. झ. । सदैवः ।” ↩︎

  2. " ख. झ नः । ग्राह्योपरागनि ।" ↩︎