१२

विश्वास-प्रस्तुतिः

गवामयनेनाऽऽदित्यानामयनं व्याख्यातम्।

मूलम्

गवामयनेनाऽऽदित्यानामयनं व्याख्यातम्।

टीका

गवामयनं नाम सांवत्सरिकं सत्रमुक्तम् इदानीमादित्यानामयनं नामसत्रमुच्यते। तद्भवामयनेन व्याख्यातम्। गवामयनेनाऽऽदित्यानोमयनमित्येतावतैवातिदेशे सिद्धे यच्यास्त्यातवचनं करोति तज्ज्ञापयत्याचार्यः, गवामयने यावन्तो गवामयनविकल्पा उक्तास्तेषामत्राविरोधिनां1 प्राप्तिरस्तीति। विविधमाख्यातं व्याख्यातमित्यर्थः।

विश्वास-प्रस्तुतिः

सर्वे त्वभिप्लवास्त्रिवृत्पञ्चदशाः।

मूलम्

सर्वे त्वभिप्लवास्त्रिवृत्पञ्चदशाः।

टीका

अत्र विशेषा उच्यन्ते। येऽत्राभिप्लवास्ते सर्वे त्रिवृत्पञ्चदशस्तोमाः कर्तव्याः। प्रथमं त्रिवृत्स्तोमं द्वितीयं पञ्चदशस्तोमं तृतीयं त्रिवृत्स्तोममित्येवमहरहरनुक्रमेण सर्वेष्वभिप्लवेष्वेतौस्तोमौ कर्तव्यौ। एवं कृते सर्वेऽभिप्लवास्त्रिवृत्पञ्चदशस्तोमाः कृता भवन्ति।

विश्वास-प्रस्तुतिः

मासाश्च पृष्ठ्यमध्यमा नव षष्ठसप्तमोत्तमान्वर्जयित्वा।

मूलम्

मासाश्च पृष्ठ्यमध्यमा नव षष्ठसप्तमोत्तमान्वर्जयित्वा।

टीका

षष्ठसप्तमोत्तमान्वर्जयित्वा2ऽवशिष्टा ये नवं मासास्ते सर्वे पृष्ठ्यमध्यमाः कर्तव्याः। गवामयने तावत्पूर्वस्मिन्पक्षसि पृष्ठ्यान्ताः पञ्च मासाइतरस्मिन्पक्षसि पृष्ठ्यादयश्चत्वारोमासास्ते सर्वेऽस्मिन्सत्रे पृष्ठ्यमध्यमाः कर्तव्या इत्यर्थे3नवग्रहणम्। षष्ठसप्तमोत्तमान्वर्जयित्वे4तिवचनं तन्मासत्वकारितं न तु सावनत्वकारितमित्येवमर्थम्। तेन ‘अपि वोर्ध्वं विश्वजितः5’ इत्यस्मिन्पक्षे सप्तमस्य सावनत्वेऽपि पृष्ठ्यमध्यत्वं तस्य न भवति।

विश्वास-प्रस्तुतिः

बृहस्पतिसवेन्द्रस्तुतौचाभिजिद्विश्वजितोः स्थाने।

मूलम्

बृहस्पतिसवेन्द्रस्तुतौचाभिजिद्विश्वजितोः स्थाने।

टीका

अयं च विशेषो भवति।

विश्वास-प्रस्तुतिः

सप्तमस्य च मासस्योत्तमयोरभिप्लवयोः स्थानेत्रिवृद्- यूह्लो दशरात्र उद्भिद्वलभिदौ च।

मूलम्

सप्तमस्य च मासस्योत्तमयोरभिप्लवयोः स्थानेत्रिवृद्- यूह्लो दशरात्र उद्भिद्वलभिदौ च।

टीका

सप्तमस्य च मासस्य6त्रयोऽभिप्लास्तेषां यावृत्तमाभित्रौ तयोः स्थाने त्रिवृत्तीमको ब्यूढो दशरात्र उद्भिद्बलभिदौ च द्वे अहनी इत्येतानि द्वादशाहानि भवन्ति7

विश्वास-प्रस्तुतिः

उत्तमस्य च मासस्याऽऽदौ येऽभिप्लवस्त्रयउद्धृत्य तेषां मध्यममथ स्युः पृष्ठ्यमध्यमाः।

मूलम्

उत्तमस्य च मासस्याऽऽदौ येऽभिप्लवस्त्रयउद्धृत्य तेषां मध्यममथ स्युः पृष्ठ्यमध्यमाः।

टीका

उत्तमस्य मासस्याऽऽङ्गौ ये त्रयोऽभिलास्तेषां मध्यममभिष्लवमुद्धृत्य तस्य स्थाने पृष्ठ्यः कर्तव्यः। एवं कृते पृष्ठ्यमध्यमा भवन्ति एवं कर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

समूह्लो दशरात्रः॥१॥

मूलम्

समूह्लो दशरात्रः॥१॥

टीका

उत्तम एव मासे यो व्यूढो दशरात्रः सत्राणां प्रकृतित्वेन प्रविश्य स्थितस्तस्य स्थानें समूढो दशरात्रः कर्तव्य इत्यर्थः॥१॥

विश्वास-प्रस्तुतिः

आदित्यानामयनेनाङ्गिरसामयनं व्याख्यातम्।

मूलम्

आदित्यानामयनेनाङ्गिरसामयनं व्याख्यातम्।

टीका

अङ्गिरसामयनमिति सत्रनाम। अन्यत्सर्वमुक्तम्।

विश्वास-प्रस्तुतिः

त्रिवृतस्त्वभिप्लवाः सर्वे।

मूलम्

त्रिवृतस्त्वभिप्लवाः सर्वे।

टीका

अत्र येऽभिप्लवास्ते सर्वे त्रिवृत्स्तोमाः कर्तव्या इत्यर्थः। सर्वग्रहणं पक्षद्वयवर्तिमाससंग्रहार्थम्।

विश्वास-प्रस्तुतिः

पृष्ठ्यादयश्चाऽऽद्या मासाः पञ्च पूर्वस्य पक्षसः।

मूलम्

पृष्ठ्यादयश्चाऽऽद्या मासाः पञ्च पूर्वस्य पक्षसः।

टीका

पूर्वपक्षसो य आद्याः पञ्च मासास्ते पृष्ठ्यादयः कर्तव्याः।

विश्वास-प्रस्तुतिः

चत्वारस्तूत्तरस्य पृष्ठ्यान्ता अष्टमादयः।

मूलम्

चत्वारस्तूत्तरस्य पृष्ठ्यान्ता अष्टमादयः।

टीका

उत्तरस्य पक्षसो येऽष्टमादयश्चत्वारो मासास्ते पृष्ठ्यान्ताः कर्तव्याः।

विश्वास-प्रस्तुतिः

उत्तमस्य च मासस्याऽऽदौ ये षलहास्त्रयः पृष्ठ्यान्ता एव तेऽपि स्युः।

मूलम्

उत्तमस्य च मासस्याऽऽदौ ये षलहास्त्रयः पृष्ठ्यान्ता एव तेऽपि स्युः।

टीका

उत्तरस्य पक्षस उत्तमो यो मासंस्तस्याऽऽदौ ये त्रयः षलहास्तेषामन्त्यः षलहः पृष्ठ्यः कर्तव्यः। एवं कृते ते षलहाः8 पृष्ठ्यान्ताः स्युरित्यर्थः।

विश्वास-प्रस्तुतिः

पूर्वौ स्यातामभित्रौ॥ २॥

मूलम्

पूर्वौ स्यातामभित्रौ॥ २॥

टीका

यावत्र9पूर्वौषलहावादित्यानामयनेऽभिप्लवश्च पृष्ठ्यश्च तौ चात्राभिप्लवौ10च भवतः, न तयोरन्यतरः पृष्ठ्यः षलह इत्यर्थः॥ २॥

विश्वास-प्रस्तुतिः

दृतिवातवतोरयनम्।

मूलम्

दृतिवातवतोरयनम्।

टीका

एतन्नामकं सत्रमिदानीमुध्यत इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रायणीयोऽतिरात्रः।

मूलम्

प्रायणीयोऽतिरात्रः।

टीका

‘व्रतं विषुवत्स्थाने’ इत्यनेन गवामयनप्रकृतित्वेसिद्धे प्रायणीयोऽपि सिद्ध एव, पुनर्वचनस्येदं प्रयोजनं प्रायणीयस्य स्वस्तोमसिद्धिः। यत्पुनरिदमुक्तं प्रायणीयचतुर्विशे उपेत्येत्युपेत्यवचन-सामर्थ्यात्मायणीयचतुर्विंशयोस्त्रि वृत्स्तोमत्वमिति तस्यास्य च निवेशःकर्तव्यः। यदा प्रायणीयस्य11 मासाद्वहिर्भावस्तदा स्वस्तीमत्वं भवति, यदा पुनर्मासान्तर्मावस्तदा त्रिवृत्स्तोमतेति। चतुर्विंशस्य तु सर्वदा मासान्तर्भावात्रिवृत्स्तोमत्वमेवेति सिद्धम्।

विश्वास-प्रस्तुतिः

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेनमासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासम्।

मूलम्

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेनमासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासम्।

टीका

षण्मासानेवं कुर्युः।

विश्वास-प्रस्तुतिः

व्रतं विषुवत्स्थाने।

मूलम्

व्रतं विषुवत्स्थाने।

टीका

ततोऽनन्तरं विषुवतः स्थाने महाव्रतमुपेयुः। तच्च स्वस्तोममेव भवति, मासानन्तर्भावाद्विषुवतः। विषुवत्स्थान इति ब्रुवन्गवामयनमस्य12 प्रकृतिरिति दर्शयति।

विश्वास-प्रस्तुतिः

एतैरेव मासैः प्रतिलोमैः पक्ष उत्तरम्।

मूलम्

एतैरेव मासैः प्रतिलोमैः पक्ष उत्तरम्।

टीका

उत्तरस्य पक्षसो ये मासास्तानप्येतैरेव स्तोमैरूपेयुः। त्रयस्त्रिंशाद्यैत्रिवृदन्तैरित्यर्थः।

विश्वास-प्रस्तुतिः

उदयनीयोऽतिरात्रः।

मूलम्

उदयनीयोऽतिरात्रः।

टीका

एवं षण्मासानुपेत्य तत उदयनीयं स्वस्तोममुपेयुः। उदयनीयग्रहणमपि स्वस्तोमार्थमेव13। एतेषामेवाह्रामतिरात्राविति। अत्र ये मासविषयाः स्तोमविधयस्ते14 गवामय निकार्युक्तमासेषु वा स्युः। पार्ष्टिकानामेव त्रिवृदादीनामहामावृत्तविषया वा स्युः। उभयथाऽपि प्रायणीयोदयनीयावतिरात्रा15वेव भवत इत्ययमेकः पक्षः।

अपरः पक्ष उच्यते16

विश्वास-प्रस्तुतिः

अपरमन्यत्राप्यादिष्टैःकालपूरणे न चेत्संस्थानियमः॥३॥

मूलम्

अपरमन्यत्राप्यादिष्टैःकालपूरणे न चेत्संस्थानियमः॥३॥

टीका

प्रायणीयोदयनीये भवत इत्यत्रोक्तं तदन्यत्रापि भवति। अत्राऽऽदिष्टैरेव कालपूरणं सप्ताहोभिर्भवति। आदिष्टानामेवाऽऽद्योत्तमयोः संस्थानियमश्च नास्ति। तत्र सर्वत्राऽऽदिष्टानामाद्योत्तमे प्रायणीयोदयनीयौ भवत इति सिद्धम्। त्रयस्त्रिवृतः संवत्सरा इत्येवमादी न्युदाहरणानीति॥३॥

विश्वास-प्रस्तुतिः

कुण्डपायिनामयनम्।

मूलम्

कुण्डपायिनामयनम्।

टीका

एतन्नामकमिदं सत्रमधिकृतं वेदितव्यम्।

विश्वास-प्रस्तुतिः

मासं दीक्षिता भवन्ति।

मूलम्

मासं दीक्षिता भवन्ति।

टीका

अयं मासशब्द एकान्नविंशतिरात्र उपचरितः, एकान्नर्विशतिरात्रादिकं17 तावद्भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

ते मासि सोमं क्रीणन्ति।

मूलम्

ते मासि सोमं क्रीणन्ति।

टीका

अयमप्युपचार एव दीक्षाकाले पास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

तेषां द्वादशोपसदो भवन्ति।

मूलम्

तेषां द्वादशोपसदो भवन्ति।

टीका

सात्रिकाणां दीक्षाणामपवादो दीक्षाविधिस्तथा सात्रिकाणामुपसदामपवाद उपसद्विधिः।

विश्वास-प्रस्तुतिः

सोममुपर्नह्यप्रवर्ग्यपात्राण्युत्साद्योपनह्यवा मासमग्निहोत्रं जुह्वति।

मूलम्

सोममुपर्नह्यप्रवर्ग्यपात्राण्युत्साद्योपनह्यवा मासमग्निहोत्रं जुह्वति।

टीका

उपसत्स्वतीतासु प्रवर्ग्यपात्राण्युत्साद्योपनह्य वा तानि18 त एकं मासमग्निहोत्रं जुह्वति सायं प्रातः19। प्रातरुपक्रमः20 सायमपवर्गः प्रातःकालस्य प्रथमप्राप्तत्वात्। उपमत्कालेद्वादशाहे जीतेऽमिहोत्रस्य प्रातरारम्भान्नैमित्तिकादग्निहोत्रात्कर्मान्तरमेतदिति न्यायविदांप्रसिद्धम्।

विश्वास-प्रस्तुतिः

मासं दर्शपूर्णमासाभ्यां यजन्तेः।

मूलम्

मासं दर्शपूर्णमासाभ्यां यजन्तेः।

टीका

अग्निह्मेत्रमासेऽतीते ततोऽन त्तरमेकं मासं दर्शपूर्णमासाभ्यां यजन्ते। कृष्णपक्षेऽहरहः पोर्णमास्या शुक्लपक्षेऽहरहरमावास्यया मित्रावरुगयोरयन तथा दृष्टत्वात्। एवमंत्रसंपादनीयं यथा कृष्णपक्षादौ पौर्णमासयागः21 संभवति तत्र22 दीक्षारम्भः कर्तव्य इति।

विश्वास-प्रस्तुतिः

मासं वैश्वदेवेन।

मूलम्

मासं वैश्वदेवेन।

टीका

अहरहरनेनः यष्टव्यम्। वैश्वानरपार्जन्या तु ऋ भवति, आरम्भार्थत्वात्तस्याः। स चाऽऽरम्भः सत्रारम्भेण प्रसक्त इति।

विश्वास-प्रस्तुतिः

मासं वरुणप्रघासैर्मासं साकमेधैः।

मूलम्

मासं वरुणप्रघासैर्मासं साकमेधैः।

टीका

एतैरहरहयैजेर न्नेका हे नापवृज्य प्रकृतेर्व्यहसमापनीयत्वाद् द्व्यन वा कुर्युर23ध्वर्युप्रत्ययात्समापनादिति स्थितिः।

विश्वास-प्रस्तुतिः

मासं शुनासीरीयेण।

मूलम्

मासं शुनासीरीयेण।

टीका

अनेनाप्यहरहरेव।

विश्वास-प्रस्तुतिः

यदहर्मासः पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादि वोपवसाथिकं कर्म कृत्वा श्वोभूते प्रसुनुयुः।

मूलम्

यदहर्मासः पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादि वोपवसाथिकं कर्म कृत्वा श्वोभूते प्रसुनुयुः।

टीका

यस्मिन्नहनि मासः पूर्यते तस्मिन्नहाने शुनासीरीयेष्टिं समाप्य तदनन्तरं यदि पूर्वमेका प्रवर्ग्यपात्राण्युत्सादितानि तदाऽग्निप्रणयनाद्यौपवसथिकं कर्म कृत्वा सुत्यारम्भः।

विश्वास-प्रस्तुतिः

तद्धैकउपसद्भ्य एवानन्तरं कुर्वन्ति तथादृहत्वात्सोत्यान्मासानग्निहोत्रादीन्वदन्तः।

मूलम्

तद्धैकउपसद्भ्य एवानन्तरं कुर्वन्ति तथादृहत्वात्सोत्यान्मासानग्निहोत्रादीन्वदन्तः।

टीका

तदिदमग्निप्रणयनाद्यौपवसथिकं कर्म कुण्डपायिनामयनेऽग्निहोत्रादिमासेभ्य ऊर्द्धंकर्तव्यमित्युक्तं, तत्रैक आहुः – तत्कर्माग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्तव्यमिति। तत्र हेतुमाहुः – प्रकृतौ तथादृष्टत्वादिति। नन्वग्नि24होत्रादिमासेभ्य उपरिष्टात्क्रियमाणे चौपवसथिके सुत्यानन्तरस्य25 विद्यमानत्वादिति, तथादृष्टत्वात्साधारणमिति तत्परिहारार्थमग्निहोत्रादिमासान्सौत्यानिति कथम्। अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्यसांवत्सरिकत्वात्कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकं पक्षः, अग्निहोत्रादयःषण्मासा अपरं पक्ष इति मन्यमानाः। एवं चोपसदां च सुत्यानां26 च मध्य औपवसथिकस्य कृतत्वान्न कश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्य ऊर्ध्वमौपवसथिकं कुर्वन्ति। एतदुक्तं भवति – अग्निहोत्रादिमासान्सुत्यानिति मन्यमानास्तेभ्यःपुरस्तादुपसद्भ्य ऊर्ध्वसौपवसथिकं कर्म केचित्कुर्वन्ति, प्रकृतौ तथा दृष्टत्वादिति।

विश्वास-प्रस्तुतिः

तदनुपपन्नम्।

मूलम्

तदनुपपन्नम्।

टीका

यदेतदग्निहोत्रादिमासान्सौत्यानिति वदन्ति तदनुपपन्नम्। कुतः। सोमयाग27स्वरूपत्वात्सुत्यानाम्। अग्निहोत्रादीनां तु हविर्यज्ञस्वरूपत्वादसुत्यत्वमिति। यत्पुनरिदमुक्तं गवामयनप्रकृति-कत्वादग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति तदयुक्तम्। सोमयागानामेत्र गवामयनप्रकृतित्वं पूर्वपक्षस्त्वमुत्तस्पक्षस्त्वं चेति। अग्निहोत्रादयोऽस्मिन्सत्रेऽप्राकृताआगन्तवः28, अतस्तेषां तत्स्थानापन्नत्वमपि न संभवति। अतस्तेषां सुत्यत्रं न संभवति।सुत्यत्वासंभवे तथादृष्टत्वादित्यस्य हेतोः साधारण्याढसाधकत्वा दित्यनेनाभिप्रायेणोक्तंभगवताऽऽत्रार्येण तदनुपपन्नमिति।

विश्वास-प्रस्तुतिः

पश्वर्थं ह्यग्निप्रणयनं तस्य च श्वःसुत्यानिमित्तम्।

मूलम्

पश्वर्थं ह्यग्निप्रणयनं तस्य च श्वःसुत्यानिमित्तम्।

टीका

परोक्तस्य हेतोरसाधकत्वमुक्त्वा स्वपक्षं29 समर्थयति। औषवस्थेषु कर्मसु यः पशुयागः30 स श्वःसुत्यानिमित्तमिति प्रत्यक्षं श्रूयते अग्नीषोमाभ्यां वा इन्द्रो31 वृत्रमहंस्तावेनम-ब्रूताम्।’ इत्यादिना। अतो वचनात्पशोः सुत्यानन्तर्यमेव संपादनीयम्। तत्र यदग्निप्रणयनं तत्सोमयागार्थमेव, पशोरप्युपाकरोति32, प्रसङ्गादिति पवर्थमित्युक्तम्। अतोऽग्निप्रण"यनस्य पशोश्च33 सुत्यानन्तर्यमेव संपादनीयम्।

विश्वास-प्रस्तुतिः

अतिप्रणीतचर्यायां च वैगुण्यंदर्शपूर्णमासयोस्तथाऽग्निहोत्रस्य।

मूलम्

अतिप्रणीतचर्यायां च वैगुण्यंदर्शपूर्णमासयोस्तथाऽग्निहोत्रस्य।

टीका

एवं तावदौपवसथिकस्याग्निप्रणयनादेरग्निहोत्रादिमासेभ्य ऊर्ध्वमेव कर्तव्यतां प्रतिपाद्येदानीमग्नि34प्रणयनस्याग्निहोत्रादिमासेभ्यः पुरस्तात्क्रियायां दर्शपूर्णमासयोरग्निहोत्रस्य च वैगुण्यं भवतीति प्रतिपादयति। कुत इति चेत्। प्रकृतौ नैयमिकेना35तिप्रणीत उत्तरवेद्यांतयोर्यागाद36र्शनात्। अतो वैगुण्यकरत्वादग्निप्रणयनं तावत्पुरस्तान्न कर्तव्यमित्ययं37 विशेषोऽन्येभ्य इत्युक्तम्।

विश्वास-प्रस्तुतिः

सदोहविर्धानान्याग्नीध्रीयाग्नीषोमप्रणयनं38वसतीवरीग्रहणानि पश्वर्थानि भवन्ति सुत्यार्थान्येके।

मूलम्

सदोहविर्धानान्याग्नीध्रीयाग्नीषोमप्रणयनं38वसतीवरीग्रहणानि पश्वर्थानि भवन्ति सुत्यार्थान्येके।

टीका

एवं ताबदौपवसथिकेषु यः पशुः स श्वःसुत्यानिमित्तत्वादग्निहोत्रादिमासेभ्यः ऊर्ध्वं कर्तव्यमित्युक्तम्। अग्निप्रणयनं च सत्यार्थत्वात्सशोर प्युपकारकत्वात्पुरस्तात्क्रियायां चाग्नेिहोत्रादीनां वैगुण्यकरत्वात्तद्वदित्युक्तम्। इदानीं येषां श्वःसुव्यावचनं नास्ति श्रुत्यादिभिस्तु सुत्याङ्गभावोऽस्त्येव, अङ्गभावश्च संनिपत्योपकारकद्वारेण, तेषां सुत्याकर्मणोद्देशादिसाधन39द्रव्यकलवरूपाणां सद्वादीनामग्निहोत्रादिमासेभ्यः पुरस्तात्करणे किंचिदद्दष्टं दृष्टं वा प्रयोजनं नास्ति। एतेषां पुरस्तात्करणे प्रमाणं च नास्ति।

कुतः -

विश्वास-प्रस्तुतिः

तत्कालाश्चैव तद्गुणाः।

मूलम्

तत्कालाश्चैव तद्गुणाः।

टीका

यस्य प्रधानस्य यः कालः स एव कालस्तद्गुणानाम्। प्रधानकाल एवाङ्गानां मुख्यकाल इत्यर्थः। तदेतन्न्यायविदां प्रसिद्धम्। अत एव प्रसिद्धवदुपदिष्टवानाचार्यः ‘तत्काःलाश्चैव तद्गुणाः’ इति। एतदुक्तं भवति – यस्मात्प्रधानकाला एवं प्रधानगुणास्तस्मात्सदआदीनामग्निहोत्रादिमासेभ्यः पूर्वमक्रियैव। तत्कालाश्चैव तद्गुणा इति। चशब्दोऽत्रपठितः। प्रधानकाले च गुणाः कर्तव्या इत्यर्थः। सदआदीनां पश्चर्थतावचनमभ्युपगम्य40 यागः। सदआदीनि पश्वर्थानि वा भवन्तु सुत्यार्थानि बा। सर्वथा तावदसिहोत्रादिभ्यःपुरस्ताक्रिया न स्यादित्ययमभिप्रायः।

अङ्गानां प्रधानकालत्वमुक्तं तत्कालाश्चैव तद्गुणाः इति। यानि पुनरङ्गानि प्रधानका लाद्विप्रकृष्टानि यथा ‘आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति’ इति तेषां पश्वर्थता नास्ति सौमिकैःपदार्थैर्व्यवधानादिति। अतोऽनुयाजसदृशानि कर्मान्तराणि सोमाङ्गत्वेनैव विघीयन्त इति प्राप्त उच्यते–

विश्वास-प्रस्तुतिः

सिद्धस्वभावानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः।

मूलम्

सिद्धस्वभावानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः।

टीका

प्रकृतौसिद्धस्वभावानां पदार्थानां विकृतौ पदार्थान्तरव्यवधानमात्रेण तेषामन्यत्वं न स्यात्। अनन्यत्वे41 च प्राकृतोपकारकत्वेनाङ्गत्वमपि स्यात्। प्राकृतानां हि पदार्थानांविकृतांबुपकारद्वारेण प्राप्तानामनुपकारकत्वमित्ययुक्तं यदि परं व्यवधानादन्यत्वं भवति।अतो विप्रकृष्टकाला अपि पदार्थास्तद्गुणा एव भवन्ति तद्बुद्ध्य42नपगमादिति। कर्मान्तरत्वपक्षेवाक्यभेदादि43 प्रसज्येत। यथा पृष्ठ्याभिप्लयोरिति व्यवधानादन्यत्वाभावे दृष्टान्तः। यथापृष्ठ्यस्य वाऽभिप्लवस्य वाऽन्यस्य वा संघातरूपविशेषस्य44 मध्ये यजमानमरणस्य निमित्तेन नैमित्तिकमहरन्तरमुपजायते तत्र तेन व्यवधानमस्ति, तथाऽपि45 पृष्ठ्यादिसंघातविशेषबुद्धिर्नापैति तद्वदत्रापीति। यस्माद्व्यवधानात्पदार्थदन्य46त्वं नास्ति, अत एवौपवसथिकस्याग्निहोत्रादिमासेभ्यः पुरस्तात्कियायाः47 शङ्कानिराकरणार्थमिदं प्रकरणमारब्धम्। कानिचिदङ्गानि तत्कालानि कानिचिद्विप्रकृष्ट कालानीत्येवमुभयथा व्यवहारोऽस्ति। सर्वथातावदग्निहोत्रादिमासेभ्यः पुरस्तादौपवसथिकं न कर्तव्यमिति प्रकरणार्थः।

विश्वास-प्रस्तुतिः

सगुणानां ह्येव कर्मणामुद्धार उपजनो वा।

मूलम्

सगुणानां ह्येव कर्मणामुद्धार उपजनो वा।

टीका

अयमप्यग्निहोत्रादिमासेभ्य उपरिष्टादवसथिकक्रियायां हेतुः। यस्मात्प्रधानकर्मणामुद्धार उपजन उत्कर्षे च सगुणानामेव सर्वत्रोद्धारादि48र्द्रष्टव्यः, यथा स्नानभोजनविहाराणामहरहःकार्याणां कस्यचिदुद्धारे सगुणस्यैवोद्धारो दृष्टः। उत्कर्षे च सगुण एवोत्कृष्यते।एतेषां नित्यकार्याणामन्त-रालेऽन्यन्नैमित्तिकमुपजायमानं सगुणानामेवो49पजायते। एवमत्रापिवैशेषिकैरग्निहोत्रादिभिरुत्कृष्यमाणं सौत्यं कर्माऽऽत्मनो गुणभूनौवसाथिकेन सहोत्कृष्यते। हिशब्दः प्रसिद्धौ। यस्मात्सर्वत्रोद्धारोपजनोत्कर्पाः सगुणानामेत्र दृष्टास्तस्मादत्रापि सगुणस्य सौत्यस्योत्कर्षो युक्त इति सूत्रार्थः।

विश्वास-प्रस्तुतिः

सुब्रह्मण्या त्वत्यन्तम्।

मूलम्

सुब्रह्मण्या त्वत्यन्तम्।

टीका

प्रासङ्गिकोऽयं सुब्रह्मण्याविचारः। प्रकृतावनसत्सुत्याकालत्वात्सुब्रह्मण्याया अग्निहोत्रादिमासानां च सुत्योपसद्भावभावा50त्सुब्रह्मण्याया अभावशङ्का स्यात्, तत इदमुच्यते।सुब्रह्मण्याया अयं विशेषः—अत्यन्तं नित्यं कर्तव्या, अग्निहोत्रादिमा51सेष्वपि। अप्राकृतोऽयं काल इति नोस्स्त्रष्टव्याऽनयत्वात्52

विश्वास-प्रस्तुतिः

अनवधृतेहकालसंशयत्वात्।

मूलम्

अनवधृतेहकालसंशयत्वात्।

टीका

प्रकृतावुपसत्सुत्याकाला सती सुब्रह्मण्या तत्कालविशेषविशिष्टाऽऽहूयते, इह पुनरप्राकृतत्वात्कालस्य तेनोपलक्षणं प्रकृत्या सुब्रह्मण्याया अयुक्तमिति मन्यमाने53ना*****54नवधृताकालसंख्या विशेषणाऽऽह्वातव्या सुत्यामागच्छेति55। कालसंशयादित्यस्यायमर्थः - प्रकृतौ द्वादशाहे सुत्यामित्यादयः संख्याविशेषाः किमुपसदहःसंख्याविशेषप्रयुक्ता आहोस्वित्प्राग्यावन्त्यहानि तदहःसंख्याप्रयुक्ता इत्येवंकालसंशयत्वादित्यर्थः।

विश्वास-प्रस्तुतिः

उत्सर्गमेके सुत्योपसद्गुणत्वात्।

मूलम्

उत्सर्गमेके सुत्योपसद्गुणत्वात्।

टीका

सुब्रह्मण्या उत्सर्गमेक इच्छन्ति सुत्योपसद्गुणत्वात्। किमिदं सुत्योपसद्गुणत्वादिति। सुत्यानामेवायं गुणो नोपसदां56क्रमाल्लिङ्गं बलीय इति। अतोऽयमुपसदां गुणउपसत्कालवर्तित्वादुपसद्गुगत्वोपचारः। अग्निहोत्रादिमासानामसुत्यत्वादनु57पसत्कालत्वात्सु -ब्रह्मण्योत्सर्गमेक आहुरित्यर्थः।

विश्वास-प्रस्तुतिः

क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने दोषः।

मूलम्

क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने दोषः।

टीका

अस्याः क्रियैव निश्चीयते सोमयागसाधनसंस्कारत्वान्मन्त्रस्य। प्रकृतौ सोमयागात्पूर्वं58 यावत्सुत्या कालस्तावदाहूयते। तद्वदत्राप्याहातव्या। तावतः कालस्योपसत्स्वैवैतत्संच न्धादस्या उपसत्संबन्धस्तदभावान्नास्यास्त्यागो युक्तः। अत्रायमपि विशेषोऽस्ति औचित्यादपि न त्याज्या। आदित आरम्य सर्वेष्वेवाहः स्वाह्यन्ति। कथमिदाननाऽऽह्वयन्ति। नूनमयं सोमोऽस्मभ्यं न दास्यत इति देवतायाः शङ्का स्यात्तन्निवृत्त्यर्थमाह्वातव्या। प्रारब्धस्य मध्ये त्यागस्य कारणाभावे59 त्यागे दोष एव60 स्यादित्यभिप्रायः। परपदार्थविचारोऽत्र स्वपदार्थपरिज्ञानार्थ एव। अतिप्रैपत्रःसुत्ययोरुह्यत इति।

विश्वास-प्रस्तुतिः

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेनमासं त्रिणवेन मासमष्टादश त्रयस्त्रिंशानिद्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च।

मूलम्

त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेनमासं त्रिणवेन मासमष्टादश त्रयस्त्रिंशानिद्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च।

टीका

अत्र पृष्ठ्यस्य पञ्चभिरहोभिः पञ्च मासाः कर्तव्याः। षष्ठेनाष्टादशाहानि दशरात्रो महाव्रतमुदयनीयः। कृत्स्नोक्तत्वान्नात्र प्रायणीयः।

विश्वास-प्रस्तुतिः

सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति॥४॥

मूलम्

सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति॥४॥

टीका

स्तुतिवादोऽयम्। बहूनामत्र संभवादृत्विक्समासोऽनेन सूत्रकारेण न सूत्रितः। स61 कर्तव्यश्चेत्परप्रत्ययादेवकर्तव्यः॥४॥

विश्वास-प्रस्तुतिः

सर्पाणामयनम्।

मूलम्

सर्पाणामयनम्।

टीका

इदमपि संवत्सरसत्रम्।

विश्वास-प्रस्तुतिः

गोआयुषी62 ददृशीस्तोमे।

मूलम्

गोआयुषी62 ददृशीस्तोमे।

टीका

एते अहनी63 दशस्तोमके अभ्यस्याभ्यस्य कृत्स्नं संवत्सरस्याऽऽप्नुतः।

विश्वास-प्रस्तुतिः

अनुलोमे षण्मासान्प्रतिलोमे षट्।

मूलम्

अनुलोमे षण्मासान्प्रतिलोमे षट्।

टीका

अयमेवात्र विशेषोऽनुलोमग्रतिलोमत्वमेव।

विश्वास-प्रस्तुतिः

ज्योतिर्द्वादशीस्तोमो विषुवतस्थाने।

मूलम्

ज्योतिर्द्वादशीस्तोमो विषुवतस्थाने।

टीका

ज्योतिरेकाहो विषुवत्स्थाने भवति स द्वादशीस्तोमश्च भवति।

विश्वास-प्रस्तुतिः

प्रकाशकामा उपेयुः।

मूलम्

प्रकाशकामा उपेयुः।

टीका

विद्यया धनेन च प्रकाशकामाः सर्वाणामयनमुपेयुः। अत्र प्रायणीयोदयनीयौ पूर्वोक्तेन न्यायेन भिन्नावभिन्नौ भवतः।

विश्वास-प्रस्तुतिः

त्रैवार्षिक प्रजाकामाः।

मूलम्

त्रैवार्षिक प्रजाकामाः।

टीका

त्रैवार्षिकमिति सत्रनाम।

विश्वास-प्रस्तुतिः

गवामयनं प्रथमः संवत्सरोऽथाऽऽदित्यानामथाङ्गिरसाम्64

मूलम्

गवामयनं प्रथमः संवत्सरोऽथाऽऽदित्यानामथाङ्गिरसाम्64

टीका

त्रितंवत्सरः सुत्य इति तस्यैते त्रयः संवत्सराः।

विश्वास-प्रस्तुतिः

चत्वारि तापश्चितानि।

मूलम्

चत्वारि तापश्चितानि।

टीका

चत्वारि तापश्चितानि वक्ष्यन्त इत्यर्थः। अदेशादेव चतुष्ट्वे सिद्धे चतुर्ग्रहणं सर्वेषां तापश्चितानां तुल्यत्वज्ञापनार्थम्। कथमनेन तुल्यत्वमिति चेतू। तापश्चितानीत्यस्य विशे-षणत्वात्। तापश्चितानि तापश्चितानीत्येकशेषादेतत्रयं सिद्धम्। एकशेषश्च सरूपाणा-मिति स प्रसिद्धः। तेन सामानाधिकरण्याच्चतुर्णी तुल्यत्वमध्यवसितम्। तुल्यत्वसिद्धौ प्रयोजनं यथा प्रथमे सौत्ये पण्मासेप्वहराधिक्यं नास्ति एवं सर्वेषु तापश्चितेषु सौत्येषु संवत्सर चतुःसंवत्सरद्वादशसंवत्सरे65ष्वहराधिक्यं विषुवता न कर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

क्षुल्लकतापश्चितं प्रथमं संवत्सरं स दीक्षोपसत्कम्।

मूलम्

क्षुल्लकतापश्चितं प्रथमं संवत्सरं स दीक्षोपसत्कम्।

टीका

क्षुद्धकतापश्चितमिति प्रथमं व्याख्यातं66 दीक्षोपसद्भिः सह संवत्सरकालमित्यर्थः।

विश्वास-प्रस्तुतिः

तस्य चत्वारः सौत्या मासा गवामयनस्य प्रथमषष्ठसप्तमोत्तमाः।

मूलम्

तस्य चत्वारः सौत्या मासा गवामयनस्य प्रथमषष्ठसप्तमोत्तमाः।

टीका

अतो महाव्रतवदेतत्सत्रम्। महाव्रते67ऽपि संवत्सरदीक्षानिवृत्त्यर्थं संवत्सरं68 सदीक्षोपसत्कमित्युक्तम्। अत्र मासातिदेशाद्विषुवान्न भवति।

विश्वास-प्रस्तुतिः

त्रैवर्षिकं तापश्चितं तस्य सौत्यः संवत्सरः।

मूलम्

त्रैवर्षिकं तापश्चितं तस्य सौत्यः संवत्सरः।

टीका

तापश्चितानां यथा सुत्योपसद इति सुत्यानां त्रिभागत्वे सिद्धे चत्वारः सौत्या मासाः सौत्यः संवत्सरः, चत्वारः सौत्याः संवत्सराः, द्वादश सौत्याः संवत्सरा इत्येतानि वचनानि विषुवन्निवृत्त्यर्थानि।

विश्वास-प्रस्तुतिः

उक्तो गवामयनेन ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतं चतुर्वंशानां वैकैकम्।

मूलम्

उक्तो गवामयनेन ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतं चतुर्वंशानां वैकैकम्।

टीका

गवामयनस्यायमपवादः। एतेषां सप्तानामहामेकैकेनाह्ना संवत्सरः पूरयितव्योऽभ्यस्याभ्यस्येत्यर्थः।

विश्वास-प्रस्तुतिः

द्वादशवार्षिकं तापश्चितं तस्य चत्वारः सौत्याःसंवत्सरा गवामयनशस्याः पूर्वेणैव न्यायेन।

मूलम्

द्वादशवार्षिकं तापश्चितं तस्य चत्वारः सौत्याःसंवत्सरा गवामयनशस्याः पूर्वेणैव न्यायेन।

टीका

पूर्वन्यायशब्देनैकसंभार्योत्तरपक्ष उच्यते।

विश्वास-प्रस्तुतिः

अपि वोत्तरस्य पक्षसो द्वाविंशतिः सवनमासाभवेयुस्त्रयोविंशतिः पूर्वस्य पत्रिंशद्वर्षिकमहातापश्चितं तस्व द्वादश सौत्याः संवत्सरागवामयनशस्याः पूर्वेणैव न्यायेन।

मूलम्

अपि वोत्तरस्य पक्षसो द्वाविंशतिः सवनमासाभवेयुस्त्रयोविंशतिः पूर्वस्य पत्रिंशद्वर्षिकमहातापश्चितं तस्व द्वादश सौत्याः संवत्सरागवामयनशस्याः पूर्वेणैव न्यायेन।

टीका

सवनमासा उभयोः पक्षयोः पृष्ठ्याभिप्लवसंभवास्त्रिंशिन्य69स्ते द्वाविंशतिरुत्तरे70 पक्षसि त्रयोविंशतिः पूर्वपक्षास षट्सप्तमोत्तमा71स्त्रयः स्वरूपेणैव। एवमष्टाचत्वारिंशन्मासा भवन्ति चतुर्णी संवत्सराणां पर्याप्ताः। अत एव72 कॢप्तेः कॢतचीयते किंमेतत्क्रमेण प्रणीतं भगवता सत्रकारणेति। अयमभिप्रायः – मासवृद्धौ सवनमासानामेत्र वृद्धिरितरेषां त्रयाणांस्वरूपेणैवेत्यस्य न्यायस्य सर्वार्थत्वायवं प्रणीतम्। अतः षट्त्रिंशद्वर्षिकऽप्येकसप्ततिःपूर्वरक्षसि सवनमासाः सप्तभिरुत्तरे पक्षसि त्रयश्च षट्सप्तमोत्तमाश्च73भवन्तीति गम्यते।

विश्वास-प्रस्तुतिः

प्रजापतेर्द्वादशसंवत्सरम्।

मूलम्

प्रजापतेर्द्वादशसंवत्सरम्।

टीका

इदं सत्रनाम।तस्याहान्युच्यन्ते-

विश्वास-प्रस्तुतिः

त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रयएकविंशाएतैरेव स्तोमैः शाक्त्यानां षट्त्रिंशद्वर्षिकम्।

मूलम्

त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रयएकविंशाएतैरेव स्तोमैः शाक्त्यानां षट्त्रिंशद्वर्षिकम्।

टीका

स्तोमैरिति स्तोमविशिष्टैरहोभिरित्यर्थः। शाक्त्यानामयनमिति सत्रनाम। अयनशब्दोऽध्याहेर्तव्यः। एवमुत्तरेष्वपि साध्यानां विश्वसृजामग्ने74रित्येतेषु। षट्त्रिंशद्वर्षिकमित्यादयः शब्दाः सत्रकालवचनाः।

विश्वास-प्रस्तुतिः

एकैकेन नव नव वर्षाणि।

मूलम्

एकैकेन नव नव वर्षाणि।

टीका

पूर्वस्येयमहःकल्पना।

विश्वास-प्रस्तुतिः

एतैरेव स्तोमैः साध्यानां शतसंवत्सरमेकैकेनपञ्चविंशतिः पञ्चविंशतिर्वर्षाणि।

मूलम्

एतैरेव स्तोमैः साध्यानां शतसंवत्सरमेकैकेनपञ्चविंशतिः पञ्चविंशतिर्वर्षाणि।

टीका

साध्यानामयनस्येयमहःकल्पना।

विश्वास-प्रस्तुतिः

एतैरेव स्तोमैर्विश्वसृजां सहस्रसंवत्सरमेकैकेनार्धतृतीयान्यतृतीयानि वर्षशतानि।

मूलम्

एतैरेव स्तोमैर्विश्वसृजां सहस्रसंवत्सरमेकैकेनार्धतृतीयान्यतृतीयानि वर्षशतानि।

टीका

विश्वसृजामयनस्याहः कल्पना। सहस्रसंवत्सरं तदायुपामसंभवादिति विचारितौ संभवासंभवौ। तत्र यथा संभवति तथा प्रतिपत्तव्यम्।

विश्वास-प्रस्तुतिः

अग्नेः।

मूलम्

अग्नेः।

टीका

अयनशब्द एतेषु शेष इत्युक्तम्। तस्याहःकॢप्तिरुच्यते॥

विश्वास-प्रस्तुतिः

अग्निष्टोमसहस्रम्।

मूलम्

अग्निष्टोमसहस्रम्।

टीका

अत्र बहिरेव प्रायणीयोदयनीयौ। अग्निष्टोमसहस्रम् इत्यनेन सहस्राहः - प्रमाणस्यो75क्तत्वात्।

विश्वास-प्रस्तुतिः

सहस्रसाव्यमित्येतदाचक्षते॥ ५॥

मूलम्

सहस्रसाव्यमित्येतदाचक्षते॥ ५॥

टीका

एतदयनं सहस्रसाव्यमित्यनेन नाम्ना वक्ष्यते॥ ५॥

विश्वास-प्रस्तुतिः

अथ सारस्वतानि।

मूलम्

अथ सारस्वतानि।

टीका

अनन्तरं सारस्वतानि सत्राण्युच्यन्त इत्यर्थः।

विश्वास-प्रस्तुतिः

सरस्वत्याः पश्चिम उदकान्ते दीक्षेरन्।

मूलम्

सरस्वत्याः पश्चिम उदकान्ते दीक्षेरन्।

टीका

पश्चिम उदकान्त इत्यनेन सरस्वत्या विनशनमिति प्रसिद्धो देश उच्यते तस्मिन्दीक्षेरन्नित्यर्थः।

विश्वास-प्रस्तुतिः

ते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयं च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासेशम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः।

मूलम्

ते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयं च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासेशम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः।

टीका

ते सत्रिणस्तत्र76 दीक्षोपसदश्च समाप्यौपवसथिकं च कृत्वा प्रायणीयमतिरात्रं च तत्रैव कुर्युः। एवं तत्रैव कृत्वा सरस्वतीं च दक्षिणेन तीरेणानुब्रजेयुः, शम्याप्रासेऽहरहर्वसित्वां77।तत्रैवेतिवचनं सर्वेषु सारस्वतेषु प्रायणीयान्तं कर्म विनशनप्रदेश एवं कर्तव्यमित्येवमर्थम्।

विश्वास-प्रस्तुतिः

संहार्य उलखलबुध्नो यूषः।

मूलम्

संहार्य उलखलबुध्नो यूषः।

टीका

संहार्यः, गमनकाले संहृत्य गन्तुं योग्यो78 नातिगुरुरित्यर्थः। उलूखलास्येद बुध्नो मूलं यस्य स उलूखलबुघ्नः। समे देशे स्थापयितुं योग्य इत्यर्थः।

विश्वास-प्रस्तुतिः

चक्रीवन्ति सदोहविर्धानानि79

मूलम्

चक्रीवन्ति सदोहविर्धानानि79

टीका

सदोहविर्घातयोविंशालाभिप्रायेण बहुवचनम्।

विश्वास-प्रस्तुतिः

आग्नाध्रीयं पत्नीशालं च।

मूलम्

आग्नाध्रीयं पत्नीशालं च।

टीका

चक्रवदित्यर्थः।

विश्वास-प्रस्तुतिः

दक्षिणपुरस्तादाहवनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत्सायत्रनिपतेत्तद्गार्हपत्यस्याऽऽयतनं ततोऽधिविहारः।

मूलम्

दक्षिणपुरस्तादाहवनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत्सायत्रनिपतेत्तद्गार्हपत्यस्याऽऽयतनं ततोऽधिविहारः।

टीका

गार्हपत्यादरम्य पुरस्ताद्यथायोगं80 पुनर्विहारः कल्पनीयः।

विश्वास-प्रस्तुतिः

विषमे चेन्निपतेदुद्धृत्य समे विहरेयुः।

मूलम्

विषमे चेन्निपतेदुद्धृत्य समे विहरेयुः।

टीका

समी81कर्तु82मशक्येऽपि विषमे देशे शम्या यदि पतेदुद्धृत्य तां शम्यां पुनः समे देशे तां प्रहत्य विहारः कर्तव्यस्तत्रैव।

विश्वास-प्रस्तुतिः

अप्सु चेद्वारुणं पुरोलाशं निर्वपेयुरपान्नप्त्रेचरुमपान्नपादा ह्यस्थादुपस्थंसमन्यायन्त्युपयन्त्यन्या इत्यातः समानं सर्वेषाम्।

मूलम्

अप्सु चेद्वारुणं पुरोलाशं निर्वपेयुरपान्नप्त्रेचरुमपान्नपादा ह्यस्थादुपस्थंसमन्यायन्त्युपयन्त्यन्या इत्यातः समानं सर्वेषाम्।

टीका

एवमन्तं सर्वेषां सारस्वतानां समानम्।

विश्वास-प्रस्तुतिः

मित्रावरुणयोरयनम्।

मूलम्

मित्रावरुणयोरयनम्।

टीका

मित्रावरुणयोरयनं नाम सारस्वतं सत्रमिदानीमधिक्रियते।

विश्वास-प्रस्तुतिः

कुण्डपायिनामयनस्याऽऽद्यान्षण्मासानावर्तयन्तो व्रजेयुः।

मूलम्

कुण्डपायिनामयनस्याऽऽद्यान्षण्मासानावर्तयन्तो व्रजेयुः।

टीका

अग्निहोत्रादीतित्यर्थः। अत्र दण्डचक्रवदावृत्तिरपेक्षते83, परावधेरनियतत्वात्।

विश्वास-प्रस्तुतिः

मासि मासि च गोआयुषी उपेयुरायुरयुग्मेषु गौर्युग्मेषु।

मूलम्

मासि मासि च गोआयुषी उपेयुरायुरयुग्मेषु गौर्युग्मेषु।

टीका

यथाऽपरपक्षस्य चतुर्दश्यामौपवसथिकं कर्म84 तथा दीक्षैरन्। ततोऽमावास्यायां प्रायणीयमतिरात्रं कृत्वाऽग्निहोत्रादीनां मासानां यजनम्। ततः पौर्णमास्यां85 गामुपेयुः। एवमुत्तरस्यां पौर्णमास्यामायुषमुरेयुः। एवमेव ग्रोआयुषी पौर्णमास्यां पौर्णमास्यां क्रमेणोपेयुः।[*86हविर्यज्ञमासान्क्रमेणाऽऽवर्तयन्तः प्लाक्षं प्रस्रवणं सरस्वत्या दक्षिणेन तीरेणाभिव्रजेयुः ]एवं कृत आयुरयुग्मेषु मासेषु गौर्युग्मेषु मासेषु कृतौ भवतः। मासानां युग्मायुग्मत्वंसन्चारम्भकालावधिकम्। अत्र दीक्षोपसंदौ87 द्वादश द्वादशैव। अत एव तद्युक्तम्।

विश्वास-प्रस्तुतिः

इति नु प्रथमः कल्पः।

मूलम्

इति नु प्रथमः कल्पः।

टीका

मित्रावरुणायतस्यायं प्रथमः कल्पः।

विश्वास-प्रस्तुतिः

अथ द्वितीयः।

मूलम्

अथ द्वितीयः।

टीका

कल्प इति88 शेषः।

विश्वास-प्रस्तुतिः

यथाऽमावास्यायामतिरात्रः स्यात्तथा दीक्षेरन्।

मूलम्

यथाऽमावास्यायामतिरात्रः स्यात्तथा दीक्षेरन्।

टीका

यथाऽमावास्यायां प्रायणीयोऽतिरात्रो भवेत्तथा दीक्षित्वाऽपरपक्षस्य चतुर्दश्यामेवौपसथिकं कर्म कृत्वाऽमावास्यायामतिरात्रं प्रायणीयं कुर्युः।

विश्वास-प्रस्तुतिः

तेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सांनाय्यवत्सानपाकुर्युः।

मूलम्

तेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सांनाय्यवत्सानपाकुर्युः।

टीका

तेऽमावास्यायामेकस्मिन्नेवाहन्यतिरात्रमाश्विनान्तं समाप्य तदहरेवामावा89स्यस्य वत्सापाकरणादि कृत्वा श्वोभूते यजेरन्।

विश्वास-प्रस्तुतिः

तं पक्षमामावास्येन व्रजित्वा पौर्णमास्यां गामुपेयुः।

मूलम्

तं पक्षमामावास्येन व्रजित्वा पौर्णमास्यां गामुपेयुः।

टीका

तं पूर्वपक्षमामावास्येन व्रजित्वा पौर्णमास्यां गामुपेयुः।

विश्वास-प्रस्तुतिः

पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामायुषमुपेयुः।

मूलम्

पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामायुषमुपेयुः।

टीका

पौर्णमासेनापरपक्षं व्रजित्वाऽमावास्यायामायुषमुपेयुः।

विश्वास-प्रस्तुतिः

एवमावर्तयन्तो व्रजेयुः।

मूलम्

एवमावर्तयन्तो व्रजेयुः।

टीका

यावत्प्लाक्षं प्राप्यते।

विश्वास-प्रस्तुतिः

इन्द्राग्न्योरयनम्।

मूलम्

इन्द्राग्न्योरयनम्।

टीका

इदमप्यन्यत्सारस्वतम्।

विश्वास-प्रस्तुतिः

गोआयुषीभ्याम्।

मूलम्

गोआयुषीभ्याम्।

टीका

अस्मिन्सारस्वते गोआयुषीभ्यामेवान्तं कालमभ्यस्यन्तो90 व्रजन्ति।

विश्वास-प्रस्तुतिः

अर्थष्णोऽयनम्।

मूलम्

अर्थष्णोऽयनम्।

टीका

इदमपिसारस्वतान्तरम्।

विश्वास-प्रस्तुतिः

त्रिकद्रुकैः।

मूलम्

त्रिकद्रुकैः।

टीका

त्रिकद्रुकैर्दण्डंकलितवदभ्यस्थान्तं व्रजेयुः।

विश्वास-प्रस्तुतिः

सरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन।

मूलम्

सरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन।

टीका

सरस्वतीपरिसर्पणं नाम सारस्वतं91 तस्य शस्यं गवामयनेनोक्तम्। शस्यग्रहणं शस्यमात्रग्रहण92मेव गवामयनस्योत्थानादि सारस्वतमेवेति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

एकपातीनि त्वहान्यतिरात्राः।

मूलम्

एकपातीनि त्वहान्यतिरात्राः।

टीका

अयमत्र विशेषः — चतुर्विंशाभिजिद्विषुवन्महाव्रतादीन्येकपातीन्यहानि तान्यतिरात्रसंस्थानि भवेयुः।

विश्वास-प्रस्तुतिः

पृष्ठ्याहश्चतुर्थम्।

मूलम्

पृष्ठ्याहश्चतुर्थम्।

टीका

अतिरात्रसंस्थमित्यर्थः।

विश्वास-प्रस्तुतिः

इति नु गतयः।

मूलम्

इति नु गतयः।

टीका

एवंप्रकारा गतयः सर्वेषु सारस्वतेषूक्ता अस्माभिः। शास्त्रान्तरेष्वन्येऽपि प्रकाराः सन्ति।

विश्वास-प्रस्तुतिः

अथोत्थानानि।

मूलम्

अथोत्थानानि।

टीका

उत्थानार्न्येपि सर्वेषां वक्ष्यन्ते।

विश्वास-प्रस्तुतिः

प्लाक्षं प्रस्रवणं प्राप्योत्थानम्।

मूलम्

प्लाक्षं प्रस्रवणं प्राप्योत्थानम्।

टीका

इमं देशं प्राप्योत्थानमेव कर्तव्यं न क्रमप्राप्तं कर्माऽऽरव्धव्यम्।

विश्वास-प्रस्तुतिः

ते यमुनायां कारपचवेवऽभृथमभ्युपेयुः।

मूलम्

ते यमुनायां कारपचवेवऽभृथमभ्युपेयुः।

टीका

ये प्लाक्षं प्रस्त्रवणं प्राप्योत्तिष्ठन्ति तेऽस्मिन्देशेऽवभृथं कुर्युः।

विश्वास-प्रस्तुतिः

उदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा।

मूलम्

उदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा।

टीका

अवभृथमुदेत्येयमिष्टिः कार्या।

विश्वास-प्रस्तुतिः

तस्यामश्वां च पुरुषीं च धेनुके दद्युः।

मूलम्

तस्यामश्वां च पुरुषीं च धेनुके दद्युः।

टीका

अश्वजातौ रूयश्वा पुरुषजातौ स्त्री पुरुषीत्युच्यते। ते घेन्ववस्थे दद्युः।

विश्वास-प्रस्तुतिः

एतद्वोत्थानम्।

मूलम्

एतद्वोत्थानम्।

टीका

एतद्वोत्थानं वक्ष्यमाणानि वा। उक्तस्य पुनर्वचनं वक्ष्यमाणेविष्टिर्न93भवतीत्येवमर्थम्।

विश्वास-प्रस्तुतिः

ऋषभैकशतानां वा गवां सहस्रमावे।

मूलम्

ऋषभैकशतानां वा गवां सहस्रमावे।

टीका

ऋषभेणैकशतसंख्याऽऽसां गवामित्यृपभैकशताः सत्रारम्भकाल उत्सृज्यन्ते। आसांसहस्रभाव उत्थानमित्यर्थः।

विश्वास-प्रस्तुतिः

सर्वस्वज्यान्याम्।

मूलम्

सर्वस्वज्यान्याम्।

टीका

चौरादिभिः सर्वस्वापहारे, अथ वोत्सृष्टानां गवां सर्वनाशे।

विश्वास-प्रस्तुतिः

गृहपतिमरणे वा ज्यान्यां तूतिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुगृहपतिमरण आयुषा गवा गवां सहस्रभावे।

मूलम्

गृहपतिमरणे वा ज्यान्यां तूतिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुगृहपतिमरण आयुषा गवा गवां सहस्रभावे।

टीका

एतानि पञ्चोत्थानानि प्लाक्षप्राप्तेः प्रागेव निमित्तानि भवन्ति। प्लक्षिप्राप्तिीनिमित्ते गवां नाशनिमित्ते चोत्थाननिमित्तस्य क्रतोरविधानादुदयनीय एवातिरात्रस्तयोः कर्तव्यः।

विश्वास-प्रस्तुतिः

इति शस्यम्॥६॥

मूलम्

इति शस्यम्॥६॥

टीका

इत्येवं ज्योतिष्टोमादितः सारस्वतानुक्त्वेति94 शस्यमित्युक्तं तस्यायमर्थः – एतेषु सारस्वतान्तेषु सर्वे शस्यमुक्तमित्यर्थः॥६॥

विश्वास-प्रस्तुतिः

अथ सवनीयाः।

मूलम्

अथ सवनीयाः।

टीका

पशवो वक्ष्यन्त इति95 शेषः।

विश्वास-प्रस्तुतिः

क्रतुपशवो वाऽत्यन्तम्।

मूलम्

क्रतुपशवो वाऽत्यन्तम्।

टीका

आग्नेयोऽग्निष्टोम इत्यादयः पशवः, तेषां संत्यावशेन प्रयोग उक्तः। त एव गवामयनेऽहन्यहनि संस्थावशेनैषाऽऽ सत्रपरिसमातेरालब्धव्याः।

विश्वास-प्रस्तुतिः

आग्नेयो वैद्राग्नो वा।

मूलम्

आग्नेयो वैद्राग्नो वा।

टीका

अयमपि पूर्ववत्।

विश्वास-प्रस्तुतिः

आग्नेयं वा रथंतरपृष्ठेषु।

मूलम्

आग्नेयं वा रथंतरपृष्ठेषु।

टीका

रथंतरभक्तिष्वपि वैरूपशाक्वरयोः परोक्षरथंतरे नौधसे च।

विश्वास-प्रस्तुतिः

ऐन्द्रं बृहत्पृष्ठेषु।

मूलम्

ऐन्द्रं बृहत्पृष्ठेषु।

टीका

अत्रापि तद्भक्तिष्वपि वैराजरैवते।

विश्वास-प्रस्तुतिः

ऐकादशिनान्वा।

मूलम्

ऐकादशिनान्वा।

टीका

अन्वहमैकादशिनान्वा समस्तानालभेरन्। अत्यन्तमित्येवमन्तमनुवर्तते।

विश्वास-प्रस्तुतिः

प्रायणीयोदयनीययोरतिरात्रयोःसमस्तानालभेरन्नैन्द्राग्नमन्तर्धौवा।

मूलम्

प्रायणीयोदयनीययोरतिरात्रयोःसमस्तानालभेरन्नैन्द्राग्नमन्तर्धौवा।

टीका

अयमपरः कल्पः संनियोगशिष्टः। प्रायणीये चातिरात्र उदयनीये चातिरात्र ऐकादरिनान्समस्तानालभेरन्, अन्तर्धौमध्यवर्तिष्वन्येष्वहःस्वित्यर्थः। तेष्वैन्द्राग्नमालभेरन्।प्रायणीयोदयनीयातिरात्रग्रहणमग्निष्टुत्प्रायणीयस्थान इत्येवमादिष्वयं कल्पो मा भूदित्येमर्थम्।

विश्वास-प्रस्तुतिः

अन्वहं वैकैकश ऐकादशिनान्।

मूलम्

अन्वहं वैकैकश ऐकादशिनान्।

टीका

अयं चापरः कल्पः। ऐकादशिनानामेवैकैकमादित आरभ्यहन्यहनि क्रमेणाऽऽलभेरन्। अस्मिन्पक्षे दण्डकलितवंदावृत्तिः। तदेतन्निरूपितं वचनाद्यत्प96रिवृत्तिनैकादशिनेषुलिङ्गदर्शनात्।

विश्वास-प्रस्तुतिः

न त्वेवैकादशिनीं न्यूनामालभेरन्।

मूलम्

न त्वेवैकादशिनीं न्यूनामालभेरन्।

टीका

एकादशिन्यामेवान्वहमेकैकालम्भे क्रियमाणेऽन्त्यैकादशिन्यपरिसमाप्ता म्यूनावुत्तिष्ठते तथा न कर्तव्यमिति प्रतिकृप्यते।

विश्वास-प्रस्तुतिः

एतेन चेत्पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्यद्वात्रिंशतमेकादशिन्यः संतिष्ठन्तेऽतएतस्मिन्नवरात्रेऽतिरिक्तपशूनालभेरन्।

मूलम्

एतेन चेत्पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्यद्वात्रिंशतमेकादशिन्यः संतिष्ठन्तेऽतएतस्मिन्नवरात्रेऽतिरिक्तपशूनालभेरन्।

टीका

न्यून97ालम्भप्रतिषेधादेकैकालम्भ एवं कर्तव्यमित्युच्यते। एकैकालम्भपक्ष एकादशिन्याद्वात्रिंशत्परिवृत्तिषु गतासु नवाहानि परिशिष्यन्ते। तेष्वहःस्वतिरिक्तपशूनालभेरन्। अतिरिक्तपशव इति वक्ष्यमाणानां नामधेयम्।

विश्वास-प्रस्तुतिः

वैष्णवं वामनमेकविंशे।

मूलम्

वैष्णवं वामनमेकविंशे।

टीका

दशरात्रस्य चतुर्थप्रभृतिष्वहःस्वेते पशवः संभवन्ति। ता(या)न्येकविंशादीनि तेन तेन स्तोमेनं तानि लक्ष्यन्ते।

विश्वास-प्रस्तुतिः

ऐन्द्राग्नंत्रिणवे वैश्वदेवं त्रयस्त्रिंशेद्यावापृथिवीयां धेनुं चतुर्विंशे तस्या एववत्सं वायव्यं चतुश्चत्वारिंश आदित्यां
वशामष्टाचत्वारिंशे मैत्रावरुणीमविवाक्ये।

मूलम्

ऐन्द्राग्नंत्रिणवे वैश्वदेवं त्रयस्त्रिंशेद्यावापृथिवीयां धेनुं चतुर्विंशे तस्या एववत्सं वायव्यं चतुश्चत्वारिंश आदित्यां
वशामष्टाचत्वारिंशे मैत्रावरुणीमविवाक्ये।

टीका

इयमपि वशैव।

विश्वास-प्रस्तुतिः

वैश्वकर्मणमृषभं महाव्रत आग्नेयमुदयनीयेऽतिरात्रे।

मूलम्

वैश्वकर्मणमृषभं महाव्रत आग्नेयमुदयनीयेऽतिरात्रे।

टीका

एते सर्वे गोपशवः। अत्र स्तोमग्रहणमहरुलक्षणार्थेन तु स्तोमविवक्षार्थम्।

विश्वास-प्रस्तुतिः

अपि वैकादशिनीमेवत्रयस्त्रिंशींपूरयेयुरभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः॥७॥

मूलम्

अपि वैकादशिनीमेवत्रयस्त्रिंशींपूरयेयुरभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः॥७॥

टीका

गवामयने त्रयस्त्रिंशिन्या एकादशिन्याः पूरणोपाय उच्यते। अभिजिति सप्तदशस्यैकादशिन्या रभ्यते,98 तस्मिन्नहन्यादितो द्वौ पशू आलभ्यते विश्वजित्यन्ततो द्वौ पशू आलस्येते। ततः सप्ता99वशिष्यन्ते। अहानि च सप्तैव। विषुवतो द्विपशुत्वं पूर्वमेव प्राप्तं तत्किमित्यत्र गृह्यते। परिसंख्याभयात्। एवं कृते त्रयस्त्रिंश्येकादशिनी पूर्णा भवति। अयं चपक्षोऽतिरिक्तपशुभिर्विकल्पते100॥७॥

विश्वास-प्रस्तुतिः

अथ सत्रिधर्माः।

मूलम्

अथ सत्रिधर्माः।

टीका

सत्राण्युक्तानि। अतथेदानीं सत्रिणां नियमा उच्यन्ते।

विश्वास-प्रस्तुतिः

दीक्षणादिपित्र्याणां दैवानां च धर्माणां प्राकृतानां निवृत्तिः।

मूलम्

दीक्षणादिपित्र्याणां दैवानां च धर्माणां प्राकृतानां निवृत्तिः।

टीका

दीक्षणीयाप्रभृत्या कर्मपरिसमाप्तेः पित्र्याणां पिण्डपितृयज्ञादीनां101 देवानामग्निहोत्रादीनांनिवृत्तिः। प्रकृतानां नित्यानामित्यर्थः। सत्रिग्रहणं यजमानोपलक्षणार्थम्। तेनैकाहाहीनेष्वपि यजमानानां धर्मा भवन्ति।

विश्वास-प्रस्तुतिः

सर्वशश्च वर्जयेयुग्रमचर्याम्।

मूलम्

सर्वशश्च वर्जयेयुग्रमचर्याम्।

टीका

ग्रामचर्या स्त्रीसंभोगः, सर्वशस्तं वर्जयेयुः। मनोवाक्कायैरित्यर्थः। दैवविव्याण्यपि सर्वशोवर्जयेयुः, श्रौतानि स्मार्तानि च।

विश्वास-प्रस्तुतिः

सरणम्।

मूलम्

सरणम्।

टीका

द्रुतगतिर्घावनमित्यर्थः।

विश्वास-प्रस्तुतिः

विवृतस्मयनम्।

मूलम्

विवृतस्मयनम्।

टीका

दन्तान्प्रकाशप हसनमागतं102 चेद्दन्तानाच्छाद्य।

विश्वास-प्रस्तुतिः

स्त्र्यभिहासम्।

मूलम्

स्त्र्यभिहासम्।

टीका

स्त्रीभिः सहाभिहासमात्रमपि वर्जयेयुः।

विश्वास-प्रस्तुतिः

अनार्याभिभाषणम्।

मूलम्

अनार्याभिभाषणम्।

टीका

अनार्याः प्रतिलोमा अनुलोमाश्च दृष्टदोषिणश्च तैर्न संभाषेरन्।

विश्वास-प्रस्तुतिः

अनृतं क्रोधमपां प्रगाहणम्।

मूलम्

अनृतं क्रोधमपां प्रगाहणम्।

टीका

स्नानानि।

विश्वास-प्रस्तुतिः

अभिवर्षणम्।

मूलम्

अभिवर्षणम्।

टीका

आत्मनः शरीरे103 बिन्दुपतनम्।

विश्वास-प्रस्तुतिः

आरोहणं च वृक्षस्य नावो वा।

मूलम्

आरोहणं च वृक्षस्य नावो वा।

टीका

वाशब्दः समुच्चयार्थः। अभ्यस्याप्येवंप्रकारस्य104 वृक्षादेः।

विश्वास-प्रस्तुतिः

रथस्य वा।

मूलम्

रथस्य वा।

टीका

अयमपि निषेधोऽनसादीनामुपलक्षणम्।

विश्वास-प्रस्तुतिः

दीक्षिताभिवादनम्।

मूलम्

दीक्षिताभिवादनम्।

टीका

एतानि सर्वशो वर्जयेयुरिति संबध्यते।

विश्वास-प्रस्तुतिः

दीक्षितस्त्वौपसदम्।

मूलम्

दीक्षितस्त्वौपसदम्।

टीका

तुशब्दोऽभिवादनविधायके105षु पञ्चसु सूत्रेषु वर्जयेयुरित्यस्ये व्यावृत्यर्थः। दीक्षावस्थउपसदवस्थमभिवादयेत्।

विश्वास-प्रस्तुतिः

उभौसुन्वन्तौ106

मूलम्

उभौसुन्वन्तौ106

टीका

दीक्षावस्थश्चोरसदवस्थश्च सुन्वन्तं सुत्यावस्थमभिवादयेताम्।

विश्वास-प्रस्तुतिः

समसिद्धान्ताः पूर्वारम्भिणम्।

मूलम्

समसिद्धान्ताः पूर्वारम्भिणम्।

टीका

समावस्थयोर्यः पूर्वमारभते तमितरोऽभिवादयेत्पश्चादारम्भी।

विश्वास-प्रस्तुतिः

अभितप्ततरं वा।

मूलम्

अभितप्ततरं वा।

टीका

समसिद्धान्तयोरभितप्ततरभितरोऽभिवादयेत्। अभितप्ततरो नाम पूर्वं बहुभिः ऋतुभिरिष्ठवानिदानीं च प्रवर्तमानः।

विश्वास-प्रस्तुतिः

सर्वसाम्ये यथावयः।

मूलम्

सर्वसाम्ये यथावयः।

टीका

सर्वत्र समत्वे107 यो वयोधिकस्तमितरोऽभिवादयेत्। एतावांनाभिवादमविधिः।

विश्वास-प्रस्तुतिः

नृत्यगीतवादितानि।

मूलम्

नृत्यगीतवादितानि।

टीका

तुशब्देनाभिवादनविधैर्व्यावृत्तौवर्जयेयुरितिशब्दः पुनरण्यागछतीति सूत्रद्वयार्थम्108। वादितं दुन्दुभ्याहननादि।

अन्यांश्चाव्रत्योपाचारान्109

वर्जयेयुरित्यर्थः। उक्तभ्योऽन्ये ये शास्त्रान्तरोक्ताव्रतविरोधिन उपचारास्तानपि वर्जयेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

न चैनाम्बहिर्वेदिषदोऽभ्याभावयेयुः।

मूलम्

न चैनाम्बहिर्वेदिषदोऽभ्याभावयेयुः।

टीका

यदा110 सत्रिणो वहिर्वेदि स्थितास्तदाऽऽश्रावणं न कर्तव्यम्। आश्रावणशव्देन यागहोमा लक्ष्यन्ते111

विश्वास-प्रस्तुतिः

नोदक्यान्।

मूलम्

नोदक्यान्।

टीका

उदक्या आचमनार्हास्तान्बहिर्वेदिस्थितान्नाभ्याश्रावयेयुः।

विश्वास-प्रस्तुतिः

नो एवाभ्युदियान्नाभ्यस्तमियात्112

मूलम्

नो एवाभ्युदियान्नाभ्यस्तमियात्112

टीका

एतान्बहिर्वेदिस्थितानात्मनो नोमयं कुर्यादित्यर्थः। तथा यागहोमकाल उदयास्तमयकाले च बहिर्बेहि नाऽऽतिष्ठेयुः। अशुचयो वा113न भवेयुः।

विश्वास-प्रस्तुतिः

तेषां चेत्किंचिदापदोपनमेवमग्नेव्रतपा असीति जपेत्।

मूलम्

तेषां चेत्किंचिदापदोपनमेवमग्नेव्रतपा असीति जपेत्।

टीका

तेषां ग्रामचर्यादीनां यत्किंचिदापदाऽकामत उपनमेत्तदा ‘त्वमग्ने व्रतपा अति’ इत्येतामृचं जपेत्।

विश्वास-प्रस्तुतिः

आख्याय वेतरेषूपहवल्ँलीप्सेतः।

मूलम्

आख्याय वेतरेषूपहवल्ँलीप्सेतः।

टीका

यो विध्यतिक्रमं कृतवान्स इतरेषु सत्रिषु ममायमतिक्रम इत्याख्याय तेषूपहवं याचेत वेत्यर्थः। तेनायमर्थः सर्वेष्वतिक्रमेषु जपो नित्यः जपानन्तरमिदं वा कर्तव्यम्।‘व्रतातिपत्तौ व्रतपतयः’ इति शास्त्रान्तर विहितमन्यहृतं विशिष्टमस्ति चेत्तद्वा कर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

अवकीर्णिनं तैरेव दीक्षितद्रव्यैरपर्युप्यपुनर्दीक्षयेयुः।

मूलम्

अवकीर्णिनं तैरेव दीक्षितद्रव्यैरपर्युप्यपुनर्दीक्षयेयुः।

टीका

यो व्यवायपर्यन्तं ग्रामचर्योकरोति सोऽत्रकीर्णीत्युच्यते। शास्त्रान्तरोक्तं स्वशास्त्रोक्तं च प्रायश्चित्तं कारयित्वा पुनरपि तैरेव दीक्षितद्रव्यैर्दण्डादिभिर्दीक्षयेयुः। अपर्युप्य परिवापनमकृत्वेत्यर्थः।

विश्वास-प्रस्तुतिः

आग्रयणकाले नवानां सवनीयान्निर्वपेयुः।

मूलम्

आग्रयणकाले नवानां सवनीयान्निर्वपेयुः।

टीका

आग्रयणकाले सुत्यास्वागतासु नवानां ब्रीहियवानां सवनीयान्निर्वपेयुः ‘शरदिन्नीहीणां वसन्ते यवानामिति। विध्यन्तरानुरोधे तु श्यामाकानां प्रकृतौदर्शपूर्णमासयोस्तेपामपि विधानात्।

दीक्षोपसत्सु व्रतदुघ आदयेयुः114114

तत्र दयामाकानामप्यादनं भवति विरोधाभावात्।

विश्वास-प्रस्तुतिः

तेषां व्रत्यानि।

मूलम्

तेषां व्रत्यानि।

टीका

व्रताहनि115 भवानि व्रत्यानीत्युच्यन्ते। दर्शपूर्णमासयोर्यदौपवसथ्यमहस्तद्व्रताहः। तत्रयानि पत्नीयजमानर्भोजनार्थान्युक्तानि व्रतार्हाणि तानि तेषां सत्रिणां पत्नीयजमानानामेकाहाहीनस्थानां116 च पत्नीयजमानानां भोजनार्थे भवन्तीति सूत्रार्थः। दीक्षोपसन्सुत्यासुभोजनार्थे विहितत्वात्कुण्डपाथिनामयनादिष्वग्निहोत्रादिमासप्रकाराअस्य विधेरवकाशः,हविरुच्छिष्टभक्षविषये पत्न्यश्च तासां हविरुच्छिष्टभक्षविरोधात्।

विश्वास-प्रस्तुतिः

पयो दीक्षासु।

मूलम्

पयो दीक्षासु।

टीका

दीक्षासु भोजनार्थे पयो विधीयते।

विश्वास-प्रस्तुतिः

व्यतिनीय कालमुपसदां चतुर्थमेकस्या दुग्धेन।

मूलम्

व्यतिनीय कालमुपसदां चतुर्थमेकस्या दुग्धेन।

टीका

उपसदामाद्योत्तमलक्षणं, व्यतिनीयापोह्यावशिष्टानुपसत्कालांश्चतुर्था विभज्याऽऽद्यमा117मचतुस्तनव्रतं कुर्यात्। तत्राऽऽद्यः कालः प्रथमेऽहनि प्रातः स दीक्षाव्रतेन व्याख्यात118स्वादपोद्यते। उत्तमस्तु काल औपवसथ्येऽहनि सायंतनस्य119व्रतस्य तत्र निवृत्तत्वात्तद्धविरुच्छ्रिष्टत्वमेव। अतो व्यतिनीय कालमिति कालद्वयाभिप्रायेणोक्तम्।

विश्वास-प्रस्तुतिः

तावदेव त्रिभिस्तनैस्तावद्द्वाभ्यामेकेन तावदेव।

मूलम्

तावदेव त्रिभिस्तनैस्तावद्द्वाभ्यामेकेन तावदेव।

टीका

उपसदामेकैकं चतुर्भागं व्रतयितव्यम्। एवमुपसत्समृद्धी यथायोगं भागाः कल्पनीयाः।

विश्वास-प्रस्तुतिः

सुत्यासु हविरुच्छिष्टभक्षा एव स्युः।

मूलम्

सुत्यासु हविरुच्छिष्टभक्षा एव स्युः।

टीका

सुत्यासु हविरुच्छिष्टभक्षा एव भवेयुर्नौपवसथिकं च120, सत्रव्रतस्य निवृत्तत्वादित्युक्तम्।अवधारणं यजमानानामेतदेव व्रतं न सामान्यं121 तदेषां व्रत्यानीत्येतत्। पत्नीनां तु सामात्यमेव, तासां हविरुच्छिष्टभक्षविरोधादित्युक्तम्

विश्वास-प्रस्तुतिः

धानाः करम्भः परिवापः पुरोलाशः पयस्येतितेषां यद्यत्कामयीरंस्तत्तदुपबिगुल्फयेयुः।

मूलम्

धानाः करम्भः परिवापः पुरोलाशः पयस्येतितेषां यद्यत्कामयीरंस्तत्तदुपबिगुल्फयेयुः।

टीका

यदि यथाप्राप्तेन हविरुच्छिष्टभक्षणेन प्राणा न धियेरंस्तदा धानादीनां मध्ये यस्मिंस्तेषामभि-रुचिस्तद्द्रव्यमुपविगुल्फययुः, अभिवर्धयेयुः।

विश्वास-प्रस्तुतिः

आशिरदुघो दध्यर्थम्।

मूलम्

आशिरदुघो दध्यर्थम्।

टीका

यदि व्यञ्जनरहितं122 हविरुच्छिष्टमुपभोक्तमशक्तः स्यात्तदाऽऽशिरदुयो गा वर्धयेयुर्दध्यर्थम्। तेन तेन दघ्नाऽऽशिरार्थं123 गृहीतशेषेण व्रतेनोपभुञ्जीरन्124

विश्वास-प्रस्तुतिः

सौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन्।

मूलम्

सौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन्।

टीका

यदि धानादीनां125 हविरुच्छिष्टेन प्राणा न ध्रियेरंस्तदा यः प्राकृतः सौम्यश्चरुस्तं प्रवृद्धं निर्वपेयुर्यावद्भिः शरावैर्निरुप्तैः सत्रिणां प्राणधारणाय पर्याप्तिः संभवति तावन्निर्वपेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

वैश्वदेवमके बार्हस्पत्यमेके।

मूलम्

वैश्वदेवमके बार्हस्पत्यमेके।

टीका

अथ वैतौ पक्षौ भवतः। सौम्यो यथाप्रकृति126 पक्तव्यः, यथाप्रकृत्येव प्रतिपादनीयश्च सत्रिणां प्राणरक्षणार्थमेव। वैश्वदेवं चरुं विगुरुकं निरूप्य तेन127 यागं कृत्वा तच्छेषमुपभुञ्जीरन्फलचमसन्यायेन। बार्हस्पत्येन चैवमेव कुर्युः। द्वावेतौ128 पक्षौ।

विश्वास-प्रस्तुतिः

सर्वान्वाऽनुसवनम्।

मूलम्

सर्वान्वाऽनुसवनम्।

टीका

सर्वानेतान्सौम्यादींश्चरूननुप्तवनं निर्वपेयुः। एकैकश्चेन्न तत्र सौम्यः प्रकृति129 (तिः)स्वस्थाने तृतीयसवने भवति। इतरयोः सवनयोरितरौ चरू130औषध्यानन्तर्येण भवतः।

विश्वास-प्रस्तुतिः

अपि वाऽन्यत्र सिद्धं गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन्।

मूलम्

अपि वाऽन्यत्र सिद्धं गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन्।

टीका

गार्हपत्येऽघिश्रयणं131 धर्ममात्रं कृत्वोपत्रतयेरन्, 132 चात्रतेन संहृत्य वा।

विश्वास-प्रस्तुतिः

अन्यान्वा पथ्यान्भक्षानामूलफलेभ्यः।

मूलम्

अन्यान्वा पथ्यान्भक्षानामूलफलेभ्यः।

टीका

उपव्रतयेरन्नित्यर्थः।

विश्वास-प्रस्तुतिः

एतेन वर्तयेयुः पशुना च॥८॥

मूलम्

एतेन वर्तयेयुः पशुना च॥८॥

टीका

एतेन सवनीयेन च पशुना वर्तयेयुः, न केवलं धानादिमिरेव सुत्याधिकारात्सवनीय एव पशुरत्र संनिहितः किमर्थमेतेनेत्युच्यते। वक्ष्यमाणेऽपि133 विभागे सवनीयस्यैव प्रापणार्थंनाम्नीषोमीये134 पशौ। अतोऽग्नीषोमीयेपशौ हविरुच्छिष्टभक्षणार्थं विभागे प्राप्ते ‘समं स्याद्-श्रुतत्वात्’ इति सममेव135 विभागः स्यादिह वचनादिति॥८॥

विश्वास-प्रस्तुतिः

तस्य विभागं वक्ष्यामः।

मूलम्

तस्य विभागं वक्ष्यामः।

टीका

तस्य सवनीयस्य पशोर्विभागं वक्ष्याम इति प्रतिज्ञासूत्रमिदम्।

विश्वास-प्रस्तुतिः

हनू सजिह्वे प्रस्तोतुः।

मूलम्

हनू सजिह्वे प्रस्तोतुः।

टीका

जिह्वया सह हनू प्रस्तोतुर्भवति, त्रीण्येतानि।

विश्वास-प्रस्तुतिः

श्येनं वक्ष उद्गातुः।

मूलम्

श्येनं वक्ष उद्गातुः।

टीका

श्येनसदृशं वक्ष इत्यर्थः।

विश्वास-प्रस्तुतिः

कण्ठः काकुद्रः प्रतिहर्तुः।

मूलम्

कण्ठः काकुद्रः प्रतिहर्तुः।

टीका

काक्रुद्रः ककुदित्यर्थः। द्वे एते।

विश्वास-प्रस्तुतिः

दक्षिणा श्रोणिर्होतुः सव्या ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यं ब्राह्मणाच्छंसिनो दक्षिणं पावं सांसमध्वर्योः।

मूलम्

दक्षिणा श्रोणिर्होतुः सव्या ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यं ब्राह्मणाच्छंसिनो दक्षिणं पावं सांसमध्वर्योः।

टीका

अंसेन सह136 पार्श्वे। द्वे एते।

विश्वास-प्रस्तुतिः

सव्यमुपगातृृणाम्। सव्योंऽसः प्रतिप्रस्थातुः।दक्षिणं दोर्नेष्टुः। सव्यं पोतुः। दक्षिण ऊरुरच्छावाकस्य।सव्य आग्नीध्रस्य। दक्षिणो बाहुरात्रेयस्य।सव्यः सदस्यस्य। सदं चानूकं च गृहपतेः।

मूलम्

सव्यमुपगातृृणाम्। सव्योंऽसः प्रतिप्रस्थातुः।दक्षिणं दोर्नेष्टुः। सव्यं पोतुः। दक्षिण ऊरुरच्छावाकस्य।सव्य आग्नीध्रस्य। दक्षिणो बाहुरात्रेयस्य।सव्यः सदस्यस्य। सदं चानूकं च गृहपतेः।

टीका

द्वे एते।

विश्वास-प्रस्तुतिः

दक्षिणौ पादौ गृहपतेर्वतप्रदस्य।

मूलम्

दक्षिणौ पादौ गृहपतेर्वतप्रदस्य।

टीका

द्वे एते।

विश्वास-प्रस्तुतिः

सव्यौपादौ गृहपतेर्भार्यायै व्रतप्रदस्य। ओष्ठ एनयोःसाधारणो भवति तं गृहपतिरेव प्रशिंष्यात्।

मूलम्

सव्यौपादौ गृहपतेर्भार्यायै व्रतप्रदस्य। ओष्ठ एनयोःसाधारणो भवति तं गृहपतिरेव प्रशिंष्यात्।

टीका

एतयोर्व्रतप्रदयोरोष्ठः साधारणो भवति तं गृहपतिस्ताभ्यां विभज्य दद्यादित्यर्थः।

विश्वास-प्रस्तुतिः

जाघनीं पत्नीभ्यो हरन्ति तां ब्राह्मणाय दद्युः।

मूलम्

जाघनीं पत्नीभ्यो हरन्ति तां ब्राह्मणाय दद्युः।

टीका

ता पत्न्यः कस्मैचिद्ब्राह्मणाय दद्युः।

विश्वास-प्रस्तुतिः

स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः।

मूलम्

स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः।

टीका

स्कन्धजा मणिकाः कीकसाश्च। एते द्वे।

विश्वास-प्रस्तुतिः

तिस्रश्चैव कीकसा अर्धंच वैकर्तस्योन्नेतुः।अर्धं चैव वैकर्तस्य लोमा च शमितुस्तद्ब्राह्मणायदद्यात्137। यद्यब्राह्मणः स्यात्138

मूलम्

तिस्रश्चैव कीकसा अर्धंच वैकर्तस्योन्नेतुः।अर्धं चैव वैकर्तस्य लोमा च शमितुस्तद्ब्राह्मणायदद्यात्137। यद्यब्राह्मणः स्यात्138

टीका

द्वयोः सूक्तयोस्त्रीणि। तद्ब्राह्मणः स्याच्छमिता यद्यद्ब्रा(ब्रा)ह्मणः स्यात्तदा स्वं भागं ब्राह्मणाय दद्यात्।

विश्वास-प्रस्तुतिः

शिरः सुब्रह्मण्यायै। यः श्वः सुत्यां प्राहतस्याजिनम्। इला सर्वेषाम्। होतुर्वा। ता वाएताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति।

मूलम्

शिरः सुब्रह्मण्यायै। यः श्वः सुत्यां प्राहतस्याजिनम्। इला सर्वेषाम्। होतुर्वा। ता वाएताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति।

टीका

यान्येतानि षट्त्रिंशदङ्गानि तान्येकपदा उच्यन्ते। ताश्च यज्ञं वहन्ति, भक्षयितॄणां मलवर्धनद्वारेण।

विश्वास-प्रस्तुतिः

षट्त्रिंशदक्षरां वै बृहती।

मूलम्

षट्त्रिंशदक्षरां वै बृहती।

टीका

संख्यासामान्यात्सा बृहतीत्युच्यते।

विश्वास-प्रस्तुतिः

बार्हताः स्वर्गा लोकास्तत्प्राणेषु139 चस्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति।

मूलम्

बार्हताः स्वर्गा लोकास्तत्प्राणेषु139 चस्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति।

टीका

स्वर्गाश्च प्राणाश्च बार्हता इति क्वचित्संस्तुतिरिति। तस्मात्प्राणेषु च स्वर्गेषु च प्रतितिष्ठन्तो यन्ति, येऽङ्गानि बृहतीसंमितानि जानन्ति।

विश्वास-प्रस्तुतिः

स एष स्वर्ग्यः पशुर्पएनमेवं विभजन्त्यथ येऽतोऽन्यथातद्यथा सेलगा वा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत्।

मूलम्

स एष स्वर्ग्यः पशुर्पएनमेवं विभजन्त्यथ येऽतोऽन्यथातद्यथा सेलगा वा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत्।

टीका

स एष पशुरानन्त्याय सुखाय भवति। येऽनेन विधानेन विभजन्ति। अन्यथा चेत्प्रत्यवायायैव भवतीति। विभागस्तुतिपरा सैषा निन्दा।

विश्वास-प्रस्तुतिः

तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्देवभागो विदांचकार तामुहाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते॥९॥

मूलम्

तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्देवभागो विदांचकार तामुहाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते॥९॥

टीका

विद्यास्तुतिद्वारेणापि विभागस्यैव प्रशस्तता कथिता। इति पशुविभागः समाप्तः॥९॥

विश्वास-प्रस्तुतिः

सर्वे समानगोत्राः स्युरिति गाणगारिः कथंह्याप्रीसूक्तानि भवेयुः। कथं प्रयाजा इति।

मूलम्

सर्वे समानगोत्राः स्युरिति गाणगारिः कथंह्याप्रीसूक्तानि भवेयुः। कथं प्रयाजा इति।

टीका

सत्राण्युक्तानि तेषां च बहुयजमानत्वमुक्तम्। बहुषु च समानार्षेया भिन्नार्षेयाश्च संभवन्ति। तत्र भिन्नार्षेयाणां सत्रासनं नास्तीति गाणगारिराचार्यो मन्यते। कुतः। कथं ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति। भिन्नार्षेयत्वे सत्येवमादीनि140 नं कथंचिद्भवेयुरित्यर्थः। अतः सर्वे सत्रिणः समानगोत्राः स्युरित्युक्तम्। आर्षेयः प्रवर इति पर्यायौ।ऋषिरिति वंशनामधेयभूता वत्सबिंदार्ष्टि141षेणादयः शब्दा उच्यन्ते। गोत्रशब्दोऽपत्यं पौत्रप्रभृति गोत्रमित्येवं पारिभाषिकोऽप्यस्ति। अन्यथा च पारिभाषिक एवास्ति। यथोक्तंभगवता बौधायनेन – ‘विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः। अत्रिर्वसिष्ठः कश्यपइत्येते सप्त ऋषयोऽगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्युच्यते’ इति। अयमर्थः-एतेषामपत्यमिति ये स्मर्यन्ते तद्गोत्रमित्युच्यन्ते। यथा जमदग्नेर्गोत्रं वत्सादयस्तथा गौतमस्यायास्यादयो142 भरद्वाजस्य दक्षगार्ग्यादयस्तथाऽत्र्यादीनां स्वस्ववर्ग्या इति। तथाऽऽर्षेयगोत्रशब्दयोर्भिन्नविषयत्वं शिष्टव्यवहारे दृष्टम्। यथाऽऽह याज्ञवल्क्यः – ‘अरोगिणींभ्रातृमतीमसमानार्षगोत्रजाम्’ इति। तथा ‘गोत्रपिण्डऋषिसंबद्धा रिक्थं भजेरन्’ इत्येवंव्यवहारा बहवः सन्ति। अस्तु सूत्रे गोत्रशब्दः143 आप्रयादेरनुष्ठेयत्वादनर्थकमित्येकत्वादेकोपाधिवचनेनाभिप्रेतः। ‘यावन्तोऽनन्तर्हिताः समानगोत्रास्तावतां सकृत्’ इत्यत्रसूत्रे समानप्रवरमात्रोपाधित्रचनो गोत्रशब्दः प्रयुक्तः। यस्त्वगत्याष्टमानामन्येष्वपि गोत्रशब्दो लोके प्रयुज्यमानो दृश्यते मित्रयुवगोत्रोऽहं मुद्गलगोत्रोऽहमित्येवमादिषु स चौपचारिकः प्रयोगः। अगस्त्याष्टमानामपत्येष्वया144स्यगर्गकुण्डिनादिषु गौतम145भारद्वाजवसिष्ठादिषु गोत्रत्वंमस्ति, तत्सामान्यदृष्ट्या146 मित्रयुवमुद्गलादिषु परामर्शेन लौकिकाः प्रयुञ्जते।अस्थायमर्थ इति स्मरन्ति। अतो भगवता बौधायनेन स्मृत्यन्तर उक्त एवं गोत्रशब्दस्यार्थ इति निश्चिनुमः। व्याकरणस्मृतिश्चाप्यस्या न बाधिका सामान्य विशेषरूपत्वात्तयोः।

विश्वास-प्रस्तुतिः

अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात्।

मूलम्

अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात्।

टीका

गाणगारिणा समानविधानानामेव सत्रसंबन्ध उक्ते शौनक आचार्य आह समानगोत्राणामेवेति न नियमः। नानागोत्रा अपि सत्रमासीरन्निति। कुतः। तन्त्राणां व्यापित्वात्। तन्त्रशब्देनात्र सर्वपुरुषसाधारगोऽङ्ग समुदाय उच्यते। तस्य च व्यापित्वमस्त्येव।

कथं पुनरसाधारण147पदार्था148 इति तत्राऽऽह -

विश्वास-प्रस्तुतिः

गृहपतिगोत्रान्वया विशेषाः।

मूलम्

गृहपतिगोत्रान्वया विशेषाः।

टीका

अयमर्थः—ये विशेषा असाधारणास्ते गृहपतिगोत्रान्वया गृहपतिविधानानुगुणाः कर्तव्याः। एतदुक्तं भवति - असमानावधानानामपि सन्त्रासनं भवति प्रायेणाङ्गसमुदायस्याविरोधित्वात्। ये केचन विरोधिनस्ते149 गृहपतेरविरोधित्वेन कर्तव्या इति।ननु गृहपत्यविरोधेन सत्रे कृते येषां विरोधस्तेषां फलसंबन्धो न स्यादित्यत आह –

विश्वास-प्रस्तुतिः

तस्य राद्धिमनु राद्धिः सर्वेषाम्।

मूलम्

तस्य राद्धिमनु राद्धिः सर्वेषाम्।

टीका

तस्य गृहपतेःफलसिद्धिमनु सर्वेषां सत्रिणां फलसिद्धिर्भवत्येव। कुतः।‘तन्मुखाः सत्राण्यासते’ इति वचनात्। अत एव सूत्रकारस्यायमेव पक्ष इति गम्यते।

विश्वास-प्रस्तुतिः

प्रवरास्त्वावर्तेरन्नावापधर्भित्वात्।

मूलम्

प्रवरास्त्वावर्तेरन्नावापधर्भित्वात्।

टीका

ओप्यन्त इत्यावापा आहवनीयाः। ते च प्रवरेण धर्मेण धर्मिणस्तस्य प्रवरस्याऽऽहवनीयसंस्कारस्वादाहवनीयधर्म इत्युच्यते। अत आहवनीयबहुत्वात्प्रतिप्रधानमावर्तन्त इत्युच्यते150, आवापधर्मित्वादित्ययमर्थः। आवाषानामाहवनीयानां प्रवरं प्रति धर्मित्वादित्यर्थः। एवं प्रवरानुक्रमणस्य प्रसङ्गमापाद्यानन्तरं प्रवरानुक्रमणमिति ‘जामदग्ना151 वत्साः’इत्येवमादिना ग्रन्थेन152। अतस्तत्तदनुक्रमणस्थेदंप्रयोजनं श्रुतावेतावन्मात्रमस्ति। कस्यांचिदेवं श्रूयते –‘आर्षेयं153 प्रवृणीते यथऋषि मन्त्रकृतो वृणीते न चतुरो वृणीते न पञ्चातिवृणीते’ इति। आर्षेयवरणस्य मन्त्रकृत्त्वंविशेषणत्वेन चोच्यते। अतो154 य आम्नाता155नामृषीणां मन्त्रकृत्त्वेनाऽऽम्नायन्ते तेषामेकादीनां यथेष्टसंख्याकानां वरणे प्राप्ते ‘न चतुरो वृणीते न पञ्चातिवृणीते’ इति चतुर्णामतिपञ्चानां च प्रतिषेध इति वाक्यत्रयमस्यां श्रुताविति वर्णयन्ति। अन्यस्यामन्यथा श्रूयते – ‘आर्षेयं156 प्रवृणीते एकं वृणीते द्वोवृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिवृणीते’ इति। अयमर्थः– त्रीन्वृणीत इत्येषएवात्र विधिः। इतरेषां कश्चिदवयुत्यानुवाद इति वर्णयन्ति। इमामेव श्रुतिमुपन्यस्य न्यायविद्भिरयपेवार्थो वर्णितः। अत्र्यार्षेयस्य157 हानं स्यादनधिकारादिति पूर्वोक्तश्रुत्यनुसारेण158ज्यार्पेयाणामप्यधिकारो159नास्तीति कल्पकाराणां सूत्रकाराणां च प्रवृत्तिरिति सैवानुसृताऽस्माभिः। तत्र य आत्मीया ऋपयस्तेषां ये मन्त्रकृतस्ते प्रोक्तसंख्या वरितव्या इत्येताकन्मात्रं श्रुतितोऽवगतं तत्रैत आत्मीया ऋषयस्तेषामेते मन्त्रकृत इति ज्ञाने160 श्रुतिस्मृतिरेवात्र शरणम्। तत्रैतावदेव लौकिकानां स्मरणं दृश्यते वयं वत्सा वयं विदा वयमायास्यावयं स्थीतरा वयं कण्वावयं गविष्ठिरा वयमार्ष्टिषेणा वयं कुण्डिना वयं गर्गा इति,नास्माकमेतेप्वेते मन्त्रकृत एतेऽमन्त्रकृत इति स्मरन्ति। अपि च व्द्यार्षेयास्त्र्यार्षेयाः पञ्चार्षेया इति च स्मरन्ति। अपि चास्माकमाङ्गरोमुख्यः प्रवरोऽष्टादंष्ट्रमुख्यो161 वेति वचनं स्मरन्ति। अथ चैतेषांज्ञानस्य स्मरणादन्यत्प्रमाणं नास्ति। आर्षेयवरणविध्यपेक्षितं चैतज्ज्ञानम्। एवं चेत्कल्पसूत्राणां वंशनामधेयभूनमित्रयुवादिविषया श्रुतिर्लोक उपजीव्या।उद्देशेनास्यैत एतावन्तोऽस्यैको द्वावस्य पञ्चास्य162 त्रयो वा पञ्च वाऽस्यैको वा त्रयो वापञ्च वेत, अस्यायं मुखतोऽयं163 वेत्येवमादि164परार्थ165विषयत्वादि166कल्पानां श्रुतिमागच्छन्तोऽयमपभ्रंशपरिहारार्यै स्वेस्वे कल्पेसूत्रे167 निबघ्नन्ति। प्रवरादि168स्वीयसंज्ञाया आपत्प्रवरानुक्रमस्यप्रयोजनमित्यवगन्तव्यम्।

इदानीं प्रवरा अनुक्रमिष्यन्ते -

विश्वास-प्रस्तुतिः

जामदग्न्या169 वत्सास्तेषां पञ्चार्षेयोभार्गवच्यावनाप्नवानौर्वजामदग्न्येति। अर्थ170हाजामदग्न्यानां भार्गवच्यावनाप्नवानेत्यार्टिषेणानांभार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति।

मूलम्

जामदग्न्या169 वत्सास्तेषां पञ्चार्षेयोभार्गवच्यावनाप्नवानौर्वजामदग्न्येति। अर्थ170हाजामदग्न्यानां भार्गवच्यावनाप्नवानेत्यार्टिषेणानांभार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति।

टीका

द्विविधा वत्सा जामदग्या अजामदग्न्याश्च। तत्र ये जामदग्या वत्सा वयमिति स्मरन्ति तेषां पञ्चार्षेयः प्रवरो भवति भार्गवच्यावनाप्नवानार्वजामदग्न्येति। अथ हाजामदग्न्यानां भार्गवच्यावनाप्नवानेति। ये तु वयमजामदग्न्या वत्सा इति तेषां प्रायःप्रवरो भवति भार्गवच्यावनाप्नवानेति। एतेषामजामदग्न्यत्वादौर्वजामदग्न्यशब्दौ न भवतः।अत एव तौ शब्दौ जामदग्न्यत्वप्रयुक्तौ। द्विप्रकाराणां वत्सानां परस्परमविवाहः171, व्यायसंनिपातात्। एतदुक्तं भगवता बौधायनेन ‘व्यायाणामविवाहः’इति। आर्ष्टिषेणेति।अयमपि पञ्चार्षेयप्रवरः।

विश्वास-प्रस्तुतिः

बिदानां भार्गवच्यावनाप्नवानौर्वबैदेति।

मूलम्

बिदानां भार्गवच्यावनाप्नवानौर्वबैदेति।

टीका

अयमपि पञ्चार्षेय एव। विदानामौर्वशब्दसमन्वयाज्जमदग्निगोत्रत्वमप्यस्ति। वत्सानां बिदानामार्ष्टिषेणानां च क्वचिदृषिसंनिपातात्क्वचित्सगोत्रत्वाच्च परस्परमविवाहः। सर्वेषु चसमानप्रवरत्वादविवाहः। सर्वत्र चैवं समानधर्मेषु।

विश्वास-प्रस्तुतिः

यस्कवाघौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति।

मूलम्

यस्कवाघौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति।

टीका

अयं गणस्त्र्यार्षेयः। यस्कादीनां दशानां परसरमविवाहः। प्रवरेषु क्वचिच्छास्त्रान्तरास्पदविपर्यासो वर्णावपर्यासो वा पदान्यत्वं वाऽस्ति न तेन प्रवरान्यत्वं भवतीत्यवगन्तव्यम्।

विश्वास-प्रस्तुतिः

श्यैतानां मार्गववैन्यपार्थेति।

मूलम्

श्यैतानां मार्गववैन्यपार्थेति।

टीका

त्र्यार्षेयोऽयम्।

विश्वास-प्रस्तुतिः

मित्रयुवां वाध्यश्वेति त्रिप्रवरंवा भार्गवदैवोदासवाव्यश्वेति।

मूलम्

मित्रयुवां वाध्यश्वेति त्रिप्रवरंवा भार्गवदैवोदासवाव्यश्वेति।

टीका

मित्रयुवामेकार्षेयोऽयं त्र्यार्षेयो वा प्रवरो भवति। अयं प्रवरविकल्पःसर्वेषां मित्रयुवां भेदेन स्मरणाभावात्। वत्सानां तु स्मरणादेव वत्समावस्तद्भेदात्तत्प्रवरस्य व्यवस्था युक्तान तु तद्विशेषणभेदेन प्रवरभेदग्रहणमिति। तदयुक्तम् \। अगृह्यमाणस्य भेदस्य सत्त्वेप्रमाणाभावात्। प्रवरभेदः प्रमाणमिति चेन्नैतत्साधकं प्रयोगविकल्पेनापि संभवात्। अतो भेदाग्र172हणाव्यवस्थायां प्रमाणं नास्तीति विकल्प एव प्रवरयोरित्यध्यवसितम्। एवमेक173त्र्यार्षेयपञ्चार्षेयविकल्प आद्यपदविकले वाऽन्यस्मिन्नप्येवंविध ऋषिभेदग्रहणे सति व्यवस्थाःनास्तीति निश्चीयते।

विश्वास-प्रस्तुतिः

शुनकानां गृत्समदेति त्रिप्रवरं वाभार्गवशौनहोत्रगार्ल्समदेति॥१०॥

मूलम्

शुनकानां गृत्समदेति त्रिप्रवरं वाभार्गवशौनहोत्रगार्ल्समदेति॥१०॥

टीका

एकार्षेयोऽयम्। एवं व्यायो वा शुनकानां प्रवरः॥१०॥

विश्वास-प्रस्तुतिः

गौतमानामाङ्गिरसायास्यगौतमेति। उचथ्यानामाङ्गिरसौचथ्यगौतमेति। रहूगणानामाङ्गिरसराहुगण्यगौतमेति
सोमराजकीनामाङ्गिरससौमराज्यगौतमेति। वामदेवानामाङ्गिरसवामदेव्यगौतमेति। बृहदुक्थानामाङ्गिरसचार्हदुक्थगौतमेति। पृषदश्वानामाङ्गिरसपार्षदश्ववैरूपेति।

मूलम्

गौतमानामाङ्गिरसायास्यगौतमेति। उचथ्यानामाङ्गिरसौचथ्यगौतमेति। रहूगणानामाङ्गिरसराहुगण्यगौतमेति
सोमराजकीनामाङ्गिरससौमराज्यगौतमेति। वामदेवानामाङ्गिरसवामदेव्यगौतमेति। बृहदुक्थानामाङ्गिरसचार्हदुक्थगौतमेति। पृषदश्वानामाङ्गिरसपार्षदश्ववैरूपेति।

टीका

अभी व्यार्षेया इत्यर्थः।

विश्वास-प्रस्तुतिः

अष्टादंष्ट्र हैके ब्रुवतेऽतीत्याङ्गिरसमष्टादंष्ट्रपार्षदश्ववैरुपेति।

मूलम्

अष्टादंष्ट्र हैके ब्रुवतेऽतीत्याङ्गिरसमष्टादंष्ट्रपार्षदश्ववैरुपेति।

टीका

आङ्गिरसाष्टादंष्ट्रयोर्विकल्पः। अतीत्य174तत्स्थान इत्यर्थः।

विश्वास-प्रस्तुतिः

ऋक्षाणामाङ्गिरसबार्हस्यत्यभारद्वाजवान्दनमातवचसेति।

मूलम्

ऋक्षाणामाङ्गिरसबार्हस्यत्यभारद्वाजवान्दनमातवचसेति।

टीका

अयं पञ्चार्षेयः प्रवरः।

विश्वास-प्रस्तुतिः

कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति।

मूलम्

कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति।

टीका

अयमपि पञ्चार्षेय एव।

विश्वास-प्रस्तुतिः

दीर्घतमसामाङ्गिरसौचथ्यदैर्घतमसेति।

मूलम्

दीर्घतमसामाङ्गिरसौचथ्यदैर्घतमसेति।

टीका

अयं व्यार्षेयः। अयास्योचथ्यरहूगणसोमराजकिवामदेवबृहदुक्थकक्षीवीर्घतमस इत्येते गौतमाः। उचथ्यशब्दसमन्वयादीर्घतमसां गौतमत्वमस्त्येव। गौतमानां सर्वेषामविवाहः।पृषदश्वा रथीतरा आङ्गिरसश्चेति च स्मरन्ति। एक्योनिर्ऋक्षाः पुनर्भरद्वाजाः।

विश्वास-प्रस्तुतिः

भरद्वाजाग्निवेश्यानामाङ्गिरसबार्हस्पत्यमारद्वाजेति॥११॥

मूलम्

भरद्वाजाग्निवेश्यानामाङ्गिरसबार्हस्पत्यमारद्वाजेति॥११॥

टीका

भरद्वाजानामग्निवेश्यानां चायं त्र्यार्षेयः प्रवरो भवति॥११॥

विश्वास-प्रस्तुतिः

मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति। तार्क्ष्यंहैकेब्रुवतेऽतीत्याङ्गिरसं तार्क्ष्यमार्म्याश्वमौद्गल्येति।

मूलम्

मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति। तार्क्ष्यंहैकेब्रुवतेऽतीत्याङ्गिरसं तार्क्ष्यमार्म्याश्वमौद्गल्येति।

टीका

अयं व्यायः, आङ्गिरसतार्क्ष्ययोर्विकल्पः।

विश्वास-प्रस्तुतिः

विष्णुवृद्धानामाङ्गिरसपौरुकुत्स्यत्रासदस्यवेति।गर्गाणामाङ्गिरसबार्हस्पत्यमारद्वाजगार्ग्यशैन्येति।आङ्गिरसशैन्यगायेति वा।

मूलम्

विष्णुवृद्धानामाङ्गिरसपौरुकुत्स्यत्रासदस्यवेति।गर्गाणामाङ्गिरसबार्हस्पत्यमारद्वाजगार्ग्यशैन्येति।आङ्गिरसशैन्यगायेति वा।

टीका

गर्गाणां पञ्चायस्यार्षेयो वा प्रवरोभवति। व्यवस्थया विकल्पो175 न वर्गभेदानवगमादित्युक्तम्। एते च भरद्वाजाः। अग्निवेश्यानां गर्गाणां च भरद्वाजत्वात्सर्वेषां च परस्परमविवाहः। मुद्गलविष्णुवृद्धाश्चैकपदा176दिनः।

विश्वास-प्रस्तुतिः

हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वेति।

मूलम्

हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वेति।

टीका

हरितकुत्सपिङ्गशङ्खदर्भभैमगवा इत्येतेषां षण्णामयं प्रवरो भवति।

विश्वास-प्रस्तुतिः

मन्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेति।

मूलम्

मन्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेति।

टीका

अयं वा हरितादीनां षण्णां प्रवरो भवति।

विश्वास-प्रस्तुतिः

संकृतिपूतिमाषर्तण्डिशमबुशैवगवानामाङ्गिरसगौरिवीत177सांकृत्येति।

मूलम्

संकृतिपूतिमाषर्तण्डिशमबुशैवगवानामाङ्गिरसगौरिवीत177सांकृत्येति।

टीका

संकृत्यादीनां पञ्चानामयं प्रवरो भवति।

विश्वास-प्रस्तुतिः

शाक्त्यो वा मूलं शाक्त्यगौरिवीत178सांकृत्येति॥१२॥

मूलम्

शाक्त्यो वा मूलं शाक्त्यगौरिवीत178सांकृत्येति॥१२॥

टीका

संकृत्यादीनामयं वा प्रवरो भवति। एते संकृत्यादयः प्रकरणादङ्गिरः शब्दसमन्वयाच्चाझिरसा इति प्रतीयन्ते। शक्तिगुरिवीतसमन्वयाद्वसिष्ठा इत्यपि प्रतीयन्ते। तथा क्वचिस्प्रवराम्नायेऽङ्गिरसां प्रकरणे179 संकृत्यादीनादिश्याङ्गिरोमुखमेव प्रवरं पठ्यमानं पश्यामः।तथा कस्मिंश्चित्प्रवराम्नाये वसिष्ठानां प्रकरण एतानेवोद्दिश्य शाक्त्यमुखं प्रवरं पठ्यमानंपश्यामः। एवं द्वाभ्यामपि संवन्धदर्शनादुभयोरन्यतरसंबन्धिन एवेत्यवगन्तुं न शक्यते।यद्येषां वंशभेदस्थितिरस्ति तदेम आङ्गिरसा इमे वासिष्ठा इत्यवगम्यते। तत्राऽऽङ्गिरसानामयं वासिष्ठानामयमिति निवेशे विकल्पाभावः। अतो वंशभेदभावादविकल्प एवं प्रवरयोः। ततः संकृत्यादीनां वसिष्टत्वाभावे प्रमाणाभावाद्वसिष्ठैरेषामविवाहः॥१२॥

विश्वास-प्रस्तुतिः

कण्वानामाङ्गिरसाजमीह्लकाण्वेति घोरमहैकेब्रुवतेऽवकृप्याजमीह्लमाङ्गिरसघौरकाण्वेति180

मूलम्

कण्वानामाङ्गिरसाजमीह्लकाण्वेति घोरमहैकेब्रुवतेऽवकृप्याजमीह्लमाङ्गिरसघौरकाण्वेति180

टीका

अवकृष्येति। अपोह्येत्यर्थः।

विश्वास-प्रस्तुतिः

कपीनामाङ्गिरसामहीयवोरुक्षयसेत्यथ यएते द्विप्रवाचना यथैतच्छौङ्गशैशिरयः।

मूलम्

कपीनामाङ्गिरसामहीयवोरुक्षयसेत्यथ यएते द्विप्रवाचना यथैतच्छौङ्गशैशिरयः।

टीका

अथेदानीमिदमुच्यते। य एते द्विप्रवचना181 ऋषिद्वयव्यपदेश्या यथैते शौङ्गशैशिरा182द्व्यामुष्यायणाः शोङ्गेयस्य क्षेत्रे शैशिरेयबीजोत्पन्नानां वंशाः, अन्येषां वा भिन्नार्षेयक्षेत्रजोत्पन्नानां वंशा इत्येवोदाहरणम्। शौङ्गशिरग्रहणं प्रदर्शनार्थम्। सर्वे183 ते भिन्नार्षेयाः।

विश्वास-प्रस्तुतिः

भरद्वाजाहशुङ्गाः कताः शैशिरयः।

मूलम्

भरद्वाजाहशुङ्गाः कताः शैशिरयः।

टीका

यस्माद्भरद्वाजाः शुङ्गास्तेषामयं प्रवरः। आङ्गिरसबार्हस्यत्यभारद्वाजेति। कताः शौशरयस्तेषां वैश्वामित्रकात्यात्कीलेति।

एवं स्थिते कथमेतेषामार्षेयप्रवरण184मितिप्रसङ्गमुक्त्वाऽऽह —

विश्वास-प्रस्तुतिः

तेषामुभयतः प्रवृणीतैकभितरतो द्वावितरतः185

मूलम्

तेषामुभयतः प्रवृणीतैकभितरतो द्वावितरतः185

टीका

त्र्यार्षेयवरणपक्ष एवं भवति।

विश्वास-प्रस्तुतिः

द्वौ वेतरतस्त्रीनितरतः।

मूलम्

द्वौ वेतरतस्त्रीनितरतः।

टीका

पञ्चार्षेयप्रवरणपक्षोऽयम्।

विश्वास-प्रस्तुतिः

न हि चतुर्णां प्रवरोऽस्ति।

मूलम्

न हि चतुर्णां प्रवरोऽस्ति।

टीका

अत उभयतो द्वौ द्वौ न ग्रहीतव्यौ। कुतः, चतुर्णांवरणनिषेधात्।

विश्वास-प्रस्तुतिः

न पञ्चानामतिप्रवरणम्।

मूलम्

न पञ्चानामतिप्रवरणम्।

टीका

अतिपञ्चानां प्रवरनिषेधात्186। तेन द्वयोरेका187र्षत्वेऽपि व्यायवरणमनुज्ञातमिति गम्यते।

विश्वास-प्रस्तुतिः

आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति॥ १३॥

मूलम्

आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति॥ १३॥

टीका

प्रदर्शनमात्रमेतत्। व्द्यामुण्यायणलक्षणमुच्यते -

अपुत्रेण परक्षेत्रे188 नियोगोत्पादितः189सुतः।
आवयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः॥

इति याज्ञवल्क्यवचनादेवप्रकारमेव व्यामुण्यायणत्वं नान्ययेति मन्तव्यम्। व्द्यामुण्यायणानां सर्वदा190 पक्षद्वयेऽप्यविवाहः। द्व्यामुष्यायणत्वाभावे वोर्ध्वे सप्तमात्पितृबन्धुभ्यो बीजिनश्चेत्यस्य वचनस्याविषयः॥ १३॥

विश्वास-प्रस्तुतिः

अत्रीणामात्रेयार्चनानसश्यावाश्वेति गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति।

मूलम्

अत्रीणामात्रेयार्चनानसश्यावाश्वेति गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति।

टीका

अत्र द्विविधा अत्रय उक्ता अन्यत्रान्ये च सन्ति। तेषां सर्वेषामन्त्रीणां परस्परमविवाहः। एवमुत्तरेष्वपि191 क्वचिद्रष्टव्यम्।

विश्वास-प्रस्तुतिः

चिकितगालवकालबवमनुतन्तुकुशिकानांवैश्वामित्रदेवरातौदलेति।

मूलम्

चिकितगालवकालबवमनुतन्तुकुशिकानांवैश्वामित्रदेवरातौदलेति।

टीका

चिकितानां गालवानां कालानां बवानां मनूनां192 तन्तूनां कुशिकानमित्येतेषां193 सप्तानामयं प्रवरो भवति।

विश्वास-प्रस्तुतिः

श्रौमतकामकामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति।

मूलम्

श्रौमतकामकामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति।

टीका

श्रौमतानां कामकायनानामयं प्रवरः।

विश्वास-प्रस्तुतिः

धनंजयानांवैश्वामित्रमाधुच्छन्दसधानंज194येति।अजानां वैश्वामित्रमाधुच्छन्दसाज्येतिरोहिणानांवैश्वामित्रमाधुच्छन्दसरौहिणेत्यष्टकानांवैश्वामित्रमाधुच्छन्दसाष्टकेत।

मूलम्

धनंजयानांवैश्वामित्रमाधुच्छन्दसधानंज194येति।अजानां वैश्वामित्रमाधुच्छन्दसाज्येतिरोहिणानांवैश्वामित्रमाधुच्छन्दसरौहिणेत्यष्टकानांवैश्वामित्रमाधुच्छन्दसाष्टकेत।

टीका

धनंजयाजरौहिणाष्टका वैश्वामित्रास्त्रिप्रवराः।

विश्वास-प्रस्तुतिः

पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति।

मूलम्

पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति।

टीका

पूरणानां वारिधापयन्तानामयं प्रवरः।

विश्वास-प्रस्तुतिः

कतानां वैश्वामित्रकात्यात्कीलेत्यघमर्षणानांवैश्वामित्राघमर्षणकौशिकेति रेणूनांवैश्वामित्रगाथिनरैणवेति वेणूनांवैश्वामित्रगाथिनवैणवेतिशालङ्कायनशालाक्षलोहिताक्षलोहितजनुनांवैश्वामित्रशालङ्कायनकौशिकेति।

मूलम्

कतानां वैश्वामित्रकात्यात्कीलेत्यघमर्षणानांवैश्वामित्राघमर्षणकौशिकेति रेणूनांवैश्वामित्रगाथिनरैणवेति वेणूनांवैश्वामित्रगाथिनवैणवेतिशालङ्कायनशालाक्षलोहिताक्षलोहितजनुनांवैश्वामित्रशालङ्कायनकौशिकेति।

टीका

शालङ्कायनानां शालाक्षाणां लोहिताक्षाणां लोहितजहूनामयं प्रवरः। चिकितादिलोहितमह्त्वन्तानां सर्वेषां विश्वामित्राणामविवाहः।

विश्वास-प्रस्तुतिः

कश्यपानां काश्यपावत्सारासितेति निध्रुवाणांकाश्यपावत्सारनैध्रुवेति रेभाणां काश्यपावत्साररैभ्येति शाण्डिलानांशाण्डिलासितदैवलेति। काश्यपासितदैवलेति वा॥१४॥

मूलम्

कश्यपानां काश्यपावत्सारासितेति निध्रुवाणांकाश्यपावत्सारनैध्रुवेति रेभाणां काश्यपावत्साररैभ्येति शाण्डिलानांशाण्डिलासितदैवलेति। काश्यपासितदैवलेति वा॥१४॥

टीका

एते कश्यपाः। एतेषां परस्परमविवाहः। शण्डिलानां195 काश्याशण्डिलयोर्विकल्पः॥१४॥

विश्वास-प्रस्तुतिः

वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः।

मूलम्

वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः।

टीका

उपमन्युपराशरकुण्डिनेभ्योऽन्ये वसिष्ठास्तेषामयं प्रवरः। उपमन्युपराशरकुण्डिनातिरिक्ता वासिष्ठा एकार्थेयाः परस्परमविवाह्याः।

विश्वास-प्रस्तुतिः

उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेतिपराशराणां वासिष्ठशाक्त्यपाराशर्येतिकुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति।

मूलम्

उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेतिपराशराणां वासिष्ठशाक्त्यपाराशर्येतिकुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति।

टीका

एतेषां सर्वेषामविवाहः।

विश्वास-प्रस्तुतिः

अगस्तीनामागस्त्यदार्ढच्युतेध्मवाहेतिसोमवाहो वोत्तम आगस्त्यदार्ढच्युतसोमवाहेति।

मूलम्

अगस्तीनामागस्त्यदार्ढच्युतेध्मवाहेतिसोमवाहो वोत्तम आगस्त्यदार्ढच्युतसोमवाहेति।

टीका

उत्तमपदविकल्पः।

विश्वास-प्रस्तुतिः

पुरोहितप्रवरो राज्ञाम्।

मूलम्

पुरोहितप्रवरो राज्ञाम्।

टीका

उत्तरविवक्षार्थमेतत्, पौरोहित्यानराजविशामिति सिद्धत्वात्।

विश्वास-प्रस्तुतिः

अथ यदि सार्ष्टंप्रवृणीरन्मानवैलपौरूरवसेति।

मूलम्

अथ यदि सार्ष्टंप्रवृणीरन्मानवैलपौरूरवसेति।

टीका

‘राजर्षीन्वा राज्ञाम्’ इत्युक्तं तस्य स्वरूपमेतेनोच्यते। यदि राज्ञां राजपींन्वृणीते196 तदेत्यर्थः। सृष्टौ भवं सार्ष्टेसमुत्पत्तिरित्यर्थः। तथा हि सर्वेषां राजन्यानामिलापुरूरवादयो वंशकरा197 इति स्मर्यन्ते तेषां वरणमित्यर्थः।

विश्वास-प्रस्तुतिः

इति सत्राणि।

मूलम्

इति सत्राणि।

टीका

इत्थं सत्राण्युक्तानीत्यर्थः। उक्तानुकीर्तनमुत्तरविवक्षार्थम्।

विश्वास-प्रस्तुतिः

तान्यदक्षिणानि।

मूलम्

तान्यदक्षिणानि।

टीका

तानि सत्राण्यदक्षिणानि भवन्ति। सत्राणीत्येतेनैव संनिहितत्वात्सत्राणामेवादक्षिणत्वे सिद्धे तानीति योगविभागार्थमुच्यते। तेनायमर्थः —संनिहितान्यसंनिहितानि च यानिसत्राणि भवन्ति तेषु सर्वेषु सत्रेषु यजमानर्विक्त्वाविशेषात्परिक्रयाभाव इति। अनेनसर्वेषां सत्राणां दक्षिणाभावोऽवधार्यते। यत्तु198 ‘कृष्णाजिनानि धून्वन्ते’ इति। तेन दक्षिणानयनमात्रापवादः।

विश्वास-प्रस्तुतिः

तेषामन्ते ज्योतिष्टोमः।

मूलम्

तेषामन्ते ज्योतिष्टोमः।

टीका

तेषां सत्राणामन्ते ज्योतिष्टोमः।

विश्वास-प्रस्तुतिः

पृष्ठ्यशमनीयः सहस्रदक्षिणः।

मूलम्

पृष्ठ्यशमनीयः सहस्रदक्षिणः।

टीका

पृष्ठ्यशमनीयसंज्ञकः सहस्र199दक्षिणः कर्तव्यः। अन्वर्थसंज्ञेयम्। सत्रेषु प्रयुज्यमानानां पृष्ठ्यानां दक्षिणाभावाद्दीप्य200मानानां यजमानानां निर्वपणं शमनं क्रियत इति। पृष्ठ्यशमनीयः, पृष्ठ्यानां शमनप्रयोजनोऽयं ऋतुरित्यर्थः। सत्रादुदवसायैषामन्यतमेन क्रतुनासर्वे सत्रिणः पृथक्पृथग्यजेरन्। स्वकीयैरेवर्त्विग्भिः201। सहस्रदक्षिणः। सत्रोदवसाननिमित्ताधिकारोऽयम्। एकाहो ज्योतिष्टोमो द्वादशशतदक्षिण इत्यस्य दक्षिणामात्रविधानम्। स एकोऽधिको202 यज्ञः स्वरूपतो ज्योतिष्टोम एव पृष्ठ्यशमनीयः कर्तव्य इति सिद्धम्।

विश्वास-प्रस्तुतिः

अन्यो वा प्रज्ञातदक्षिणः।

मूलम्

अन्यो वा प्रज्ञातदक्षिणः।

टीका

अन्यो वा ज्योतिष्टोमात्पृष्ठ्यशमनीयः कर्तव्यः। प्रज्ञातदक्षिण आम्नातदक्षिण इत्यर्थः।

विश्वास-प्रस्तुतिः

दक्षिणावता पृष्ठ्यानि203 शमयेरन्निति विज्ञायते।

मूलम्

दक्षिणावता पृष्ठ्यानि203 शमयेरन्निति विज्ञायते।

टीका

‘सत्रादुदवसाय दक्षिणावता204पृष्ठ्यशमनीयेन यजेरन्सत्रिणः’ इत्येवमेव श्रुतिः। सर्वेषां सत्रिणां ज्योतिष्टोमो वाऽन्यो वत्ययमुभयोर्द्रष्टव्यः। तत्रास्यां श्रुतावेतावानेवार्थःसहस्रदक्षिणः पृष्ठ्यशमनीयः कर्तव्य इति। नात्र क्रतुविशेषनिर्देशोऽस्ति। एवं स्थिते भगवानाचार्यो वैकृतेषु सर्वेषु विधिषु प्रकृते205र्बुद्धिस्थत्वात्तस्यामेव206 प्रकृष्टदक्षिणत्वं नाम गुणोविधातुं युक्त इत्यर्थः। तथा हि — ‘तेषामन्ते ज्योतिष्टोमः पृष्ठ्यशमनीयः सहस्रदक्षिणः’इति। ‘दश शतानि तत्सहस्रं तत्सर्वम्’ इत्यादिषु श्रुतिवाक्येषु सहस्रसंख्यायाः प्रकृष्टत्वदर्शनात्सहस्रदक्षिणत्वमेवोक्तवानाचार्यः। अन्ये पुनराचार्या दक्षिणावतेत्यनेन प्रकृष्टदक्षिणा प्रकृतेरेवात्र प्रतीयत इति सहस्त्रत्वमाहुः। अन्यो वा प्रज्ञातदक्षिण इति। एवमात्मीयं परकीयं च पक्षमुक्त्वा तयोर्मूलमिति207 प्रदर्शयितुं तां च श्रुतिं पठितवानाचार्यः’दक्षिणावता पृष्ठ्यानि शमयेरन्निति विज्ञायते’ इति।

एवमनयोः पक्षयोरित्येन श्रुतिर्मूलमित्युक्त्वा स्वपक्षत्वमेव द्रढयितुमाह-

विश्वास-प्रस्तुतिः

स एव हेतुः प्रकृतिभावे प्रकृतिभावे।

मूलम्

स एव हेतुः प्रकृतिभावे प्रकृतिभावे।

टीका

प्रकृष्टत्वं208 महत्वं209 पृष्ठ्यशमनीये हेतुरुक्तोदक्षिणावता पृष्ठ्यानि210 शमयेरन्निति स प्रकृ211तेर्ज्योतिष्टोमस्य212 पृष्ठ्यशमनीयभावत्वे213 हेतुः प्रकृष्टदक्षिणत्वोपाधिर्न214 ऋतुविशेषोऽन्वेषणीयस्तत्रानुवस्थादेः प्रसङ्ग इति स एव हेतुः प्रकृतिभाव इत्युक्तवानाचार्यः।

विश्वास-प्रस्तुतिः

नमो ब्रह्मणे नमो ब्रह्मणे नम आचार्येभ्यो नम आचार्येभ्यो नमः शौनकाय नमः शौनकाय॥१५॥

मूलम्

नमो ब्रह्मणे नमो ब्रह्मणे नम आचार्येभ्यो नम आचार्येभ्यो नमः शौनकाय नमः शौनकाय॥१५॥

टीका

इत्याश्वलायतश्रौतसूत्र उत्तरषट्के षष्ठोऽध्यायः॥ ६॥
——————

नमो ब्रह्मण इति। नमस्कृतवानाचार्यः। ब्रह्म नाम तदाविर्भावोपायश्च तत्रैवोक्तः215 श्रवणमनननिदिध्यासनवैराग्यलक्षणलक्ष्य इति श्रौतस्मार्तक्रिया प्रसिद्धा216। आत्मश्रवणादीन्येवंरूपाणि— तत्राहंरूपो यः सर्वेषां217 शंसनमभिनेदभावोऽहंरूपोद्भेदः218219 तह्रोधः सर्वदास्वस्थ एवावतिष्ठते। यदा वा पुनर्बोध्यसं220निधिस्तदाऽयं221 प्रोतकाष्ठयोरिव विवेका222दवगन्तुंशक्य एव। स एष आत्मशनोच्यते। अयमेवापहतपाप्मा विरजो विशोको विमृत्युर्विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो नित्यानन्दो नित्यतृप्त उच्यते। अन्यस्यानुपलम्मादन्यस्य चापहतपाप्मादिभिर्गुणैः किंचित्तादर्थ्यं रूपयित्वेममेव संसारिणमात्मानमभिमुखीकृत्य तत्त्वव्यपदेशाच्च। अतोऽयमेवाऽऽत्मा परं ब्रह्मेत्युच्यते। अनेन रूपेणास्थाऽऽत्मनः सर्वत्र रागद्वेषादयो223ः वैराग्यमेवोच्यते। एवमात्मश्रवणमनननिदिध्यासनवैराग्ययुक्तस्यैव श्रौतस्मार्तकर्माणि नित्यनैमित्तिकारव्यान्यनुतिष्ठतो224 दर्शनाच्छोधनवसंसारिताहेतुपुण्यपापपूर्वा225भ्यासमलाद्यपक्षये226 महता कालेनायमेवाऽऽत्मा सोऽहं ब्रह्मेत्यवगच्छति।अहमयमित्येवं ब्रह्मणे नमस्कृत्य स्वार्थे, संसारिणो ब्रह्मोपायो नान्यः। अयमेवाऽऽत्मपदार्थो नान्यू इत्येवाभिप्रायेणास्माभिः पुरस्तादुक्तम्। अत एव भगवान्सूत्रकारःश्रौतानि कर्मापयुक्त्वाऽन्ते ब्रह्मणे नमस्कारं कृतवान्। तेन भगवतोऽप्ययमेवाभिप्रायइति लक्ष्यते। एवं ब्रह्मणे नमस्कृत्याऽऽचार्येभ्यो नमस्कारं कृतवान्। योऽयमस्यशास्त्रार्थसंप्रदायाविच्छेद्यस्माभिरधिगतो227 न स्वमनी228पेक्षयति229 भगवता दर्शितस्तेनं, स्मरणेन नमः शौनकाय नमः शौनकायेति भगवानाचार्यः स्वाभिमतज्येष्ठं शौनकाचार्ये नमस्करोति।चतुर्द्विरुक्तिः शास्त्रसमाप्तिसूचनार्था॥ १५॥

इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायां द्वादशोऽध्यायः॥१२॥


  1. “घ. मत्रवि॰ । " ↩︎

  2. “घ. ङ. च. झ. मान्मासान्व । " ↩︎

  3. “च. त्यर्थः । उत्तम एव मासे व्युढो न॰ । ग. घ. ङ. झ. °त्यर्थः । न° । " ↩︎

  4. “च. ‘र्जनवच° 1 " ↩︎

  5. “क. घ. ङ. झ. ‘जिते’ इ ।” ↩︎

  6. “ब. ङ. च. झ. °स्य ये त्र’ । " ↩︎

  7. “क. ग. °न्ति । एवं कर्तव्यमित्यर्थः । उ॰।” ↩︎

  8. “च. °षड्व्यूह्लाःपृ°। " ↩︎

  9. “°त्र व्यूह्लौ ष° । " ↩︎

  10. “च. °प्लवविव भ° " ↩︎

  11. “च. °स्य समासता तदा ।” ↩︎

  12. “च. °नस्य । " ↩︎

  13. “क. ग. घ. ङ. झ. °व अ° । " ↩︎

  14. “च. °स्ते गावाः । " ↩︎

  15. “क. ग. घ. द. झ. ‘तिरिक्तावे° । " ↩︎

  16. “क. म. घ. ङ. झ, ‘ते - एतेषामेव हातिरात्रावित्यप । " ↩︎

  17. ““ति । मत्रा ।” ↩︎

  18. “च. °नि तानि त। " ↩︎

  19. “घ.° प्तः। सायमुप°। " ↩︎

  20. “झ. क्रम्यः सा° । ङ. °क्रम्य सा °।” ↩︎

  21. “च. ॰मास्याऽहः सं॰। " ↩︎

  22. " ङ. तथा ॥ " ↩︎

  23. “घ. च. कुर्यात्। अध्व्” ↩︎

  24. “च. नत्वग्नि°। " ↩︎

  25. “ङ. °न्तर्यस्य°। " ↩︎

  26. “च. सुत्यां च सुन्य औ’। " ↩︎

  27. " ग. °सयोगः । क. घ. झ. यागः स्व°। " ↩︎

  28. “च. °वः कर्मविशेषः अ°।” ↩︎

  29. “घ. स्वस्वप°। " ↩︎

  30. “ग. घ. ङ. च.इ,°शुभागः। " ↩︎

  31. “ङ. झ. °इन्द्रवज्रम°। " ↩︎

  32. " ग. ह. च. झ. °स्यपक°।.” ↩︎

  33. “च. °पशोः श्वः सुः° ॥” ↩︎

  34. “च. ‘मस्ति अनि । " ↩︎

  35. “च. “केऽर्ति° । " ↩︎

  36. “च. ॰गादिद’ । " ↩︎

  37. “च. त्यस्य वि । " ↩︎

  38. “च. °यनव । " ↩︎ ↩︎

  39. “६ च. न. इत्यक. । " ↩︎

  40. “घ. च. °भ्य. स°” ↩︎

  41. “१ °त्वेन। " ↩︎

  42. “२ च. तद्ध्यन। " ↩︎

  43. “३ च. दिती प्र°। " ↩︎

  44. “४ च. ‘घाते रू’। " ↩︎

  45. “५ च. °था पृ। " ↩︎

  46. “६ च. °र्थान्य°। " ↩︎

  47. “७ ङ. च. °याश° 1 " ↩︎

  48. “८ घ. ङ. च. °दिर्दृष्टः, य°। " ↩︎

  49. “ङ च गुणमे " ↩︎

  50. “च. ‘वात्सु’।” ↩︎

  51. “ग. घ. झं. ‘दिह मा। " ↩︎

  52. “क. म. घ. ङ, झ. °त्। प्र°। " ↩︎

  53. “क. य. माना.- अनवधृतेइकालसंशयत्वात्। अन। " ↩︎

  54. “क –त्र्यहे सुत्यां पञ्चाहे सुन्यामित्यादिसंख्याविशेषमनूञ्चार्यसुत्यामागच्छेत्येवमेवाह्नानंकार्यमित्यर्थः।” ↩︎

  55. “४ क. ग. ध. ङ. झ. °च्छोदति। " ↩︎

  56. “क. ग. घ. ङ. झ.°सदा क्र°। " ↩︎

  57. “च. °त्वादुप। " ↩︎

  58. “७ च. गादूर्द्धं या’। " ↩︎

  59. “८ च. ‘भावात्यागे। " ↩︎

  60. “९ क. ड.एवास्या” ↩︎

  61. “१ क. घ. ङ.. सत्कर्त। " ↩︎

  62. “ङ. च. झ. षीदृशी। " ↩︎ ↩︎

  63. “घ. ङ. च. झ. नी ईदृशी स्तोमे अ°। " ↩︎

  64. " च॰ म्। त्रिः सं°। " ↩︎ ↩︎

  65. “च. त्सरषट्त्रिंशसंवत्सरे अह°। " ↩︎

  66. “६ च, ॰ख्यानं दी।” ↩︎

  67. “च. ॰ब्रतत्वेऽपि। " ↩︎

  68. “क.ग. घ. ङ.. झ. ‘त्सरदी। " ↩︎

  69. “ग. स्त्रिंशन्य। च. स्त्रिंशिनस्ते। " ↩︎

  70. “क. ध. ङ. झं. ‘तिमुत°। " ↩︎

  71. “५ च. °त्तमैस्त्र। " ↩︎

  72. “ग. ङ. झ. एतत्कॢप्तेः । घ. च. एतत्कॢप्तः कॢ। " ↩︎

  73. “च. श्च षलहकल्पना भवतीति।” ↩︎

  74. “च. ‘जामयने अग्ने ।” ↩︎

  75. “ग. घ. ङ. च. झ. ‘णत्यानुक्त ।” ↩︎

  76. “च. स्तत्रैव दी°।” ↩︎

  77. “घ. ड. च. झ. °त्वा ते त° ।” ↩︎

  78. “च. योग्यः समो देशस्तत्रगच्छेयुरि ।” ↩︎

  79. “ग. घ. ङ. च. झ. °नि । ह ।” ↩︎ ↩︎

  80. “च. ॰था पु° ।” ↩︎

  81. “घ.ङ. झ. समे विहर्तुम° ।” ↩︎

  82. “ग. च. °कर्तुं श° ।” ↩︎

  83. “घ. ङ. च. झ. ‘पेक्ष्यते ।” ↩︎

  84. “२ च ‘र्म भवेत्तथा ।” ↩︎

  85. “ङ. मास्याङ्गमु ।” ↩︎

  86. " धनुश्चिह्नान्तर्गतो ग्रन्थाः घ. च. पुस्तकयोरेव वर्तते ।” ↩︎

  87. “ग. घ.झ. सदा द्वा।च, ‘सदोर्द्वाद’ । इ. ‘सद द्वा’ ।” ↩︎

  88. " क. ङ. तिविशे ।” ↩︎

  89. “६. वास्य वत्सा ।” ↩︎

  90. “क. ख. ग. ङ.. झ. स्यान्तो । च. °स्यान्तं व्र° ।” ↩︎

  91. “च. °स्वतान्तरं त°।” ↩︎

  92. “च. °त्रमे° ।” ↩︎

  93. “घ. ङ. झ. °णेष्ठि° ।” ↩︎

  94. “क. ग. घ. ङ. झ.°नुक्तेति ।” ↩︎

  95. “क. ङ.°नि विशे°।” ↩︎

  96. “च. °नादन्यत्प° ।” ↩︎

  97. “क. ङ. झ. °नारम्भ° ।” ↩︎

  98. “क. ख. °रभेते । च. रभते ।” ↩︎

  99. “च. सप्तदशाव° ।” ↩︎

  100. “घ. ङ. च. °कल्प्यते ।” ↩︎

  101. " क.ङ.°ज्ञानां ।” ↩︎

  102. “च. °सनं न कर्तव्यं यदि कर्तव्यं तदाऽऽच्छाद्यैव । स्त्र्य° ।” ↩︎

  103. “च. °रे वर्षावि॰ ।” ↩︎

  104. “ङ. झ. ॰रस्यावृ।” ↩︎

  105. “क. ॰विहाय॰ ।” ↩︎

  106. “च. ॰न्वन्तम् । दी॰।” ↩︎ ↩︎

  107. “च. घ. ङ. °त्वे क्योधिकानि॰ ।” ↩︎

  108. “च.॰द्वयोयपादि॰ ।” ↩︎

  109. " घ. च. ॰त्योपचा॰ ।” ↩︎

  110. “क. ख. ग. यद्वास॰ ।” ↩︎

  111. “ङ. झ. लभ्यन्ते ।” ↩︎

  112. “च. ॰त् । यद्वा सूत्रिण ए॰ ।” ↩︎ ↩︎

  113. “च. वा भ॰ ।” ↩︎

  114. " एतत्सूत्रस्य च. पुस्तक एवं व्याख्या - दीक्षासूपसत्सु चाऽऽग्रयणकाल आगते तत्तत्कालीनमन्नं तेषां व्रतदुध आदयित्वा न पयसा व्रतं कुर्युः। यत्र श्यामाकानाप्याग्रयणं न संभवतितत्रैवं कुर्युर्विरोधाभावात्। एतच्च क. पुस्तकेऽपि पाठान्तरतया संगृहीतम्।” ↩︎ ↩︎

  115. “च,। ताहेषु भ। " ↩︎

  116. “च. स्थानानां। " ↩︎

  117. “घ. ग. च. झ. ‘भागं च°। " ↩︎

  118. " च, व्याप्यत्वा। " ↩︎

  119. “च. सायं तस्य तत्र। " ↩︎

  120. “च च तत्र। " ↩︎

  121. “च. ॰न्यं तेषां व्रतानि।” ↩︎

  122. “च. ‘हितो ह° । " ↩︎

  123. “घ. ङ. झ. ‘शिरर्थं । " ↩︎

  124. “च, पयुञ्जी। " ↩︎

  125. “च. ‘नां वा ह’ । " ↩︎

  126. “च. °ति वक्त। " ↩︎

  127. “घ. ङ. च. झ. तेभ्यो । " ↩︎

  128. “च. ‘तौ क्लीबो प° । " ↩︎

  129. “च. °कृत इति । " ↩︎

  130. “च. “रू अनुबन्ध्यान’ । " ↩︎

  131. “च. °यणध° । " ↩︎

  132. “च. न वा ब्र° । " ↩︎

  133. “च. °पि यागे स” ↩︎

  134. “घ. ङ. च. झ. मीयस्य । अ । " ↩︎

  135. “च °व भा° " ↩︎

  136. “च. सहितं पार्श्वम् । द्वे ।” ↩︎

  137. “च. ‘तू । ब्राह्मणश्चेच्छमिता स्यात्तस्मै दद्यात् । य° । " ↩︎ ↩︎

  138. “चं. त् । ततं भागमन्यस्मैब्राह्मणाय द° । " ↩︎ ↩︎

  139. “च. षु चेव तत्स्वर्गे ।” ↩︎ ↩︎

  140. “च. °नि कथं भवे’ । " ↩︎

  141. “क.घ. ङ. झ. दावार्ष्टि । " ↩︎

  142. “क.घ. ङ. झ. °यो भार ।” ↩︎

  143. “क. ख. ग. ‘शब्दोऽपत्यादे’ । " ↩︎

  144. “ग. °त्येष्वाया ° " ↩︎

  145. “ग. च. °मभर’ । " ↩︎

  146. “क. च. मान्यंदृष्ट्वा मि° । " ↩︎

  147. “च. ॰ण इति प° । " ↩︎

  148. “घ.ङ. च. झ. ‘दार्थ इ’ । " ↩︎

  149. “घ. ङ. झ. रोवेन ।” ↩︎

  150. “ग॰ ग- ङ. झ. च्यन्ते, आ°। " ↩︎

  151. “क. ग. ङ. झ. दग्न्या व °। " ↩︎

  152. “च. ‘न। तत्त।” ↩︎

  153. “च. °र्षे. यान्त्रणीते अन्नातानृषीन्मन्त्र’। घ र्षेयं वृ’। " ↩︎

  154. “क. ग.घ. ङ. झ. अत आ°।” ↩︎

  155. “घ. आत्मीयाना। " ↩︎

  156. “ग.घ. च. ‘यं वृ° ।” ↩︎

  157. “ङ. च. अत्राऽऽर्षे।” ↩︎

  158. “घ. च. ° रेणात्र्या’। " ↩︎

  159. “च. ‘कादाहीनानां। घ. च. रोऽस्ति। " ↩︎

  160. “घ. च. °नेन श्रु’।” ↩︎

  161. “घ. च. °मुखो वे॰ । " ↩︎

  162. “च. °स्य त्रयोऽत्य त्र° । " ↩︎

  163. “च. °खतः पञ्चैवे । " ↩︎

  164. “क. °दिनवरार्षविषयप्रतिपादिकां श्रुतिमागच्छन्ती । इत पाठान्तरम् ।” ↩︎

  165. “५ च. पदार्थः । " ↩︎

  166. “क. ग. घ. ङ. झ. °दिकालानां । " ↩︎

  167. “ङ. च. झ. ‘त्रेग नि’ ।” ↩︎

  168. “क. ङ. झ. रासीय ।” ↩︎

  169. “घ. ङ. च. ज. झ. दग्ना व । " ↩︎ ↩︎

  170. “क. ग. ङ, ण. झ. °थ ह जा’ । " ↩︎ ↩︎

  171. “च. इः, त्र्यार्षे ।” ↩︎

  172. “च. ‘भेदग्र । " ↩︎

  173. “च. मेब त्र्या । " ↩︎

  174. “च. ‘त्य त्यक्त्वेत्थे ।” ↩︎

  175. “ङ. कल्पेन । " ↩︎

  176. “च. कपातिनः । " ↩︎

  177. “क. ङ. झ. ‘वीतिसां” ↩︎ ↩︎

  178. “क. ङ. झं. वीतिसा ।” ↩︎ ↩︎

  179. “च.प्रवाच° । ग. प्रवरव° ।” ↩︎

  180. “ङ. झ. °णप्र° । " ↩︎ ↩︎

  181. “च. र्वे हि ते । " ↩︎

  182. “च. शिरयो द्या । " ↩︎

  183. “घ. ड. चॅ. झ. ‘दाद । " ↩︎

  184. “घ. ड.च. झ. °तः। आर्षे” ↩︎

  185. “च. ‘रण एंव सं° । " ↩︎ ↩︎

  186. “घ. ङ. च. झ. ‘तू। तद्द्वयो। " ↩︎

  187. “च. ‘कार्षेयत्वे। " ↩︎

  188. “क.ग.घ. ङ. झ. °त्रेक्षेत्रिनि। " ↩︎

  189. “क. ग. घ. छ. झ. ‘तः सवर्णयोरुभयो। " ↩︎

  190. “च. सर्वेषां प°। " ↩︎

  191. “क. ङ. झ. °पिकश्चिद्र॰। " ↩︎

  192. “ग॰ घ, ङ. च. मनुत। " ↩︎

  193. “घ. ङ. च. ‘षां षण्णाम’। " ↩︎

  194. “ग. छ, ज, जय्येति।” ↩︎ ↩︎

  195. " ग. °हः। शाण्डि°” ↩︎

  196. “घ. ङ. च. झ. °णीत त° ।” ↩︎

  197. “घ. ङ. च. झ. शकारा ।” ↩︎

  198. “च. यत्र ।” ↩︎

  199. “च. सद° ।” ↩︎

  200. “च. °द्दीयना° ।” ↩︎

  201. “घ. ङ. च. ‘त्विंग्भिर्वाऽयं ऋतुः । स° ।” ↩︎

  202. “च. स को य° ।” ↩︎

  203. “क. ग. ङ. झ. पृष्ठानि ।” ↩︎ ↩︎

  204. “क. ग. °ता दक्षिणायुक्तेन । पृ° ।” ↩︎

  205. " च. ‘तेषु ब्रु’ । " ↩︎

  206. “च. ‘मेक प्रं° । " ↩︎

  207. “चं. ‘र्मूलं द° ।” ↩︎

  208. “घ. ङ. झ. ‘ष्टदक्षिणत्वं । " ↩︎

  209. “च. °त्त्वं च पृ° । " ↩︎

  210. “क. ग. पृष्ठानि । " ↩︎

  211. “घ. छ. झ. °कृतिज्योति° । च. °कृतिज्यों°” ↩︎

  212. “च. °ष्टोमः पृ° । " ↩︎

  213. “घ. ङ. झ. °वश्चदोषः । पृ° । च.°वश्चेद्दोषः । पृ° ।” ↩︎

  214. “ग. घ. ङ. च. झ. °धिना क्र° । " ↩︎

  215. “ङ. °क्तः श्रौतस्मार्तक्रियाश्र° । " ↩︎

  216. “च. सिद्धः । आ॰ । " ↩︎

  217. “ङ. ॰र्वेषाम° । " ↩︎

  218. “च. °हं भेदरूपो भेदः । " ↩︎

  219. “च. स तु बो°। ङ. सत्यवो°।” ↩︎

  220. “ङ. °ध्यबोध कसं°।” ↩︎

  221. “ग. घ. झ. °यं प्रात°। च. °यं वशका°। " ↩︎

  222. " क. ग. घ. च. झ. °वेकोऽव°।” ↩︎

  223. “घ. ङ. झ. °द्वेषेद° । च. °द्वेषादिभ्यो वै° ।” ↩︎

  224. “च. °ष्टत आदर्शशोध° ।” ↩︎

  225. “घ. ङ. झ. पूर्वाश्याथ ।” ↩︎

  226. “घ. ड. च. झ. °क्षम° ।” ↩︎

  227. “च. ॰गतेन ।” ↩︎

  228. “च.°नीषिके क्ष° ।” ↩︎

  229. “ग. षेयेति ।” ↩︎