विश्वास-प्रस्तुतिः
अथैतेषामहां योगविशेषान्वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति।
मूलम्
अथैतेषामहां योगविशेषान्वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति।
टीका
पञ्चविंशतिरहान्युक्तानि। एतेभ्य एवाहोभ्यो1 होनैकाहानित्यतिदेशप्रसङ्गात्ते2 होनैकाहा उक्ताः। अथेदानीं तेषां सात्रिकाणामह्नायोगविशेषान्संघातविशेषान्सत्रशब्दकच्यान्वक्ष्यामः। यथा यथा तान्यहानि व्यतिपक्तानि सत्राणि भूत्वा यस्मै यस्मै कामाय भवन्ति तथा तथा वक्ष्याम इत्यर्थः।
विश्वास-प्रस्तुतिः
अयमेवैकाहोऽतिरात्र आदौ प्रायणीयः।
मूलम्
अयमेवैकाहोऽतिरात्र आदौ प्रायणीयः।
टीका
अयमेवेति ज्योतिष्टोमो गृह्यते। एकाहग्रहणं संनिहिताश्वमेघस्या हो ग्रहणं मा भूदित्येवमर्थम्। एष3 सत्राणामादौ कर्तव्यः प्रायणीयसंज्ञश्च भवति।
विश्वास-प्रस्तुतिः
एषोऽन्त्य उदयनीयः।
मूलम्
एषोऽन्त्य उदयनीयः।
टीका
एष एवं सन्नाणामन्ते भवतीत्यर्थः। स उदयनीयसंज्ञो भवति।
विश्वास-प्रस्तुतिः
अव्यक्तो मध्ये।
मूलम्
अव्यक्तो मध्ये।
टीका
अव्यक्त इति। अविशेषित इत्यर्थः। सत्राणां मध्येऽविशेषितो4 योऽतिरात्रो विहितःस ज्योतिष्टोमोऽतिराञ्च इत्यवगन्तव्यः।
विश्वास-प्रस्तुतिः
अहीनेषु वैश्वानर एषएव।
मूलम्
अहीनेषु वैश्वानर एषएव।
टीका
अहीनेषु वैश्वानरशब्देन यो विहितः स च ज्योतिष्टोमोऽतिरात्र एवेत्यर्थः।
विश्वास-प्रस्तुतिः
तावन्तरेण व्यूह्लो दशरात्रः।
मूलम्
तावन्तरेण व्यूह्लो दशरात्रः।
टीका
तयोः प्रायणीयोदयनीययोरतिरात्रयोर्मध्ये व्यूढो दशरात्रो भवति।
विश्वास-प्रस्तुतिः
एषा प्रकृतिः सत्राणाम्।
मूलम्
एषा प्रकृतिः सत्राणाम्।
टीका
एवं रूपो द्वादशाहः सत्राणां प्रकृतिर्भवति5।
विश्वास-प्रस्तुतिः
तत्राऽऽवापस्थानम्।
मूलम्
तत्राऽऽवापस्थानम्।
टीका
अस्यां प्रकृतौ सिद्धायां त्रयोदशरात्रादिषु सत्रेप्वहरावापे कर्तव्ये सत्यावापस्थान मुच्यते।
विश्वास-प्रस्तुतिः
ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतम्।
मूलम्
ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतम्।
टीका
एकाहेन प्रयोजने साध्ये तस्याऽऽवापस्थानमिदम्। ऊर्ध्वं दशरात्रादुदयनीयात्प्राग्महा-व्रतमावप्तव्यम्। एकाहावापे साध्ये महाव्रतमेवाऽऽवप्तव्यम्। उदयनीयात्प्रागेवेत्युभयमंत्र नियम्यते।
विश्वास-प्रस्तुतिः
प्राग्दशरात्रादितरेषामह्नाम्।
मूलम्
प्राग्दशरात्रादितरेषामह्नाम्।
टीका
महाब्रतादितरेषां यहादीनामहामावापस्थानं प्राग्दशरात्रात्प्रायणीयादूर्ध्वं भवति।
विश्वास-प्रस्तुतिः
द्व्यहार्थे गोआयुषी व्यहार्थेत्रिकद्रुका अभिप्लवत्र्यहं पूर्वंत्रिकद्रुका इत्याचक्षते चतुरहार्थे त्रिकदुकामहाव्रतं च।
मूलम्
द्व्यहार्थे गोआयुषी व्यहार्थेत्रिकद्रुका अभिप्लवत्र्यहं पूर्वंत्रिकद्रुका इत्याचक्षते चतुरहार्थे त्रिकदुकामहाव्रतं च।
टीका
अत्रापि महाब्रतं दशरात्रादूर्ध्वमेव भवति, इतरेषामिति वचनात्।
विश्वास-प्रस्तुतिः
पञ्चाहार्थेऽभिप्लवञ्चाह उत्तमस्य तु षष्ठात्तृतीयसवनम्।
मूलम्
पञ्चाहार्थेऽभिप्लवञ्चाह उत्तमस्य तु षष्ठात्तृतीयसवनम्।
टीका
अभिप्लवपञ्चाहे यदुत्तममहः पञ्चमं तस्य स्वं तृतीय सवनमुत्सृज्याऽऽमिष्ठविकस्या षष्ठस्य यतृतीयसवनं तदत्र कर्तव्यम्।
विश्वास-प्रस्तुतिः
षलहार्थेऽभिप्लवः षलहः। एवंन्याया6 आवापाः।
मूलम्
षलहार्थेऽभिप्लवः षलहः। एवंन्याया6 आवापाः।
टीका
शास्त्रान्तरोक्ताहरन्तरावापेऽप्यावावस्यायमेव न्याय इत्यवगन्तव्यम्।
विश्वास-प्रस्तुतिः
षलहान्ताः पुनः पुनः।
मूलम्
षलहान्ताः पुनः पुनः।
टीका
एवमावापन्याये7 समाप्ते यावत्प्रयोजनं पुनः पुनरेकादयः षलहान्ता आवापाः कर्तव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
पूर्णः पूर्णश्च षलहस्तन्त्रतामेव गच्छति॥१॥
मूलम्
पूर्णः पूर्णश्च षलहस्तन्त्रतामेव गच्छति॥१॥
टीका
प्रकृतितां गच्छतीत्यर्थः॥१॥
विश्वास-प्रस्तुतिः
द्वौ त्रयोदशरात्री।
मूलम्
द्वौ त्रयोदशरात्री।
टीका
के ते योगविशेषाः8, उभ्यन्ते। अत्र व्यादयः संख्याः प्रदर्शनार्थाः। अन्येऽप्यसखाता बहवः सन्तीति।
विश्वास-प्रस्तुतिः
ऋद्धिकामानां प्रथमं पृष्ठ्यंछन्दोमांश्रान्तरा सर्वस्तोमोऽतिरात्रः।
मूलम्
ऋद्धिकामानां प्रथमं पृष्ठ्यंछन्दोमांश्रान्तरा सर्वस्तोमोऽतिरात्रः।
टीका
दशरात्रस्य यः पृष्ठयस्तस्मादूर्ध्वं छन्दोमेभ्यः पुरस्तात्सर्वस्त्रोमोऽतिरात्रो भवति। तेन तानि त्रयोदशाहानि भवन्ति।
विश्वास-प्रस्तुतिः
न्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयम्।
मूलम्
न्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयम्।
टीका
उपेयुरिति शेषः। पूर्वोक्तन्यायेन कॢप्तं महाव्रत9वन्तमित्यर्थः।
विश्वास-प्रस्तुतिः
त्रीणि चतुर्दशरात्राणि सार्वकामिकं प्रथमम्।
मूलम्
त्रीणि चतुर्दशरात्राणि सार्वकामिकं प्रथमम्।
टीका
सर्वे कामा अस्य प्रयोजनमिति सार्वकामिकम्।
विश्वास-प्रस्तुतिः
द्वौ पृष्ठ्यावावृत्त उत्तरः।
मूलम्
द्वौ पृष्ठ्यावावृत्त उत्तरः।
टीका
आवृत्तो विपर्यस्त इत्यर्थः। प्रायणीयोदयनीयाभ्यांः च सह चतुर्दशः संपद्यन्ते।
विश्वास-प्रस्तुतिः
तल्पे वोदके वा विवाहे वा मीमांस्यमानाः द्वितीयम्।
मूलम्
तल्पे वोदके वा विवाहे वा मीमांस्यमानाः द्वितीयम्।
टीका
तल्पः शयनम्, उदकमुद्कक्रियादि ज्ञातिकार्यं, विवाहो यौनादिसंबन्धः, एवमादिषु कार्येषु ये योग्या योग्यतया शक्यन्ते10 ते द्वितीयं चतुर्दशसत्रमुपेयुः।
विश्वास-प्रस्तुतिः
पृष्ठ्यमभितस्त्रिकद्रुकाः।
मूलम्
पृष्ठ्यमभितस्त्रिकद्रुकाः।
टीका
अंत्राऽऽवृत्त इत्यनुवर्तते। तेनोत्तरे त्रिकद्रुका आवृत्ता इति गम्यते। प्रायणीयोदयनीयाभ्यां11 चतुर्दशत्वम्।
विश्वास-प्रस्तुतिः
न्यायकॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयम्।
मूलम्
न्यायकॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयम्।
टीका
न्यायकॢप्तं द्व्यहोपजनमिति। दशरात्रात्पुरस्तादोआयुषी भवत इत्यर्थः।
विश्वास-प्रस्तुतिः
चत्वारि पञ्चदशरात्राणि देवत्वमीप्सतां प्रथमंप्रथमस्य चतुर्दशरात्रस्य पृष्ठयमध्ये महाव्रतम्।
मूलम्
चत्वारि पञ्चदशरात्राणि देवत्वमीप्सतां प्रथमंप्रथमस्य चतुर्दशरात्रस्य पृष्ठयमध्ये महाव्रतम्।
टीका
अत्राहःकल्पनं प्रथमं चतुर्दशरात्रे यान्यहानि तान्थेव, विशेषस्तु पृष्ठययोर्मध्ये महाव्रतमधिकं भवति।
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसकामा द्वितीयं द्वितीयस्यचतुर्दशरात्र स्थाग्निष्टुत्मायणीयादनन्तरः।
मूलम्
ब्रह्मवर्चसकामा द्वितीयं द्वितीयस्यचतुर्दशरात्र स्थाग्निष्टुत्मायणीयादनन्तरः।
टीका
द्वितीयस्य द्वितीयाहान्येव, विशेषश्चाग्निष्टुद्द्वितीयमहर्भवति।
विश्वास-प्रस्तुतिः
सात्राहीनिका उमौ लोकावाप्स्यतां तृतीयम्।
मूलम्
सात्राहीनिका उमौ लोकावाप्स्यतां तृतीयम्।
टीका
सत्रेण प्राप्यः सात्रः, अहीनप्राप्य आहे(ही)निकः। तावुभौ लोकौ प्राप्तुमिच्छतां तृतीयं पञ्चदशरात्रं भवति। उमयोर्लोकयोः सर्वान्कामानुपभुज्य ततो ब्रह्माण विलयंभिच्छतामित्यर्थः।
विश्वास-प्रस्तुतिः
तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयस्थाने न्यायकॢप्तरूपहोपजनः शेषः।
मूलम्
तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयस्थाने न्यायकॢप्तरूपहोपजनः शेषः।
टीका
तृतीयस्य चतुर्दशरात्रस्येत्येतावतः प्रयोजनं न विद्मः, अनिष्टप्रायणीयस्थाने न्याय क्लृप्तरुप होपजनः शेष इत्येतावतैवाहः क्लृप्तेः पर्याप्तस्वात्। अत्राहान्यनिष्टुत्रिकटुका दशरात्रोऽतिरात्र इति।
विश्वास-प्रस्तुतिः
न्यायकॢप्तं त्र्यहोपजनं प्रतिष्ठा कामाश्चतुर्थम्।
मूलम्
न्यायकॢप्तं त्र्यहोपजनं प्रतिष्ठा कामाश्चतुर्थम्।
टीका
प्रायणीयत्रिक12द्रुका दशरात्र उदयनीय इति।
विश्वास-प्रस्तुतिः
षलशरात्रं चतूरात्रोपजनमन्नाद्यकामाः।
मूलम्
षलशरात्रं चतूरात्रोपजनमन्नाद्यकामाः।
टीका
प्रायणीयस्त्रिकद्रुका दशरात्रोमहाव्रतमुदयनीय इति।
विश्वास-प्रस्तुतिः
सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः।
मूलम्
सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः।
टीका
अतिरात्रोऽभिप्लवपञ्चाहो दशरात्रोऽतिरात्र उत्तमस्य तु षष्ठात्तृतीयसवनमित्येवं पञ्चाहो भवति।
विश्वास-प्रस्तुतिः
अष्टादशरात्रमायुष्कामाः।
मूलम्
अष्टादशरात्रमायुष्कामाः।
टीका
अतोऽतिरात्रोऽभिष्लत्रः षडहो दशरात्रोऽतिरात्रः।
विश्वास-प्रस्तुतिः
षलहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः।
मूलम्
षलहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः।
टीका
अष्टादशरात्रं प्रकृतिं कृत्वोत्तरेष्वावापः कर्तव्य इत्यर्थः।
विश्वास-प्रस्तुतिः
एकान्न विंशतिरात्र मेकरात्रोपजनंग्राम्यानारण्यान्पशूनवरुरु13त्स्यमानाः।
मूलम्
एकान्न विंशतिरात्र मेकरात्रोपजनंग्राम्यानारण्यान्पशूनवरुरु13त्स्यमानाः।
टीका
ग्राम्यान्पशूनारण्यांश्च पशूनवरोद्धुमिच्छन्त इत्यर्थः।
विश्वास-प्रस्तुतिः
विंशतिरात्रं प्रतिष्ठाकामा अभिजिद्विश्वजितावभिनुवादूर्ध्वम्॥२॥
मूलम्
विंशतिरात्रं प्रतिष्ठाकामा अभिजिद्विश्वजितावभिनुवादूर्ध्वम्॥२॥
टीका
अभिजिद्वि14श्वजितावभिप्ठत्रादूर्ध्वमन्यस्मिन्नेव स्थानेऽभिजिद्वित्रजितौ गोआयुषोरपवादः, षडहादूर्ध्वभित्यत्र चचनात्। अवचने15 प्रायणीयादतिरात्रादूर्ध्वमावास्थानं भवति। प्राय-णीयोदयनीयौ तावत्सत्राणां प्रत्येकं तन्त्रीभूतौ नेतरेतरयुक्तौ। द्वादशाहाहीनयोर्दशरात्रः16 संघातरूपेणैव, तन्त्रीभूतौ नैकैकश्येन17। पडहानामपि तन्त्रीभावो18 दशरात्रेण सहैवेति कृत्वा प्रायणीयोदयनीययोरेवोर्ध्वमघस्ताच्चाऽऽवापस्थानमसति वचन इति सिद्धम्॥२॥
विश्वास-प्रस्तुतिः
द्वावेकविंशतिरात्री प्रतिष्ठा कामानां प्रथमंत्रयाणामभिलवानां प्रथमावन्तराईतिरात्रः।
मूलम्
द्वावेकविंशतिरात्री प्रतिष्ठा कामानां प्रथमंत्रयाणामभिलवानां प्रथमावन्तराईतिरात्रः।
टीका
प्रायणीयस्त्रयोऽभिप्लवाः पलहा उदयनीयः प्रथमयोः पलहयोर्मध्ये ज्योतिष्टोमोऽतिरात्र इत्येकविंशतिरहानि।
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसकामा द्वितीय नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ट्यांवावृत्त उत्तरः।
मूलम्
ब्रह्मवर्चसकामा द्वितीय नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ट्यांवावृत्त उत्तरः।
टीका
नवरात्रे यावभिजिद्विश्वजितौ तयोः स्थानें द्वौ पृष्ठ्यौ भवतः तयोरुत्तर आवृत्तो भवति। अतिरात्रः पृष्ठ्यः स्वरसामानो विषुवानांवृत्ताः स्वरसामान आंवृत्तः पृष्ठ्य उदयनीय इति।
विश्वास-प्रस्तुतिः
संवत्सरसंमिता इत्याचक्षते।
मूलम्
संवत्सरसंमिता इत्याचक्षते।
टीका
विषुवन्मध्यत्वादिना संवत्सरसाम्यादेता रात्रीः संवत्सरसंमिता इत्याचक्षते पूर्वे सर्वे याज्ञिकाः।
विश्वास-प्रस्तुतिः
द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः।
मूलम्
द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः।
टीका
प्रायणीयस्त्रिकद्रुका अभिप्लवो दशरात्रोमहाव्रतमुदयनीयः।
विश्वास-प्रस्तुतिः
त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः।
मूलम्
त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः।
टीका
प्रायणीयोऽभिप्लवपञ्चाहोऽभिप्लवो दशरात्र उदयनीयः।
विश्वास-प्रस्तुतिः
द्वौ चतुर्विंशतिरात्री प्रजातिकामाः पशुकामा वा प्रथमम्।
मूलम्
द्वौ चतुर्विंशतिरात्री प्रजातिकामाः पशुकामा वा प्रथमम्।
टीका
प्रायणीयो द्वावभिप्लवौ दशरात्र उदयनीयः।
विश्वास-प्रस्तुतिः
षलहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामःस्वर्गेलोके सत्स्यन्तो बध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयम्।
मूलम्
षलहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामःस्वर्गेलोके सत्स्यन्तो बध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयम्।
टीका
सत्त्यन्त इति सदेरिदं सन्नन्तस्य रूपम् \। स्वर्गे प्रतिष्ठातुमिच्छन्त इत्यर्थः। ब्रध्नस्यविष्टपं रोक्ष्यन्तः, आदित्यस्य मण्डलमारोदुमिच्छन्त इत्यर्थः। इदं वेदं वेच्छतां चतुर्विंशतिरात्रं द्वितीयं भवति, वाशब्दस्या- भावेऽपोष्यमाणभेदात्।
विश्वास-प्रस्तुतिः
पृष्ठ्यस्तोमस्त्रयस्त्रिंशोऽनिरुक्तो विशालःपृष्ठ्यस्तोमा एकविंशत्रिणवत्रयस्त्रिंशाःप्रतिलोमाःपूर्वस्मिंस्त्रहेऽनुलोमा उत्तरस्मिन्त्स विशालोऽपिवोत्तर एव त्र्यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः।

तस्येदमहःकल्पनम्। पृष्ठ्यस्तोमो नाम वैरूपादीनामभावे पृष्ठ्यस्तोम इत्युक्तः पृष्ठ्यविशेषः।त्रयस्त्रिंशोऽनिरुक्त इति। अनिरुक्त एकाहस्त्रयस्त्रिशस्तोमः कर्तव्य इत्यर्थः।विशालः पृष्ठ्य इति। पृष्ठ्य एव विशालगुणकः कर्तव्य इत्यर्थः। विशालस्वरूप प्रदर्शनार्थोऽयं ग्रन्थः – स्तोमा एकविंशत्रिणत्रत्रयस्त्रिंशा इत्यादिः स विशाल इत्येतत्पर्यन्तः।पृष्ठ्यस्योत्तरे व्यहे ये स्तोमा एकविंशत्रिणवत्रयस्त्रिंशास्ते पूर्वस्मिस्त्र्यहे प्रतिलोमाः कर्तव्यास्त्रयस्त्रिंशत्रिणवैकविंशा इति। त एवोत्तरे त्र्यहेऽनुलोमाः कर्तव्याः, एकविंशत्रिणवत्रयस्त्रिंशा इति। स पृष्ठ्य एवं कृते विशालो भवतीत्यर्थः। एवं वा विशालपृष्ठ्यस्योत्तरएव त्र्यहः प्रतिलोमश्चानुलोमश्च कर्तव्यः, न पूर्वस्त्र्यहः कर्तव्य इति। यः पुनरप्यनिरुक्त एकाहस्त्रयस्त्रिंशस्तोम एव \। पृष्ठ्यस्तोमश्चाऽऽवृत्तः पुनरपि कर्तव्यः।
विश्वास-प्रस्तुतिः
त्रिवृदनिरुक्तः।
मूलम्
त्रिवृदनिरुक्तः।
टीका
स एवानिरक्त एकाहः पुनस्त्रिवृत्स्तोमः कर्तव्यः।
विश्वास-प्रस्तुतिः
ज्योतिरुभयसामा।
मूलम्
ज्योतिरुभयसामा।
टीका
ज्योतिष्टोमोऽग्निष्टोम उभयसामेत्यर्थः। तत उदयनीयोऽतिरात्रः प्रायणीयः पृष्ठ्यस्तोमस्त्रय-स्त्रिंशोऽनिरुक्तो विशालः पृष्ठ्योऽनिरुक्तस्त्रयस्त्रिंश आवृत्तः पृष्ठ्यस्तोमन्त्रिवृनिरुक्तउभयसामा ज्योतिष्ठोमोऽग्निष्टोमोऽतिरात्र इति।
विश्वास-प्रस्तुतिः
संसदामयनमित्येतदाचक्षते। पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः। षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः। सप्तविंशतिरात्रं त्रिरात्रोपजनमुद्धिकामाः।अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः। एकान्नत्रिंशद्रात्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः। त्रिंशदात्रमन्नाद्यकामाः। षलहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः। एकत्रिंशदात्र- मेकरात्रोपजनमन्नाद्यकामाः। द्वात्रिंशद्वात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः॥३॥

त्रीणि त्रयस्त्रिंशद्रात्राणि प्रतिष्ठाकामानां प्रथमंत्रयाणामभिलवानामुपरिष्टादुपरिष्टादतिरात्रः।
ये त्रयोऽभीप्लवा(दशरात्रेण)सह तन्त्रीभूतःस्तेषामेकैकस्योपरिष्टात्प्रकृतोऽतिरात्रःकर्तव्यः।
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसकामा द्वितीयं चतुर्णां पञ्चरात्राणामावृत्तउत्तम उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः।
मूलम्
ब्रह्मवर्चसकामा द्वितीयं चतुर्णां पञ्चरात्राणामावृत्तउत्तम उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः।
टीका
षडहापवादः। पञ्चाहाश्चत्जारस्तेषां चतुर्थ आवृत्तः, अन्त्ययोर्मध्ये सर्वस्तोमोऽतिरात्रः प्रायणीयोदयनीयौ दशरात्रं19 चेति।
विश्वास-प्रस्तुतिः
उभौ लोकावाप्स्यतां तृतीयं षण्णांपञ्चरात्राणां मध्ये विश्वजितिरात्रः।
मूलम्
उभौ लोकावाप्स्यतां तृतीयं षण्णांपञ्चरात्राणां मध्ये विश्वजितिरात्रः।
टीका
न्यायापवादः। पञ्चाहाः षट् तेषां मध्ये विश्वजिदतिरात्रः।
विश्वास-प्रस्तुतिः
आवृत्तास्तूत्तरे त्रयः।
मूलम्
आवृत्तास्तूत्तरे त्रयः।
टीका
तेषां पञ्चरात्राणां20मुत्तरे त्रयः पञ्चाहा आवृत्ता भवेयुः प्रायणीयोदयनीयौ चेति।
विश्वास-प्रस्तुतिः
चतुस्त्रिंशद्रात्रं चतूरात्रोपजनमन्नाद्यकामाः।
मूलम्
चतुस्त्रिंशद्रात्रं चतूरात्रोपजनमन्नाद्यकामाः।
टीका
अतिरात्र स्त्रिकद्रुकास्त्रयोऽभिप्लवा दशरात्रो महाव्रतमतिरात्रः।
विश्वास-प्रस्तुतिः
पशुकामानामुत्तराणि चत्वारि।
मूलम्
पशुकामानामुत्तराणि चत्वारि।
टीका
उत्तराणि चत्वारि सत्राणि पशुकामानां भवन्ति। तेषामयमेव काम इत्थर्थः।
विश्वास-प्रस्तुतिः
पञ्चत्रिंशद्रात्रः पञ्चरात्रोपजनः।
मूलम्
पञ्चत्रिंशद्रात्रः पञ्चरात्रोपजनः।
टीका
अतिरात्रोऽभिप्लव21पञ्चाहस्त्रयोऽभिप्लवा दशरात्रोऽतिरात्रः।
विश्वास-प्रस्तुतिः
षट्त्रिंशद्रात्रे षलह उपजायते सतन्त्रस्योपजनंवक्ष्यामः सप्तत्रिंशद्रात्र एकरात्रोपजनः।
मूलम्
षट्त्रिंशद्रात्रे षलह उपजायते सतन्त्रस्योपजनंवक्ष्यामः सप्तत्रिंशद्रात्र एकरात्रोपजनः।
टीका
अतिरात्रश्चत्वारोऽभिप्लवादशरात्रो महाव्रतमतिरात्रः।
विश्वास-प्रस्तुतिः
अष्टात्रिंशद्रात्रो द्विरात्रोपजनः।
मूलम्
अष्टात्रिंशद्रात्रो द्विरात्रोपजनः।
टीका
एतावत्पशुकामानाम्।
विश्वास-प्रस्तुतिः
एकान्नचत्वारिंशद्रात्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः।चत्वारिंशद्रात्रं चतूरात्रोपजनं परमायां विराजिंप्रतितिष्ठन्तः। एकचत्वारिंशद्रात्रप्रभृतीन्युत्तराणिन्यायेनाष्टाचत्वारिंशद्रात्रात्। पञ्चाशद्रात्रप्रभृतीनि चाऽऽपष्टिरात्रात्।द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात्।

एतानि सूत्रत्रयोक्तानि न्यायकॢप्तान्येव।
विश्वास-प्रस्तुतिः
तत्रैकरात्रचतूरात्रोपजनानि व्रतवन्ति॥४॥
मूलम्
तत्रैकरात्रचतूरात्रोपजनानि व्रतवन्ति॥४॥
टीका
इदमपि न्यार्थप्राप्तमेव22 वचनम्। प्रयोजनं शास्त्रान्तरे महाव्रतापवाद उक्तस्तथाऽप्यस्माकं महाव्रतमेवेति प्रदर्शनार्थम्। एकान्नपञ्चाशद्रात्राण्येकषष्टिरात्रं च शतरात्रं च विशेषेणवक्ष्यति। शतरात्रपर्यन्ते न्यायकल्पनेनैव कल्पयितव्यम्॥४॥
विश्वास-प्रस्तुतिः
सप्तैकान्नपञ्चाशद्रात्राणि विपाप्मना कर्त्स्यन्तः प्रथमम्।
मूलम्
सप्तैकान्नपञ्चाशद्रात्राणि विपाप्मना कर्त्स्यन्तः प्रथमम्।
टीका
पाप्मना व्यावृत्तिमिच्छन्त इत्यर्थः।
विश्वास-प्रस्तुतिः
अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रोदशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रःपृष्ठ्योऽतिरात्रो द्वादशैकविंशान्यतिरात्रः।
मूलम्
अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रोदशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रःपृष्ठ्योऽतिरात्रो द्वादशैकविंशान्यतिरात्रः।
टीका
अतिरात्राः षट्23 प्राकृता24 एव, अन्यानि त्रिचत्वारिंशदहानि25।
तेष्वेकोऽग्निष्टोमसंस्थः26* एकः षोलशिसंस्थः, उक्थ्या इतर इति तदर्थमिदमाह–
विश्वास-प्रस्तुतिः
त्रिवृतां प्रथमोऽग्निष्टोमः षोलश्युत्तमःपञ्चदशानामुक्थ्या इतरे विधृतय इत्याचक्षते।
मूलम्
त्रिवृतां प्रथमोऽग्निष्टोमः षोलश्युत्तमःपञ्चदशानामुक्थ्या इतरे विधृतय इत्याचक्षते।
टीका
एता रात्रीर्विघृतय इत्याचक्षते वैदिकाः।
विश्वास-प्रस्तुतिः
यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः।
मूलम्
यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः।
टीका
यमातिरात्रं नामैकान्नपञ्चाशद्रात्रं तदुपेयुर्ये द्विगुणीकृतां27 यम(मा)मिव श्रियमिच्छन्ति।
विश्वास-प्रस्तुतिः
द्वाभिप्लवौ गोआयुषी अतिरात्रौद्वावाभिप्लवावभिजिद्विश्वजितावतिरात्रावेकोऽभिप्लवःसर्वस्तोमन- वसप्तदशावतिरात्रौ महाव्रतम्।
मूलम्
द्वाभिप्लवौ गोआयुषी अतिरात्रौद्वावाभिप्लवावभिजिद्विश्वजितावतिरात्रावेकोऽभिप्लवःसर्वस्तोमन- वसप्तदशावतिरात्रौ महाव्रतम्।
टीका
पञ्चाभिप्लवाः षलतिरात्रा उक्ताः, महाव्रतं च प्रायणीयो द्वावभिप्लवावतिरात्रावेकोऽभिप्लवो द्वावतिरात्रौ दशरात्रो महाव्रतमुदयनीय इति।
विश्वास-प्रस्तुतिः
स्वानां श्रैष्ठ्यकामास्तृतीयं चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः।
मूलम्
स्वानां श्रैष्ठ्यकामास्तृतीयं चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः।
टीका
पृष्ठ्यस्याऽऽदितश्चत्वार्यहानि गृहीत्वा तेषामेकैकं नवकृत्वः कर्तव्यम्। तानि षट्त्रिंशहानि भवन्ति।
विश्वास-प्रस्तुतिः
नववर्गाणां प्रथमपष्ठसप्तमोत्तमान्यहान्यग्निष्टोमा उक्थ्याइतरे॥
मूलम्
नववर्गाणां प्रथमपष्ठसप्तमोत्तमान्यहान्यग्निष्टोमा उक्थ्याइतरे॥
टीका
एकैकस्य नववर्गस्य प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमा अग्निष्टोमसंस्था इत्यर्थः।उक्थ्या इतरे पञ्च।
विश्वास-प्रस्तुतिः
महाव्रतम्।
मूलम्
महाव्रतम्।
टीका
महाब्रतं च भवति। प्रायणीयोदयनीयाभ्यां दशरात्रेण च पूर्यते !
विश्वास-प्रस्तुतिः
सवितुः ककुभ इत्याचक्षते॥५॥
मूलम्
सवितुः ककुभ इत्याचक्षते॥५॥
टीका
एता रात्रीः सवितुः ककुभ इत्याचक्षते॥५॥
विश्वास-प्रस्तुतिः
त्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः।
मूलम्
त्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः।
टीका
सप्तसु त्रयो गताः। चतुर्थपञ्चमषष्ठाना न्यायकॢप्ता अभिप्लवा वेदितव्याः। न्यायवचनं प्रायणीयोदयनीयदशरात्राणामबाघनार्थम्। अतः षडभिप्लवा आवप्तव्याः।
विश्वास-प्रस्तुतिः
प्रथमस्य तूर्ध्वं चतुर्थात्सर्वस्तोमोऽतिरात्रः।
मूलम्
प्रथमस्य तूर्ध्वं चतुर्थात्सर्वस्तोमोऽतिरात्रः।
टीका
प्रथमस्येति। त्रयाणां प्रथमस्येत्यर्थः। तस्य चतुर्थादभिप्लवादुर्ध्वंसर्वस्तोमोऽतिरात्रःकर्तव्यः। तेनाहःसंख्या पूर्यते। तुशब्दादयमत्र विशेष इति गम्यते।
विश्वास-प्रस्तुतिः
उपसत्सु गार्हपत्ये गुग्गुलुसुमन्धितेजनपैतुदारुभिःपृथक्सपींषि विपच्यानुसवनंसन्नेषु नाराशंसेप्वाञ्जीरन्नभ्यञ्जीरंश्च।
मूलम्
उपसत्सु गार्हपत्ये गुग्गुलुसुमन्धितेजनपैतुदारुभिःपृथक्सपींषि विपच्यानुसवनंसन्नेषु नाराशंसेप्वाञ्जीरन्नभ्यञ्जीरंश्च।
टीका
उपसत्काले यस्मिन्कस्मिंश्चिदहानि गार्हपत्ये गुग्गुलादिभिस्त्रिभिस्त्रीणि सपीण्येकैकेनैकैकंसर्पिः पृथक्पृथक्पाकं कृत्वा तदनुसवनं सन्नेषु नाराशंसेप्वान्जीरन्नम्यञ्जीरंश्च, गौग्गुलवेनप्रातःसवने सौगन्धिकेन माध्यंदिने सवने पैतुदारवेण तृतीयसवन इति।
विश्वास-प्रस्तुतिः
ये वर्चसा न मायुर्ये वाऽऽत्मानंनैव जानीरंस्त एता उपेयुः।
मूलम्
ये वर्चसा न मायुर्ये वाऽऽत्मानंनैव जानीरंस्त एता उपेयुः।
टीका
न मायुर्न दीप्येरन्नित्यर्थः। आत्मानं न जानीरन्कस्यान्वये वयमुत्पन्ना इति। तउमये एता रात्रीरुपेयुः।
विश्वास-प्रस्तुतिः
आञ्जनाभ्यञ्जनीया इत्याचक्षते।
मूलम्
आञ्जनाभ्यञ्जनीया इत्याचक्षते।
टीका
एतासामाञ्जनाम्यञ्जनीया इति संज्ञा।
विश्वास-प्रस्तुतिः
एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जम्।
मूलम्
एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जम्।
टीका
त्रयाणां प्रथममुच्यते प्रतिष्ठाकामानामाञ्जनाम्यञ्जने वर्जयित्वा। एता एवेतिवचनमहराहताकृतं28 नान्यत्।
विश्वास-प्रस्तुतिः
एतासामेव सर्वस्तोमस्थाने महाव्रतम्।
मूलम्
एतासामेव सर्वस्तोमस्थाने महाव्रतम्।
टीका
अयमेवात्र विशेषः29। ऊर्ध्वं चतुर्थादभिप्लवान्महाव्रतं भवति।
विश्वास-प्रस्तुतिः
ऐन्द्रमत्यन्याः प्रजा बुभूषन्तः।
मूलम्
ऐन्द्रमत्यन्याः प्रजा बुभूषन्तः।
टीका
उपेयुरिति शेषः।
विश्वास-प्रस्तुतिः
एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतम्।
मूलम्
एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतम्।
टीका
यथास्थानमिति। दशरात्रादूर्ध्वमित्यर्थः।
विश्वास-प्रस्तुतिः
संवत्सरकामानाप्स्यन्त उत्तमम्।
मूलम्
संवत्सरकामानाप्स्यन्त उत्तमम्।
टीका
इदानीं सप्तममुच्यते। संवत्सरकामा गवामयनकामा इत्यर्थः।
विश्वास-प्रस्तुतिः
अतिरात्रश्चतुर्विशं त्रयोऽभिप्लवा नवरात्रोऽभिप्लवाैगोआयुषी दशरात्रो व्रतमतिरात्रः सर्वंप्रत्यक्षोक्तम्। संवत्सरसंमिता इत्याचक्षते।
मूलम्
अतिरात्रश्चतुर्विशं त्रयोऽभिप्लवा नवरात्रोऽभिप्लवाैगोआयुषी दशरात्रो व्रतमतिरात्रः सर्वंप्रत्यक्षोक्तम्। संवत्सरसंमिता इत्याचक्षते।
टीका
विषुवन्मध्यत्वादिना संज्ञाप्रवृत्तिः।
विश्वास-प्रस्तुतिः
एकषष्टिरात्रं प्रतिष्ठाकामा एतासामेव पृष्ठ्यावभितो नवरात्रम्।
मूलम्
एकषष्टिरात्रं प्रतिष्ठाकामा एतासामेव पृष्ठ्यावभितो नवरात्रम्।
टीका
अनन्तरोक्तो यो नवरात्रस्तममितः पृष्ठ्यौ कर्तव्यौ।
विश्वास-प्रस्तुतिः
तयोरावृत्त उत्तरः।
मूलम्
तयोरावृत्त उत्तरः।
टीका
तयोरुत्तर आवृत्तो भवति।
विश्वास-प्रस्तुतिः
शतरात्रमायुष्कामाश्चतुर्दशाभिप्लवाश्चतुरहोपजनाः।
मूलम्
शतरात्रमायुष्कामाश्चतुर्दशाभिप्लवाश्चतुरहोपजनाः।
टीका
प्रायणीयस्त्रिकद्रुकाश्चतुर्दशाभिप्लवा दशरात्रो महाव्रतमुदयनीय इति।
विश्वास-प्रस्तुतिः
इति रात्रिसत्राणि॥६॥
मूलम्
इति रात्रिसत्राणि॥६॥
टीका
एवंप्रकाराणि रात्रिसत्राणि समाम्नातान्यसमाम्नातानि च बहूनि सन्तीत्यर्थः॥६॥
विश्वास-प्रस्तुतिः
अथ गवामयनं सर्वकामाः।
मूलम्
अथ गवामयनं सर्वकामाः।
टीका
अथशब्दः प्रकरणविच्छेदार्थः। रात्रिसत्राण्युक्तानि। अथेदानीं सांवत्सरिकाणांप्रकृतिभूतं गवामयनमुच्यत इति। सर्वे कामा येषां ते सर्वकामाः, ते गवामयनमुपेयुः।
विश्वास-प्रस्तुतिः
प्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवापृष्ठ्यपञ्चमान्पञ्च मासानुपयन्ति।
मूलम्
प्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवापृष्ठ्यपञ्चमान्पञ्च मासानुपयन्ति।
टीका
उपत्येतिवचनं प्रायणीयचतुर्विंशयोः प्रथम एव मासे प्रयोगसिद्धर्थम्। इतरथाऽऽद्याभ्यां पूर्यतेऽहोभ्यामिति षष्ठस्याऽऽद्याभ्यां पूरणवचनात्षष्ठ एवानयोः प्रयोगः स्यात्,तन्मासावयवता च स्यात्। तथा सति दृतिदातवतोरयने प्रायणीयचतुर्विंशयोस्त्रयस्त्रिंशस्तोमता30 स्यात् तच्चानिष्टमत उपेत्येतिवचनम्। तेन प्रथम एवमास आदित एव प्रयोक्तव्ये प्रथमावयवत्वाय। अतो इतिवातवतोरयने त्रिवृत्स्तोमता तयोः सिद्धा भवति।
विश्वास-प्रस्तुतिः
अथ षष्ठं संभरन्ति।
मूलम्
अथ षष्ठं संभरन्ति।
टीका
चतुभिरभिप्लवैः पृष्ट्येन चैकेन पञ्च मासान्कृत्वाऽनन्तरं षष्ठं मासं संभरन्ति नानाहोभिः।
विश्वास-प्रस्तुतिः
त्रीनभिप्लवान्पृष्ठ्यमभिजितं स्वरसाम्न इति।
मूलम्
त्रीनभिप्लवान्पृष्ठ्यमभिजितं स्वरसाम्न इति।
टीका
अतोऽष्टाविंशतिरहानि भवन्ति।
विश्वास-प्रस्तुतिः
आद्याभ्यां पूर्यतेऽहोभ्याम्।
मूलम्
आद्याभ्यां पूर्यतेऽहोभ्याम्।
टीका
एतदुक्तं भवति - आद्याभ्यां प्रथमान्मासादुत्कृष्य निर्णयः। त्रिनवत्रयस्त्रिंशे31 द्वे अहनी द्वितीयं मासे प्राप्ततः, ताभ्यां ततो द्वे ताभ्यां ततो द्वे ताभ्यां ततो द्वे इत्येवंपरम्परया षष्ठं मासं प्राप्नुतः। एवं ताभ्यां तस्य पूरणमिति।
विश्वास-प्रस्तुतिः
इति नु पूर्वं पक्षः।
मूलम्
इति नु पूर्वं पक्षः।
टीका
अयं पक्षःशब्दः सकारान्तो नपुंसकलिङ्गः। पक्ष इव पक्षः। यथा शालायां द्वे पक्षसी एवं गवामयनस्य पक्षसी, यथा शालायां मध्यमो वंश एवमस्य विषुवनितिश्रूयते।
विश्वास-प्रस्तुतिः
अथ विषुवानेकविंशः।
मूलम्
अथ विषुवानेकविंशः।
टीका
एकविंशस्तोम इत्यर्थः।
विश्वास-प्रस्तुतिः
न पूर्वस्य पक्षसो नोत्तरस्य।
मूलम्
न पूर्वस्य पक्षसो नोत्तरस्य।
टीका
सोऽयं विषुबान्न पूर्वस्य पक्षसोऽहरिति गण्यते नोत्तरस्यापीत्यर्थः।
विश्वास-प्रस्तुतिः
अथोत्तरं पक्षः।
मूलम्
अथोत्तरं पक्षः।
टीका
वक्ष्यत इति शेषः। इदमपि सूत्रमत्रास्ति तच्च पठितव्यम्।
विश्वास-प्रस्तुतिः
आवृत्ताः स्वरसामानः षलहाश्चोत्तरस्य पक्षसः।
मूलम्
आवृत्ताः स्वरसामानः षलहाश्चोत्तरस्य पक्षसः।
टीका
आवृत्तिरत्रैवं भवति। स्वरसामसूत्तमादि प्रथमान्तं32 षडहेषु पृष्ठ्यादिरभिप्लवान्त33 अहरावृत्तिरपि भवति। षष्ठादिप्रथमान्ताहरावृत्तिः। समुच्चयार्थश्च शब्दः।
विश्वास-प्रस्तुतिः
स्वरसानो विश्वजितं पृष्ठं त्रीनभिप्लवानिति सप्तमं34 द्विरात्रोनं कृत्वाऽथ पृढचमुखांश्चतुरभिप्लवांश्चतुरो मासानुपयन्ति।
मूलम्
स्वरसानो विश्वजितं पृष्ठं त्रीनभिप्लवानिति सप्तमं34 द्विरात्रोनं कृत्वाऽथ पृढचमुखांश्चतुरभिप्लवांश्चतुरो मासानुपयन्ति।
टीका
सप्तमस्य द्विरात्रोनत्वे सिद्धे द्विरात्रोनत्ववचनमष्टमादिषु पञ्चसु मासेषु ये35 अन्त्ये द्वे अहनी ते पूर्वस्य36पूरणत्वमपि कुरुत इत्येतस्य सिध्द्यर्थम्।
विश्वास-प्रस्तुतिः
अथोत्तमं संभरन्ति त्रीनभिप्लवान्गो आयुषीदशरात्रं व्रतोदयनीयाभ्यां सप्तमः पूर्यते।
मूलम्
अथोत्तमं संभरन्ति त्रीनभिप्लवान्गो आयुषीदशरात्रं व्रतोदयनीयाभ्यां सप्तमः पूर्यते।
टीका
वीचीतरङ्गन्यायेनेत्युक्तम्। अतो व्रतोदयनीये उत्तमाङ्गमेवेति सिद्धम्।
विश्वास-प्रस्तुतिः
इति न्वेकसंभार्यमुत्तरं पक्षः।
मूलम्
इति न्वेकसंभार्यमुत्तरं पक्षः।
टीका
एको मासो यस्मिन्यक्षसि संभार्यते तदेकसंमार्य पक्षः। नुशब्दः सर्वत्रोत्तरविवक्षार्थः।
विश्वास-प्रस्तुतिः
अथ द्विसंभार्यम्।
मूलम्
अथ द्विसंभार्यम्।
टीका
अथ हिसंमार्य पक्ष उच्यते37।
विश्वास-प्रस्तुतिः
व्रतोदयनीये एवोत्तमस्य गोआयुषी सप्तमस्य।
मूलम्
व्रतोदयनीये एवोत्तमस्य गोआयुषी सप्तमस्य।
टीका
व्रतोदयनीये उत्तमस्यान्ते भवत इति सिद्धमेतत् तस्य वचनमुत्तरविवक्षार्थं गोआयुषोः सप्तमसंबन्धविधानार्थम्। ते च गोआयुषी सप्तमस्थान्त एव भवतः। तस्य द्विरात्रोनत्वाद्व्रत संबन्धाद्गो आयुषोः संबन्धाच संभार्यत्वं द्वयोर्मासयोः।
विश्वास-प्रस्तुतिः
गोआयुषी वा विहरेयुः।
मूलम्
गोआयुषी वा विहरेयुः।
टीका
एवं वा द्विसंमार्यमुत्तरं पक्षः। गोआयुषोविंहारेण द्वयोर्मासयोविहारपक्षे तयोः स्थानमाह।
विश्वास-प्रस्तुतिः
गां विश्वजितोऽनन्तरम्।
मूलम्
गां विश्वजितोऽनन्तरम्।
टीका
सप्तमे मासे विश्वजितोऽनन्तरं गामुपेयुः।
विश्वास-प्रस्तुतिः
आयुषं पूर्वं दशरात्रात्।
मूलम्
आयुषं पूर्वं दशरात्रात्।
टीका
उत्तमे मासे दशरात्रात्पूर्वमायुषमुपेयुः।
विश्वास-प्रस्तुतिः
अपि वोर्ध्वं विश्वजितः सप्तमं सवनमासंकृत्वोद्धरेयुर्गोआयुषी दशरात्रं च।
मूलम्
अपि वोर्ध्वं विश्वजितः सप्तमं सवनमासंकृत्वोद्धरेयुर्गोआयुषी दशरात्रं च।
टीका
अथ वाऽयमन्यः प्रकारः – उत्तरस्य पक्षसः स्वरसामविश्वजित उपेत्य38 तत ऊर्ध्वं सप्तममपि सवनमासमुपेयुः। पृष्ठ्याभिप्लवाहोभिः कृतो मासः सवनमास इत्युच्यते।विश्वजित ऊर्ध्वे सप्तममपि मासं पृष्ठ्यमुखैश्चतुर्भिरभिप्लवेःकुर्वन्तीत्यर्थः। पूर्वमेवाष्टमादयश्चत्वारो मासाः षडहैरेव सिद्धा आसते। एवं स्थिते सप्तमे मासे चत्वार्यहान्यतिरिक्तानि,तानि वीचीतरङ्गन्यायेनोत्तमं मासं गमयितव्यानि। तेष्वागतेषूत्तममासे षडहान्यतिरिच्यन्ते। तत्र गोआयुषी39 दशरात्रं चोद्धरेयुः। एवमयं मासः षलहोनो भवति। तत्रषलहार्थेऽभिप्लवः षलह इत्यावारे कृते पूर्णो भवति।
विश्वास-प्रस्तुतिः
अपि वोत्तरस्य पक्षसोऽहान्थेवाऽऽवर्तेरन्ननुलोमाःषलहाः स्युः षलहा वाऽऽवर्तेरन्ननुलोमान्यहानि।
मूलम्
अपि वोत्तरस्य पक्षसोऽहान्थेवाऽऽवर्तेरन्ननुलोमाःषलहाः स्युः षलहा वाऽऽवर्तेरन्ननुलोमान्यहानि।
टीका
‘आवृत्ताः स्वरसामानः’ इत्यस्मिन्सूत्र उभयावृत्तिरुक्ता। इदानीं षलहावृत्तिर्वाऽहरावृत्तिर्व40ऽहरावृत्तिर्वेति विकल्प उच्यते। तेनोमयावृत्तिः पूर्वोत्तेति।
विश्वास-प्रस्तुतिः
इति गवामयनम्।
मूलम्
इति गवामयनम्।
टीका
एवंप्रकारं गवामयनं भवत्यस्माकम्। अन्येषामन्येऽपि प्रकाराः सन्ति।
विश्वास-प्रस्तुतिः
सर्वे वा षलहा अभिप्लवाः स्युरभिलवाः स्युः॥ ७॥
मूलम्
सर्वे वा षलहा अभिप्लवाः स्युरभिलवाः स्युः॥ ७॥
टीका
इत्याश्वलायनश्रौतसूत्र उत्तरषट्के पञ्चमोऽध्यायः॥ ५॥
———
येऽत्र41षलहाः सर्वे तेऽभिप्लवा एव भवन्ति न पृष्ठ्या इत्यर्थः। सर्वग्रहणं42 सर्वपक्षस्यापि प्रापणार्थम्॥७॥
इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायामेकादशोऽध्यायः॥ ११॥
———
अथ षष्ठोऽध्यायः।
———————
-
“च. ‘भ्योऽही । " ↩︎
-
“च. ‘ज्ञेऽही° ।” ↩︎
-
“क. ग. ङ. झ. एषां स° । " ↩︎
-
" च. °ध्ये चार्वागवि । " ↩︎
-
“ङ. ति । सत्रा” ↩︎
-
“क. ङ. झ. ‘मापापः । " ↩︎
-
“ष. विभागाः उ ।” ↩︎
-
“ग. वतमि । " ↩︎
-
“क.ग. घ. ङ. झ. °न्ते तदद्विती ।” ↩︎
-
“घ. भ्यां च च । " ↩︎
-
“च. ‘यस्त्रिक° ।” ↩︎
-
“च. अस्मिन्ने । " ↩︎
-
“च. असति व । " ↩︎
-
“घ. च.रात्रसं ।” ↩︎
-
“चं. ‘कशो न ष’ । " ↩︎
-
“च. भावे द.।” ↩︎
-
“च. °रात्रश्चेति ।” ↩︎
-
“च. पञ्चाहानामु° ।” ↩︎
-
“च. °प्लवं प°।” ↩︎
-
“ग. घ. ङ. झ. °यक्ऌप्त° ।” ↩︎
-
“च. षट्त्रिंशत्प्राकृ° ।” ↩︎
-
“ग. घ. ङ. झ. तान्येव ।” ↩︎
-
“क.ग.ङ. झ. °नि केष्वे” ।” ↩︎
-
“क. – ‘तेषु कोऽग्निष्टोमसंस्थः कः षोलाशिसंस्थः क उक्थ्या इति’ इत्येवं पाठान्तरम्।” ↩︎
-
“ग. घ. ङ. झ.॰णीभूतां श्रि॰ ।” ↩︎
-
“ग. घ. ङ.. झ. °हरहरनाकृ° ।” ↩︎
-
“च. °षः । अत ऊ° ।” ↩︎
-
“च. ‘शत्स्तोम ।” ↩︎
-
“ग. च. त्रिणव ।” ↩︎
-
“च. ॰थममन्त्यं ष’ । " ↩︎
-
“घ. च. ‘वान्तेष्वह । " ↩︎
-
“ग. घ. ङ. च. झ. ये आद्ये द्वे॰ । " ↩︎
-
“घ ङ. झ. °स्य सर्वस्य पू° । " ↩︎
-
“च. ते प्रथमस्य ।” ↩︎
-
“ग. ‘पेत्यात ऊ’ । क. ङ. झ. ‘पेत्य त ऊ । " ↩︎
-
“च. षी षडहं चो° । " ↩︎
-
“च.°त्तिर्वोभयावृ॰ । " ↩︎
-
“क. ग. ङ. झ. यत्र। " ↩︎
-
“च. °णं पूर्व’ ।” ↩︎