विश्वास-प्रस्तुतिः
अथ दशमोऽध्यायः।
मूलम्
अथ दशमोऽध्यायः।
विश्वास-प्रस्तुतिः
————
मूलम्
————
विश्वास-प्रस्तुतिः
ज्योतिर्ऋद्धिकामस्य।
मूलम्
ज्योतिर्ऋद्धिकामस्य।
टीका
ऋद्धिर्नाम पुत्रपश्चन्नादिभिर्वृद्धिः, तत्कामस्य ज्योतिर्नामैकाहो विधीयते।
विश्वास-प्रस्तुतिः
नवसप्तदशः प्रजातिकामस्य।
मूलम्
नवसप्तदशः प्रजातिकामस्य।
टीका
नवसप्तदशो नामैकाहस्तेन प्रजातिकामो यजेत। प्रजातिकामः1 प्रजातिं कामयमानः।
विश्वास-प्रस्तुतिः
विषुवत्स्तोमो भ्रातृव्यवतः।
मूलम्
विषुवत्स्तोमो भ्रातृव्यवतः।
टीका
विषुवत्स्तोम एकाहः।
विश्वास-प्रस्तुतिः
गौरमिजिच्च।
मूलम्
गौरमिजिच्च।
टीका
द्वावेकाहौ भ्रातृव्यवत एव। चशब्दादेकैक एव भ्रातृत्र्यवतो न संयुक्तौ।
विश्वास-प्रस्तुतिः
गोरुमयसामा सर्वस्तोमो बुभूषतः।
मूलम्
गोरुमयसामा सर्वस्तोमो बुभूषतः।
टीका
अयमपरी गोसंज्ञक उच्यते। अनेन विशेषणेनोभयसामा सर्वस्तोमश्च, तेन च बुभूषन्यजेत। बुभूपन्भवितुमिच्छन्महत्त्वमिच्छन्नित्यर्थः।
विश्वास-प्रस्तुतिः
आयुर्दीर्घव्याधेः।
मूलम्
आयुर्दीर्घव्याधेः।
टीका
यस्य दीर्घकालमनुवृत्तो व्याधिः स दीर्घव्याधिः। आयुरित्येकाहनाम।
विश्वास-प्रस्तुतिः
पशुकामस्य विश्वजिद्ब्रह्मवर्चसकामवीर्य कामप्रजाकामप्रतिष्ठाकामानां पृष्ठयांहान्यादितः पृथक्कामैः।
मूलम्
पशुकामस्य विश्वजिद्ब्रह्मवर्चसकामवीर्य कामप्रजाकामप्रतिष्ठाकामानां पृष्ठयांहान्यादितः पृथक्कामैः।
टीका
एतेषां चतुर्णां कामानां चत्वार एकाहाः, एकैकस्यैकैकम्। एतेषां यथासंख्येनप्रकृतयः2 पृष्ठस्याऽऽदितश्चत्वार्यहानि \। पृथक्कामैरितिवचनेन कामानां यथासंख्यं लभ्यते।
विश्वास-प्रस्तुतिः
इत्यतिरात्राः।
मूलम्
इत्यतिरात्राः।
टीका
ज्योतिरादीनामेवायं संस्थाविधिर्न पूर्वेषाम्। पूर्वेषां तु क्वचित्क्वचित्संस्था विहितैव।
विश्वास-प्रस्तुतिः
तेषामाद्यास्त्रय ऐकाहिकशस्याः।
मूलम्
तेषामाद्यास्त्रय ऐकाहिकशस्याः।
टीका
ज्योतिःसंज्ञकत्वादस्याऽऽभिप्लविकस्य प्रथमस्याह्न3त्वेनास्य ज्योतिष्टोमातिदेशः प्राप्नुयात्,विषुवत्स्तोमस्य च विषुवत्ता कथंचित्प्राप्नुयात्तदाशङ्कानिवृत्त्यर्थं त्रयाणामैकाहिकशस्यत्वमुक्तम्।
विश्वास-प्रस्तुतिः
इत्येकाहाः।
मूलम्
इत्येकाहाः।
टीका
य एतेऽनुक्रान्ता नवमेऽध्याये ऋतव एवमन्तास्त एकाहसंज्ञा वेदितव्याः। ’ अथाहीनाः ’ इत्यनेनैव पूर्वेषामेकाहत्वे सिद्ध एकाहवचनं वरुणप्रधासस्थाने व्यहः साकमेधस्थाने त्र्यह इत्येवमादीनां द्व्यहत्र्यहाणामार्त्विज्यनिषेधादयोऽहीनधर्मा मा भूवन्नित्यवमर्थम्।
विश्वास-प्रस्तुतिः
अथाहीनाः।
मूलम्
अथाहीनाः।
टीका
अथाहीनां वक्ष्यन्त इत्यर्थः।
ते चैवंप्रकारा इत्याह —
विश्वास-प्रस्तुतिः
ग्रहप्रभृतयो द्वादशरात्र परार्ध्या अग्निष्टोमादयोऽतिरात्रान्ता मासापवर्गा अपरिमाणदीक्षाः।
मूलम्
ग्रहप्रभृतयो द्वादशरात्र परार्ध्या अग्निष्टोमादयोऽतिरात्रान्ता मासापवर्गा अपरिमाणदीक्षाः।
टीका
उपसदो द्वादश4विहिताः5। द्विरात्रादिषु सुत्याहानि द्व्यहादीन्येवं मासस्य6 शिष्टानिषोडश परार्ध्याहानीति तत्प्रभृतीन्ये7कैकोनान्यहानि षट्पर्यन्तानि यथाक्रमेण द्विरात्रादिषुद्वादशाहपर्यन्तेषु दीक्षाहानीत्यर्थः। एवमेतेन8 न्यायेन द्वादशाहिमासापवर्गे प्राप्ते बचनात्षट्त्रिंशदहत्वं भवति। असत्यपि9 परिमाणदीक्षतैव स्यात्, न संवत्सरमित्येवमर्थम्10।
विश्वास-प्रस्तुतिः
ऐकाहांश्चेतरेयिणः।
मूलम्
ऐकाहांश्चेतरेयिणः।
टीका
ऐतरेयिण आचार्या एकाहानपि मासापवर्गानपरिमाणदीक्षामामनन्ति।
विश्वास-प्रस्तुतिः
साहस्रशश्च दक्षिणाः।
मूलम्
साहस्रशश्च दक्षिणाः।
टीका
त एवाऽऽचार्या एकाहेषु सर्वेषु सहस्रदक्षिणत्वमामनन्ति।
विश्वास-प्रस्तुतिः
अतिरात्रांश्च सर्वशः।
मूलम्
अतिरात्रांश्च सर्वशः।
टीका
त एवाऽऽचार्याः सर्वानेकाहानतिरात्रसंस्थानेवाऽऽहुः।
विश्वास-प्रस्तुतिः
तत्राह्नां संख्याः संख्याताः षलहान्ता अभिप्लवात्।
मूलम्
तत्राह्नां संख्याः संख्याताः षलहान्ता अभिप्लवात्।
टीका
तत्राहीन प्रकरणे या अहां संख्याः संख्याताः पडहपर्यन्तास्ता अभिप्लवात्षडहा11द्वेदितव्याः। षडहान्तानामहीनानामा मिष्ठविकान्बहान्यादित आरम्य यावदर्थं प्रकृतयइत्यर्थः। संख्यातवचनमसमाम्नातव्यावृत्त्यर्थम्। तेन समाम्नातानामभिप्लवः12 प्रकृतिरसमाम्नातानां पृष्ठ्यः प्रकृतिरिति साधितं भवति।
विश्वास-प्रस्तुतिः
अतिरात्रस्त्वन्त्यः संख्यापूरणे गृहीतानाम्।
मूलम्
अतिरात्रस्त्वन्त्यः संख्यापूरणे गृहीतानाम्।
टीका
अतिरात्रान्ता इत्युक्तं तदतिरात्रान्तत्वं गृहीतैरेवाहोभिर्यदा संख्यापूरणं भवति तदागृहीतानामेव यदन्त्यमहस्तदेवातिरात्रसंस्थं कर्तव्यं नान्यथेति।
यत्र तु पुनर्गृहीतैः संख्यापूरणं न भवति तत्रैवामित्याह—
विश्वास-प्रस्तुतिः
हानौवैश्वानरोऽधिकः॥ १॥
मूलम्
हानौवैश्वानरोऽधिकः॥ १॥
टीका
यत्र गृहीतैरहोभिः संख्याहानिर्भवति तत्र वैश्वानरोऽन्ते13 कर्तव्यः। वैश्वानरशब्देनप्रकृतोऽतिरात्रो गृह्यते। हानावेवातिरात्रान्तत्वमहीनानामिति14विशेषः॥ १॥
विश्वास-प्रस्तुतिः
आङ्गिरसं स्वर्गकामः।
मूलम्
आङ्गिरसं स्वर्गकामः।
टीका
इदानीमहीना उच्यन्ते। आङ्गिरसो नामायमहीनः। अनेन स्वर्गकामो यजेत।
विश्वास-प्रस्तुतिः
यो वा पुण्यो हीनोऽनुप्रेप्सुः स्यात्।
मूलम्
यो वा पुण्यो हीनोऽनुप्रेप्सुः स्यात्।
टीका
यः पुरुषः पूर्वं पुण्येप्सुः सुखमागित्यर्थः। ततः पश्चात्सुखभावत्वाद्भ्रष्टो हीनः स पुनरपितमेव भावं प्राप्तुमिच्छन्ननुप्रेप्सुरित्युच्यते। स वाऽनेनाऽऽङ्गिरसेन यजेत।
विश्वास-प्रस्तुतिः
चैत्ररथमन्नाद्यकामः कापिवनं स्वर्गकाम इति ह्यहाः।
मूलम्
चैत्ररथमन्नाद्यकामः कापिवनं स्वर्गकाम इति ह्यहाः।
टीका
इत्येते त्रयो द्व्यहाः।
विश्वास-प्रस्तुतिः
प्रथमस्य तूत्तरस्याह्नस्तार्तीयंतृतीयसवनम्।
मूलम्
प्रथमस्य तूत्तरस्याह्नस्तार्तीयंतृतीयसवनम्।
टीका
त्रयाणां प्रथमस्याऽऽङ्गिरसस्य द्वितीयेऽहनि यत्तृतीयसवनं15 तृतीयस्याऽऽभिप्लविकस्ययत्तृतीयसवनं तेनातिदिष्टमित्यर्थः। द्वैतीयस्यायमपवादः।
विश्वास-प्रस्तुतिः
त्वं हि क्षैतवदिति चाऽऽज्यम्।
मूलम्
त्वं हि क्षैतवदिति चाऽऽज्यम्।
टीका
आङ्गिरसस्य द्वितीयेऽहन्येतदाज्यं भवति। द्व्यहा उक्ताः।
विश्वास-प्रस्तुतिः
गर्गत्रिरात्रं स्वर्गकामः।
मूलम्
गर्गत्रिरात्रं स्वर्गकामः।
टीका
गर्गत्रिरात्रमित्यहीननाम16।
विश्वास-प्रस्तुतिः
तस्य मध्यमस्याह्नो वामदेव्यं
पृष्ठं विशोविशीयमग्निष्टोमसाम।
मूलम्
तस्य मध्यमस्याह्नो वामदेव्यं
पृष्ठं विशोविशीयमग्निष्टोमसाम।
टीका
मध्यमस्यैवाह्रः।
विश्वास-प्रस्तुतिः
वारवन्तीयमुत्तमे।
मूलम्
वारवन्तीयमुत्तमे।
टीका
अग्निष्टोमसामेति शेषः।गर्गत्रिरात्रस्योत्तमेऽहनीत्यर्थः।
विश्वास-प्रस्तुतिः
त्वमग्ने वसूँरिति चाऽऽज्यम्।
मूलम्
त्वमग्ने वसूँरिति चाऽऽज्यम्।
टीका
उत्तम एवाहनीत्यर्थः।
विश्वास-प्रस्तुतिः
बैदत्रिरात्रं राज्यकामः।
मूलम्
बैदत्रिरात्रं राज्यकामः।
टीका
इदमप्यहीननाम।
विश्वास-प्रस्तुतिः
सर्वे त्रिवृतोऽतिरात्राः।
मूलम्
सर्वे त्रिवृतोऽतिरात्राः।
टीका
बैदत्रिरात्रे सर्वाण्यहानि त्रिवृन्त्यतिरात्रसंस्थानि17 भवन्ति।
विश्वास-प्रस्तुतिः
छन्दोमपवमानान्तर्वसू पशुकामः।
मूलम्
छन्दोमपवमानान्तर्वसू पशुकामः।
टीका
छन्दोमपवमानश्चान्तर्वसुश्च द्वावहीनौ तयोरन्यतरेण पशुकामो यजेत।
विश्वास-प्रस्तुतिः
पराकच्छन्दोमपराकौ स्वर्गकामः।
मूलम्
पराकच्छन्दोमपराकौ स्वर्गकामः।
टीका
पराकच्छन्दोमः पराकश्च तयोरन्यतरेणेत्यर्थः।
विश्वास-प्रस्तुतिः
इति त्र्यहाः।
मूलम्
इति त्र्यहाः।
टीका
इत्येते षट्त्र्यहा उक्ताः।
विश्वास-प्रस्तुतिः
गर्गत्रिरात्रशस्याः।
मूलम्
गर्गत्रिरात्रशस्याः।
टीका
एषामनुक्तशस्या ये ते गर्गत्रिरात्रशस्या इत्यर्थः।
विश्वास-प्रस्तुतिः
अत्रेश्चतुर्वीरं वीरकामः।
मूलम्
अत्रेश्चतुर्वीरं वीरकामः।
टीका
अत्रेश्चतुर्वीरमित्यहीननाम, वीरकामः पुत्रकाम इत्यर्थः।
विश्वास-प्रस्तुतिः
तस्य वीरवन्त्याज्यानि।
मूलम्
तस्य वीरवन्त्याज्यानि।
टीका
तस्यात्रेश्चतुर्वीरस्य चतुर्ष्वहःसु यान्याज्यानि तानि वीरशब्दसंयुक्तानि कर्तव्यानि। प्रथमेऽहनि पूर्वप्राप्तस्य तोकशब्दवत्त्वात्तदेव वीरवत्त्वमपि18 स्थादित्युत्तरेषु वीरवन्तिविदधाति।
विश्वास-प्रस्तुतिः
यमग्नेवाजसातमेति द्वितीयेऽहन्याज्यमग्नायोमर्त्य इति तृतीयेऽग्निं नर इति चतुर्थे।
मूलम्
यमग्नेवाजसातमेति द्वितीयेऽहन्याज्यमग्नायोमर्त्य इति तृतीयेऽग्निं नर इति चतुर्थे।
टीका
प्रकृतत्वादेवास्य चतुर्वीरस्य संप्रत्ययेसिद्धे पुनस्तत्प्रत्ययार्थेतस्येतिवचनम्।
विश्वास-प्रस्तुतिः
षोलशिमच्चतुर्थम्।
मूलम्
षोलशिमच्चतुर्थम्।
टीका
षोलशिमच्चतुर्थमित्यस्य विधेः सर्वाहीनसंबन्धार्थं19 सर्वेष्वहीनेषु यच्चतुर्थमहस्तत्षोलशिद्धमत्कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
तस्यामि त्वा वृषमा सुत इति गायत्रीषु रथंतरं पृष्ठम्।
मूलम्
तस्यामि त्वा वृषमा सुत इति गायत्रीषु रथंतरं पृष्ठम्।
टीका
तस्यात्रे20श्चतुर्थीरस्यैवायुज्योर्यद्रथंतरं तद्गायत्रीषु कर्तव्यम्। इदमपि तस्यग्रहणं पूर्वसूत्रस्यः सर्वार्थत्वायैव।
विश्वास-प्रस्तुतिः
अनुष्टुब्बृहतीषु बृहत्।
मूलम्
अनुष्टुब्बृहतीषु बृहत्।
टीका
तस्यैव चतुर्वीरस्य युजयोर्यद्बृहत्तदनुष्टुब्बृहतीषु वा कर्तव्यम्। अनुष्टुब्बृहतीनामृचामत्रानुविधानादेव ताः सम्मानता इति गम्यते।
विश्वास-प्रस्तुतिः
चतुर्थे त्वं वलस्य गोमतो यज्जायथा अपूर्व्येति वा।
मूलम्
चतुर्थे त्वं वलस्य गोमतो यज्जायथा अपूर्व्येति वा।
टीका
अत्रेर्थच्चतुर्थमहस्तस्मिन्यद्बृहत्तत् ’ त्वं वलस्य गोमतः ’ इत्यासु वा ’ यज्जायथा अपूर्व्या ’ इत्यासु वा नियमेन कर्तव्यम्।
विश्वास-प्रस्तुतिः
जामदग्नं पुष्टिकामः।
मूलम्
जामदग्नं पुष्टिकामः।
टीका
जामदग्नमित्यहीननाम।
विश्वास-प्रस्तुतिः
तस्य पुरोलाशिन्य उपसदः।
मूलम्
तस्य पुरोलाशिन्य उपसदः।
टीका
तस्य जामदग्नस्य या उपसदस्ताः पुरोडाशिन्यो भवन्ति नाऽऽज्यहविषः। उपसदां पुरोडाशवत्त्वविधानं21 तासां तत्र होमपक्षे दुर्विहोमत्वमस्तीति ज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
वैश्वामित्रं भ्रातृव्यवान्प्रजाकामो वसिष्ठसंसर्पम्।
मूलम्
वैश्वामित्रं भ्रातृव्यवान्प्रजाकामो वसिष्ठसंसर्पम्।
टीका
वैश्वामित्रं वासिष्ठसंसर्पमित्यहीननामनी।
विश्वास-प्रस्तुतिः
इति चतुरहाः।
मूलम्
इति चतुरहाः।
टीका
इत्येते चत्वारश्चतुरहा अनुक्रान्ताः।
विश्वास-प्रस्तुतिः
सार्वसेनं पशुकामो दैवं भ्रातृव्यवान्पञ्चशारदीयंपशुकामो व्रतवन्तमायुष्कामो वावरं वाक्प्रवदिषुः।
मूलम्
सार्वसेनं पशुकामो दैवं भ्रातृव्यवान्पञ्चशारदीयंपशुकामो व्रतवन्तमायुष्कामो वावरं वाक्प्रवदिषुः।
टीका
वाक्प्रवदिषुः, वाचः प्रविवदिषुरित्यर्थः22।
विश्वास-प्रस्तुतिः
इति पञ्च पञ्चरात्राः।
मूलम्
इति पञ्च पञ्चरात्राः।
टीका
इत्येते सार्वसेनदैवपञ्चशारदीयब्रतवद्वावरमिति पञ्च पञ्चरात्रा उक्ताः। पञ्चग्रहणमेतावन्तु एव पञ्चरात्रा नान्येऽसमाम्नाता23 अपीति।
विश्वास-प्रस्तुतिः
पञ्चशारदीयस्य तु सप्तदशोक्षाण ऐन्द्रामारुतामारुतीभिः सह वत्सतरीभिः सप्तदशभिःसप्तदशभिः पञ्चवर्षपर्यग्निकृताः सवनीयाः।
मूलम्
पञ्चशारदीयस्य तु सप्तदशोक्षाण ऐन्द्रामारुतामारुतीभिः सह वत्सतरीभिः सप्तदशभिःसप्तदशभिः पञ्चवर्षपर्यग्निकृताः सवनीयाः।
टीका
पञ्चभिर्वर्षैः समाप्यत इति पञ्चशारदीयः तस्यायंविशेषः। ऐन्द्रामारुताः सप्तदशोक्षाणः सवनीया भवन्ति। इन्द्रश्च मरुतश्च येषां देवतास्त ऐन्द्रामारुताः। उक्षाणोगोवृषाः। तेषामयं संस्कारः। यागकालात्पुरस्तात्पञ्च वर्षाणि प्रतिवर्षे, मारुतीभिर्वत्सतरीभिःसह पर्यग्निकर्तव्याः उक्षाणः। मरुतो देवता आसामिति मारुत्यः। ताश्च सप्तदश।आदावेव पञ्चशारदीयेन यक्ष्य इति संकल्प्य ततः पशुबन्धविधानेनोक्ष्ण उपाकृत्येदं24मरुद्भ्यो25 वत्सतरीर्मरुद्भ्य उपाकृत्य पर्यग्निकरणान्ते वत्सतरीरालभन्ते। उक्षण26 उत्सृजन्ति।एवं पञ्च वर्षाणि वर्षे वर्षे कर्तव्यम्27। अस्मिन्पञ्चशारदीये सवनीया भवन्ति।
विश्वास-प्रस्तुतिः
तेषां त्रींस्त्रींश्चतुर्ष्वंहःस्वालभेरन्परिशिष्टान्पञ्च पञ्चमे।
मूलम्
तेषां त्रींस्त्रींश्चतुर्ष्वंहःस्वालभेरन्परिशिष्टान्पञ्च पञ्चमे।
टीका
पञ्चग्रहणं तेषु नष्टेषु वा मृतेषु वा शास्त्रान्तरोक्तेन विधानेन सप्तदश संपाद्य पूर्वेश्वहः – सु त्रींस्त्रीनालम्य पञ्चमे पञ्चाऽऽलभेतेत्येवमर्थम्। इतरथा नष्टेषु मृतेषु वा यथासंभवमालम्भःस्यात्तन्निवृत्त्यर्थं पञ्चग्रहणम्।
विश्वास-प्रस्तुतिः
व्रतवतस्तु तृतीयस्याह्नःस्थाने महाव्रतम्।
मूलम्
व्रतवतस्तु तृतीयस्याह्नःस्थाने महाव्रतम्।
टीका
ब्रतवतः पञ्चरात्ररयायं विशेषः। आभिप्लविकस्य पञ्चाहस्य तृतीयमहरुद्धृत्य तत्स्थाने महाव्रतं कृत्वाऽज्यत्पूर्ववत्कर्तव्यम्।
विश्वास-प्रस्तुतिः
पृष्ठ्यपञ्चाह उत्तमः॥२॥
मूलम्
पृष्ठ्यपञ्चाह उत्तमः॥२॥
टीका
आभिप्लविकस्यायमपवादः॥२॥
विश्वास-प्रस्तुतिः
ऋतूनां षलहं प्रतिष्ठाकामः।
मूलम्
ऋतूनां षलहं प्रतिष्ठाकामः।
टीका
ऋतूनां षलहमित्यहीननाम।
विश्वास-प्रस्तुतिः
पृष्ठ्यःसमूह्लो व्यूह्लो वा।
मूलम्
पृष्ठ्यःसमूह्लो व्यूह्लो वा।
टीका
अभिप्लवापवादः। पृष्ठ्य इति विशेषवचनेन व्यूदसमूदयोर्विकल्पे सिद्धे यदुभयग्रहणं तदविशेषवचनेन समूढ एव स्यान्न व्यूढइत्येवमर्थम्।
विश्वास-प्रस्तुतिः
पृष्ठ्यावलम्बंपशुकामः।
मूलम्
पृष्ठ्यावलम्बंपशुकामः।
टीका
पृष्ठ्यावलम्बस्याहान्युच्यन्ते।
विश्वास-प्रस्तुतिः
पृष्ठ्यपञ्चाहोऽभ्यासक्तो विश्वजिच्च।
मूलम्
पृष्ठ्यपञ्चाहोऽभ्यासक्तो विश्वजिच्च।
टीका
पृष्ठ्यपश्चाहोऽभ्यासक्तो विश्वजिच्च षष्ठमहः। अभ्यासक्तस्वरूपमुच्यते - प्रथमस्याहो द्वे सवने त्रिवृत्स्तोभे भवतः। पञ्चदशं तृतीयसवनम्। द्वितीयस्य पञ्चदशे द्वे सवने।सप्तदशं तृतीयसवनम् \। तृतीयस्य सप्तदशे द्वे सवने। एकविंशं तृतीयसवनम्। एवमुत्तरेष्वपि योज्यम्। एवमभ्यासक्तो भवति।
विश्वास-प्रस्तुतिः
संमार्यमायुष्कामः पृष्ठ्यत्र्यहः पूर्वोऽभिप्लवत्र्यहश्च।
मूलम्
संमार्यमायुष्कामः पृष्ठ्यत्र्यहः पूर्वोऽभिप्लवत्र्यहश्च।
टीका
अभिलवत्र्यहश्च पूर्व एव द्वयोरूयहयो; संभरणात्संभार्यनामाहीनो भवति। एते त्रयः घडूात्रा उक्ताः।
विश्वास-प्रस्तुतिः
ऋषिसप्तरात्रमृद्धिकामः प्राजापत्यं प्रजाकामश्छन्दोमपवमानव्रतं पशुकामो जामदग्नमन्नाद्यकाम एते च28त्वारः28।
मूलम्
ऋषिसप्तरात्रमृद्धिकामः प्राजापत्यं प्रजाकामश्छन्दोमपवमानव्रतं पशुकामो जामदग्नमन्नाद्यकाम एते च28त्वारः28।
टीका
एते चत्वारः सप्तरात्राः। ऋषिसप्तरात्रप्राजापत्यच्छन्दोमपत्रमानवतजामदग्न्याः, तेषामियमहःकॢप्तिः।
विश्वास-प्रस्तुतिः
पृष्ठ्यो महाव्रतं च।
मूलम्
पृष्ठ्यो महाव्रतं च।
टीका
अविशेषवचनात्समूढः पृष्ठ्यो भवति।
विश्वास-प्रस्तुतिः
व्रतं तु स्वस्तोमं प्रथमे।
मूलम्
व्रतं तु स्वस्तोमं प्रथमे।
टीका
यत्प्रथमे सप्तरात्रे महाव्रतं तत्स्वस्तोमं मवाते। पञ्चविंशस्तोममित्यर्थः।
विश्वास-प्रस्तुतिः
सप्तदशं द्वितीये।
मूलम्
सप्तदशं द्वितीये।
टीका
द्वितीये सप्तरात्रे महाव्रतं सप्तदशस्तोमं भवति।
विश्वास-प्रस्तुतिः
छन्दोमपबमानं तृतीये।
मूलम्
छन्दोमपबमानं तृतीये।
टीका
छन्दोमशब्देनात्र तत्संबन्धिनः स्तोमा उच्यन्ते। चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिंशास्तृतीये सप्तरात्रे यन्महाव्रतं तस्य पवमानेषु यथाक्रमं भवन्ति। शेषः स्वस्तोम एव।
विश्वास-प्रस्तुतिः
चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थे।
मूलम्
चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थे।
टीका
चतुर्थेसप्तरात्रे यन्महाव्रतं तस्य बहिष्पवमानश्च चतुर्विंशस्तोमो भवति। शेषः सप्तदशस्तोमो भवति।
विश्वास-प्रस्तुतिः
ऐन्द्रमत्यन्याः प्रजा बुभूषन्।
मूलम्
ऐन्द्रमत्यन्याः प्रजा बुभूषन्।
टीका
योऽन्याः प्रजा अतीत्य भवितुमिच्छेत्सोऽनेन यजेत।
विश्वास-प्रस्तुतिः
त्रिकद्रुका अभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमः।
मूलम्
त्रिकद्रुका अभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमः।
टीका
त्रिकद्रुका इत्यभिप्लवत्र्यहः पूर्व उच्यते। सर्वस्तोम इत्यनेन गौरुमयसागा सर्वस्तोम इत्ययमत्र गृह्यते। ऐन्द्रस्यैवमहःक्लृप्तिः।
विश्वास-प्रस्तुतिः
जनकसप्तरात्रमृद्धिकामोऽभिप्लवचतुरहो विश्वजिन्महाव्रतं ज्योतिष्टोमः।
मूलम्
जनकसप्तरात्रमृद्धिकामोऽभिप्लवचतुरहो विश्वजिन्महाव्रतं ज्योतिष्टोमः।
टीका
जनकसप्तरात्रस्याहःकॢप्तिरुच्यतेऽभिप्लवचतुरहो विश्वजिन्महाव्रतं ज्योतिष्टोम इति॥
विश्वास-प्रस्तुतिः
पृष्ठ्यस्तोमो विश्वजिच्च पशुकामस्य सप्तमः।
मूलम्
पृष्ठ्यस्तोमो विश्वजिच्च पशुकामस्य सप्तमः।
टीका
सप्तमः सप्तरात्र उच्यते, तस्यनाम शास्त्रान्तरादवगन्तव्यम्। अहःकॢप्तिस्तावदुच्यते। पृष्ठ्य एव षडहः केवलं बृहद्रथंतरपृष्ठः पृष्ठयस्तोम उच्यते। विश्वजिच्च सप्तमं भवति।अनेन पशुकामो यजेत। एते सप्त सप्तरात्राः।
विश्वास-प्रस्तुतिः
देवत्वमीप्सतोऽष्टरात्रः।
मूलम्
देवत्वमीप्सतोऽष्टरात्रः।
टीका
देवत्वं प्राप्तुमिच्छतोऽष्टरात्रो भवति। अस्यापि नामान्यतोऽवगन्तव्यम्।
विश्वास-प्रस्तुतिः
पृष्ठ्यो महाव्रतं ज्योतिष्टोमः।
मूलम्
पृष्ठ्यो महाव्रतं ज्योतिष्टोमः।
टीका
इयमस्याहःकॢप्तिः। एक एवाष्टरात्र उक्तः।
विश्वास-प्रस्तुतिः
नवरात्रमायुष्कामः पृष्ठ्यस्त्रिकद्रुकाश्च।
मूलम्
नवरात्रमायुष्कामः पृष्ठ्यस्त्रिकद्रुकाश्च।
टीका
पूर्वस्याहःकॢप्तिरियम्।
विश्वास-प्रस्तुतिः
त्रिकद्रुकाः पृष्ठ्यावलम्ब इति पशुकामस्य।
मूलम्
त्रिकद्रुकाः पृष्ठ्यावलम्ब इति पशुकामस्य।
टीका
त्रिकद्रुका उक्ताः पृष्ठ्यावलम्बो नाम षलह उक्तस्तस्य यान्यहानि तानीह भवन्तीत्यर्थः।
विश्वास-प्रस्तुतिः
इति नवरात्रौ।
मूलम्
इति नवरात्रौ।
टीका
द्वावेतौ नवरात्रौ। अनयोरपि नामनी शास्त्रान्तरादवगन्तव्ये।
विश्वास-प्रस्तुतिः
त्रिककुबध्यर्धः पृष्ठ्यो महात्रिककुब्व्यूह्लोनवरात्रः समूह्लस्त्रिककुप्समूह्लः।
मूलम्
त्रिककुबध्यर्धः पृष्ठ्यो महात्रिककुब्व्यूह्लोनवरात्रः समूह्लस्त्रिककुप्समूह्लः।
टीका
नवरात्र इत्यनुवर्तते।
विश्वास-प्रस्तुतिः
चतुष्टोमस्त्रिककुबध्यर्धोऽमिप्लवएतैश्चतुर्भिः स्वानां श्रैष्ठ्यकामो यजेत।
मूलम्
चतुष्टोमस्त्रिककुबध्यर्धोऽमिप्लवएतैश्चतुर्भिः स्वानां श्रैष्ठ्यकामो यजेत।
टीका
एतस्त्रिककुम्महात्रिककुप्समूढत्रिककुप्चतुष्टोमत्रिककुब्मिःस्वानां श्रैष्ठ्यकामो यजेत। एतेषां दशमो वैश्वानर एव भवति। कामश्चैतेषामेकैकेन संबध्यते।
विश्वास-प्रस्तुतिः
कुसुरुबिन्दुमृद्धिकामस्त्रयाणां पृष्ठ्याह्नामेकैकं त्रिः।
मूलम्
कुसुरुबिन्दुमृद्धिकामस्त्रयाणां पृष्ठ्याह्नामेकैकं त्रिः।
टीका
कुसुरुबिन्दोरियमहःकॢप्तिः। अत्रापि दशमो वैश्वानर एव।
विश्वास-प्रस्तुतिः
छन्दोमवन्तं पशुकामः पृष्ठ्यावलम्बस्यप्राग्विश्वजितश्छन्दोमा दशमं चाहः।
मूलम्
छन्दोमवन्तं पशुकामः पृष्ठ्यावलम्बस्यप्राग्विश्वजितश्छन्दोमा दशमं चाहः।
टीका
छन्दोमवत इमान्यहानि पृष्ठ्यावलम्बस्य षलहस्य यान्यहानि तेषां विश्वजितः प्राक्त्रयश्छन्दोमाः, अविवाक्यं चैकं ततो विश्वजिद्दशमं29 भवति।
विश्वास-प्रस्तुतिः
पुराऽभिचरन्।
मूलम्
पुराऽभिचरन्।
टीका
पूर्नाम दशरात्रः।
विश्वास-प्रस्तुतिः
ज्योतिर्गाममितो गौरभिजितं विश्वजिदायुषम्।
मूलम्
ज्योतिर्गाममितो गौरभिजितं विश्वजिदायुषम्।
टीका
ज्योतिर्नामैकाहः स गोनामानमभित उभयतः कर्तव्यः। गौश्चाभिजितमभितः, विश्वजिदायुषमभितः कर्तव्यः। वैश्वानरो दशममहर्भवति।
विश्वास-प्रस्तुतिः
शललीपिशङ्कं श्रीकामः।
मूलम्
शललीपिशङ्कं श्रीकामः।
टीका
शललीपिशङ्गस्यैतान्यहानि।
विश्वास-प्रस्तुतिः
अभिप्लवत्र्यहः पूर्वस्त्रिः30।
मूलम्
अभिप्लवत्र्यहः पूर्वस्त्रिः30।
टीका
सत्र्यहः समावर्तयितव्यः31।
विश्वास-प्रस्तुतिः
इति दशरात्राः॥३॥
मूलम्
इति दशरात्राः॥३॥
टीका
इत्येतेऽष्टौ दशरात्रा उक्ताः॥३॥
विश्वास-प्रस्तुतिः
पौण्डरीकमृद्धिकामः। पृष्ठ्यस्तोमश्छन्दोमा गोतमस्तोमोविश्वजिद्व्यूह्लो नवरात्रो महाव्रतं वैश्वानर इति वा।
मूलम्
पौण्डरीकमृद्धिकामः। पृष्ठ्यस्तोमश्छन्दोमा गोतमस्तोमोविश्वजिद्व्यूह्लो नवरात्रो महाव्रतं वैश्वानर इति वा।
टीका
उभयथा पौण्डरीको भवति।
विश्वास-प्रस्तुतिः
अथ संमार्यौ।
मूलम्
अथ संमार्यौ।
टीका
अनयोः संभार्यनाम्नोरन्यतः कामोऽवगन्तव्यः। अहःकॢप्तिः32 सूच्यते।
विश्वास-प्रस्तुतिः
अतिरात्रश्चतुर्विंशमध्यर्धोऽभिप्लवः पृष्ठ्यो वा।
मूलम्
अतिरात्रश्चतुर्विंशमध्यर्धोऽभिप्लवः पृष्ठ्यो वा।
टीका
उभयोः संभार्ययोरतिरात्रचतुर्विंशे33 साधारणे34 अध्यर्धोऽभिप्लवः पूर्वस्यैव। अध्यर्धपृष्ठउत्तरस्यैव।
विश्वास-प्रस्तुतिः
इन्द्रवज्रं भ्रातृव्यवान्।
मूलम्
इन्द्रवज्रं भ्रातृव्यवान्।
टीका
इन्द्रवज्रस्याहःक्लृप्तिः।
विश्वास-प्रस्तुतिः
पृष्ठ्यस्याऽऽद्ये अहनी व्यत्यासमा नवरात्रात्।
मूलम्
पृष्ठ्यस्याऽऽद्ये अहनी व्यत्यासमा नवरात्रात्।
टीका
पृष्ठ्यस्याऽऽदितो व्यत्यस्य द्वे अहनी कर्तव्ये यावन्नवाहानि भवन्ति।
विश्वास-प्रस्तुतिः
महाव्रतम्॥४॥
मूलम्
महाव्रतम्॥४॥
टीका
ततो महाव्रतम्। ततो वैश्वानरः35। एवं पञ्चैकादशरात्रा उक्ताः॥ ४॥
विश्वास-प्रस्तुतिः
अथ द्वादशाहा भवेयुः।
मूलम्
अथ द्वादशाहा भवेयुः।
टीका
अथानन्तरं ये वक्ष्यन्ते ते द्वादशाहा भवेयुः, भवन्तीत्यर्थः।
विश्वास-प्रस्तुतिः
सत्राणि भवेयुरहीना वा।
मूलम्
सत्राणि भवेयुरहीना वा।
टीका
ते द्वादशाहाः सत्राणि च भवेयुरहीनाश्च36 भवेयुः। यदा सत्राणि तदोभयतोऽतिरात्रत्वं बहुयजमानत्वं37 महाव्रतसहितत्वमित्यादयो धर्मा भवन्ति। यदा पुनरहीनत्वं38 तदाऽग्निष्टोमादित्वं मासापवर्गत्वम39परिमाणदीक्षत्वमित्यादयो घर्मा भवन्तीति द्वैविध्यवचनम्।
विश्वास-प्रस्तुतिः
उक्तो दशरात्रः।
मूलम्
उक्तो दशरात्रः।
टीका
उक्तवचनमत्रातिरिच्यते अन्यत्रोक्तवचनमन्तरेणातिदेशदर्शनात्। यथा पृष्ठ्यः समूढो व्यूढो वेत्येते चत्वारः पृष्ठ्यो महाव्रतं चेत्येवमादिषु। तेनोक्तवचनस्य प्रयोजनंवक्तव्यम्। इदमुच्यत उक्तो दशरात्र इत्येदुक्तं भवति — द्वादशाहावयवभूतानि यानिदशाहानि तानि तत्रैव पुञ्जीकृत्य दशरात्र इतिवचनं40कृत्वोक्तानि तस्य वचनस्य द्वादशाहार्यतैव प्रयोजनमिति41। तत्रोक्तिस्तु पञ्चविंशतेरह्नांव्युत्पत्तिर्भूतत्वाद्द42शरात्रंस्थितानां43 चतदन्तर्भावात्तेन तत्रैव पुञ्जीकरणं दशरात्रनाम च सौकर्यात्कृतमिति मन्तव्यम्। अतोद्वादशाह44प्रकृतिर्दशरात्र इत्यनेनाभिप्रायेणोक्तवचनं कृतवानाचार्यः। तथा श्रुतौ छन्दोगानां बहुशः श्रूयते ‘द्वादशाहस्य दंशाहानि’ इति।स च दशरात्रो द्विविध उक्तः -
विश्वास-प्रस्तुतिः
समूह्लो व्यूह्लो वा।
मूलम्
समूह्लो व्यूह्लो वा।
टीका
समूहो व्यूढश्च। अनेन प्रकारेण द्वौ45दशाहावत्रोक्तौ समूढो व्यूढश्च। तत्र द्वादशाहोऽहर्मणानां प्रकृतिरिति न्यायात्सर्वाहर्गणानां प्रकृतिरित्यवगतः। तत्र तावन्तरेण व्यूढोदशरात्रः एषा प्रकृतिः सत्राणामिति विशेषग्रहणात्सत्राणां व्यूढो हीनानां समूढं इत्यवसितं भवति।
विश्वास-प्रस्तुतिः
तमभितोऽतिरात्रौ।
मूलम्
तमभितोऽतिरात्रौ।
टीका
तमभितोऽतिरात्राविति। तं द्विविधं दशरात्रममितोऽतिरात्रौ प्रकृतौ भवत इत्यर्थः। एवं व्यलः समूढश्च द्वादशाहा विति।
विश्वास-प्रस्तुतिः
संभार्ययोर्वा वैश्वानरमुपदध्यात्।
मूलम्
संभार्ययोर्वा वैश्वानरमुपदध्यात्।
टीका
यौ संमार्यनामकावेकादशरात्रौ तयोर्वैश्वानरमधिकं कृत्वा द्वौ द्वादशाहावन्यौ भवतः। अहीनेषु हानौ वैश्वानरोऽधिकः’ इति परिभाषयैव प्राप्त46 एव वैश्वानरे47 वचनमिदंसत्रपक्षेऽपि वैश्वानरस्य प्रापणार्थम्।
विश्वास-प्रस्तुतिः
संवत्सरप्रवह्लं श्रीकामोऽतिरात्रश्चतुर्विंशं विषुवद्वर्जो नवरात्रो महाव्रतम्।
मूलम्
संवत्सरप्रवह्लं श्रीकामोऽतिरात्रश्चतुर्विंशं विषुवद्वर्जो नवरात्रो महाव्रतम्।
टीका
संवत्सरप्रवह्रस्याहानीमानि। अयं द्वादशाहो हीन एव, श्रीकाम इत्येकवचनेनोपदे-शात्परिभाषाप्राप्तवैश्वानरोपजीवनाच्च।
विश्वास-प्रस्तुतिः
अथ भरतद्वादशाहः।
मूलम्
अथ भरतद्वादशाहः।
टीका
अथशब्दो48 हीनकैवल्यबुद्धिविच्छेदार्थः। सत्राहीनसाधारणाश्चत्वारो द्वादशाहा उक्ताः। तत एको हीन उक्तः। उत्तमैश्वासाधारण49 एव। अतस्तद्विच्छेदार्थमथशब्दः प्रयुक्तः।
विश्वास-प्रस्तुतिः
इममेवैकाहं पृथक्संस्थाभिरुपेयुः।
मूलम्
इममेवैकाहं पृथक्संस्थाभिरुपेयुः।
टीका
भरतद्वादशाहस्याहःकॢप्तिः। इममेव प्राकृतैकाहं पृथग्भूताभिः संस्थाभिर्युक्तं द्वादशकृत्वः कुर्युः। विकृतिषु प्रकृतेः संनिहितत्वा50दिममित्युच्यते। उत्तरत्र संस्थाविधानादेवसंस्थासंवन्धे सिद्धे पृथक् संस्थाभिरितिवचनं वचनादेव51 संस्थानियमो नातिदेशादिति ज्ञापयितुम्।
विश्वास-प्रस्तुतिः
अतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथातिरात्रम्।
मूलम्
अतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथातिरात्रम्।
टीका
द्वादशाहसामान्येन प्राप्तानां संस्थानां विधीपमानमरतद्वादशाहेऽयमपवादः।
विश्वास-प्रस्तुतिः
इति द्वादशाहाः।
मूलम्
इति द्वादशाहाः।
टीका
इत्येवंप्रकारा द्वादशाहा आनाताश्च वेदितव्याः।
विश्वास-प्रस्तुतिः
तैरात्मना बुभूषन्तः प्रजया पशुभिः प्रजनयिष्यमाणाः स्वर्गंलोकमेष्यन्तः स्वानां श्रैष्ठ्यमैच्छन्त उपेयुर्वा यजेत वा।
मूलम्
तैरात्मना बुभूषन्तः प्रजया पशुभिः प्रजनयिष्यमाणाः स्वर्गंलोकमेष्यन्तः स्वानां श्रैष्ठ्यमैच्छन्त उपेयुर्वा यजेत वा।
टीका
संवत्सरप्रवह्रस्य केवलाहीनत्वात्कामना52नपेक्षस्वाञ्चेतरेषां पञ्चानामेवात्र ग्रहणम्। आत्मना बुभूषन्तः। आत्मना भवितुमिच्छन्त आत्मकैवल्यमिच्छन्त इत्यर्थः। चत्वार एते कामाःपञ्च द्वादशाहास्तेनाऽऽनन्तर्ययोगो न भवति। सर्वे सर्वैरधिकिरन्न नियमेनेत्यर्थः। तैर्यजेत वा, उपेयुरिति संबन्धः। उपेयुरिति सत्रलिङ्गं, यजेतेत्यहीनलिङ्गम्।
विश्वास-प्रस्तुतिः
इति पृथक्त्वम्।
मूलम्
इति पृथक्त्वम्।
टीका
इत्येतदेव सत्राहींनयोः पृथक्त्वं मेद इत्यर्थः। सर्वत्रापि यदुपेयुः शब्दचोदितं तत्सर्वं सत्रमेव। यथा53 यज्ञेवेत्येकवचनं तदहीन एव। एतदुक्तं भवति — सत्राहीनत्वे बहुयजमानत्वैकयजमानत्वादिकृत एव भेदो न शस्यभेदक्कत इति।
विश्वास-प्रस्तुतिः
अथ सामान्यम्।
मूलम्
अथ सामान्यम्।
टीका
अथेदानीं सत्राहीनयोरसमाम्नातयोः साधारणविधिरुध्यत इत्यर्थः।
विश्वास-प्रस्तुतिः
अपरिमितत्वाद्धर्मस्य प्रदेशान्वक्ष्यामः।
मूलम्
अपरिमितत्वाद्धर्मस्य प्रदेशान्वक्ष्यामः।
टीका
धर्मशब्देनात्र54 प्रधानकर्माण्युच्यन्ते। प्रदिश्यन्ते ज्ञायन्ते यैरुपायैरसमाम्नातान्यवि कर्माणि त55उपायाः प्रदेशा उच्यन्ते। ते च विध्येकदेशभूतत्वात्प्रदेशशब्दवाच्याः। एतःदुक्तं भवति – कर्मणा56मसमाम्नातानामपरि57मेयत्वात्तेषामेकैक58श्पेनवक्तुमशक्यत्वात्सामान्येनतज्ज्ञानोपायान्विध्येकदेश भूतान्वक्ष्याम इति।
के त59उपायाः कथं वा तैरुपायैरसमाम्नातानां कर्मणां ज्ञानं भवतीति तमुपायमुत्तरेण सूत्रेण दर्शयति-
विश्वास-प्रस्तुतिः
यथा हि परिमिता वर्णा अपरिमितां वाचोगतिमाप्नुवन्त्येवमेव परिमितानामह्नामपरिमिताः संघाताः।
मूलम्
यथा हि परिमिता वर्णा अपरिमितां वाचोगतिमाप्नुवन्त्येवमेव परिमितानामह्नामपरिमिताः संघाताः।
टीका
यथाऽकारादयो वर्णास्त्रिषष्टिसंख्यापरिमिता एव स्थानकरणानुप्रदानादिभिर्गुणैः सम्यगुच्चारणाय शिक्षिताः सन्तः सर्वस्याः पदवाक्यभूताया अपरिमिताया वाच उच्चारणाय शक्ति ज्ञानं चोत्पादयन्ति, एवं पञ्चविंशतिरहानि परिमितान्येव सम्यक्परिज्ञातानि चभवन्ति। तैरेवापरिमिताः संघाताः समाम्नाता असमाम्नाताश्च कर्तव्यतया चोद्यन्त60 इति। “पदावयवभूतवर्णज्ञानेन पदवाक्यज्ञानवत्संघातावयवभूताहज्ञीनेन संघातज्ञानमप्युपपद्यत इतिदृष्टान्तः। एवमेवार्थमुत्तर61सूत्रं स्पष्टयति-
विश्वास-प्रस्तुतिः
सिद्धानि त्वहानि तेषां यः कश्च समाहारः सिद्धमेव शस्यम्।
मूलम्
सिद्धानि त्वहानि तेषां यः कश्च समाहारः सिद्धमेव शस्यम्।
टीका
यथा हि परिमिता वर्णाः सर्वो वाचो गतिमाप्नुवन्त्येवमत्रापि सिद्धानि परिज्ञातान्य हानि। तत्र यो यः संघातः समाम्नातोऽसमाम्नातश्च पञ्चविंशतेरहामेव नान्येषाम्।अतः संघातशस्यमपि सिद्धमेव समुदायिभ्योऽनन्यत्वात्समुदायस्येति सिद्धम्।
विश्वास-प्रस्तुतिः
अह्नां तु संशये स्तोमपृष्ठसंस्थाभिरेके व्यवस्थाम्।
मूलम्
अह्नां तु संशये स्तोमपृष्ठसंस्थाभिरेके व्यवस्थाम्।
टीका
समाम्नातेष्वसमाम्नातेषु च संघातेष्वहद्वारेण शस्यज्ञानमित्युक्तम्। इदानीं येष्वसमाम्नातेष्वहरेव62 न ज्ञायत इदमेवेति तत्राहां संशये सत्येवमेक आचार्या अहर्व्यवस्थाम63हर्निश्चयमिच्छन्ति स्तोमपृष्ठ संस्थाभिर्लिङ्गभूतैरहामुत्पत्तौ त्रिवृदादीनां स्तोमानामन्यतमेन रथंतरादीनां पृष्ठानामन्यतमेनाग्निष्टोमादीनां संस्थानामन्यत64मेन च संयुक्तान्येवोत्पद्यन्त इति वदन्तः।
विश्वास-प्रस्तुतिः
तद्कृत्स्नं दृष्टत्वाद्यतिक्रमस्य।
मूलम्
तद्कृत्स्नं दृष्टत्वाद्यतिक्रमस्य।
टीका
तदकृत्स्नमसार्वत्रिकमित्यर्थः। उत्पत्तौ तथोप्तन्नानामपि व्यवहारकाले व्यभिचारदर्श नादित्यर्थः। ततो नायं नियमहेतुः।
विश्वास-प्रस्तुतिः
छन्दोगैरेव कृत्वा समयमह्नोबार्हतरार्थतरतायामेकाहेन न शस्यंराथंतराणाम्।
मूलम्
छन्दोगैरेव कृत्वा समयमह्नोबार्हतरार्थतरतायामेकाहेन न शस्यंराथंतराणाम्।
टीका
अयमेवाहर्निश्चय उपायः। छन्दोगैः समयः संगमः संवाद इत्यर्थः। तैः संवादेनाह्रो बार्हतरायंतरत्वनिश्चयं कृत्वा रातराणां प्रकृतैकाहेन शस्यं वेदितव्यम्।
विश्वास-प्रस्तुतिः
द्वितीयेनाऽऽभिप्लविकेन बार्हतानाम्।
मूलम्
द्वितीयेनाऽऽभिप्लविकेन बार्हतानाम्।
टीका
बार्हतानां पुनर्द्वितयिनाऽऽभिप्लविकेन शस्यं वेदितव्यम्।
विश्वास-प्रस्तुतिः
अपि वा कपाशुभीयतदिदासीये एवनिविद्धानीये स्यांतामैकाहिकमितरत्॥५॥
मूलम्
अपि वा कपाशुभीयतदिदासीये एवनिविद्धानीये स्यांतामैकाहिकमितरत्॥५॥
टीका
अथ वाऽयमंन्यः पक्षोऽसमाम्नाते बार्हतानां रायंतराणां च मरुत्वतीयनिष्केव65ल्येकयाशुभीयतदिदासीये निविद्धानीये भवतः, अन्यत्सर्वमैका हिकामिति। अत्र त्रयः पक्षाः सन्ति। अहःसंशये66 स्तोमादीनां त्रयाणामानुगुण्येन तद्वशादेव शस्यनिर्णयः। अन्यथाचेद्बार्हतत्वरायंतरत्वोपाधिना शस्यनिश्चयः। अस्मिन्नेव पक्षे67 निविद्धाने, अन्यदैकाहिक-मित्येवं वा शस्यनिश्चय इति सर्वत्र च्छन्दोगैः संवाद आदरणीयः॥५॥
विश्वास-प्रस्तुतिः
सर्वान्कामानाप्स्यन्त्सर्वा विजितीर्विजिगीषमाणःसर्वा व्युष्टीव्र्व्यशिष्यन्नश्वमेधेन यजेत।
मूलम्
सर्वान्कामानाप्स्यन्त्सर्वा विजितीर्विजिगीषमाणःसर्वा व्युष्टीव्र्व्यशिष्यन्नश्वमेधेन यजेत।
टीका
सर्वान्कामान्साकल्येनाऽऽप्तुं यः कामयते यो वा सर्वा विजितीरिन्द्रियजयपर्यन्ता जेतुमिच्छति, यो वा सर्वा व्युष्टीर्व्यशिष्यव्याप्तुमुद्युक्तः सोऽश्वमेधेनः यजेत। व्युष्टिर्विभूतिरित्यर्थः। व्यशिष्यन्निति। विपूर्वस्याश्नोतेः सन्नन्तस्य रूपम्। राज्ञोऽभिषिक्तस्यायंपक्षो68 नेतरयोजत्योः।
विश्वास-प्रस्तुतिः
अश्वमुत्स्रक्ष्यन्निष्टीभ्यां यजेत।
मूलम्
अश्वमुत्स्रक्ष्यन्निष्टीभ्यां यजेत।
टीका
येनाश्वेन मध्यमेऽहनि यष्टव्यं तमश्वं विधिवदुत्सृजति। तमुत्त्रक्ष्यन्वक्ष्यमाणाभ्योमिष्टीभ्यां यजेत।
विश्वास-प्रस्तुतिः
अग्निर्मूर्धन्वान्।
मूलम्
अग्निर्मूर्धन्वान्।
टीका
पूर्वस्या एषैका देवता।
विश्वास-प्रस्तुतिः
विराजौ संयाज्ये।
मूलम्
विराजौ संयाज्ये।
टीका
संयाज्याग्रहणं विस्पष्टार्थम्।
विश्वास-प्रस्तुतिः
पौष्णी द्वितीया।
मूलम्
पौष्णी द्वितीया।
टीका
पूषदेवत्या द्वितीयेष्टिरित्यर्थः।
विश्वास-प्रस्तुतिः
त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ।
मूलम्
त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ।
टीका
आज्यभागा वित्यर्थः।
विश्वास-प्रस्तुतिः
त्वां चित्रश्रवःस्तम यद्वाहिष्ठं तदग्नय इतिसंयाज्ये अश्वमुत्सृज्य रक्षिणो विधायसावित्र्यस्तिस्र इष्टयोऽहरहर्वैराजतन्त्राः।
मूलम्
त्वां चित्रश्रवःस्तम यद्वाहिष्ठं तदग्नय इतिसंयाज्ये अश्वमुत्सृज्य रक्षिणो विधायसावित्र्यस्तिस्र इष्टयोऽहरहर्वैराजतन्त्राः।
टीका
एवमश्वमेधेन यक्ष्य इति संकल्प्यैतास्यामिष्टिम्यामिष्ट्वाऽश्वमुत्सृज्य तस्य रक्षकान्विधाय ततः संवत्सरमहरहस्त्रिषु सवनेषु सावित्रीभिरिष्टिभिर्वैराजतन्त्राभिर्यजेत।
विश्वास-प्रस्तुतिः
सविता सत्यप्रसवः प्रसविताऽऽसविता।
मूलम्
सविता सत्यप्रसवः प्रसविताऽऽसविता।
टीका
सत्यप्रसव इत्याद्यायामिष्टौ सवितुर्गुणः। प्रशब्दो मध्यमायामाशब्द उत्तमायाम्।एवं सगुणत्वे सत्यपि देवतायाः69 पूर्वसूत्रे सावित्रीभिरितिनिर्गुणत्वात्तद्धित निर्देशं कुर्वन्नेतज्ज्ञापयति निर्गुणस्य सवितुर्थो धर्म उपांशुत्वं नाम स सगुणस्याप्यत्र भवतीति।
विश्वास-प्रस्तुतिः
य इमा विश्वा जातान्या देवो यातु सवितासुरत्नः सवानो देवः सविता सहावेति द्वे।
मूलम्
य इमा विश्वा जातान्या देवो यातु सवितासुरत्नः सवानो देवः सविता सहावेति द्वे।
टीका
सत्यप्रसवस्य पूर्वोक्ते एव।
विश्वास-प्रस्तुतिः
समाप्तासु समाप्तासु दक्षिणत आहवनीयस्यहिरण्यकशिपावासीनोऽभिषिक्तायपुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीत।
मूलम्
समाप्तासु समाप्तासु दक्षिणत आहवनीयस्यहिरण्यकशिपावासीनोऽभिषिक्तायपुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीत।
टीका
समाप्तास्वितिवीप्सावचनात्पारिप्लवाख्यानमपिपारिप्लवमिति· प्रथमेऽहनीत्यादेराख्यानस्याऽऽख्या। संवत्सरमहरहः कर्तव्यमिति गम्यते।
विश्वास-प्रस्तुतिः
हिरण्मये कूर्चेऽध्वर्युरासीनः प्रतिगृणाति।
मूलम्
हिरण्मये कूर्चेऽध्वर्युरासीनः प्रतिगृणाति।
टीका
अध्वर्युरपि हिरण्मये कूर्च आसीनः प्रतिगृणाति।
विश्वास-प्रस्तुतिः
आख्यास्यन्नध्वर्यवित्याहृयीत।
मूलम्
आख्यास्यन्नध्वर्यवित्याहृयीत।
टीका
आख्यानमारप्स्यमानो होताऽध्वर्युम् ‘अध्वर्यो’ इत्याह्वानं करोति।
विश्वास-प्रस्तुतिः
हो होतरितीतरः॥६॥
मूलम्
हो होतरितीतरः॥६॥
टीका
एवमाहूतोऽध्वर्युहर्हो होतारिरीत प्रत्याहानं करोति। अयमेव प्रतिगरोऽत्रैव वक्तव्योनान्यत्र॥६॥
विश्वास-प्रस्तुतिः
प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इमआसत इति गृहमेधिन उपसमानीताःस्युस्तानुपदिशत्यृचो वेदः सोऽयमिति सूक्तं निगदेत्।
मूलम्
प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इमआसत इति गृहमेधिन उपसमानीताःस्युस्तानुपदिशत्यृचो वेदः सोऽयमिति सूक्तं निगदेत्।
टीका
अत्र पूर्वोक्तमेव व्याख्यानं नान्यत्किचित्। ‘अध्वर्यो’ इत्युक्त्वैवमारभते। प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इम आसते, एतद्यथासूत्रं कर्तव्यम्। अस्यायमर्थः – अस्मिन्प्रथमेऽहनि मनुर्विवस्वत्पुत्रो70ऽधिपतिस्तस्य राज्ञो मनुष्या विशस्तदाज्ञोपजीविन इत्यर्थः। त इति प्रकृता मनुष्या अतिदिश्यन्ते। इम इति पुरोऽवस्थिता मनुष्यानिर्दिश्यन्ते। तान्मनुष्यानादाय सममुपवेश्य तान्निर्दिश्य प्रदेशिन्या त इम आसत इतिवदति। गृहमेधिन उपसमानीताः स्युस्तानुपदिशति। गृहमेधिन इति मनुष्याविशेषणम्।ते च कुटुम्बिन इत्यर्थः। अन्यदुक्तार्थम्। उपदिशतीति। निर्दिश्य त इम आसतइत्यनामयं71वदतीत्यर्थः। त इम आसत इत्येवमन्तमुक्त्वाऽनन्तर ‘ऋचो वेदः सोऽयम्’इति वदति। अस्यायमर्थः- अस्मिन्नहन्यूग्वेदो वेद इति। कोऽयमृग्वेदो वेदे वेदो नामेत्यपेक्षायां सोऽयमृग्वेद इति तस्य स्वरूप प्रदर्शनार्थं यत्किंचित्सूक्तमादित72आरम्याऽऽन्तान्निगदेत्। एवमहन्यहन्याख्यातव्यम्। अत्र विशेषः— द्वितीया73दिष्वहःसु74 यमो राजा तदर्थमानेतव्या वेदो निगद्यं च भिद्यते।
विश्वास-प्रस्तुतिः
द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्तइम आसत इति स्थविरा उपसमानीताःस्युस्तानुपदिशति
यजुर्वेदो वेदः सोऽयमित्यनुवाकं निगदेत्।
मूलम्
द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्तइम आसत इति स्थविरा उपसमानीताःस्युस्तानुपदिशति
यजुर्वेदो वेदः सोऽयमित्यनुवाकं निगदेत्।
टीका
स्थविरा वृद्धाः।
विश्वास-प्रस्तुतिः
तृतीयेऽहनि वरुण आदित्वस्तस्य गन्धर्वा विशस्तइम आसत इति युवानः शोमना उपसमानीताः स्युस्तानुपदिशत्यथर्वाणो वेदःसोऽयमिति यद्भेषजं निशान्तं स्यात्तन्निगदेत्।
मूलम्
तृतीयेऽहनि वरुण आदित्वस्तस्य गन्धर्वा विशस्तइम आसत इति युवानः शोमना उपसमानीताः स्युस्तानुपदिशत्यथर्वाणो वेदःसोऽयमिति यद्भेषजं निशान्तं स्यात्तन्निगदेत्।
टीका
भेषजमिति। मेषजप्रतिपादकं मन्त्रं ब्राह्मणं75 वेत्यर्थः।
विश्वास-प्रस्तुतिः
चतुर्थेऽहनि सोमो वैष्णवस्तस्याप्सरसोविशस्ता इमा आसत इति युवतयः शोमनाउपसमानीताः स्युस्ता उपदिशत्याङ्गिरसो वेदःसोऽयमिति यद्घोरं निशान्तं स्यात्तन्निगदेत्।
मूलम्
चतुर्थेऽहनि सोमो वैष्णवस्तस्याप्सरसोविशस्ता इमा आसत इति युवतयः शोमनाउपसमानीताः स्युस्ता उपदिशत्याङ्गिरसो वेदःसोऽयमिति यद्घोरं निशान्तं स्यात्तन्निगदेत्।
टीका
घोरमिति। अभिचारादिप्रतिपादक मित्यर्थः।
विश्वास-प्रस्तुतिः
पञ्च मेऽहन्यर्बुदः काद्रवेयस्तस्य सर्पा विशस्तइम आसत इति सर्पाः सर्पविदइत्युपसमानीताःस्युस्तानुपदिशति विषविद्यावेदः सोऽयमिति विषविद्यां निगदेत्।
मूलम्
पञ्च मेऽहन्यर्बुदः काद्रवेयस्तस्य सर्पा विशस्तइम आसत इति सर्पाः सर्पविदइत्युपसमानीताःस्युस्तानुपदिशति विषविद्यावेदः सोऽयमिति विषविद्यां निगदेत्।
टीका
सर्पविदः काश्यपीयादिविषतन्त्रविद् इत्यर्थः।
विश्वास-प्रस्तुतिः
षष्ठेऽहनि कुबेरो वैश्रवणस्तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगाः पापकृत इत्युपसमानीताः
स्युस्तानुपदिशति पिशाचविद्या बेदः सोऽयमितियत्किंचित्पिशाचसंयुक्तं निशान्तं स्यात्तन्निगदेत्।
मूलम्
षष्ठेऽहनि कुबेरो वैश्रवणस्तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगाः पापकृत इत्युपसमानीताः
स्युस्तानुपदिशति पिशाचविद्या बेदः सोऽयमितियत्किंचित्पिशाचसंयुक्तं निशान्तं स्यात्तन्निगदेत्।
टीका
सेलगा इति। सर्पेणोन्मत्ता76इत्यर्थः। पापकृतः पापकारिण इत्यर्थः।
विश्वास-प्रस्तुतिः
सप्तमेऽहन्यसितो धान्वस्तस्यासुरा विशस्त इम आसतइति कुसीदिन उपसमानीताः स्युस्तानुपदिशत्यसुरविद्या वेदः सोऽयमिति मायां कांचित्कुर्यात्।
मूलम्
सप्तमेऽहन्यसितो धान्वस्तस्यासुरा विशस्त इम आसतइति कुसीदिन उपसमानीताः स्युस्तानुपदिशत्यसुरविद्या वेदः सोऽयमिति मायां कांचित्कुर्यात्।
टीका
कुसीदिनो वार्धुषिका इत्यर्थः।
विश्वास-प्रस्तुतिः
अष्टमेऽहनि मत्स्यः सांमदस्तस्योदकेचराविशस्त इम आसत इति मत्स्याः पुञ्जिष्ठाइत्युपसमानीताः स्युस्तानुपदिशतिपुराणविद्या वेदः सोऽयमिति पुराणमाचक्षीत।
मूलम्
अष्टमेऽहनि मत्स्यः सांमदस्तस्योदकेचराविशस्त इम आसत इति मत्स्याः पुञ्जिष्ठाइत्युपसमानीताः स्युस्तानुपदिशतिपुराणविद्या वेदः सोऽयमिति पुराणमाचक्षीत।
टीका
पुञ्जिष्ठाः कैवर्ताः।
विश्वास-प्रस्तुतिः
नवमेऽहनि तार्क्ष्यो77 वैपश्चितस्तस्य वयसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिण इत्युपसमानीताःस्युस्तानुपदिशतीतिहासो वेदः सोऽयमितीतिहासमाचक्षीत। दशमेऽहनि धर्म इन्द्रस्तस्य देवा विशस्त इमआसत इति युवानः श्रोत्रिया अप्रतिग्राहका इत्युपसमानीताः स्युस्तानुपदिशति सामवेदो वेदः सोऽयमिति साम गायात्। एवमेतत्पर्यायशः संवत्सरमाचक्षीत।

एवमेतत्पारिष्ठवाख्यानं पर्यायशः संवत्सरमाचक्षीत।
विश्वास-प्रस्तुतिः
दशमीं दशमीं समापयन्।
मूलम्
दशमीं दशमीं समापयन्।
टीका
एवमेतत्पारिप्लवाख्यानं पर्यायशो दशमीं दशम समापयन्संवत्सरमा वक्षीत।
विश्वास-प्रस्तुतिः
संवत्सरान्ते दीक्षेत॥७॥
मूलम्
संवत्सरान्ते दीक्षेत॥७॥
टीका
ततः संवत्सरेऽतीते दीक्षेत॥७॥
विश्वास-प्रस्तुतिः
त्रीणि सत्यानि भवन्ति।
मूलम्
त्रीणि सत्यानि भवन्ति।
टीका
अश्वमेधे त्रीणि सत्यानि भवान्ते।
विश्वास-प्रस्तुतिः
गोतमस्तोमः प्रथमं द्वितीयस्याह्नः पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवाऽऽस्थापयेयुः।
मूलम्
गोतमस्तोमः प्रथमं द्वितीयस्याह्नः पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवाऽऽस्थापयेयुः।
टीका
अध्वर्यव इति शेषः।
विश्वास-प्रस्तुतिः
स चेवघायादुपवर्तेत वा यज्ञसमृद्धिं विद्यात्।
मूलम्
स चेवघायादुपवर्तेत वा यज्ञसमृद्धिं विद्यात्।
टीका
अवजिघ्रेत्, चङ्क्रम्येत वेत्यर्थः। अन्यतरदस78 (य)मश्वः कुर्यात्तदा यज्ञसमृद्धिर्भवतीतिजानीयात्।
विश्वास-प्रस्तुतिः
न चेत्सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत्।
मूलम्
न चेत्सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत्।
टीका
स यद्येतदुभयं न कुर्यादत्रस्तदा नैमित्तिकमिदम्। सुगव्यं नो वाजी स्वयमितियजमानं वाचयेद्धोता।
विश्वास-प्रस्तुतिः
तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तोत्यप्रणुवन्।
मूलम्
तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तोत्यप्रणुवन्।
टीका
तमितिवचनेन स्तौतित्वचोदनाया अध्येतत्संस्कारकर्म तमश्वमभिदध्यादित्यर्थः।एकादशभिरित्यग्विशेषणं सूक्तविशेषणत्वेऽभिधानासंभवात्। अप्रणुवन्नितिप्रतिषेधसामर्थ्यात्सामिषेनीधर्मस्य कस्यचित्प्राप्तिरवगन्तव्या। तच्चैकश्रुत्यम्। अत एकश्रुत्याऽऽर्धर्चेऽवसायाप्रणुवन्।
विश्वास-प्रस्तुतिः
अनुस्वाध्यायमित्येके।
मूलम्
अनुस्वाध्यायमित्येके।
टीका
यथाम्नातं त्रैस्वर्येणेत्ये केऽनुमन्यन्ते। उभयोः पक्षयोस्त्रिवचनमायोत्तमयोनं भवतिं।
विश्वास-प्रस्तुतिः
अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इतिवा मा नो मित्र इत्यावपेतोपप्रागाच्छसनं वाज्यर्वेति च द्वे।
मूलम्
अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इतिवा मा नो मित्र इत्यावपेतोपप्रागाच्छसनं वाज्यर्वेति च द्वे।
टीका
‘अधिगो शमीध्वम्’ इत्यस्मात्पुरस्तात् ‘षाड्विंशतिरस्य वङ्क्रय’ इत्यस्माद्वा पुरस्तात्’मा नो मित्र’ इति क्तम वपेत। उपप्रागादिति च द्वे ऋचौ। अत्रापि निगदान्तःपातिस्वादैकश्रुत्यं भवति नान्यः सामिधेनीधर्मः।
विश्वास-प्रस्तुतिः
संज्ञप्तमश्वं पत्न्यो79धून्वन्ति दक्षिणान्केशपक्षानुग्रथ्येतरान्प्रचृत्य80 सव्यानुरूनाघ्नानाः।
मूलम्
संज्ञप्तमश्वं पत्न्यो79धून्वन्ति दक्षिणान्केशपक्षानुग्रथ्येतरान्प्रचृत्य80 सव्यानुरूनाघ्नानाः।
टीका
उद्ग्रथ्योर्ध्वं बन्धयित्वा प्रचृत्य विस्रस्यसव्यैः पाणिभिः सव्यानुरूनाघ्नाना दक्षिणैःपाणिभिर्मृतमश्वं वासोभिर्धन्वन्ति पत्न्यः।
विश्वास-प्रस्तुतिः
अथास्मै महिषीमुपनिपातयन्ति।
मूलम्
अथास्मै महिषीमुपनिपातयन्ति।
टीका
अधानन्तरमस्मा अश्वाय महिषी81 ज्येष्ठां भार्यामश्वसमीपे निपातयन्ति।
विश्वास-प्रस्तुतिः
तां होताऽभिमेथति माता च ते पिता च तेऽग्रे वृक्षस्यक्रीलतः प्रतिलानीति ते पिता गभे मुष्टिमतंसय दिति।
मूलम्
तां होताऽभिमेथति माता च ते पिता च तेऽग्रे वृक्षस्यक्रीलतः प्रतिलानीति ते पिता गभे मुष्टिमतंसय दिति।
टीका
तां महिषीमश्चप्समीपे शयानां ‘माता च ते पिता च ते’ इत्यनचर्याऽभिमेषति,आक्रोशतीत्यर्थः।
विश्वास-प्रस्तुतिः
सा होतारं प्रत्यभिमेथत्यनुचर्यश्च शतं राजपुत्र्योमाता च ते पिता च तेऽग्रे वृक्षस्य क्रीलतः।यीयस्थत इव ते सुखं होतर्मा स्वं वदो बह्विति।
मूलम्
सा होतारं प्रत्यभिमेथत्यनुचर्यश्च शतं राजपुत्र्योमाता च ते पिता च तेऽग्रे वृक्षस्य क्रीलतः।यीयस्थत इव ते सुखं होतर्मा स्वं वदो बह्विति।
टीका
सा महिषी होतारं प्रत्यभिमेथत्यनुचरीभिः शतेन राजपुत्रीभिः सहानयर्चा।
विश्वास-प्रस्तुतिः
वाघातां ब्रह्मोवमेनामुच्छ्रयतागिरी मारं हरन्निव। अथास्यै मध्यमेजतु शीते82वाते पुनर्निवेति83।
टीका
बावाता द्वितीयभार्थी। तां ब्रह्माऽभिमेथति।
विश्वास-प्रस्तुतिः
सा ब्रह्माणं प्रत्यभिमेथत्यनुचर्यश्च शतं राजपुत्र्य ऊर्ध्वमेनमुच्छ्रयत गिरौ मारं हरन्निव।अथास्य मध्यमेजतु शीत वाते पुनर्निवेति।
मूलम्
सा ब्रह्माणं प्रत्यभिमेथत्यनुचर्यश्च शतं राजपुत्र्य ऊर्ध्वमेनमुच्छ्रयत गिरौ मारं हरन्निव।अथास्य मध्यमेजतु शीत वाते पुनर्निवेति।
टीका
सा वाबाता तं ब्रह्माणं प्रत्यभिमेश्रत्यात्मनोऽनुचरीभिः शतेन राजपुत्रीभिः सह।
विश्वास-प्रस्तुतिः
सदः प्रसृप्य स्वाहाकृतिभिश्चरित्वा॥८॥
मूलम्
सदः प्रसृप्य स्वाहाकृतिभिश्चरित्वा॥८॥
टीका
सदः प्रसृप्यास्य पुनः सर्पण विधानादभिमेथतीत्यादि बहिवेद्यश्वसमीपे स्थिस्वा कर्तव्यमिति गम्यते॥८॥
विश्वास-प्रस्तुतिः
ब्रह्मोद्यं वदन्ति।
मूलम्
ब्रह्मोद्यं वदन्ति।
टीका
ब्रह्मोद्यं नाम वक्ष्यमाणमन्त्रैः प्रभप्रतिवचनरूपेण यद्वदनं तस्येह संज्ञां।
विश्वास-प्रस्तुतिः
कःस्विदेकाकी चरति क उंस्विज्जायते पुनः। किंस्विद्धिमस्य भेषजं किंस्विदावपनं महदिति होताऽध्वर्युं पृच्छति।सूर्य एकाकी चरति चन्द्रमा जायते पुनः। अग्निर्हिमस्यभेषजं भूमिरावपनं महदिति प्रत्याह। किंस्वित्सूर्यसमज्योतिः किं समुद्रसमं सरः। कःस्वित्पृथिव्यै वर्षीयान्कस्मात्रा न विद्यत इत्यध्वर्युर्होतारं पृच्छति। सत्यं सूर्यसमंज्योतिर्द्यौः समुद्रसमं सरः। इन्द्रः पृथिव्यै वर्षीयान्गोस्तुमात्रा न विद्यत इति प्रत्याह। पृच्छामि त्वा चितयेदेवसख यदि त्वमन्त्र मनसा जगन्य। केषु विष्णुस्त्रिषुपदेण्वस्थः के विश्वं भुवनमाविवेशेति ब्रह्मोद्गातारंपृच्छति। अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमाविवेश। सद्यः पर्यैमि पृथिवीमुत द्यामेकेनाङ्गेनदिवो अस्य पृष्ठमिति प्रत्याह। केष्वन्तःपुरुष आविवेश कान्यन्तःपुरुष आर्पितानि एतद्ब्रह्मन्नुपवह्लामसि त्वा किंस्विन्नः प्रतिवोचास्यत्रेत्युद्गाता ब्रह्माणंपृच्छति। पञ्चस्वन्तःपुरुष आविवेश ताम्यन्तः पुरुष आर्पितानि। एतस्वात्र प्रतिवन्वानो84अस्मिनमायया85 भवस्युत्तरोमदिति प्रत्याह। प्राञ्चमुपनिष्क्रम्यैकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्या इति।

स्वायतने प्राङ्मुखमुपविष्टं यजमानमेकैकश ऋत्विजः क्रमेण पृच्छन्ति ‘पृच्छामि त्वांपरमन्तं पृथिव्यै’ इत्यनयर्चा।
विश्वास-प्रस्तुतिः
इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह।
मूलम्
इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह।
टीका
यजमान इति शेषः।
विश्वास-प्रस्तुतिः
महिम्ना पुरस्तादुपरिष्टाच्च वपानां चरन्ति।
मूलम्
महिम्ना पुरस्तादुपरिष्टाच्च वपानां चरन्ति।
टीका
अश्वमेधे महिमानौ नाम ग्रहौ स्तः, तौ सौवर्णराजताभ्यां पात्राभ्यांगृह्येते। वपानामुभयतस्तभ्यांचरन्ति। तयोरनुवाक्या प्रैषयाज्या वक्ष्यन्ते।
विश्वास-प्रस्तुतिः
सुभूः स्वयंभूः प्रथममन्तर्महत्य86र्णवे दधे ह गर्भमृत्वियं यतोजातः प्रजापतिः।होता यक्षप्रजापतिं महिम्नो जुषतां वेतुपिबतु सोमं होतर्यजेति प्रेषः।तवे मे लोकाः प्रदिशो दिशश्वेति याज्या।अश्वोऽजस्तूपरो गोमृग इति प्राजापत्याः।

अश्व एकः पशुः। तूपरोऽनस्य विशेषणंतच्चाशृङ्गता। गोमृगोऽन्यः पशुः, एते त्रयःप्रजापतिदेवत्याः पशवः।
विश्वास-प्रस्तुतिः
इतरेषां पशूनां प्रचरन्ति।87
मूलम्
इतरेषां पशूनां प्रचरन्ति।87
टीका
अश्वादीनां यागानन्तरमितरेषां पशूनां वपादिभिः प्रचरन्ति।
तेषां प्रचारे देवतामाह–
विश्वास-प्रस्तुतिः
वैश्वदेवी कॢप्तिः।
मूलम्
वैश्वदेवी कॢप्तिः।
टीका
विश्वदेवतत्वं तेषां प्रचारक्लृप्तिः। विश्वदेवा88एषां देवतेत्यर्थः।
विश्वास-प्रस्तुतिः
पञ्चमेन पृष्ठ्याह्ना शस्यं व्यूह्लस्य॥९॥
मूलम्
पञ्चमेन पृष्ठ्याह्ना शस्यं व्यूह्लस्य॥९॥
टीका
अश्वमेधे यवद्वितीयमहस्तस्य शस्थं व्यूदस्य पृष्ठ्यस्य पंच्चमेनाहा व्याख्यातम्। पृष्ठ्यग्रहणं विस्पष्टार्थम्॥९॥
विश्वास-प्रस्तुतिः
तस्य विशेषान्वक्ष्यामः।
मूलम्
तस्य विशेषान्वक्ष्यामः।
टीका
प्रतिज्ञासूत्रमिदम्। प्रतिज्ञाप्रयोजनं तस्य सर्वप्रकारस्य प्रगाथानेक इत्यादिकल्पयुक्तस्यग्रहणार्थम्
विश्वास-प्रस्तुतिः
अग्निं तं मन्य इत्याज्यं तस्यैकाह्निकमुपरिष्टात्।
मूलम्
अग्निं तं मन्य इत्याज्यं तस्यैकाह्निकमुपरिष्टात्।
टीका
एतद्विषूक्तमाज्यं भवति।
विश्वास-प्रस्तुतिः
प्रउगतृचेष्वैकाहिकास्तृचाः।
मूलम्
प्रउगतृचेष्वैकाहिकास्तृचाः।
टीका
उपरिष्टाकर्तव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
त्रिकद्रकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपदेका तृचस्थानऐकाहिकोऽनुचरः सूक्तेषु चान्त्यमुहूत्यैकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात्।
मूलम्
त्रिकद्रकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपदेका तृचस्थानऐकाहिकोऽनुचरः सूक्तेषु चान्त्यमुहूत्यैकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात्।
टीका
‘इन्द्र पित्र तुभ्यम्’इत्येतदुद्धृत्य तत्स्थान ऐकाहिकं सूक्तमुपसंशस्य तस्मिन्नैकाहिकेनिविदं दृध्यात्। उपसंशस्येतिवचनं पूर्वेण सूक्तेनैकसूक्तत्वप्रदर्शनार्थम्। अतोऽत्र संसवे89सति तस्मादपि पुरस्तात्कयाशुभीयादि90भवति। तस्मिन्निविदमितिवचनमेकसूक्तत्वेऽपिनिवित्प्रवेशे तस्यैवैका हिकस्य गणना कर्तव्या न पूर्वेण सहेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
एवं निष्केवल्ये।
मूलम्
एवं निष्केवल्ये।
टीका
एवमिति। सूक्तेषु चान्त्यमुद्धृत्येत्येवमादि कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
अभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्यप्रतिपदेका तृचस्थान ऐकाहिकोऽनुचरः सूक्तेषुचैकाहिकान्युपसंशस्य तेषु निविदों दध्यात्।
मूलम्
अभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्यप्रतिपदेका तृचस्थान ऐकाहिकोऽनुचरः सूक्तेषुचैकाहिकान्युपसंशस्य तेषु निविदों दध्यात्।
टीका
उक्तार्थमेतत्। अत्र तेषु निविद इत्यस्य प्रयोजनान्तरमप्यस्ति91, त्रैष्टुभान्येषां तृतीयससवनानीति तत्र वचनमस्ति तस्यापि बाधनार्थम्। अतोऽत्रापि निविदतिपत्तौ जागतेष्वेबान्येषु निविद्धेया भवति।
विश्वास-प्रस्तुतिः
एक्मेवाऽऽग्निमारुते।
मूलम्
एक्मेवाऽऽग्निमारुते।
टीका
उक्तार्थमेतत्।
विश्वास-प्रस्तुतिः
चतुर्थं पृष्ठ्याहरुत्तमम्।
मूलम्
चतुर्थं पृष्ठ्याहरुत्तमम्।
टीका
अश्वमेधे त्रिरात्रस्य यदुत्तममहस्तच्चतुर्थे पृष्ठ्याहर्भवति।
विश्वास-प्रस्तुतिः
ज्योतिर्गौरायुरभिजिविश्वजिन्महाव्रतं सर्वस्तोमोऽप्तोर्यामो वा।
मूलम्
ज्योतिर्गौरायुरभिजिविश्वजिन्महाव्रतं सर्वस्तोमोऽप्तोर्यामो वा।
टीका
एषामन्यतमो वोत्तममहर्भवति। अतिरात्रस्त्वन्य इतिवचनादतिरात्रसंस्थमेव भवति। सर्वेषु सर्वस्तोमग्रहणेषु “गौ रुपयसामा सर्वस्तोमः” इत्येष एक ग्रहीतव्यो नाश्वमेधे अश्वमेधे त्वहीनत्वात्तृतीयमामिष्ठविकं ग्रहीतव्यम्। ‘षलान्ता अभिष्लवात्’ इतिवचनात्। स एव सर्वस्तोमोऽतिरात्रश्च कर्तव्यः।
विश्वास-प्रस्तुतिः
भूमिपुरुषवर्जमबाह्मणानां वित्तानि प्रतिदिशमृत्विग्भ्यो दक्षिणा ददाति।प्राची दिग्घोतुदक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुरेताएव होत्रका अन्वायत्ता अन्वायत्ताः॥१०॥
मूलम्
भूमिपुरुषवर्जमबाह्मणानां वित्तानि प्रतिदिशमृत्विग्भ्यो दक्षिणा ददाति।प्राची दिग्घोतुदक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुरेताएव होत्रका अन्वायत्ता अन्वायत्ताः॥१०॥
टीका
होत्रकशब्देन92 मुख्या उच्यन्ते। स्वस्य स्वस्य मुख्यस्य या या दिक्तामेव दिश मदीयाः पुरुषा अन्वायत्ताः। ऋत्विइति वचनं ताभ्यो दिग्भ्यआहृत्य दक्षिणापथेन93 नीत्वा दातव्यमित्येवमर्थम्॥१०॥
————
इत्याश्चलायनसूत्रवृत्तौ नारायणीयायां दशमोऽध्यायः॥१०॥
————
अथैकादशोऽध्यायः।
————
-
“च. ‘जातिः प्रजासंपत्तिस्तां का” ↩︎
-
“च. °कृतः पृष्ठः स्यादि । " ↩︎
-
“घ. च. ‘हस्तेना’ ।” ↩︎
-
“घ. च. श नियताः ।” ↩︎
-
“ङः झ. °ताः । त्रिरा’ ।” ↩︎
-
“च. ‘सस्यावशि° ।” ↩︎
-
“च. °न्येकादशा-तान्यहानि, तेषां प्रातिलोम्येन दीक्षादानि विज्ञेयानि । एतदुक्तं भवति य° ।” ↩︎
-
“घ. ङ. झ. °वमन्तेन ।” ↩︎
-
“च. त्यप्यप ।” ↩︎
-
“व. च. म् । एका ।” ↩︎
-
“च. प्रवा बेदि॰ ।” ↩︎
-
“क. ङ. झ. ‘मविप्ल’ " ↩︎
-
“च. ‘रोऽधिकः । तत्र वैश्वानरोऽन्ते ।” ↩︎
-
“च. ‘ति शे’ । च. भाक्त्वाद्ध ।” ↩︎
-
“ग. ङ. झ. ०नं तत्तृतीयसवस्या० ।” ↩︎
-
“क. ग. घ. ङ. झ. °त्र इत्य° ।” ↩︎
-
“ग. थ. ङ. झ.°वृत्यति°।” ↩︎
-
“क. ङ. °रत्वम° ।” ↩︎
-
“च. °संप्रत्ययार्थं ।” ↩︎
-
“क. ग.ङ. झ. °त्रेयश्च॰ ।” ↩︎
-
“च. °शत्ववि॰ ।” ↩︎
-
“ग, च. °प्रव॰ ।” ↩︎
-
“च. °न्ये स° ।” ↩︎
-
“ग. घ. ङ. च. झ. त्येन्द्रम् ।” ↩︎
-
“च. रुद्रभ्यांव° ।” ↩︎
-
“उक्षण उ° ।” ↩︎
-
“च. ‘म् । त एवास्मि°” ↩︎
-
“‘चत्वारः पृष्ठयो महाव्रतं च ’ इत्येवं पाठः सर्वेषु पुस्तकेषु यद्यपि वर्तते तथाऽपिपृष्ठ्यो महाव्रतं चेत्यंशोऽग्रेपृथग्व्याख्यात इत्यत्र न गृहीतोऽस्माभिः।” ↩︎ ↩︎ ↩︎ ↩︎
-
“च. शममहर्भव° ।” ↩︎
-
“च. °तव्यम् । इ° ।” ↩︎
-
“घ. °प्तिस्तूच्य° ।” ↩︎
-
“च. °त्रश्चतु ° ।” ↩︎
-
“घ. ङ. झ. °रणोऽध्य° ।” ↩︎
-
“क. ङ. °नर एवप° ।” ↩︎
-
“च. °नावा° भ° ।” ↩︎
-
“च. नत्वमि° ।” ↩︎
-
“च. °हीनास्तदाऽ° ।” ↩︎
-
“च. र्गत्वं महाव्रतसहितेष्वप्यप॰।” ↩︎
-
“च. °चनमकृ° ।” ↩︎
-
“च. °ति । अत्रो° ।” ↩︎
-
“च. °भूमित्वा° ।” ↩︎
-
“च. °त्रसंज्ञिता’ ।” ↩︎
-
“च.°शाहा भवेयुः । प्र°।” ↩︎
-
“च. द्वौ द्वाद° । " ↩︎
-
“च. प्राप्ता ए° । " ↩︎
-
“च. °रेतिव° । " ↩︎
-
“घ. °ब्दोऽही° । " ↩︎
-
“च. °मश्चसा° । " ↩︎
-
“क. ग. च. ‘त्वादिदमुच्य । " ↩︎
-
“क. ङ, झ. °व संख्यानि° । च. °वस्थाननि॰ ।” ↩︎
-
“च. °नापे’ । " ↩︎
-
“ग. घ. च. झ. तथा । " ↩︎
-
“च. °र्मप्रदेशा नात्र प्रथमसताम्नातक° । " ↩︎
-
“च. तदुपा । " ↩︎
-
“च. °र्मणां स ° । " ↩︎
-
“च. °मसनाम्नातानांचाप’ । " ↩︎
-
“च. °कशो व° " ↩︎
-
“च तदुपा ।” ↩︎
-
“च. चोच्यन्त । " ↩︎
-
“घ. च. एतमे । " ↩︎
-
“क. ख० °ब ज्ञा° । " ↩︎
-
“च. °स्थामाहुः । निश्च । " ↩︎
-
“५ च. तमया । " ↩︎
-
“च °वल्पयोः क° ।” ↩︎
-
“य. °ये च स्तो° । " ↩︎
-
“च. °क्षे एते नि° । " ↩︎
-
“च. यज्ञो” ↩︎
-
“च. °तानां पू° । " ↩︎
-
“च. ‘नुर्वैवस्वतः, विवस्त्रत्युत्रेऽधिपे सति तस्य ।” ↩︎
-
“च. इत्याख्यानावयवं व° ।” ↩︎
-
“घ. ध. ङ. झ. °किचन सूक ।” ↩︎
-
“च. यान्यहोराः ।” ↩︎
-
“च. ङ. झ. °ष्वहोरा’ ।” ↩︎
-
“च. वेति नि । ६ क. ‘ह्मणवेच. ह्मणं चेत्य’ ।” ↩︎
-
“ग. घ. °सर्पणो° ।” ↩︎
-
“घ. ङ. झ. °तमम° । च °तरम° । ग. तरदश्वः ।” ↩︎
-
“ग. ‘नर्नवे’ " ↩︎
-
" एतत्सूत्रं ‘बैश्वदेवी कॢप्तिः’ इत्यग्रिमसूत्रोत्तरं छ. ज. संज्ञकयोर्मूलपुस्तकयोर्वर्तते ।” ↩︎ ↩︎
-
“क. ग. ह. च. झं. विश्वे दे ।” ↩︎
-
“च. संस्रवे ।” ↩︎
-
“च. दिर्भव ।” ↩︎
-
“ग. ङ. झ. ॰प्यस्मि त्रै । च. ‘प्यस्तिति, त्रै ।” ↩︎
-
“क. ग. ङ. झ. ‘ब्देनामु’ । च देनात्रामु° ।” ↩︎
-
“च. ॰णा यथेतं नी । " ↩︎