०९

विश्वास-प्रस्तुतिः

उक्तप्रकृतयोऽहीनैकाहाः।

मूलम्

उक्तप्रकृतयोऽहीनैकाहाः।

टीका

उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतः। उक्तानि पच्चविंशतिरहानि सात्रिकाणि। एतेभ्य एव सात्रिकेम्योऽहोम्योऽहीनैकाहा व्याख्यायन्त इत्युक्तम्। इदानींतानेका हाहीनान्वक्तुकामेनाऽऽचार्येणोक्तप्रकृतयोऽही नैकाहा इत्युक्तम्। तस्यायमर्थः उक्ता प्रकृतिर्येषां त इम उक्तप्रकृतयोऽही नैकाहाः। प्रकृतिः प्रकारो न रूपान्तरमित्यनर्थान्तरम्। ज्योतिष्टोमो हि सर्वेषामेकाहाहीनसत्राणां प्रकृतिरिति प्रसिद्धम्। तदतिदिष्टानि च सात्रिकाणि चतुर्विंशतिरहान्यहीनैकाहानां प्रकृतित्वेनेष्यन्ते। तदेतदुभयमस्मिप्रकृति। एतदुक्तं भवति इत उत्तरं द्वयोरध्याययोरेकाहाही ना वक्ष्यन्ते। ते च ज्योतिष्टोमसरूपाः सात्रिकाहः सरूपाश्चेति। एतत्सूत्रप्रयोजनं वक्ष्यमाणानां संज्ञाकरणं तेषां चोभयप्रकृतित्वकथनं चेति। अहीनशब्दस्य पूर्वनिपातः पूर्वेण पदेन संघौ क्रियमाणे प्रश्लेषलाभादक्षरलाघवार्थः।

विश्वास-प्रस्तुतिः

सिद्धैरहोभिरह्नामतिदेशः।

मूलम्

सिद्धैरहोभिरह्नामतिदेशः।

टीका

एकाहाहीना वक्ष्यन्त इत्युक्तं ते चोभयप्रकृतय इत्युक्तम्। तत्रानेन सूत्रेण सात्रिकप्रकृतीनां लक्षणमुच्यते। एकाहाहीनेषु येषामह्नांप्राक्सिद्धैरहोभिरतिदेशोऽस्ति तानि सात्रिकाहः प्रकृतीनीति। अहोभिरह्नामतिदेश इत्येवमुक्तेऽपि प्राक्सिद्धैरेवाहोभिः सात्रिकैरतिदेश इति गम्यत एव किमर्थं सिद्धैरित्युच्यते। तस्येदं प्रयोजनम्। यत्र वक्ष्यमाणं कर्म प्राक्सिद्धाहर्नासनामितया वक्ष्यतेऽनेनेदमित्यतिदेशवचनं नास्ति तत्रापि तन्नामनामितयैव तत्प्रकृतित्वज्ञापनार्थम्। तेनैवं सूत्रार्थः - अत्र वक्ष्यमाणानामहां विधानावस्थायामेव प्राक्सिद्धैरहोभिर्ब्रहणं क्रियते, तन्नामनामितया सिध्यत्युत्तरकालं वा। यत्रातिदेशवचनमस्त्यनेनेदमिति तत्रोमयत्र तान्येव प्रकृतिरिति सूत्रार्थः। अहामिति वचनं त्यानामेवायमतिदेशो न दीक्षोपसदामित्येवमर्थम्। तेनैषु दीक्षोपसदः स्वकीया एव नियमेन भवन्तीति सिद्धम्।

विश्वास-प्रस्तुतिः

अनतिदेशे त्वेकाहो ज्योतिष्टोमोद्वादशशतदक्षिणस्तेन शस्यमेकाहानाम्।

मूलम्

अनतिदेशे त्वेकाहो ज्योतिष्टोमोद्वादशशतदक्षिणस्तेन शस्यमेकाहानाम्।

टीका

तत्रैकाहो ज्योतिष्टोमो द्वादशशतदक्षिण इत्येतावता प्रागुक्तस्य चतुःसंस्थस्य सोमयागस्यानुवादं कुर्वनप्राप्तानामनाम्नामिह संबन्धं दक्षिणा विशेषसंबन्धं च विदधाति सूत्रस्योत्तरेण भागेन। एकाहानां मध्ये1 ये सात्रिकैर हो भिनतिदिश्यन्ते तेष्वेकाहेष्वेवंविशिष्टेन ज्योतिष्टोमेनातिदेशो विधीयते। अनतिदेश इति वचनमेकाहेषु येषु यावन्तोऽतेिदेश विधयस्तेप्वहः स्वेवास्य विधेः प्राप्तिप्रदर्शनार्थम्। तेनानिरुक्तादिष्वपि ज्योतिष्टोमप्राप्तेरपवाद एव चतुर्विंशादीनामवयवा तिदेश इति सिद्धम्।तुशब्दो विशेषविध्यर्थः। एकाहेष्वयं विशेषो भवति ज्योतिष्टोमप्राप्त्यपवादः सात्रिकातिदेश इति। शस्यग्रहणं वचनान्तरानषो*2 दितधर्म प्रदर्शनार्थम्। तेन दीक्षोपसद ऐकाहिका एव भवन्ति न3ज्यौतिटोमिका इति सिद्धम्।

विश्वास-प्रस्तुतिः

गोआयुषी विपरीते द्व्यहानाम्।

मूलम्

गोआयुषी विपरीते द्व्यहानाम्।

टीका

अतिदेशेन इति वर्तते।येषां यहानामतिदेशो नास्ति तेषां गोआयुषी विपरीते च्यत्यस्ते प्रकृतिर्वेदितव्ये4। अनतिदेशवच नमहीनद्व्यहनिवृत्त्यर्थम्। तत्र तत्राहां संख्याः संख्याताः। ‘षडहान्ता अभिप्लवात्’ इत्यतिदेशवचनमस्ति। तेनैकाहद्व्यहा वरुगप्रवासस्थाने व्यहः, द्वयोर्माप्तयोर्व्याष्टियह इत्युदाहरणम्।बहुवचनमसमाम्नातव्यहप्रदर्शनार्थम्।

विश्वास-प्रस्तुतिः

त्र्यहाणां पृष्ठ्यत्र्यहःपूर्वोऽभिप्लवत्र्यहो वा।

मूलम्

त्र्यहाणां पृष्ठ्यत्र्यहःपूर्वोऽभिप्लवत्र्यहो वा।

टीका

पूर्व इति शेषः। अत्राप्यनतिदेश इति वर्तते। अनतिदेश इतिवचनस्य बहुवचनस्य च पूर्ववदेव प्रयोजनम्।

विश्वास-प्रस्तुतिः

एवंप्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः।

मूलम्

एवंप्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः।

टीका

एवंप्राया इति द्वादशशतप्राया इति गम्यते प्रकृतत्वात्। अस्मिन्नेव प्रकरणेऽतिरात्रवचनेन ज्योतिरादयोऽतिरात्रा गृह्यन्ते बहुवचननिर्देशात्। तेनायमर्थः- ज्योतिरादिभ्योऽतिरात्रेभ्योऽवग्य एकाहा अहरन्तरेणातिदिष्टा अनतिदिष्टाश्च ते सर्वे द्वादशशत, दक्षिणा वेदितव्याः। प्रायवचनम् ‘अन्वहं पञ्चाशच्छो दक्षिणाः सोमचमसो दक्षिणा’ इत्येवमाद्यादिभिर्विशेषवि5हिताभिरसमुच्चयार्थम्।

विश्वास-प्रस्तुतिः

साहस्रास्त्वतिरात्राः।

मूलम्

साहस्रास्त्वतिरात्राः।

टीका

तुशब्दोऽर्वांगपि ज्योतिरादिभ्यो योऽतिरात्रस्तस्यापि सहस्त्रदक्षिणत्वप्रापणार्थः।

विश्वास-प्रस्तुतिः

द्व्यहास्त्र्यहाश्च।

मूलम्

द्व्यहास्त्र्यहाश्च।

टीका

अर्वागतिरात्रेभ्य इत्यनेनानातदेश इत्यस्य निवृत्तत्वादस्मिन्सूत्रेऽहीनैकाहद्व्यहारुयहाश्च सहस्रदक्षिणा वेदितव्याः। अत एवोत्तरसूत्रेऽहीनग्रहणं कृतम्।

विश्वास-प्रस्तुतिः

ये भूयांस्त्र्यहादहीनाः सहस्रं तेषांत्र्यहे प्रसंख्यायान्वहं ततः सहस्राणि।

मूलम्

ये भूयांस्त्र्यहादहीनाः सहस्रं तेषांत्र्यहे प्रसंख्यायान्वहं ततः सहस्राणि।

टीका

यहाद्भूयांसो येऽहीनाश्चतुरहादयस्तेषु दक्षिणापरिमाणज्ञानमनेनोपायेन क्रियते। आदितरूप हे सहस्रमिति कृत्वा ततः परतो यावन्त्यहानि तेषु प्रत्यहं6 सहस्रमिति कृत्वा चतुरहे सहस्रद्वयं पञ्चाहे सहस्रत्रितयं षडहे सहस्रचतुष्टयमित्येवं परिमाणक्लप्तिः।

विश्वास-प्रस्तुतिः

समावत्त्वेव दक्षिणा नयेयुः।

मूलम्

समावत्त्वेव दक्षिणा नयेयुः।

टीका

समावदिति। सममित्यर्थः। दक्षिणापरिमाणज्ञानोपाय उक्तस्तासां नयनेऽयं विशेषः। यस्मिन्नहीने यावत्यो दक्षिणाः प्राप्तास्ताः समं विभज्यैकैकं विभागमहन्यहनि दद्यात्।

विश्वास-प्रस्तुतिः

अतिरिक्तास्तूत्तमेऽधिकाः।

मूलम्

अतिरिक्तास्तूत्तमेऽधिकाः।

टीका

एवं7 संविभागे क्रियमाणे या अतिरिच्यन्ते ता उत्तमेऽहनि दातव्याः। अधिका इतिवचनात्स्वभागलब्धाभिः सह दातव्या इति गम्यते।

विश्वास-प्रस्तुतिः

अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यमावः।

मूलम्

अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यमावः।

टीका

यान्यहानि स्तोमष्टष्ठसंस्थाभिः संबद्धान्येवोत्पत्तिभूमावुत्पन्नानि तानि यदि कदाचिदतिदिष्टानि तेषु चातिदिष्टेषु च्छन्दोगवशादध्वर्युवशाद्वा स्तोमादीनामन्यत्वं यदि स्यात्तथाऽप्यस्माकं तान्येवाहानीति कृत्वा शस्यकल्पनं भवतीत्यर्थः। वेदे8ह्येवोत्पत्तिभूमावुत्पन्नानीत्यर्थः।

विश्वास-प्रस्तुतिः

नित्या नैमित्तिका विकाराः।

मूलम्

नित्या नैमित्तिका विकाराः।

टीका

स्तोमादीनामन्यॆत्वेऽप्यह्लामन्यत्वं नास्तीत्युक्तं तथाऽपि स्तोमादिनिमित्ता ये नैमित्तिका विकारास्ते नित्यास्तेष्वप्यहःसु कर्तव्या इत्यर्थः।

विश्वास-प्रस्तुतिः

माध्यदिने तु होतुनिष्केवल्ये स्तोमकारितं शस्यम्।

मूलम्

माध्यदिने तु होतुनिष्केवल्ये स्तोमकारितं शस्यम्।

टीका

माध्यंदिने सवने होतुरयं विशेषो भवति।निष्केवल्यस्तो9*10 मकारितमेव शस्यं भवति निष्केवल्यमरुत्वतीययोः।तच्च11 पूर्वोक्तम्। ‘यावत्यो यावत्यः कुशानां नवतो दशतो वा’ इत्यनेन न्यायेन सूक्तावापः सूक्तोद्धारो वा कर्तव्य इत्यर्थः। निष्केवल्यमरुत्वतीययोर्मध्यंदिनशब्देनैव ग्रहणे सिद्धेऽपि सवनवाचिनो माध्यंदिनशब्दस्य ग्रहणं सोमातिरेकनिमित्तेऽपि शस्त्रे निष्केवल्यस्तोमकारितशस्यस्य प्रापणार्थम्। तत्र त्वृग्भिरेव निष्केवल्यस्तोमातिशंसनं12 स्वस्तोमातिशंसनं13 च कर्तव्यं न सूक्तेन। यदिस्वस्तोमाधिको निष्केवल्य स्तोमस्तदा तस्मादध्यतिशंसनं कर्तव्यम्। यदा हीनस्तदा स्वस्मादतिशंसनमिति निष्केवल्यस्तोमकारितमिति पाठः कर्तव्यो न निष्केवल्ये14 स्तोमकारितमिति।

विश्वास-प्रस्तुतिः

तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानाम्।

मूलम्

तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानाम्।

टीका

निष्केवल्यमरुत्वतीययोर्निष्केवल्यस्तोमकारितं शस्यमित्युक्तं तत्र स्तोमविवृद्वावुपजनस्थानमुच्यते। निविद्धानीयानां सूक्तानांपुरस्तादावो15 भवतीत्यर्थः। तेषामपि निविद्वानीयत्वं भवति। निष्केवल्पे तु तायै वर्जयित्वा निविद्वानीयानामेव सूक्तानां पुरस्ताद्भवति। सूक्तानां पुरस्ताद्विधाने16 क्रियमाणे तार्क्ष्यवर्जमितिवचनात्तार्क्ष्यस्य पदग्रहणेऽपि सूक्तत्वं गम्यत एव। सूक्तानामिति बहुवचनमविवक्षितम्। यस्मिन्नहाने यत्सूक्तमत्रगतं तस्मापुरस्तादित्यर्थः।

विश्वास-प्रस्तुतिः

हानौ तत एवोद्धारः।

मूलम्

हानौ तत एवोद्धारः।

टीका

स्तोमहानावपि निष्केवल्यमरुत्वतीययोरनेकसूक्तत्वे यावत्यो यावत्य इत्यनेन न्यायेन सूक्तानां पूर्वं पूर्वमुद्धरेत्। असत्यपि हानावितिवचनेऽस्यार्थस्य सिद्धौ सत्यां हानावितिवचनं निष्केवल्यमरुत्वतीयाभ्यामन्यत्रापि स्तोमहानौ सत्यामवगतस्यैव सूक्तस्य पुरस्तादुद्धारो भवतीत्येवमर्थम्।

विश्वास-प्रस्तुतिः

येऽर्वाक्त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु।

मूलम्

येऽर्वाक्त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु।

टीका

ये त्रिवृत्तोऽवगेकस्तोमादयोऽष्टपर्यन्ताः स्तोमास्तेषु क्रियमाणेषु सर्वेषु सवनेषु होतुर्होत्रकाणां च सूक्तस्थानेषु सर्वेषु तृचा एव कर्तव्याः। तृचा एवेत्यवधारणमस्य विधेः सर्वार्थत्वाय।

विश्वास-प्रस्तुतिः

यथा नित्या निविदोऽभ्युदयात्॥१॥

मूलम्

यथा नित्या निविदोऽभ्युदयात्॥१॥

टीका

‘हानौ तत एवोद्धारः’ इत्यनेन सूत्रेण सूक्तानां पुरस्तादुद्धारो विहितः। तृचा एवं सूक्तस्थानेण्वित्यप्युक्तम्। तेनान्त्यास्तृचा एव गृह्यन्त इत्येवंप्राप्तम्17। एवं वचनसामर्थ्यादन्त्थे तृचे गृह्यमाणे यथा नित्या निविदो भवेयुस्तथा तमेवान्त्यं तचमभ्युदियादभ्युपगमदित्यर्थः। नित्यशब्देनात्र स्वरूपनित्यत्वं स्थाननित्यत्वं चोच्यते। स्थानं चात्र ‘एका तृचेऽर्धा युग्मासु’ इत्यादि गृह्यते। एतदुक्तं भवति - हीनस्तोमेषु सूक्तस्यान्त्यैतृचात्पूर्वावृक्षु श्रियमाणासु तत्स्थानान्निविदमादायान्त्ये तृवे सवनानुसारेणैकां तृचेऽर्धा युग्मास्वित्यनेन विधिना तां निविदं दध्यादिति वचनमन्तरेण निविदां पूर्वोक्त स्थानत्वे सिद्धे य न्नित्यशब्देन पूर्वोक्तस्थानत्वं विदधाति तज्ज्ञापयति वचनाते स्वस्थानं निविदों न जहतीति। तेन सूक्तमुखीयादये18 ऋचां वृद्धिहेतवो निविदो न चालयन्ति स्वस्मात्स्थानादिति सिद्धम्॥१॥

विश्वास-प्रस्तुतिः

उक्तानि चातुर्मास्यानि।

मूलम्

उक्तानि चातुर्मास्यानि।

टीका

उक्तानुकीर्तनं वक्ष्यमाणेषु सोमेषूपक्रमकालप्रभृतिचातुर्मास्यशरीरस्य सर्वस्य पर्वसंबन्धस्थापर्वसंबन्धस्य च प्रापणार्थं संज्ञार्थं च।

विश्वास-प्रस्तुतिः

सोमान्वक्ष्यामः पर्वणां स्थाने।

मूलम्

सोमान्वक्ष्यामः पर्वणां स्थाने।

टीका

संज्ञा19प्रभृतिचातुर्मास्यशरीरे20सर्वस्मिन्माते विशेष उच्यते। पर्वणां स्थाने सोमाः कर्तव्याः।

विश्वास-प्रस्तुतिः

अयूपकानेके।

मूलम्

अयूपकानेके।

टीका

ये पर्वस्थाने विहिताः सोमास्तानयूपकान्यूरहितानेके शाखिन इच्छन्ति। अपर्वसंबद्धोऽयूपवानेव सोमः कर्तव्यः। यथाऽग्निष्टोम ऐन्द्राग्नस्थान इति।

विश्वास-प्रस्तुतिः

परिधौ पशुं नियुञ्जन्ति।

मूलम्

परिधौ पशुं नियुञ्जन्ति।

टीका

अयूपकेषु सोमेषु परिधौ पशुनियोगः कर्तव्यः। तत्र दक्षिणे परिधावुत्तरे वा कर्तव्यो न मध्यमे, उपचारविरोधात्। तत्र यूपधर्मा21 न कर्तव्याः। एवं ह्यत्र वचनं परिधौ पशुंनियुञ्जन्तीति, नैवं परिधिर्यूपो भवतीति। तेन परिहित एव परिधौ पशुनियोगः कर्तव्यः। पशोरनफ्गमोपायश्च कर्तव्य एव।

विश्वास-प्रस्तुतिः

वैश्वदेव्या स्थाने प्रथमं पृष्ठ्याहर्जनिष्ठा उग्रउग्रो जज्ञ इति मध्यंदिन ऐकाहिका होत्राःसर्वत्र प्रथमसांपातिकेष्वहःस्वेकाहीभवत्सु।

मूलम्

वैश्वदेव्या स्थाने प्रथमं पृष्ठ्याहर्जनिष्ठा उग्रउग्रो जज्ञ इति मध्यंदिन ऐकाहिका होत्राःसर्वत्र प्रथमसांपातिकेष्वहःस्वेकाहीभवत्सु।

टीका

एतानि22 षडहिकानि प्रथमसांपातिकानि ‘पृष्ठ्यामिष्ठयोः प्रथमे चतुर्थे च स्वरसामसु च प्रथमं23 छन्दोमेषु प्रथमम्’ इति। एतानि24 षडहाकान्येकाहेषु यत्र यत्रातिदिश्यन्ते तत्र सर्वत्र माध्यंदिने सवने होत्रका ऐकाहिकशस्या भवन्ति। ज्योतिष्टोमिकशस्या इत्यर्थः। अस्य प्रयोजनं मैत्रावरुणःच्छावाकयोः ‘सद्यो ह जातः इत्यस्यभूयः’इत्यस्य चानुद्धारः। इतरथा ‘एवा त्वामिमामूषु’ इत्यनयोः संपातयोः संपातत्वेनात्यैका25 हिकत्वेनत्र प्राप्तौ तद्दैवतमन्यं पूर्वस्य स्थान इत्यनेन न्यायेनैकाहिकयोःपूर्वयोरुद्धार एव स्यात्, अतस्तन्निवृत्त्यर्थमैकाहिकवचनम्।माध्यंदिनाधिकारान्माध्यंदिने सवन एवायं विधिर्भवति नेतरयोः सवनयोरिति सिद्धम्।

विश्वास-प्रस्तुतिः

वैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोःपशुपुरोलाशेऽन्वायातयेयुः प्रातःसवनिकेषुपुरोलाशेषु वैश्वदेव्या हवींप्यन्वायातयेयुर्वैश्वदेवः पशुः।

मूलम्

वैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोःपशुपुरोलाशेऽन्वायातयेयुः प्रातःसवनिकेषुपुरोलाशेषु वैश्वदेव्या हवींप्यन्वायातयेयुर्वैश्वदेवः पशुः।

टीका

अस्मिन्नहनि सवनीयः पशुर्वेश्वदेवो भवति।

विश्वास-प्रस्तुतिः

बार्हस्पत्याऽनुबन्ध्या।

मूलम्

बार्हस्पत्याऽनुबन्ध्या।

टीका

अनूबन्ध्या26 पशुश्च बृहस्पतिदेवत्यो भवति।

विश्वास-प्रस्तुतिः

वरुणप्रघासस्थाने व्यहः।

मूलम्

वरुणप्रघासस्थाने व्यहः।

टीका

द्व्यहचोदनासु गोआयुषी विपरीते27इत्युक्तम्।

विश्वास-प्रस्तुतिः

उत्तरस्याह्नः प्रातःसवनिकेषुपुरोलाशेषु वरुणप्रघासहवींप्यन्वायातयेयुः।

मूलम्

उत्तरस्याह्नः प्रातःसवनिकेषुपुरोलाशेषु वरुणप्रघासहवींप्यन्वायातयेयुः।

टीका

तयोर्यदुत्तरमहस्तस्येत्यर्थः।

विश्वास-प्रस्तुतिः

मारुतवारुणी पशू।

मूलम्

मारुतवारुणी पशू।

टीका

तयोरह्रोर्यथासंख्येनेमौ पशू सवनीयौ भवतः।

विश्वास-प्रस्तुतिः

मैत्रावरुण्यनुबन्ध्या।

मूलम्

मैत्रावरुण्यनुबन्ध्या।

टीका

द्व्यहानां प्रातरनुवाकात्पूर्वस्य तन्त्रकाण्डस्य पत्नीसंयाजेभ्य उत्तरस्य च तन्त्रेणानुष्ठानसिद्धेरेकैव मित्रावरुणदेवत्याऽनृबन्28व्याभवति।

विश्वास-प्रस्तुतिः

अग्निष्टोम ऐन्द्राग्नस्थाने।

मूलम्

अग्निष्टोम ऐन्द्राग्नस्थाने।

टीका

योऽयं चातुर्मास्याङ्गभूत ऐन्द्राग्नः पशुयोर्मासयोरैन्द्राग्नः पशुरिति तस्य स्थानेऽग्निष्टोमः कर्तव्यो न निरूढस्थाने तस्यात्र प्रसङ्गाभावात्। सर्वाग्निष्टोमचोदनासु प्रकृतिभूतो ज्योतिष्टोमोऽग्निष्टोमसंस्थो गृह्यते। अत्र विशेषाभावात्सवनीयानुबन्ध्यावपि प्राकृतावेव।

विश्वास-प्रस्तुतिः

साकमेधस्थाने त्र्यहोऽतिरात्रान्तः।

मूलम्

साकमेधस्थाने त्र्यहोऽतिरात्रान्तः।

टीका

व्यहचोदनासु पृष्ठ्यञ्यहः पूर्वोऽभिष्लवव्यहो बेत्युक्तम्। स व्यहोऽतिरात्रान्तः साकमैत्रस्थाने भवति। यस्य व्यहस्यान्त्यमहरतिरात्रं भवति29 सोऽतिरात्रान्तः।उत्तममहरति रात्रसंस्थं भवति। इतरे तु यथाप्राप्त संस्थे इत्यर्थः।

विश्वास-प्रस्तुतिः

द्वितीयस्याहोऽनुसवनं पुरोलाशेपु पूर्वेद्युर्हवींषि।

मूलम्

द्वितीयस्याहोऽनुसवनं पुरोलाशेपु पूर्वेद्युर्हवींषि।

टीका

अस्य व्यहस्य यद्वितीयमहस्तस्मिन्ननुतवनं ये पुरोड़ाशास्तेषु साकमेधानां यानि पूर्वेधुरनुसवनं विहितानि हवींषि तानि यथासंख्यमन्वायातयेयुः।

विश्वास-प्रस्तुतिः

तृतीयेऽहन्युपांश्वन्तर्यामो हुत्वापौर्णदर्वं प्रातःसवनिकेषु कैलिनम्।

मूलम्

तृतीयेऽहन्युपांश्वन्तर्यामो हुत्वापौर्णदर्वं प्रातःसवनिकेषु कैलिनम्।

टीका

अन्यायातयेयुरिति शेषः।

विश्वास-प्रस्तुतिः

माध्यंदिनेषु माहेन्द्राणि।

मूलम्

माध्यंदिनेषु माहेन्द्राणि।

टीका

अन्वायातयेयुः।

अन्तरेण घृतयाज्ये दक्षिणे मार्जालीये*30 पित्र्या।

अन्वायातयेयुरित्यनुवर्तत एव। अन्तरेण घृतयाज्ये इति। तयोर्मध्य इत्यर्थः।

विश्वास-प्रस्तुतिः

तत्रोपस्थानं यथाऽनतिप्रणीय चरताम्।

मूलम्

तत्रोपस्थानं यथाऽनतिप्रणीय चरताम्।

टीका

अस्यां पित्र्यायामनावृत्त्याऽनतिप्रणीतचर्यायामिवानावृत्त्योपस्थानं भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

अनुबन्ध्यायाः पशुपुरोलाश आदित्यमन्वायातयेयुः।

मूलम्

अनुबन्ध्यायाः पशुपुरोलाश आदित्यमन्वायातयेयुः।

टीका

अन्वायातयेयुरिति पुनर्वचनं सर्वत्रावृत्तिप्रदर्शनार्थं न पूर्वेष्वनुवृत्तिनिवृत्त्यर्थम्। परिसंख्यातोऽनुवाद आश्रयितुं युक्त इति।

विश्वास-प्रस्तुतिः

आग्नेय्यैन्द्राग्नैकादशिनाः पशवः।

मूलम्

आग्नेय्यैन्द्राग्नैकादशिनाः पशवः।

टीका

आग्नेय्यश्चैन्द्राग्नश्चैकादशिनाश्च यथासंख्येनान्वहं सवनीयाः पशवो भवन्ति।

विश्वास-प्रस्तुतिः

सौर्याऽनुबन्ध्या।

मूलम्

सौर्याऽनुबन्ध्या।

टीका

अत्रानुष्ठेयाङ्गावसरगतत्वादेकैवानुबन्ध्या।

विश्वास-प्रस्तुतिः

अग्निष्टोमः शनासीरीयायाः स्थाने प्रातःसवनिकेषुपुरोलाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः।

मूलम्

अग्निष्टोमः शनासीरीयायाः स्थाने प्रातःसवनिकेषुपुरोलाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः।

टीका

अन्वायातयेयुरितीदमपि प्रदर्शनार्थमेव।

विश्वास-प्रस्तुतिः

वायव्यः पशुः।

मूलम्

वायव्यः पशुः।

टीका

प्राकृतस्य सवनीयस्थान प्राप्तस्य देवतान्तरं विधीयते।

विश्वास-प्रस्तुतिः

आश्विन्यनूबन्ध्या।

मूलम्

आश्विन्यनूबन्ध्या।

टीका

इदमपि पूर्ववदेव देवतान्तरविधानम्।

विश्वास-प्रस्तुतिः

अन्वहं पञ्चाशच्छो दक्षिणाः॥२॥

मूलम्

अन्वहं पञ्चाशच्छो दक्षिणाः॥२॥

टीका

यान्येतान्यष्टौ सुत्यान्यहान्यनुक्रान्तानि तेषामेकैकस्मिन्नहनि पञ्चाशत्पञ्चाशद्वां दक्षिणा31 दातव्याः॥२॥

विश्वास-प्रस्तुतिः

अथ राजसूयाः।

मूलम्

अथ राजसूयाः।

टीका

अथेत्ययमधिकारार्थः। उत्तरत्र ये सोमाः पशव इष्टयश्च ते सर्वे राजसूयसंज्ञा भवन्ति न केवलं सोमा एवेत्य धिकारप्रयोजनम्। पूर्वत्र सोमा एव चातुर्मास्यसंज्ञा भवन्तीति तदुप्यनेन सिद्धम्।

विश्वास-प्रस्तुतिः

पुरस्तात्फाल्गुन्याः पौर्णमास्याःपवित्रेणाग्निष्टोमेनाम्यारोहणीयेन यजेत।

मूलम्

पुरस्तात्फाल्गुन्याः पौर्णमास्याःपवित्रेणाग्निष्टोमेनाम्यारोहणीयेन यजेत।

टीका

या फाल्गुनी पौर्णमासी तस्याः पुरस्तात्पवित्रसंज्ञकेनाग्निष्टोमप्रकृतिकेनाभ्यारोहणप्रयोननेन यष्टव्यम्।अस्32यचान्वारोहणप्रयोजनत्वाद्राजसूयानां33 तदेकदेशभूतानां चातुर्मास्या नामारम्भाथाय वैश्वानरपार्जन्याया अत्र निवृत्तिः। पुरस्तादितिवचनात्तस्मिञ्शुक्लपक्षेऽपर्वण्येव सुत्यमहर्भवति। तदानुगुण्येन तस्मिन्शुक्लपक्षे दीक्षोपसदश्च कर्तव्याः।

विश्वास-प्रस्तुतिः

पौर्णमास्यां चातुर्मास्यानि प्रयुङ्क्ते।

मूलम्

पौर्णमास्यां चातुर्मास्यानि प्रयुङ्क्ते।

टीका

फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुङ्क्ते, आरभेत34। वैश्वदेवं पर्व35 कर्तव्यमित्यर्थः। पवित्रेणैवाभ्यारोहणस्य कृतत्वादत्र वैश्वानरपार्जन्या न भवति।

विश्वास-प्रस्तुतिः

नित्यानि पर्वाणि।

मूलम्

नित्यानि पर्वाणि।

टीका

यानि वैश्वदेवादीनि36 पर्वाणि तानि नित्यानि न सोमचातुर्मास्येष्विव परतन्त्राणीस्येवमर्थ नित्यग्रहणम्।

विश्वास-प्रस्तुतिः

चक्राभ्यां तु पर्वान्तरेषु चरन्ति।

मूलम्

चक्राभ्यां तु पर्वान्तरेषु चरन्ति।

टीका

चक्रशब्देन दर्शपूर्णमासावुच्येते। सौर्याचान्द्रमस्याविति केचित्। पूर्वान्तरेष्वति। पर्वणामन्तराले यान्यहानि तेषु चक्राभ्यां यागः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

अहर्विपर्ययं पक्षविपर्ययं वा।

मूलम्

अहर्विपर्ययं पक्षविपर्ययं वा।

टीका

पर्वान्तरेषु चक्राभ्यां याये; कर्तव्येऽहर्विपर्ययं37 पक्षविपर्ययं कृत्वा चरेयुः। अहर्विपर्ययोः नामैवंभवति – एकस्मिन्नहनि पौर्णमास्या अपरस्मिन्नहन्यमावास्यया38 पुनरपि पौर्णमास्या पुनरप्यमावास्ययेति। पक्षविपर्ययो नाम कृष्णपक्षे पौर्णमास्या शुक्लपक्षेऽमावास्यया39 पुनरप्येवम्।

विश्वास-प्रस्तुतिः

संवत्सरान्ते समानपक्षेऽभिषेचनीयदशपेयौ।

मूलम्

संवत्सरान्ते समानपक्षेऽभिषेचनीयदशपेयौ।

टीका

संवत्सरान्त इति। संवत्सरस्य परस्तादित्यर्थः। एवं चातुर्मास्यैः संवत्सरे परिसमाप्यमाने फाल्गुन्यां शुनासीरीयायागेण संवत्सरः परिसमाप्तो भवति। तत उत्तरमेव कृष्णपक्षमतीत्यानन्तरे शुक्लपक्षेऽभिषेचनीयदशपेयौ कर्तव्यौ। पञ्चदश्यां प्रतिपदि वा दीक्षा।

चतुर्थ्यां पञ्चभ्यां वा सुत्यमहरभिषेचनीयस्य।ततः संसृपेष्टयः40 सप्ताहानि। तत एकादश्यां दशपेयस्य दीक्षा। पौर्णमास्यां सुत्यमहः। एवं तौ समानपक्षकृतौ41 भवतः। अध्वर्यवशाद्वा सहदीक्षणान्तयोः42 कृत्वा सोमक्रयाद्येव पृथग्भवति।

विश्वास-प्रस्तुतिः

उक्थ्यो बृहत्पृष्ठ उभयसामाऽभिषेचृनीयः।

मूलम्

उक्थ्यो बृहत्पृष्ठ उभयसामाऽभिषेचृनीयः।

टीका

सोऽयमभिषेचनीय उक्थ्यसंस्थो भवति बृहत्पृष्ठश्च।उभयं43 च निष्केवल्यस्तोत्रे बृहद्भवति। तस्य योनिर्निष्केवल्यस्तोत्रियो भवति। पवमाने रथंतरं भवति तस्य योनियों निस्थाने शंस्तव्येत्यर्थः।

विश्वास-प्रस्तुतिः

संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्यहिरण्यकशिपावासीनोऽभिषिक्तायपुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत।

मूलम्

संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्यहिरण्यकशिपावासीनोऽभिषिक्तायपुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत।

टीका

समाप्ते मरुत्वतीयेऽनारब्धे निष्केवल्यस्तोत्रे दक्षिणत आहवनीयस्याऽऽसीनं राजानमभिषिञ्चन्त्यध्वर्यवः। तस्मा अभिषिक्ताय राज्ञे पुत्राद्यमात्यपरिवृताय पुत्रपौत्रादिभिर्बन्धुभिरमात्यैः परिवृताय सुहृद्भिः परिवृताय। अमात्यशब्देनात्र राजकार्यपरिवोढारो44 मन्त्र्यादय उच्यन्ते। तैश्च परिवृतायेत्यर्थः। हिरण्मयः कशिपुहिरण्यकशिपुस्तस्मिन्नासीने45 होताशौनःशेपमाख्यानमाचक्षीत ब्रूयादित्यर्थः। तच्चाऽऽख्यानं ब्राह्मणे त्रयस्त्रिंशोऽध्यायः‘हरिश्चन्द्रो ह वैधसः’ इत्यादिस्तं सर्वमाचक्षीतेत्यर्थः।

विश्वास-प्रस्तुतिः

हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनःप्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयति।

मूलम्

हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनःप्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयति।

टीका

होतुरासनविधानभुंक्तार्थम्46। अध्वर्योरासनमस्माभिरविधेयम्। अत उमयोः संकीर्तनं स्तुत्यर्थमेव। यस्माद्यशो हिरण्यं तस्मादेनं राजानं यशसा समर्पयति होताऽध्वर्युश्च हिरमयासनो हिरण्यसैद्धादित्यर्थः47

विश्वास-प्रस्तुतिः

ओमित्यृचः प्रतिगर एवं तथेति गाथायाः।

मूलम्

ओमित्यृचः प्रतिगर एवं तथेति गाथायाः।

टीका

एवमिति नायं प्रतिगरः प्रतिगरावयवो वा, तस्मादेवमर्थः। यथशब्द ऋक्षु प्रतिगरो भवत्येवमेव तथाशब्दो गाथासु प्रतिगरो भवति। अस्मिन्नाख्याने ‘कस्य नूनम्’ इत्थेवमाद्या ऋचः। यं न्विमं पुत्रमिच्छन्ति’ इत्येवमाद्या गाथाः। सर्वत्र च ब्राह्मणनाः श्लोका गाथा इत्युच्यन्ते। ऋचां48 गाथानां49 च प्रतिगरविधानाद्ब्राह्मणवाक्येषु प्रतिगरो नास्ति। ‘हरिश्चन्द्रो ह वैवसः’ इत्यारम्य ‘स ह नारदं पप्रच्छ’ इत्येवमन्तमुक्त्वाऽवसाय ‘यं न्विमम्’ इत्यारभ्य नारदेत्येवमन्तमुक्त्वाऽवसिते तथेत्यध्वर्युः प्रतिगृणाति।

सर्वत्र च गाथान्त ऋगन्ते च प्रतिगरो50 नान्यत्र भवति। ततः ‘स एकया पृष्टो दशभिः प्रत्युवाच’ इति ब्राह्मणवाक्यमुक्त्वाऽवसाय दश गाथा ब्रूयात्। दशकृत्वश्च प्रतिगृणाति। एवं सर्वत्राऽऽचष्टे प्रतिगृह्णाति च।

विश्वास-प्रस्तुतिः

ओमिति वै दैवं तथेति मानुषं दैवेन चैवैनंतन्मानुषेण च पापादेनसः प्रमुञ्चति।

मूलम्

ओमिति वै दैवं तथेति मानुषं दैवेन चैवैनंतन्मानुषेण च पापादेनसः प्रमुञ्चति।

टीका

ओमिति वै दैवमिति। दैवशब्देन वैदिकत्वमुच्यते। ओमिति। वैदिकवचनमिदमनुज्ञावचनमित्यर्थः। तथेति मानुषं मानुषमिति लौकिकमिदमनुज्ञावचनमित्यर्थः। ताभ्यां लौकिकवैदिकाभ्यामोंतथाशब्दाभ्यां प्रतिगरभूताभ्यामेनं राजानं पापादेनसः प्रमुञ्चति। पापशब्देनात्र महत्पापमुच्यते, एनःशब्देनाल्पम्। महतः पापादल्पाच्च पापात्प्रमुञ्चतीत्यर्थः।

विश्वास-प्रस्तुतिः

तस्माद्यो राजा विजिती स्यादप्ययजमानआख्यापयेतैवैतच्छौनःशेषमाख्यानं नहास्मिन्नल्पं च नैनः परिशिष्यते।

मूलम्

तस्माद्यो राजा विजिती स्यादप्ययजमानआख्यापयेतैवैतच्छौनःशेषमाख्यानं नहास्मिन्नल्पं च नैनः परिशिष्यते।

टीका

यस्मादेतदाख्यानमोंतथेतिशब्दप्रतिगरं51 इत्युक्तं महतोऽच्च पापात्प्रमुञ्चति तस्मादयजमानोऽपि राजा यः परबलं युद्धेन जितवांस्तदेतेच्छौनःशेपमाख्यानमाख्यापयेतैव52। य एवमाख्यापयते राजा तस्मिन्राज्ञि महदुल्पमप्येनो न परिशिष्यते। चनशब्दोऽप्यर्थे वर्तते।

विश्वास-प्रस्तुतिः

सहस्रमांख्यात्रे दद्यात्।

मूलम्

सहस्रमांख्यात्रे दद्यात्।

टीका

होत्र इत्यर्थः।

विश्वास-प्रस्तुतिः

शतं प्रतिगरित्रे।

मूलम्

शतं प्रतिगरित्रे।

टीका

अध्वर्यत्र इत्यर्थः।

विश्वास-प्रस्तुतिः

यथास्वमासने।

मूलम्

यथास्वमासने।

टीका

यद्यस्यस्वं53 तत्तस्मा इत्यर्थः। अस्मिन्प्रकरणे ब्राह्मणानुवादान्यूनाधिकचोद्यं नास्ति।

विश्वास-प्रस्तुतिः

संसृपेष्टिभिश्चरित्वा दशपेयेन यजेत।

मूलम्

संसृपेष्टिभिश्चरित्वा दशपेयेन यजेत।

टीका

संसृपेष्टयो नाम सप्तेष्टय आग्नेय्यादयस्तामिः सप्ताहं चरित्वा दशपेयेन यजेत। दशपेयो नाम यज्ञक्रतुः।

विश्वास-प्रस्तुतिः

तत्र दशदशैकैकं चमसं भक्षयेयुः।

मूलम्

तत्र दशदशैकैकं चमसं भक्षयेयुः।

टीका

तत्र दशपेय एकैकं चमसं दश पुरुषा भक्षयन्ति।

विश्वास-प्रस्तुतिः

नित्यान्प्रसंख्यायेतराननु प्रसर्पयेयुः।

मूलम्

नित्यान्प्रसंख्यायेतराननु प्रसर्पयेयुः।

टीका

प्रकृतौ यं चमसं ये भक्षयन्ति वषट्कारेणं होमाभिषवाभ्यां समाख्यया वाऽन्येन वा कारणेन ते नित्या इत्युच्यन्ते। तान्प्रसंख्यायास्मिन्नयन्त54 इतीतरान्पुरुषान्प्रति चमसमनुसर्पयेयुः। ये पुरुषा अनुप्रसर्पन्ति त एवंलक्षणा इत्युच्यन्ते।

विश्वास-प्रस्तुतिः

ये मातृतः पितृतश्च दशपुरुष समनुष्ठिता विद्यातपोभ्यांपुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः।

मूलम्

ये मातृतः पितृतश्च दशपुरुष समनुष्ठिता विद्यातपोभ्यांपुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः।

टीका

येषां मातृतः पितृतश्चोभयतो ये दश पूर्वाः पुरुषास्ते विद्यया तपसा पुण्यैः कर्मभिः प्रतिषिद्धवर्जितैश्च55 युक्ताः सम्यगनुष्ठितवन्तो56 वैदिकं पन्थानमपि चाब्राह्मण्यं57 न निनयेयुनिंश्चयेनाब्राह्मण्यं58 न गमयेयुः। अब्राह्मण्यगमनं59 नाम शूद्रायामपत्योत्पादनमुच्यते। विद्यानाम षडङ्गो वेदस्तदर्थज्ञानं च। तपो नाम श्रौतस्मार्तकर्मानुष्ठानम्। पुण्यकर्म नाम प्रतिषिद्धवर्जनम्। तानेवंविधान्पुरुषाननु प्रसर्पयेयुः। एतदुक्तं भवति - मातृतः पितृतब्धोमयतः पूर्वं ये दश पुरुषास्ते षडङ्गवेदाध्ययनेन तदर्थज्ञानेन च श्रौतस्मार्तकर्मानुष्ठानेन च युक्ताः शूद्रायामपत्योत्पादनमकृतवन्तो येषां पुरुषाणां तानेवंविधान्पुरुषानुपसर्पयेयुः60। दशपुरुषमिति। दश पुरुषा इत्यर्थः। तच्च पूर्वपुरुषविशेषणम्। तेषामेवोद्देशकं ‘ये’ इत्येतत्पदम्। येषामित्येतत्प्रसर्पणे जिघृक्षितानां पुरुषाणां विशेषणम्। उभयतः, मातृतः पितृतश्चेत्यर्थः।

विश्वास-प्रस्तुतिः

पितृत इत्येके।

मूलम्

पितृत इत्येके।

टीका

एक आचार्याः पितृत एवैतल्लक्षणमिच्छन्ति न मातृतोऽपीति।

विश्वास-प्रस्तुतिः

नवग्वासः सुतसोमास इन्द्रं सखा ह यत्रसखिभिर्नवग्वैरिति निविद्धानोराद्ये।

मूलम्

नवग्वासः सुतसोमास इन्द्रं सखा ह यत्रसखिभिर्नवग्वैरिति निविद्धानोराद्ये।

टीका

दशपेयस्य निष्केवल्यमरुत्वतीययोर्निविद्धानयोराद्ये अधिके एते ऋचौ भवतः।

विश्वास-प्रस्तुतिः

सूक्तमुखीये इत्युक्त एते प्रतीयात्।

मूलम्

सूक्तमुखीये इत्युक्त एते प्रतीयात्।

टीका

एते इति। एतत्स्थान उक्ते इत्यर्थः।

विश्वास-प्रस्तुतिः

उत्तर आपूर्यमाणपक्षे केशवपनीयो बृहत्पृष्ठोऽतिरात्रः।

मूलम्

उत्तर आपूर्यमाणपक्षे केशवपनीयो बृहत्पृष्ठोऽतिरात्रः।

टीका

दशपेये कृते य उत्तरः शुक्लपक्ष आगच्छति वैशाखस्तस्मिन्केशवपनीयो नामैकाहः कर्तव्यः। स च बृहत्पृष्ठोऽतिरात्रसंस्थश्च भवति।

विश्वास-प्रस्तुतिः

द्वयोर्मासयोर्व्युष्टिद्व्यहः।

मूलम्

द्वयोर्मासयोर्व्युष्टिद्व्यहः।

टीका

केशवपनीयादूर्ध्वं द्वयोर्मासयोर्यः शुक्लपक्ष आषाढस्तत्र व्युष्टिद्व्यहो नाम द्व्यहः कर्तव्यः। तत्र61द्व्यहस्य गोआयुषी विपरीते इत्यतिदेश उक्तस्तत्रैव विशेष उच्यते –

विश्वास-प्रस्तुतिः

अग्निष्टोमः पूर्वमहः सर्वस्तोमोऽतिरात्र उत्तरम्।

मूलम्

अग्निष्टोमः पूर्वमहः सर्वस्तोमोऽतिरात्र उत्तरम्।

टीका

तस्य त्र्यहस्य यत्पूर्वमहस्तदग्निष्टोमसंस्थं भवति, तस्यैव यदुत्तरमहस्तत्सर्वस्तोमातिरात्रसंस्थ62 च भवति। सर्वस्तोमत्वात्षलहस्तोत्रियाषापाहीनसूक्तानीत्येवमादयो धर्मा भवन्ति।

विश्वास-प्रस्तुतिः

उत्तर आपूर्यमाणपक्षे क्षत्रस्य धृतिरग्निष्टोमः॥३॥

मूलम्

उत्तर आपूर्यमाणपक्षे क्षत्रस्य धृतिरग्निष्टोमः॥३॥

टीका

व्युष्टिद्वयादूर्ध्वं यः शुक्लपक्षः श्रावणस्तस्मिन्क्षत्रस्य धृतिर्नामैकाहः स चाग्निष्टोमप्रकृतिर्भवति, संस्था च सैव भवति॥३॥

विश्वास-प्रस्तुतिः

इति राजसूयाः।

मूलम्

इति राजसूयाः।

टीका

इतिशब्दः प्रकारवाची। एवंप्रकाराः सर्वे राजसूयाः। बहवश्याध्वर्युविहिता राजसूयाः सन्ति। अस्मच्छास्त्रविहिताश्चैकाहास्तेषां सर्वेषामयमेव प्रकार इत्यर्थः।

विश्वास-प्रस्तुतिः

न्यायकॢप्ताश्चदक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्याम्।

मूलम्

न्यायकॢप्ताश्चदक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्याम्।

टीका

अस्मिन्विहिते राजसूये पवित्रादयो ये सोमास्तेषु न्यायक्ऌतो दक्षिणाविधिर्भवति। न्यायो नाम ‘एवंप्रायाश्च63 दक्षिणाः’ इत्येवमादिभिः सूत्रैर्विहितो दक्षिणाप्रकारः। चशब्दादध्वर्युविहिताश्च64। अयं तु विधिरभिषेचनीयदशपेयाभ्यामन्यत्रैव भवति। तयोस्तु वक्ष्यमाण एव दक्षिणाविधिर्भवति न न्यायक्लप्त एवमर्थः पर्युदासः।

विश्वास-प्रस्तुतिः

अभिषेचनीये तु द्वात्रिंशतं
द्वात्रिंशतं सहस्राणि पृथङ्मुख्येभ्यः।

मूलम्

अभिषेचनीये तु द्वात्रिंशतं
द्वात्रिंशतं सहस्राणि पृथङ्मुख्येभ्यः।

टीका

अभिषेचनीये त्वयं दक्षिणाविधिर्भवति। होत्रादिभ्यो मुख्येभ्य एकैकस्मै द्वात्रिंशंत्सहस्राणि65 ददाति। पृथग्ग्रहणं पृथक्कृत्य दातव्यमित्येवमर्थम्।

विश्वास-प्रस्तुतिः

पोलश पोलश द्वितीयिभ्यः।

मूलम्

पोलश पोलश द्वितीयिभ्यः।

टीका

अधिभ्यइत्यर्थः।

विश्वास-प्रस्तुतिः

अष्टावष्टौतृतीयिभ्यश्चत्वारि चत्वारि पादिभ्यः।

मूलम्

अष्टावष्टौतृतीयिभ्यश्चत्वारि चत्वारि पादिभ्यः।

टीका

सर्वत्र सहस्राणीत्यधिक्रियते। अर्धमस्यास्तीत्यर्धी। एवं द्वितीयी तृतीयी पादी च। एषां संबन्धिशव्दानां सिद्धवदभिधाना त्प्रकृतावप्येवं दक्षिणाविभाग इति साधितं भवति।

विश्वास-प्रस्तुतिः

संसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावित्र्यां श्यामः पौष्ण्यां शितिष्पृष्ठोबार्हस्पत्यायामृपम ऐन्यां महानिरष्टो वारुण्याम्।

मूलम्

संसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावित्र्यां श्यामः पौष्ण्यां शितिष्पृष्ठोबार्हस्पत्यायामृपम ऐन्यां महानिरष्टो वारुण्याम्।

टीका

संसृपेष्टीनामयं दक्षिणाविधिर्भवति। हिरण्यमनियतसंख्यं सुवर्गे दद्यात्। वसतरी नाम गाजातौ स्त्रीबाला विसृष्टमातृस्तना। अवध्वस्तः पांसुवर्णः। श्यामो धूम्रवर्गः। शितिष्पृष्ठः कृष्णपृष्ठः। ऋषमः सेचनसमर्थः। महानिरष्टोऽवृद्धवया बलीवर्दः। सर्वे गोजातय एव भवन्ति।

विश्वास-प्रस्तुतिः

साहस्रो दशपेयः।

मूलम्

साहस्रो दशपेयः।

टीका

दशपेयः सहस्रदक्षिण इत्यर्थः।

विश्वास-प्रस्तुतिः

इमाश्चाऽऽदिष्टदक्षिणाः।

मूलम्

इमाश्चाऽऽदिष्टदक्षिणाः।

टीका

आदिष्टदक्षिणा इति। ऋत्विज आदिश्याऽऽदिश्य विहिता इत्यर्थः। चशब्दः सहस्रदक्षिणाया66 आदिष्टदक्षिणोयाश्च67 समुच्चयार्थः।

विश्वास-प्रस्तुतिः

सौवर्णी स्रगुद्गातुः।

मूलम्

सौवर्णी स्रगुद्गातुः।

टीका

सुवर्णमयी मालेत्यर्थः।

विश्वास-प्रस्तुतिः

अश्वः प्रस्तोतुर्धेनुः प्रतिहर्तुः।

मूलम्

अश्वः प्रस्तोतुर्धेनुः प्रतिहर्तुः।

टीका

धेनुः सबत्सा दातव्या।

विश्वास-प्रस्तुतिः

अजः सुब्रह्मण्यायै।

मूलम्

अजः सुब्रह्मण्यायै।

टीका

अजः सुब्रह्मण्याया इति। सुब्रह्मण्यायेत्यर्थः।

विश्वास-प्रस्तुतिः

हिरण्यप्राकाशावध्वर्योः।

मूलम्

हिरण्यप्राकाशावध्वर्योः।

टीका

प्राकाशौ प्रदीप्तौ68, कुण्डले इति केचित्। तौ सुवर्णमथौ दातव्यौ। अध्वर्योरध्वर्यवं इत्यर्थः। एवमत्र सर्वत्र चतुर्थ्यर्थे षष्ठी।

विश्वास-प्रस्तुतिः

राजतौ प्रतिप्रस्थातुः69

मूलम्

राजतौ प्रतिप्रस्थातुः69

टीका

राजतौ प्राकाशावित्यर्थः।

विश्वास-प्रस्तुतिः

द्वादश षष्ठौह्यो गर्भिण्यो ब्रह्मणः।

मूलम्

द्वादश षष्ठौह्यो गर्भिण्यो ब्रह्मणः।

टीका

षष्ठौह्यः पञ्चवर्षास्ता गर्भिणीर्दद्यात्।

विश्वास-प्रस्तुतिः

वशा मैत्रावरुणस्य।

मूलम्

वशा मैत्रावरुणस्य।

टीका

प्रजननासमर्था।

विश्वास-प्रस्तुतिः

रुक्मो होतुः।

मूलम्

रुक्मो होतुः।

टीका

रुक्मो नामाऽऽभरणविशेषो वृत्ताकारः।

विश्वास-प्रस्तुतिः

ऋषमो ब्राह्मणाच्छंसिनः। कार्पासं वासः पोतुः। क्षौमी बरासी नेष्टुः।

मूलम्

ऋषमो ब्राह्मणाच्छंसिनः। कार्पासं वासः पोतुः। क्षौमी बरासी नेष्टुः।

टीका

क्षौमी70, आतसी शाटी। बरासी स्थूला।

विश्वास-प्रस्तुतिः

एकयुक्तं यवाचितमच्छावाकस्य।

मूलम्

एकयुक्तं यवाचितमच्छावाकस्य।

टीका

एकेनानडुहा युक्तं यवपूर्ण शक्टमित्यर्थः।

विश्वास-प्रस्तुतिः

अनड्वानाग्नीध्रस्य।

मूलम्

अनड्वानाग्नीध्रस्य।

टीका

अनोवहनसमर्थो बलीवर्दोऽनड्वान्।

विश्वास-प्रस्तुतिः

वत्सतर्युन्नेतु स्त्रिवर्षः साण्डो ग्रावस्तुतः॥४॥

मूलम्

वत्सतर्युन्नेतु स्त्रिवर्षः साण्डो ग्रावस्तुतः॥४॥

टीका

त्रीणि वर्षाणि यस्य वयः स त्रिवर्षः।साण्डः, अण्डाभ्यां सहितः। नानण्डो न भग्नाण्ड इत्यर्थः॥४॥

विश्वास-प्रस्तुतिः

उशनसस्तोमेन गरगीर्णमिवाऽऽत्मानं मन्यमानो यजेत।

मूलम्

उशनसस्तोमेन गरगीर्णमिवाऽऽत्मानं मन्यमानो यजेत।

टीका

उशनसस्तोमो नामैकाहः। पुनः स्तोम इति चास्यैव संज्ञा। गरो विषम्। गरो गीणे येन स गरगीर्णः। यो बहुप्रतिग्रहादिना पापाभिभवादात्मानं गरगीर्णमिव मन्यते स एतेन यजेत।

विश्वास-प्रस्तुतिः

उशना यत्सहस्यै ३रयातं त्वमपो यदवेतुर्वशायेति सूक्तमुखीयेगोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वा
रेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करोबलित्थापर्वतानां दृह्लाचिद्या वनस्पतीन्देवेभ्यो वनस्पते
हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः।

मूलम्

उशना यत्सहस्यै ३रयातं त्वमपो यदवेतुर्वशायेति सूक्तमुखीयेगोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वा
रेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करोबलित्थापर्वतानां दृह्लाचिद्या वनस्पतीन्देवेभ्यो वनस्पते
हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः।

टीका

गोस्तोमो भूमिस्तोमो वनस्पतिसव इति त्रय एकाहाः कर्तव्या इत्येकोऽर्थोऽर्थात्कल्प्यते। अपरस्तुं तेषामेताः पलुचः सूक्तमुखीया एकैकस्य द्वे द्वे भवत इति। ‘देवेभ्यो वनस्पते हवींषि’ इत्यनया साहचर्यात् ‘वनस्पते रशनया नियूय’ इति प्रैषजैव71 गृह्यते।

विश्वास-प्रस्तुतिः

आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत।

मूलम्

आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत।

टीका

अधिपतेर्भाव आधिपत्यं तत्कामो ब्रह्मवर्चसकामो वा बृहस्पतिसेवो72 नामैकाहस्तेन यजेत। ब्रह्मणो वर्चस्तेजो ब्रह्मवर्चसमित्युच्यते। ब्रह्मेति ब्राह्मण्यं वेदश्चोच्यते तयोर्यद्वर्चस्तद्ब्रह्मवर्चसं तत्कामो ब्रह्मवर्चसकामः।

विश्वास-प्रस्तुतिः

तस्य तृचाः सूक्तस्थानेषु।

मूलम्

तस्य तृचाः सूक्तस्थानेषु।

टीका

तस्य बृहस्पतिसवस्य यानि सूक्तस्थानानि होतुर्होत्रकाणां च तेषु सर्वेषु तृचा एक कर्तव्याः। तस्येतिवचनं तस्य वृहस्पतिसवस्य स्वभूतानि यानि सूक्तस्थानानि तेष्वेवायं तृचत्वनियमः स्थान्नाऽऽगन्तूनामित्येवमर्थम्। तेनाऽऽगन्तूनां निविदतिपत्तौ प्राप्तानां तृचत्वनियमो73 न भवति।

विश्वास-प्रस्तुतिः

अग्निर्देवेषु राजतीत्याज्यं यस्तस्तम्भ धुनेतय इति सूक्तमुखीयेइन्द्र मरुत्व इह नृणामु त्वेति मध्यंदिन उदुष्य
देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्रऋमुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विना
मग इति वैश्वदेवं वैश्वानरं मनसाऽग्निं निचाय्यप्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निंसमिधा गिरा गुण इत्याग्निमारुतं होत्रका ऊर्ध्वंस्तोत्रियानुरूपेभ्यः प्रथमोत्तमांस्तृचाञ्शंसेयुः।

मूलम्

अग्निर्देवेषु राजतीत्याज्यं यस्तस्तम्भ धुनेतय इति सूक्तमुखीयेइन्द्र मरुत्व इह नृणामु त्वेति मध्यंदिन उदुष्य
देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्रऋमुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विना
मग इति वैश्वदेवं वैश्वानरं मनसाऽग्निं निचाय्यप्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निंसमिधा गिरा गुण इत्याग्निमारुतं होत्रका ऊर्ध्वंस्तोत्रियानुरूपेभ्यः प्रथमोत्तमांस्तृचाञ्शंसेयुः।

टीका

होत्रकाणां स्तोत्रियानुरूपेभ्य ऊर्ध्वं यच्छस्यं तस्याऽऽदितोऽन्ततश्चैकैकं तृचं होत्रकाः स्तोत्रियानुरूपेभ्य ऊर्ध्वं शंसेयुः।तन्मध्यगतं शस्यमुद्धार्थमित्यर्थः। ऊर्ध्वमनुरूपेभ्य इत्येव सिद्धे स्तोत्रियग्रहणं परिसंख्याशङ्कानिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

प्रगाथेभ्यस्तु माध्यंदिने।

मूलम्

प्रगाथेभ्यस्तु माध्यंदिने।

टीका

माध्यंदिने सवनेऽयं विशेषः74। प्रगाथेभ्य ऊर्ध्वं यच्छस्थं तस्याऽऽदितोऽन्ततश्व तृचौ ग्राह्यौ तयोर्मध्ये यच्छस्यं तदुद्धार्यमित्यर्थः।

विश्वास-प्रस्तुतिः

अनुसवनमेकादशैकादश दक्षिणाः।

मूलम्

अनुसवनमेकादशैकादश दक्षिणाः।

टीका

सवने सवन एकादशैकादश दक्षिणा ददाति सन्नेषु नाराशंसेषु। प्रातःसवने75 दक्षिणानां निर्देशमात्रमेव कृत्वातासामपि76 माध्यंदिन एव सबने नयनं कर्तव्यम्। माध्यंदिने या दक्षिणास्ता77सांनयनं च तत्रैव कर्तव्यम्। तृतीयसवने तु दक्षिणानां निर्देशमात्रमेव कृत्वाऽनूबन्ध्यावपायागे कृते तासां नयनं कर्तव्यम्।उन्नेण्यमाणास्वित्येते आहुती माध्यंदिन एव सवने भवतो नेतरयोः सवनयोः। प्रातःसवने नयनाभावात्तृतीयसने78 तस्य पूर्वे गणैव सिद्धत्वात्। क इदमित्यादि माध्यंदिने तृतीयसवने च भवति, उभयत्र नयनसंभवादृष्टार्थत्वाच्चेति सिद्धम्।

विश्वास-प्रस्तुतिः

एकादशैकादश वा सहस्राणि।

मूलम्

एकादशैकादश वा सहस्राणि।

टीका

एकादशैकादश वा सहस्राण्यनुसवनं79 दक्षिणा ददाति। पूर्वस्यैकादशशब्दस्य दक्षिणा विशेषणार्थत्वादस्य च सहस्रसंख्याविशेषणार्थत्वान्न पुनरुक्तदोषः।

विश्वास-प्रस्तुतिः

शतानि वा।

मूलम्

शतानि वा।

टीका

अत्र संख्याविशेषणार्थत्वात्पूर्व एवानुवर्तते। एकादशैकादश वा शतान्यनुसवनं दक्षिणा इत्यर्थः।

विश्वास-प्रस्तुतिः

अश्वो माध्यंदिनेऽधिकः।

मूलम्

अश्वो माध्यंदिनेऽधिकः।

टीका

त्रिष्वपि पक्षेष्वश्वोऽधिको माध्यंदिने दक्षिणाभिः सह दातव्यः।

विश्वास-प्रस्तुतिः

भुवा भ्रातृव्यवानधिबुभूषुर्यजेत।

मूलम्

भुवा भ्रातृव्यवानधिबुभूषुर्यजेत।

टीका

भूर्नामैकाहस्तेन भ्रातृव्यवान्यजेत। भ्रातृव्याः शत्रवस्तानधिबुभूषुरभिभवितुमिच्छुरित्यर्थः।

विश्वास-प्रस्तुतिः

सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः।

मूलम्

सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः।

टीका

सद्यस्क्रिया नामैकाहः। यस्मिन्नहनि दीक्षोपसत्सत्यं सर्वमेकस्मिन्नहनि क्रियते। अनुक्रियाऽप्येकाहः80। स एवं भवति – एकस्मिन्नहानि दीक्षा, द्वितीयेऽहनि क्रयायुपवसथान्तं, तृतीयेऽहनि सुत्येति। एवं परिक्रियाऽप्येकाहो भवति। एषामन्यतमेन स्वर्गकामो यजेतेति। निरतिशयसुखकाम इत्यर्थः।

विश्वास-प्रस्तुतिः

एकत्रिकेण त्र्येकेण वाऽन्नाद्यकामः।

मूलम्

एकत्रिकेण त्र्येकेण वाऽन्नाद्यकामः।

टीका

एकत्रिकरूयेकश्च द्वावेकाही तयोरन्यतरेणान्नाद्यकामो यजेत। एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानः, त्रिस्तोमो होतुराज्यम्, एवं व्यत्यासेन सर्वत्रतौ स्तोमौ विपरीतौ भवतः। त्र्येके81 च तावेव स्तोमो विपरीतौ भवतः।त्रिस्तोमको बहिष्पवमानः, एकस्तोमकं होतुराज्यम्। एवमेव व्यत्यस्य समापयेत्।

विश्वास-प्रस्तुतिः

गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति।

मूलम्

गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति।

टीका

गोतमस्तोमो नामैकाहस्तेन स यजेत यो मम प्रज्ञा दानशीला दानकामा स्यादिति कामयेत।

विश्वास-प्रस्तुतिः

एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन।

मूलम्

एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन।

टीका

एतेषां भूरादीनां गोतमस्तोमपर्यन्तानां सप्तानां बृहस्पतिसवेन शस्यं व्याख्यातम्। सप्तग्रहणं गोतमस्तोमसंग्रहार्थम्। इतरथा गोतमस्तोमस्य माध्यंदिने सवने स्तोमविवृद्धावपरिमिताभिरतिशंसने प्राप्त एतच्छस्यं न प्राप्नुयादतः सप्तग्रहणं कृतम्। तेन तस्मिन्नेव शस्ये यथासंभवगतिशंसनं भवति। शस्यग्रहणमेतेषु शस्यमेव न दक्षिणाविधिरपीत्येवमर्थम्।

विश्वास-प्रस्तुतिः

त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जातइन्द्रानुत्वा हि घ्ने अधदेव देवा अनु ते दायि मह इन्द्रियाय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्वस्त्वोज एकं नु त्वा सत्पतिं पाञ्चजन्यं व्यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः॥५॥

मूलम्

त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जातइन्द्रानुत्वा हि घ्ने अधदेव देवा अनु ते दायि मह इन्द्रियाय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्वस्त्वोज एकं नु त्वा सत्पतिं पाञ्चजन्यं व्यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः॥५॥

टीका

एतेषां सप्तानां चतुर्दश ऋचो द्वे द्वे संभूयैकैकस्यैकाहस्य यथासंख्यं सृक्तमुखीयः स्युः॥५॥

विश्वास-प्रस्तुतिः

गोतमस्तोममन्तरुक्थ्यं कुर्वन्ति।

मूलम्

गोतमस्तोममन्तरुक्थ्यं कुर्वन्ति।

टीका

उक्तो गोतमस्तोमस्तस्यैव कश्चिद्विशेष उच्यते। तमन्तरुक्थ्यं कुर्वन्त्यध्वर्यवश्छन्दोगाश्च। तत्रान्तरुक्थ्यत्वं नामैव भवति। अन्तर्मध्य इत्यर्थः। अग्निष्टोममध्ये यस्मिन्नेक्थ्योत्पत्तिः82 सोऽन्तरुक्थ्यः। स चतुष्प्रकारो भवति। ऐन्द्रावारुणादिभिग्रहैः ‘एह्यूषु ब्रवाणि ते’ इत्यादिभिः स्तोत्रियानुरूपैर्वा साकमश्वादिभिः सामभिर्वा, सामस्तोत्रियानुरूपैर्वा।

एषु पक्षेषु विशेषमाह-

विश्वास-प्रस्तुतिः

ग्रहान्तरुक्थ्यश्वेदग्ने मरुद्भिर्ऋक्वमिः पा इन्द्रावरुणाभ्यांमत्स्वेन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात्परिधानीयाया आवपेत।

मूलम्

ग्रहान्तरुक्थ्यश्वेदग्ने मरुद्भिर्ऋक्वमिः पा इन्द्रावरुणाभ्यांमत्स्वेन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात्परिधानीयाया आवपेत।

टीका

उक्थ्या ग्रहा यदाऽग्निष्टोमचमसैः सह गृहीत्वा सहैव हूयन्ते तदा ग्रहान्तरुक्थ्योभवति। तत्राऽऽग्निमारुतस्य परिघानीयायाः पुरस्तादियमृगर्धर्चशः शंस्तव्या।

विश्वास-प्रस्तुतिः

उभय्योराह्वानम्।

मूलम्

उभय्योराह्वानम्।

टीका

उत्तरविवक्षार्थमेतत्सूत्रम्।

विश्वास-प्रस्तुतिः

अन्यतरस्यामेक उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन।

मूलम्

अन्यतरस्यामेक उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन।

टीका

स्तुयुरिति शेषः। एष स्तोत्रियानुरूपान्ते83 उक्थ्यः।

विश्वास-प्रस्तुतिः

स्वैर्वा।

मूलम्

स्वैर्वा।

टीका

स्तुयुरिति शेषः। उक्थ्यस्तोत्रियेष्वेव स्वैः साकमश्वादिभिरेवाऽऽग्निमारुताय यदि स्तुयुरेष सामस्तोत्रियानुरूपान्तरुक्थ्यो भवति।

अनन्तरोक्तयोः पक्षयोः शंसनप्रकारमाह–

विश्वास-प्रस्तुतिः

सकृदाहूय स्तोत्रियांस्तथाऽनुरूपान्।

मूलम्

सकृदाहूय स्तोत्रियांस्तथाऽनुरूपान्।

टीका

त्रिभिः स्तोत्रियैरेकं स्तोत्रियकार्यमत्र क्रियते। अनुरूपैश्च त्रिभिरेकमनुरूपकार्यमिति84 कृत्वाऽऽहावैक्यमत्रेति मन्तव्यम्।

विश्वास-प्रस्तुतिः

अन्यत्राप्येवं स्तोत्रियानुरूपसंनिपाते।

मूलम्

अन्यत्राप्येवं स्तोत्रियानुरूपसंनिपाते।

टीका

अन्यत्रापि च स्तोत्रियानुरूपद्रव्याणां संनिपाते सति कार्यैक्यादेक85 एवाऽऽहावः कर्तव्यः। अत्रोदाहरणं गर्भकारस्तवने। अत्र चोदाहरणं यदि कदाचिच्छन्दोगाः स्वयोनावेव यज्ञायज्ञीयेन स्तुत्वोक्थ्यस्तोत्रियेष्वपि यज्ञायज्ञीयेन स्तुयुस्तदा स्तोत्रियानुरूपचतुष्कं भवति। अयं तु कल्पः सूत्रकारेण86न निबद्धः। अत्राप्याहावैक्यसिध्द्यर्थमन्यत्रापीत्यापशब्दः कृतो भगवता सूत्रकारेण।

विश्वास-प्रस्तुतिः

यद्यु वै यज्ञायज्ञीययोनौ सर्वैरेवौक्थ्यसामभिःप्रकृत्या स्यात्तथा सति॥ ६॥

मूलम्

यद्यु वै यज्ञायज्ञीययोनौ सर्वैरेवौक्थ्यसामभिःप्रकृत्या स्यात्तथा सति॥ ६॥

टीका

एष सामान्तरुक्थ्यपक्षो भवति। यदि यज्ञायज्ञीयस्यक्षु साकमश्वसौभरनर्मेधैस्तुयुस्तदा87प्रकृत्या स्यादाग्निमारुतशस्यं न यज्ञायज्ञीयस्याक्रियमाणस्य योनिशंसनं कर्तव्यमित्यर्थः।तथा सतीति। कथं सतीत्युक्तं भवति। अयमभिप्रायः – प्रकृत्येते योनिशंसनाभावउच्यते। तथासति, तस्मिन्नेव शस्त्रे स्तोत्रियत्वेन शंसने सतीत्यर्थः। अनेन प्रकारेणतद्भावभावित्वमुक्तं भवति। अतः सिद्धमन्यत्रापि यत्र स्तोत्रियत्वेन यस्मिन्शस्त्रे शंसनमस्ति तस्मिन्शस्त्रे योनित्वेनापि शंसनं तासामृचां88न भवतीति। अत्रैतावान्प्रयोजकोंऽशः – एकस्मिन्शस्त्रे स्तोत्रियत्वेन शस्तस्य पुनरपि तस्मिन्नेव शस्त्रे योनित्वेन89 शंसनं90 भवतीति।नात्राक्रियमाणता91, अस्वयोनिभाविता92 वा विशेषहेतुः। अतः स्तोत्रियानुरूपान्तरुक्थ्यपक्षेसामस्तोत्रियानुरूपान्तरुक्थ्यपक्षे च यज्ञायज्ञीयस्य यथोक्तं योनिशंसनं कर्तव्यम्॥ ६॥

विश्वास-प्रस्तुतिः

श्येनाजिराभ्यामभिचरन्यजेत।

मूलम्

श्येनाजिराभ्यामभिचरन्यजेत।

टीका

श्येनश्चाजिरश्च द्वावेकाहौ ताभ्यामभिचरन्यजेत। अभिपूर्वश्चरतिर्हिसायां वर्तते।अभिचरञ्शत्रून्मारयन्नित्यर्थः।

विश्वास-प्रस्तुतिः

अहं मनुर्गर्भे नु संस्त्वया मन्योयस्ते मन्यविति मध्यंदिनौ।

मूलम्

अहं मनुर्गर्भे नु संस्त्वया मन्योयस्ते मन्यविति मध्यंदिनौ।

टीका

यथासंख्येनोभयोर्भवतः।

विश्वास-प्रस्तुतिः

शेषो बृहस्पतिसवेन।

मूलम्

शेषो बृहस्पतिसवेन।

टीका

अनयोर्माध्यंदिनाभ्यामन्यो यः शस्यविशेषः स बृहस्पतिसवेन व्याख्यातः।

विश्वास-प्रस्तुतिः

संनद्धा लोहितोष्णीपा निस्त्रिंशिनो याजयेयुः।

मूलम्

संनद्धा लोहितोष्णीपा निस्त्रिंशिनो याजयेयुः।

टीका

युद्धोपकरणैः कवचादिभिः सम्यग्बद्धा इत्यत्र विवक्ष्यन्ते। लोहितवासोभिर्वेष्टितशिरसो लोहितोष्णीषा उच्यन्ते। निस्त्रिंशोऽसिः खड्गोवा स येषां हस्तेषु भवति तेनिस्त्रिंशिन इत्युच्यन्ते। याजयेयुरितिवचनं सदस्यचमसाध्वर्यु93शामित्रनिवृत्त्यर्थम्94

विश्वास-प्रस्तुतिः

शरमयं बर्हिः।

मूलम्

शरमयं बर्हिः।

टीका

शरो नाम वेणुसदृशस्तन्मयं बर्हिर्भवति।

विश्वास-प्रस्तुतिः

मौसलाः परिधयः।

मूलम्

मौसलाः परिधयः।

टीका

मौसला मुसलमया मुसलरूपा इत्यर्थः।

विश्वास-प्रस्तुतिः

बैभीतक इध्मः।

मूलम्

बैभीतक इध्मः।

टीका

बिभीतको नाम तरुविशेषस्तन्मय इध्मो भवति।

विश्वास-प्रस्तुतिः

वाघातको वा।

मूलम्

वाघातको वा।

टीका

वाघातकश्च वृक्षविशेषस्तन्मयो वा भवति।

विश्वास-प्रस्तुतिः

अपगूर्याऽऽश्रावयेत्।

मूलम्

अपगूर्याऽऽश्रावयेत्।

टीका

स्रुचावृत्क्षिप्यापगुरयन्निवाऽऽश्रावयेत्।

विश्वास-प्रस्तुतिः

प्रत्याश्रावयेच्च।

मूलम्

प्रत्याश्रावयेच्च।

टीका

[*95स्रुचमुत्क्षिप्यावगुरयन्प्रत्याश्रावयेच्च ]।

विश्वास-प्रस्तुतिः

छिन्दन्निव वषट् कुर्यात्।

मूलम्

छिन्दन्निव वषट् कुर्यात्।

टीका

वषट्कारशब्दे छेदनं नामास्निग्धता96 वर्णानां तीक्ष्णता च। अथ वा वषट्कारोच्चारणकाले मनसा शत्रून्दारयन्निव स्यात्।

विश्वास-प्रस्तुतिः

द्रुषन्निव जुहुयात्।

मूलम्

द्रुषन्निव जुहुयात्।

टीका

स्रुचाऽङ्गारान्प्रेषयन्निव97मनसा शत्रून्प्रेषयन्निव98स्यात्।

विश्वास-प्रस्तुतिः

साद्यस्क्रेपूर्वरा वेदिः।

मूलम्

साद्यस्क्रेपूर्वरा वेदिः।

टीका

अभिचरणीयेषु साधारणधर्मा उक्ता इदानीं साद्यस्केषु साधारणधर्मा उच्यन्ते।साद्यस्का नाम सोमयागाः सदीक्षोपसत्का एकस्मिन्नहनि क्रियन्ते तेषूर्वरा वेदिः।सस्यवती भूमिर्वेदिर्भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

खल उत्तरवेदिः।

मूलम्

खल उत्तरवेदिः।

टीका

यस्मिन्प्रदेशे धान्यानि पूलैर्विविच्यन्तेऽनडुद्धिः स प्रदेशः खल इत्युच्यते।

विश्वास-प्रस्तुतिः

खलेवाली यूपः।

मूलम्

खलेवाली यूपः।

टीका

खलमध्येऽनडुद्भिर्भ्रमणे क्रियमाणे तद्वन्धनार्था मेथी खलेवालीयुच्यते। खलेऽनडुहो वारयतीति खलेवाली।

विश्वास-प्रस्तुतिः

स्फ्यग्रो यूपः।

मूलम्

स्फ्यग्रो यूपः।

टीका

स्फ्यस्येवाग्रं तीक्ष्णं यस्य स स्फ्यग्रः।स्फ्याग्रइत्यर्थः। ह्रस्वश्छान्दसः। एवं यूपो भवति।

विश्वास-प्रस्तुतिः

अचषालः।

मूलम्

अचषालः।

टीका

अस्य यूपश्चषालरहितश्च भवति।

विश्वास-प्रस्तुतिः

कलापी चपालः।

मूलम्

कलापी चपालः।

टीका

सा मेथ्यग्रप्रदेशे धान्यपूलैर्बद्धा तिष्ठति स एव चषालो भवतीति।

विश्वास-प्रस्तुतिः

इत्यागन्तुका विकाराः।

मूलम्

इत्यागन्तुका विकाराः।

टीका

इत्येतेऽनुक्रान्ता धर्मा आगन्तुका विकारा99वेदितव्याः। अप्राकृता धर्मा आगन्तुका इत्युच्यन्ते। प्राकृतेष्वेव विशेषविधयो विकारा उच्यन्ते। तत्र संनद्धा लोहितोष्णीषाइत्येवंप्रकारा आगन्तुकाः। शरमयं बर्हिरुवरी वेदिरित्यादयो विकाराः।

विश्वास-प्रस्तुतिः

अन्यांश्चाध्वर्यवो विदुः।

मूलम्

अन्यांश्चाध्वर्यवो विदुः।

टीका

अर्ध्वर्यवोऽन्याश्चाऽऽगन्तुकान्विकारांश्चाऽऽमनन्ति ते सर्वेऽस्माभिरनुष्ठेया इत्यर्थः।

विश्वास-प्रस्तुतिः

सिद्धे तु शस्ये होता संप्रैषान्वयः स्यात्।

मूलम्

सिद्धे तु शस्ये होता संप्रैषान्वयः स्यात्।

टीका

शस्यग्रहणमनुवचनादीनामपि प्रदर्शनार्थम्। सिद्धेऽनुवच100नादावस्म101च्छास्त्र102विहिते सति होता संप्रैषान्वयः स्यात्। इदमत्रोदाहरणम्। खलेवाल्यामुच्छ्र103पणाभावादञ्जनपरिव्याणयोर्द्वे104 एवर्चावनूच्येते। तत्र प्रकृत्या बहुत्वाभावादभिहिंकाराभ्यासौ न स्याताम्। एवं प्राप्तइदमुच्यते — सिद्धे साभिहिंकाराभ्यासेऽनुवचने सति होत्रा संप्रैषानुसारेण तावन्मात्रमणुवक्तव्यं नान्यो विकार उत्पादयितव्य इत्यर्थः। अन्यदप्येवंप्रकारमुदाहरणमन्वेषणीयम्।

विश्वास-प्रस्तुतिः

पाप्या कीर्त्या पिहितो महारोगेण वा योवाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत।

मूलम्

पाप्या कीर्त्या पिहितो महारोगेण वा योवाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत।

टीका

पापी कीर्तिर्ब्रह्महत्यादिना जाता तयापिहितश्छन्न इत्यर्थः। महारोगेण वा पिहितः। दीर्घकालानुवर्ती रोगो महारोगः। अथ वाऽऽयुर्वेदप्रसिद्धो महारोगः। यो वाऽलंप्रजननःपर्याप्तप्रजननः पुंस्त्वयुक्त इत्यर्थः। स यदि प्रजा न लभेत। एते त्रयोऽग्निष्टुतोऽधिकारिणः। अग्निष्टदित्येकाहस्य संज्ञा।

विश्वास-प्रस्तुतिः

तिष्ठा हरी यो जात एवेति मध्यंदिनःसर्वाग्नेयश्चेत्स्तोत्रियानुरूपा आग्नेयाः स्युः।

मूलम्

तिष्ठा हरी यो जात एवेति मध्यंदिनःसर्वाग्नेयश्चेत्स्तोत्रियानुरूपा आग्नेयाः स्युः।

टीका

असर्वाग्नेयोऽग्निष्टुदित्युक्तः सर्वाग्नेयत्वमिदानीमुच्यते। यद्ययमग्निष्टुत्सर्वाग्नेयः स्यात्तदा स्तोत्रियानुरूपा आग्नेयीभिः कर्तव्याः।

विश्वास-प्रस्तुतिः

विचारि वा।

मूलम्

विचारि वा।

टीका

एवं वा सर्वाग्नेयोऽग्निष्टुद्भवति विचारि105 वाऽऽग्नेयो भवति। विचारिशब्देनाऽऽगमापायिन उच्यन्ते। अविचारिण इन्द्रनिहवापोहिष्ठीयप्रकारास्तेभ्योऽन्ये विचारिणस्ते सर्व आग्नेया भवन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

अपि वा सर्वेषु देवताशब्देष्वग्निमेवामिसंनमेत्।

मूलम्

अपि वा सर्वेषु देवताशब्देष्वग्निमेवामिसंनमेत्।

टीका

अथ106 वैवं सर्वाग्नेयोऽग्निष्टुद्भवति। यथाप्राप्ते शस्ये सर्वेषु देवताशब्देष्वग्निशब्दः प्रक्षेत107व्य इति। अग्निशब्दस्य पुंलिङ्गत्वास्त्रीदेवताशब्दस्थानेऽपि पुंलिङ्ग एवाग्निशब्दः प्रयोक्तव्यः। यथा ‘पावका नोऽग्निर्वाजेभिः’ इति द्विवचनबहुवचने त्वविरोधात्कर्त ये एव,यथा ‘ ऋतेनाग्नी ऋतावृधौ’ इति। ‘ओमासश्चर्षणीघृतोऽग्नय आगत108’ इति देवताशब्देष्वग्निशब्दं प्रक्षिपेदितिवचनात्सिद्धेऽपि सर्वेष्वितिवचनं शस्त्रादिषट्के च जपानु109मन्त्रणाप्यायनोपस्थानान्युपांशुजपादिषट्के च सर्वप्रकारे मन्त्रेऽस्य विधेः प्रापणार्थम्।

विश्वास-प्रस्तुतिः

तथा सत्यन्वक्षमिन्द्रस्तुता यजेत।

मूलम्

तथा सत्यन्वक्षमिन्द्रस्तुता यजेत।

टीका

तथासतीत्येभिस्त्रिप्रकारैः सर्वाग्नयेऽग्निष्टुति सतीत्यर्थः। अन्वक्षं सद्य एवेत्यर्थः। इन्द्रस्तुनामैकाहस्तेन यजेत।

विश्वास-प्रस्तुतिः

इन्द्र सोममिन्द्रं स्तवेति मध्यंदिनः।

मूलम्

इन्द्र सोममिन्द्रं स्तवेति मध्यंदिनः।

टीका

‘इन्द्र सोमं सोमपते पित्रेमम्’ इत्यस्यैव सर्वत्र ग्रहणं त्रैष्टुभत्वान्माध्यंदिनस्य सवनस्य।

विश्वास-प्रस्तुतिः

भूतिकामो वा ग्रामकामो वा प्रजाकामो वोपहव्येन यजेत।

मूलम्

भूतिकामो वा ग्रामकामो वा प्रजाकामो वोपहव्येन यजेत।

टीका

भूतिकामो यः स्वाध्यायेन धनेन वा भवितुं कामयते स भूतिकामः। ग्रामकामः प्रसिद्धः। प्रजाकामः पुत्रकामः। एषामन्यतम उपहव्येनैकाहेन यजेत। एष च्छन्दोगानामनिरुक्त110इति श्रूयते। इन्द्रस्थाने शकशब्दः प्रयोक्तव्यः, सर्वशब्दस्थाने विश्वशब्दइत्यादयो धर्मा अनिरुक्ताः श्रूयन्त इति च्छन्दोगानां प्रसिद्धं ते चास्माभिरनुसरणीयाः।

विश्वास-प्रस्तुतिः

इमा उ त्वा य एक इदिति मध्यंदिन
इन्द्राग्न्योः कुलायेन प्रजातिकामः।

मूलम्

इमा उ त्वा य एक इदिति मध्यंदिन
इन्द्राग्न्योः कुलायेन प्रजातिकामः।

टीका

प्रजातिकाम इति। प्रजाभिः पशुभिश्च महान्भूयासमिति कामयमान इत्यर्थः। इन्द्राग्न्योः कुलाय111 इत्येकाहः।

विश्वास-प्रस्तुतिः

तिष्ठा हरी तमु ष्टुहीति मध्यंदिन ऋषभेण विजिगीषमाणः।

मूलम्

तिष्ठा हरी तमु ष्टुहीति मध्यंदिन ऋषभेण विजिगीषमाणः।

टीका

विजेतुमिच्छन्विजिगीषमाणः।

विश्वास-प्रस्तुतिः

मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनस्तीव्रसोमेनान्नाद्यकामः।

मूलम्

मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनस्तीव्रसोमेनान्नाद्यकामः।

टीका

तीव्रसोम इत्येकाहः।

विश्वास-प्रस्तुतिः

वचस्य वीरस्तीवस्यामिवयस इति मध्यंदिनो विधनेनामिचरत्।

मूलम्

वचस्य वीरस्तीवस्यामिवयस इति मध्यंदिनो विधनेनामिचरत्।

टीका

विधन इति ऋतुनाम।

विश्वास-प्रस्तुतिः

तस्य शस्यमजिरेण112

मूलम्

तस्य शस्यमजिरेण112

टीका

शस्यग्रहणं113 प्रदर्शनार्थेन लोहितोष्णीषादिनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

इन्द्राबिष्णोरुत्क्रान्तिना स्वर्गकामः।

मूलम्

इन्द्राबिष्णोरुत्क्रान्तिना स्वर्गकामः।

टीका

इन्द्राविष्णोरुत्क्रान्तिरित्येकाहनाम।

विश्वास-प्रस्तुतिः

इमा उ त्वा द्यौर्नय इन्द्रेति मध्यंदिनो यः कामयेतनैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत।

मूलम्

इमा उ त्वा द्यौर्नय इन्द्रेति मध्यंदिनो यः कामयेतनैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत।

टीका

निस्नेहस्य भावो नैष्णिह्यम्। पाप्मनो नैष्णिह्यं गच्छेयमिति यः कामयेत स ऋतपेयनाम्नैकाहेन यजेत। स्वल्पमपि पापं मयि न तिष्ठतेति यः कामयेत् स ऋतपेयेनयजेतेत्यर्थः।

विश्वास-प्रस्तुतिः

ऋतस्य हि शुरुधः सन्ति पूर्वीरितिसूक्तमुखीये सत्येन चमसान्भक्षयन्ति।

मूलम्

ऋतस्य हि शुरुधः सन्ति पूर्वीरितिसूक्तमुखीये सत्येन चमसान्भक्षयन्ति।

टीका

सत्यमुक्त्वा भक्षयन्ति।

विश्वास-प्रस्तुतिः

सत्यमियं पृथिवी सत्यमयमग्निःसत्यमयं वायुः सत्यमसावादित्य इति।

मूलम्

सत्यमियं पृथिवी सत्यमयमग्निःसत्यमयं वायुः सत्यमसावादित्य इति।

टीका

सत्यमियं पृथिवी सत्यमयमग्निः सत्यमयं वायुः सत्यमसावादित्य इत्येवमुक्त्वा भक्षयनतीत्यर्थः। अत्र नित्यस्य भक्षणमन्त्रस्य निवृत्तिः।

विश्वास-प्रस्तुतिः

सोमचमसो दक्षिणा॥ ७॥

मूलम्

सोमचमसो दक्षिणा॥ ७॥

टीका

‘सोमांशुभिः पूर्ण114ेचमसं दक्षिणाकाले सगोत्राय ब्राह्मणाय ददाति’ इति श्रुतिः।ऋत्विगानतावप्युपायान्तरंमन्वेषणीयम्॥ ७॥

विश्वास-प्रस्तुतिः

अतिमूर्तिना यक्ष्यमाणो मासं सौर्याचान्द्रमसीभ्यामिष्टीभ्यां यजेत।

मूलम्

अतिमूर्तिना यक्ष्यमाणो मासं सौर्याचान्द्रमसीभ्यामिष्टीभ्यां यजेत।

टीका

अतिमुर्तिर्दूणाशो बहुसुवर्ण इत्येकाहस्य त्रीणि नामानि। अनेन यक्ष्यमाणः पुरस्तादेकं मासं सौर्याचान्द्रमसीभ्यामिष्टीम्यां यजेत। सूर्योऽस्या देवतेति सौरी। सौर्येत्याकारान्तनिर्देशश्छान्दसः। चन्द्रमा देवताऽस्या इति चान्द्रमसी। एताम्यामिष्टीभ्यांयजेत।

कथमित्यपेक्षायामेतदाह—

विश्वास-प्रस्तुतिः

शुक्लं चान्द्रमस्या सौर्ययेतरम्।

मूलम्

शुक्लं चान्द्रमस्या सौर्ययेतरम्।

टीका

शुक्लपक्षमहरहश्चान्द्रमस्या यजेत। इतरं कृष्णमहरहः सौर्यया यजेत। ततोऽतिमुर्तिना यष्टव्यम्।

विश्वास-प्रस्तुतिः

अत्राह गोरमन्वत नवो नवोभवतिजायमानस्तरणिर्विश्वदर्शतश्चित्रंदेवानामुदगादनीकमिति याज्यानुवाक्याः।

मूलम्

अत्राह गोरमन्वत नवो नवोभवतिजायमानस्तरणिर्विश्वदर्शतश्चित्रंदेवानामुदगादनीकमिति याज्यानुवाक्याः।

टीका

याज्यानुवाक्याग्रहणं सूक्तमुखीयत्वसंशयनिवृत्त्यर्थम् \। इतरथा पलृचोऽनुक्रम्प सूक्तमुखीये इत्युक्त आसामन्यतमे इति प्रतिभासः स्यात्तन्निवृत्त्यर्थमिति।

विश्वास-प्रस्तुतिः

स ईं महीं धुनिमेतोररम्णात्स्वप्नेनाभ्युप्याचुमुरिं धुनिं चेति सूक्तमुखीये।

मूलम्

स ईं महीं धुनिमेतोररम्णात्स्वप्नेनाभ्युप्याचुमुरिं धुनिं चेति सूक्तमुखीये।

टीका

अतिमूर्तिन एते सूक्तमुखीये।

विश्वास-प्रस्तुतिः

सूर्यस्तुता यशस्कामः।

मूलम्

सूर्यस्तुता यशस्कामः।

टीका

सूर्यस्तुदेक हः, यशः कीर्तिः।

विश्वास-प्रस्तुतिः

पिबा सोमममीन्द्रं स्तवेति मध्यंदिनः। व्योम्नाऽन्नाद्यकामः।

मूलम्

पिबा सोमममीन्द्रं स्तवेति मध्यंदिनः। व्योम्नाऽन्नाद्यकामः।

टीका

व्योमेत्येकाहनाम।

विश्वास-प्रस्तुतिः

विश्वदेवस्तुता यशस्कामः।

मूलम्

विश्वदेवस्तुता यशस्कामः।

टीका

विश्वदेवस्तादित्येकाहनाम।

विश्वास-प्रस्तुतिः

पञ्चशारदीयेन पशुकामः।

मूलम्

पञ्चशारदीयेन पशुकामः।

टीका

पञ्चशारदीय एकाहः।

विश्वास-प्रस्तुतिः

एतेषां त्रयाणां कयाशुमातदिदासेतिमध्यंदिनः। उभयसामानौ पूर्वौ।

मूलम्

एतेषां त्रयाणां कयाशुमातदिदासेतिमध्यंदिनः। उभयसामानौ पूर्वौ।

टीका

व्योमविश्वदेवस्तुतावित्यर्थः।

विश्वास-प्रस्तुतिः

उक्थ्यः पञ्चशारदीयो विशो विशो वो अतिथिमित्याज्यम्।

मूलम्

उक्थ्यः पञ्चशारदीयो विशो विशो वो अतिथिमित्याज्यम्।

टीका

पच्चशारदीय एतदाज्यं भवति।

विश्वास-प्रस्तुतिः

कण्वरथंतरं पृष्ठम्।

मूलम्

कण्वरथंतरं पृष्ठम्।

टीका

पञ्चशारदीयस्यैव।

विश्वास-प्रस्तुतिः

गोसवविवधौपशुकामः।

मूलम्

गोसवविवधौपशुकामः।

टीका

गोसवो विवधश्चैकाही तयोरेकैकः पशुकामस्य।

विश्वास-प्रस्तुतिः

इन्द्र सोममेतायामेति मध्यंदिनः।

मूलम्

इन्द्र सोममेतायामेति मध्यंदिनः।

टीका

गोसवविवधयोरुभयोरप्येष एव115मध्यंदिनः।

विश्वास-प्रस्तुतिः

दश सहस्राणि दक्षिणाः।

मूलम्

दश सहस्राणि दक्षिणाः।

टीका

दक्षिणाश्च द्वयोरेकैकस्य सर्वाः।

विश्वास-प्रस्तुतिः

षोडशैकाहाः।

मूलम्

षोडशैकाहाः।

टीका

अतः परं षोडशैकाहास्ते चोद्भिदादयो राशिमरायान्ताः116

विश्वास-प्रस्तुतिः

आयुर्गौरिति व्यत्यासम्।

मूलम्

आयुर्गौरिति व्यत्यासम्।

टीका

तेषां षोडशानामायुर्गौश्च प्रकृती भवतः। व्यत्यासमिति। अयुजामायुर्युजां गौरित्येकं व्यत्यासः प्रथमस्यायुर्द्वितीयस्य गौस्तृतीयस्याऽऽयुरित्यर्थः117

विश्वास-प्रस्तुतिः

उद्भिद्बलभिदौ स्वर्गकामः।

मूलम्

उद्भिद्बलभिदौ स्वर्गकामः।

टीका

तेषामाद्यावुद्भिच्च बलभिच्चतौ स्वर्गकामस्य। ये द्वंद्वशो विहिता एकाहास्ते यमयज्ञा वेदितव्याः। तेषु सर्वेषु यमयज्ञेषु पूर्वेण यागं कृत्वाऽनन्तरमेवोत्तरेण यागःकर्तव्यः। अथ वा च्छन्दोगप्रत्ययादेव यमयज्ञानां गतिर्भवेत्। एतेषु माध्यंदिने विधिरायुषो गोश्च प्राप्ते तावन्मात्रापवादः।

विश्वास-प्रस्तुतिः

इन्द्र सोममिन्द्रः पूर्मिदिति मध्यंदिनः।

मूलम्

इन्द्र सोममिन्द्रः पूर्मिदिति मध्यंदिनः।

टीका

उद्भिद्वलमिदोरेव118 माध्यंदिनः।

विश्वास-प्रस्तुतिः

विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते।

मूलम्

विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते।

टीका

विनुतिरभिभूतिश्च द्वौ। इषुश्च वज्रश्च द्वौ। द्वयोर्यमयोर्मन्युसूक्ते ’ त्वया मन्यो यस्तेमन्यो’ इत्येते मध्यंदिनो119 भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

अभिचरन्यजेत।

मूलम्

अभिचरन्यजेत।

टीका

तावेव द्वौ द्वावभिचरतो भवतः। एतत्सर्वं पूर्वसूत्रस्थेन चशब्देन लभ्यते।

विश्वास-प्रस्तुतिः

त्विष्यमचित्योः सम्राट्स्वराजोविराड्विराजोः शदस्य चैकाहिके।

मूलम्

त्विष्यमचित्योः सम्राट्स्वराजोविराड्विराजोः शदस्य चैकाहिके।

टीका

त्विषिश्चापचितिश्च द्वौ। सम्राट्स्वराट्च द्वौ। राट्च विराट्च द्वौ। शदश्चैकः। एतेषां सप्तानामैकाहिके ‘जनिष्ठा उग्र इन्द्रस्य नु वीर्याणि’ इत्येते120 मध्यंदिनो भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

उपशदस्य राशिमराययोश्च कपाशुमीयतदिदासीये।

मूलम्

उपशदस्य राशिमराययोश्च कपाशुमीयतदिदासीये।

टीका

उपशदश्चैकः राशिश्च मरायश्च द्वौ तेषां कयाशुभीयतदिदासीये मध्यंदिनो भक्तीत्यर्थः।

विश्वास-प्रस्तुतिः

भूतिकामराज्यकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम्।

मूलम्

भूतिकामराज्यकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम्।

टीका

षोडशानां मध्ये स्विप्यादीनामनुक्तकामानामेते कामा भवन्ति।

विश्वास-प्रस्तुतिः

एते कामा द्वयोर्द्वयोः।

मूलम्

एते कामा द्वयोर्द्वयोः।

टीका

त्विण्यादीनां द्वयोर्द्वयोरेतेषामेकैकः121 कामो यथासंख्येन भवति।

विश्वास-प्रस्तुतिः

ऋषिस्तोमा व्रात्यस्तोमाश्चपृष्ठ्यहानि।

मूलम्

ऋषिस्तोमा व्रात्यस्तोमाश्चपृष्ठ्यहानि।

टीका

ऋषिस्तोमा नाम सप्तैकाहाः। व्रात्यस्तोमा नाम च सप्तैव। तेषां चोमयेषां पृष्ठ्या हानि यथासंख्येन प्रकृतिभूतानि भवन्ति। प्रथमस्य प्रथमेनेत्येवम्। उपयत्र सप्तमोज्योतिष्टोमः प्रकृतिः।

विश्वास-प्रस्तुतिः

नाकसद ऋतुस्तोमा दिक्स्तोमाश्चभिप्लवाहानि॥ ८॥

मूलम्

नाकसद ऋतुस्तोमा दिक्स्तोमाश्चभिप्लवाहानि॥ ८॥

टीका

नाकसद इति षडेकाहा एको गणः। ऋतुस्तोमनामानश्च षडेकाहा दिक्स्तोमनामानश्च षडेकाहा द्वावेतौ गणौ। एतेषां त्रयाणामभिप्लवाहानि प्रकृतिरकैकस्य गणस्य यथासंख्येनैव पूर्ववद्भवति॥८॥

विश्वास-प्रस्तुतिः

वाजपेयेनाऽऽधिपत्यकामः।

मूलम्

वाजपेयेनाऽऽधिपत्यकामः।

टीका

आधिपत्यमाधिक्येन स्वाम्यं तत्कामो वाजपेयेन यजेत।

विश्वास-प्रस्तुतिः

सप्तदश दीक्षाः।

मूलम्

सप्तदश दीक्षाः।

टीका

तस्य वाजपेयस्य सप्तदश दीक्षा भवन्ति। एकाहानामेका तिस्रोवा दीक्षा इत्यस्यायमपवादः।

विश्वास-प्रस्तुतिः

सप्तदशापवर्गो वा।

मूलम्

सप्तदशापवर्गो वा।

टीका

सप्तदशभिरहोभिरपवृज्यते समाप्यते यः स सप्तदशापवर्गः। तदा त्रयोदश दीक्षास्तित्र उपसद एका सुत्येति कल्पना।

विश्वास-प्रस्तुतिः

हिरण्यस्रज ऋत्विजो याजयेयुः।

मूलम्

हिरण्यस्रज ऋत्विजो याजयेयुः।

टीका

हिरण्मयीभिः स्रग्मिर्भूषिता हिरण्यस्रज इत्युच्यन्ते। अत्रविग्ग्रहणं चमसाध्वर्युशमित्रादिनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

वज्रकिञ्जल्का शतपुष्करा होतुः।

मूलम्

वज्रकिञ्जल्का शतपुष्करा होतुः।

टीका

होतुः स्रगेवं भवति। हिरण्मयैः शतेन पुष्करैः कृतानि च तानि पुष्कराणि वज्रनामकै रत्नविशेषैः कृतार्कञ्जल्कानि भवन्ति। किञ्जल्कपुष्करशब्दाभ्यां स्रगेव विशेष्यते122ऽपाष्ठिंकः परस्परसंबन्धः।

विश्वास-प्रस्तुतिः

विश्वजिदाज्यं कयाशुभातदिदासेति मध्यंदिनःसंस्थिते मरुत्वतीये बार्हस्पत्येष्टिः।

मूलम्

विश्वजिदाज्यं कयाशुभातदिदासेति मध्यंदिनःसंस्थिते मरुत्वतीये बार्हस्पत्येष्टिः।

टीका

बृहस्पतिरस्या देवतेति बार्हस्पत्या।

विश्वास-प्रस्तुतिः

आज्यमागप्रभृतीलान्ता बृहस्पतिः प्रथमं जायमानोबृहस्पतिः समजयद्वसूनि त्वामीलते अजिरंदूत्यायाग्निं सुदीतिं सुदृशं गृणन्त इति संयाज्ये।

मूलम्

आज्यमागप्रभृतीलान्ता बृहस्पतिः प्रथमं जायमानोबृहस्पतिः समजयद्वसूनि त्वामीलते अजिरंदूत्यायाग्निं सुदीतिं सुदृशं गृणन्त इति संयाज्ये।

टीका

अत्र बृहस्पतेरादेशो न कर्तव्यः, सौमिकीभ्यश्चेतिवचनादाज्यभागयोः स्विष्टकृति चाऽऽदेशः कर्तव्य एव।

विश्वास-प्रस्तुतिः

यदि त्वध्वर्यव आजिं जापयेयुरथ ब्रह्मा तीर्थदेशे मयूखेचक्रं प्रतिमुक्तं तदारुह्य प्रदक्षिणमावर्त्यमानेवाजिनां साम गायादाविर्मर्या आवाजंवाजिनो अग्मन्देवस्य सवितुः सवे स्वर्गांअर्वन्तो जयतः स्वर्गाँ अर्वतो जयतीति वा।

मूलम्

यदि त्वध्वर्यव आजिं जापयेयुरथ ब्रह्मा तीर्थदेशे मयूखेचक्रं प्रतिमुक्तं तदारुह्य प्रदक्षिणमावर्त्यमानेवाजिनां साम गायादाविर्मर्या आवाजंवाजिनो अग्मन्देवस्य सवितुः सवे स्वर्गांअर्वन्तो जयतः स्वर्गाँ अर्वतो जयतीति वा।

टीका

यदि तु, यदेत्यर्थः। यदाऽध्वर्यव आजिंजापयन्ति यजमानम्। आजिं नाम123लक्षणंजापयेयुर्गंमयेयुरित्यर्थः। एतदुक्तं भवति – यदा त्वध्वर्यवो यजमानमाजिं गमयेयुस्तदा ब्रह्मा तीर्थदेशे मयूखं निधाय124। मयूखमक्षमित्यर्थः। तस्मिन्रथचक्रं प्रतिमुच्य तदारुह्याऽऽस्ते। तच्चक्रं प्रदक्षिणमावर्तयन्ति125 ये केचन पुरुषास्तदा ब्रह्मा वाजिनां साम गायति126। ‘आविर्मर्याआवाजम्’ इत्यस्यामृाचे गीतं तत्साम। एषा ऋक्पुर उष्णिक्। अर्वन्तः, अर्वत इति वा तृतीये पादे127द्वितीयं पदं128 पठितव्यम्, उभयथा समाम्नायदर्शनात्। अस्यार्थस्य ज्ञापनार्थं तृतीयः पादः सूत्रकारेण द्विः पठ्यते।

विश्वास-प्रस्तुतिः

यदि साम नाधीयात्रिरेतामृचंजपेत्तृतीयेनाऽऽभिप्लविकेनोक्तंतृतीयसवनं चित्रवतीषु चेत्स्तुवीरंस्त्वं नश्चित्र
ऊत्याऽग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नःस्तोत्रियानुरूपौ षोलशी त्विह।

मूलम्

यदि साम नाधीयात्रिरेतामृचंजपेत्तृतीयेनाऽऽभिप्लविकेनोक्तंतृतीयसवनं चित्रवतीषु चेत्स्तुवीरंस्त्वं नश्चित्र
ऊत्याऽग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नःस्तोत्रियानुरूपौ षोलशी त्विह।

टीका

तृतीयस्याह्न उक्थ्यसंस्थत्वात्षोलशी विधीयते।

विश्वास-प्रस्तुतिः

तस्मादूर्ध्वमतिरिक्तोक्थम्।

मूलम्

तस्मादूर्ध्वमतिरिक्तोक्थम्।

टीका

तस्मादूर्ध्वमिति। षोलशिन ऊर्ध्वमित्यर्थः। अनेन वचनेन यत्र पोलशी नास्ति तत्रातिरिक्तोक्थमपि नास्तीति गम्यते। अनेन प्रकारेणापोलशिको129वाजपेयोऽस्तीति साधितंभवति।

विश्वास-प्रस्तुतिः

प्रतत्ते अद्य शिपिविष्टनाम प्र तद्विष्णुःस्तवते वीर्येणेति स्तोत्रियानुरूपौ।

मूलम्

प्रतत्ते अद्य शिपिविष्टनाम प्र तद्विष्णुःस्तवते वीर्येणेति स्तोत्रियानुरूपौ।

टीका

एमतिरिक्तोक्थं भवति।

विश्वास-प्रस्तुतिः

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्यत्ते दित्सु प्रराध्वं त्वामिच्छवसस्पते।

मूलम्

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्यत्ते दित्सु प्रराध्वं त्वामिच्छवसस्पते।

टीका

एतानि त्रीणि ग्रहणानि130

विश्वास-प्रस्तुतिः

तं प्रत्नथेति त्रयोदशानामेकां शिष्ट्वाऽऽहूय दूरोहणं रोहेत्।

मूलम्

तं प्रत्नथेति त्रयोदशानामेकां शिष्ट्वाऽऽहूय दूरोहणं रोहेत्।

टीका

तं प्रत्नथेति त्रयोदशर्चः शंस्तव्यास्तासामृचामेकामवशिष्याऽऽहूय दूरोहणं रोहेत्। आहूयेतिवचनं षष्ठे स्वेव पृष्ठ्याहन्यहरहःशस्यस्येत्येतस्मिन्दूरोहण आहावाभावादवाप्याहावाभावशङ्का स्यात्तन्निवृत्त्यर्थमुच्यते।

विश्वास-प्रस्तुतिः

बृहस्पते युवमिन्द्रश्च वस्व इति परिधानीयाविभ्राड्बृहस्पित्रतु सोम्यं मध्विति याज्या तस्यगवांशतानामश्वरथानामश्वानांसाद्यानां वह्यानांमहानसानां दासीनां निष्ककण्ठीनां हस्तिनांहिरण्यकक्ष्याणां सप्तदश सप्तदशानि दक्षिणाः131

मूलम्

बृहस्पते युवमिन्द्रश्च वस्व इति परिधानीयाविभ्राड्बृहस्पित्रतु सोम्यं मध्विति याज्या तस्यगवांशतानामश्वरथानामश्वानांसाद्यानां वह्यानांमहानसानां दासीनां निष्ककण्ठीनां हस्तिनांहिरण्यकक्ष्याणां सप्तदश सप्तदशानि दक्षिणाः131

टीका

तस्य सप्तदशानि दक्षिणा दातव्या132।तस्येतिवचनं सपोलशिकस्यैवायं दक्षिणाविधिरिति ज्ञापनार्थम्। इतरथा प्रकृतत्वादपोलशिकस्यापि स्यात्तन्निवृत्त्यर्थं तस्येत्युच्यते। तेनापोलशिकस्य न्यायक्लृप्त्यैव133दक्षिणा भवति। गवां शतानां सप्तदशेति संबन्धः। शतशब्दो गोभिरेव संबध्यते नोत्तरैः। अश्वैर्युक्ता रथा अश्वरथास्तेषां सप्तदश, अश्वानां सप्तदश। येषु सीदन्ति पुरुषास्ते साद्या अश्वादयः पृष्ठवाहिन134इत्यर्थस्तेषां च सप्तदश135।वह्या वहनसमर्थास्तेषामपि सप्तदश। महान्ति चानांसि चेति महानांसि136तेषामपि सप्तदश।निष्कं नामाऽऽभरणविशेषस्तेन कण्ठे भूषिता निष्ककण्ठ्यः, एवंभूतानां दासीनां सप्तदश।हिरण्मयः137कक्ष्यो येषां ते हिरण्यकक्ष्याः, एवंभूतानां हस्तिनां सप्तदश। एतेषां द्रव्याणां सप्तदश सप्तदश दातव्याः। सा दक्षिणा सपोलशिकस्य वाजपेयस्येत्यर्थः। सप्तदश सप्तदशदक्षिणेति पाठः कर्तव्यः, सप्तदश सप्तदशानीत्यस्यापपाठत्वात्।

विश्वास-प्रस्तुतिः

दशान्ये दक्षिणागणा धनानां शतावमापरार्ध्यानाम्।

मूलम्

दशान्ये दक्षिणागणा धनानां शतावमापरार्ध्यानाम्।

टीका

शतावमापरार्ध्यानामिति। शतावमानां शतप्रभृतीनामित्यर्थः। परार्घ्यं परावधिस्तद्यस्यनास्ति तदपरार्ध्यमित्युच्यते। अपरिमितपरावधीनामित्यर्थः। शतप्रभृतीनामपरिमितपरावधीनामित्युक्ते द्विशतात्प्रागेव परावधिर्भवति। एतदुक्तं भवति — गवादीनां द्रव्याणां सप्तदशसंख्या युक्ता अष्टौ गणा दक्षिणात्वेनोक्ताः138सूत्रे, इदानीमन्ये दश गणाः शतप्रभृत्यपरिमितसंख्यायुक्ता येषां केषांचिद्धनानां संबन्धिनोऽस्य139दक्षिणा भवन्ति। पूर्वेस्य विकल्पोऽर्थात्कल्प्यते।

विश्वास-प्रस्तुतिः

पूर्वान्वा गणशोऽभ्यस्येत्।

मूलम्

पूर्वान्वा गणशोऽभ्यस्येत्।

टीका

यद्यन्यानि धनानि न सन्ति तदा पूर्वेषां गवादीनामेकैकस्य140द्रव्यस्य दशकृत्वोऽभ्यस्यदश141गणान्संपाद्य दक्षिणां दद्यात्।

अन्येषां धनानामसंभवे-

विश्वास-प्रस्तुतिः

सप्तदश सप्तदश संपादयेत्।

मूलम्

सप्तदश सप्तदश संपादयेत्।

टीका

एवमप्यसंभवे यानि कानिचिद्रव्याणि सप्तदशसंख्या युक्तानि सप्तदश दातव्यातीत्ययमपरो दक्षिणाकल्पः। एवमेते चत्वारो दक्षिणाकलाः सषोडशिकस्य वाजपेयस्य।

विश्वास-प्रस्तुतिः

इति वाजपेयः।

मूलम्

इति वाजपेयः।

टीका

इत्येवंप्रकाराः सर्वे वाजपेया इत्यर्थः। एकत्रचनं जात्यभिप्रायम्।

विश्वास-प्रस्तुतिः

तेनेवा राजा राजसूयेन यजेत
ब्राह्मणो बृहस्पतिसवेन॥९॥

मूलम्

तेनेवा राजा राजसूयेन यजेत
ब्राह्मणो बृहस्पतिसवेन॥९॥

टीका

अनयोरेवानुकीर्तनाद्वैश्यस्यायं नास्तीति गम्यते॥ ९॥

विश्वास-प्रस्तुतिः

अनिरुक्तस्य चतुर्विंशेन प्रातःसवनं च तृतीयसवनं च।

मूलम्

अनिरुक्तस्य चतुर्विंशेन प्रातःसवनं च तृतीयसवनं च।

टीका

अनिरुक्तो नामैकाहः।

विश्वास-प्रस्तुतिः

तं प्रत्नथेति तु त्रयोदश वैश्वदेवम्।

मूलम्

तं प्रत्नथेति तु त्रयोदश वैश्वदेवम्।

टीका

‘यज्ञस्य वो रथ्यम्’ इति वैश्वदेवम् अस्यायमपवादः।

विश्वास-प्रस्तुतिः

कयाशुभातदिदासेति मध्यंदिनः।

मूलम्

कयाशुभातदिदासेति मध्यंदिनः।

टीका

ऐकाहिकं माध्यंदिनं सवनं तस्यायं मध्यंदिनः।

विश्वास-प्रस्तुतिः

होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमान्त्संपाताञ्शंसेयुः।

मूलम्

होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमान्त्संपाताञ्शंसेयुः।

टीका

होत्रका142 माध्यंदिने सवने स्तोत्रियांनुरूपान्शस्त्वा143 प्रगाथानन्तरं प्रथमान्संपातान्त्वामिन्द्रेन्द्रः पूर्भिदिमामूषु ’ इत्येतान्शंसेयुः।

विश्वास-प्रस्तुतिः

अहीनसूक्तानि वा।

मूलम्

अहीनसूक्तानि वा।

टीका

अहीनसूक्तानि ‘आ सत्यो यात्वस्मा इदु शासद्वहिः’ इत्येतानि वा प्रगाथानन्तरंशंसेयुः। एवं द्विपक्का होत्रका भवन्ति। मैत्रावरुणाच्छावाकयोः संपातपक्षे तस्यैव द्विःशंसने प्राप्ते तद्दैवतमन्यमित्येतत्कर्तव्यम्। ब्राह्मणाच्छंसिनो यथाप्रकृत्यैव। अहीन सूक्त पक्षेप्रगाथानन्तरमेवाहीनसूक्तानि ततोऽन्त्यान्यैका हिकानि।

विश्वास-प्रस्तुतिः

एवं पूर्वे सवने बृहत्पृष्ठेष्वसमाम्नातेषु।

मूलम्

एवं पूर्वे सवने बृहत्पृष्ठेष्वसमाम्नातेषु।

टीका

असमाम्नाता ये बृहत्पृष्ठा एकाहास्तेष्वेवं144पूर्वे सवने भक्तः प्रातःसवनं माध्यंदिनं चयथानिरुक्ते भवतः।

विश्वास-प्रस्तुतिः

प्रतिकामं विश्वजिच्छिल्पः।

मूलम्

प्रतिकामं विश्वजिच्छिल्पः।

टीका

कामं कामं प्रतीति प्रतिकामं, यो यो यं यं कामं कामयते स स विश्वनिच्छिल्पनाम्नैकाहेन यजेत।

विश्वास-प्रस्तुतिः

तस्य समानं विश्वजिताऽऽ प्रगाथेभ्यः।

मूलम्

तस्य समानं विश्वजिताऽऽ प्रगाथेभ्यः।

टीका

तस्य विश्वजिच्छिल्पस्य शंसनं विश्वजिता समानम्। माध्यंदिने सवने होत्रकाणां येप्रगाथा आतेभ्य इति।

विश्वास-प्रस्तुतिः

बृहस्पतिसवेनाऽऽज्यं निष्केवल्यमरुत्वतीयौ च तृचौ।

मूलम्

बृहस्पतिसवेनाऽऽज्यं निष्केवल्यमरुत्वतीयौ च तृचौ।

टीका

बृहस्पतिसवेन145 व्याख्यातौ।

विश्वास-प्रस्तुतिः

ताभ्यां तु पूर्वे ऐकाहिके।

मूलम्

ताभ्यां तु पूर्वे ऐकाहिके।

टीका

इन्द्र मरुत्व इह नॄणामु त्वा’ इत्येताभ्यां पूर्वे’ जनिष्ठा उम्र इन्द्रस्य नु वीर्याणिइत्येते सूक्त शंस्तव्ये।

विश्वास-प्रस्तुतिः

होत्रका ऊर्ध्वं प्रगाथेभ्यः शिल्पान्यविकृतानि शंसेयुः।

मूलम्

होत्रका ऊर्ध्वं प्रगाथेभ्यः शिल्पान्यविकृतानि शंसेयुः।

टीका

शिल्पानि बालखिल्यादीनि विहारन्यूयादिरहितानि शंस्तव्यानि। तौ चेदग्निष्टोमौयदि बोक्थ्येष्वद्विपदास्वित्येतस्मिन्प्रकरणे यथोक्तं तथा146ऽत्रापि शंसनीयानीत्यर्थः।

विश्वास-प्रस्तुतिः

सामसूक्तानि च।

मूलम्

सामसूक्तानि च।

टीका

शिल्पानन्तरं सामसूक्तानि च शंसनीयानि।

विश्वास-प्रस्तुतिः

आद्यांस्तृचानहीनसूक्तानाम्।

मूलम्

आद्यांस्तृचानहीनसूक्तानाम्।

टीका

अहीनसूक्तानां चाऽऽद्यांस्तृचाञ्शंसेयुः।

विश्वास-प्रस्तुतिः

अन्त्यानामैकाहिकानामुत्तमान्।

मूलम्

अन्त्यानामैकाहिकानामुत्तमान्।

टीका

उत्तमानिति। तूचानिति शेषः।

विश्वास-प्रस्तुतिः

समानं तृतीयसवनं बृहस्पतिसवेन
नाभानेदिष्ठस्त्विह पूर्वो वैश्वदेवात्तृचात्।

मूलम्

समानं तृतीयसवनं बृहस्पतिसवेन
नाभानेदिष्ठस्त्विह पूर्वो वैश्वदेवात्तृचात्।

टीका

बृहस्पतिसवे वैश्वदेवं सूक्तं ‘स्वस्ति नो मिमीतामश्विना’इत्ययं तृचस्तस्मात्पूर्वीनामानेदिष्ठो भवति। नाभानेदिष्ठेति। ‘इदमित्था’ इति सूक्तद्वयस्याऽऽख्या।

विश्वास-प्रस्तुतिः

एवयामरुच्चाऽऽग्निमारुते मारुतात्।

मूलम्

एवयामरुच्चाऽऽग्निमारुते मारुतात्।

टीका

पूर्वो भवतीति शेषः। आग्निमास्ते मारुतं सूक्तं ‘प्रयन्तु वजाः’ इति तृचस्तस्मात्पूर्वमेवयामरुद्भवति।

विश्वास-प्रस्तुतिः

तयोरुक्तः शस्योपायः॥ १०॥

मूलम्

तयोरुक्तः शस्योपायः॥ १०॥

टीका

तयोरेवयामरुन्नाभानेदिष्ठयोः शस्योपाय उक्तः। एवयामरुतः पच्छः समासमुत्तमे पदइति। नामानेदिष्ठस्य प्रागुपोत्तमाया ये यज्ञेनेत्यावपेदित्यादि147॥ १०॥

विश्वास-प्रस्तुतिः

यस्य पशवो नोपधरेरनन्यान्वाऽभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत।

मूलम्

यस्य पशवो नोपधरेरनन्यान्वाऽभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत।

टीका

नोपधरेरन्न तिष्ठेयुः। न दृश्येयुरित्यर्थः। यस्यैवं पशवो भवन्तिः सोऽप्तोर्या मेणैकाहेनयजेत। अथ वा विद्यमानेष्वेव पशुष्वन्यान्पशूनभिजातानभितः स्थितानित्यर्थः। नितीत्सेत। निदिकुत्मायामित्ययं धातुरप्राप्तौ148वर्तते सन्नन्तश्च। रूपसिद्धिश्च कथंचिद्रष्टव्या।अशक्या चेच्छान्दसो भवत्ययं शब्दः। अर्थश्चायमेव। एवं वा योजना – अन्यानभिजनान्कुलीनानित्यर्थः। यस्तानातुमिच्छेत्स वाऽनेन यजेत।

विश्वास-प्रस्तुतिः

माध्यंदिने शिल्पयोनिवर्जमुक्तो विश्वजिता।

मूलम्

माध्यंदिने शिल्पयोनिवर्जमुक्तो विश्वजिता।

टीका

अयमप्तोर्यामः सात्रिकेण विश्वजिता व्याख्यातः। तत्रायं विशेषः –विश्वजिति तौचेदग्निष्टोमौ यदि बोक्थ्येष्वद्विपदासु स्तुवीरन्निति। माध्यंदिने शिल्पप्राप्तौ निमित्तद्वयमुक्तं तत्राग्निष्टोमत्वासंभवादप्तोर्यामः स्यात् द्विपदास्तवनमेवात्र माध्यंदिने शिल्पप्राप्तेनिमित्तं, तद्वर्जनार्थमत्र शिल्पग्रहणम्। नित्यशिल्पत्वाद्विश्वजितस्तस्यातिदेशाद्वय149पर्युदासः कृतः शिल्पग्रहणेनेत्यर्थः। योनिग्रहणं चैवमेव द्रष्टव्यम्। चतुर्विशातिदेशाद्विश्वजितो निष्केवल्ये योनिशंसनं प्राप्तं तच्च150विश्वजित्येव होत्रकाणां विहितं योनिशंसनं,तस्योमयस्य पर्युदासार्थंयोनिग्रहणमिति। यत्पुनः सामान्यविहितमक्रियमाणानां151 स्वयोनिभावनिमित्तं तदत्र न प्रतिषिध्यते।

विश्वास-प्रस्तुतिः

एकाहेन।

मूलम्

एकाहेन।

टीका

एकाहेन वाऽयमप्तोर्यामो व्याख्यातः। एकाहशब्देनात्र ज्योतिष्टोमो गृह्यते।

विश्वास-प्रस्तुतिः

गर्मकारं चेत्स्तुवीरंस्तथैव स्तोत्रियानुरूपान्।

मूलम्

गर्मकारं चेत्स्तुवीरंस्तथैव स्तोत्रियानुरूपान्।

टीका

शंसेदिति शेषः।

विश्वास-प्रस्तुतिः

रथंतरेणाग्रे ततो वैराजेन ततो रथंतरेण।

मूलम्

रथंतरेणाग्रे ततो वैराजेन ततो रथंतरेण।

टीका

अनेन गर्भकारस्वरूपमुच्यते।

विश्वास-प्रस्तुतिः

बृहद्वैराजाभ्यां वैवमेव।

मूलम्

बृहद्वैराजाभ्यां वैवमेव।

टीका

एवमेवेति। गर्भकारमेवेत्यर्थः।

विश्वास-प्रस्तुतिः

वामदेव्यशाक्वरे मैत्रावरुणस्यनौधसवैरूपे ब्राह्मणाच्छंसिनः।

मूलम्

वामदेव्यशाक्वरे मैत्रावरुणस्यनौधसवैरूपे ब्राह्मणाच्छंसिनः।

टीका

रथंतरपृष्ठपक्ष एते।

विश्वास-प्रस्तुतिः

श्यैतवैरूपे वा।

मूलम्

श्यैतवैरूपे वा।

टीका

बृहत्पृष्ठपक्ष एते।

विश्वास-प्रस्तुतिः

कालेयरैवते अच्छावाकस्य।

मूलम्

कालेयरैवते अच्छावाकस्य।

टीका

सर्वत्रैवमेवेत्यनुवर्तते।

विश्वास-प्रस्तुतिः

सामानन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारम्।

मूलम्

सामानन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारम्।

टीका

विश्वजिति152ता अन्तरेण कद्वतश्चेति सामप्रगाथानां पूर्वमेव प्रवेश उक्तस्तनिवृत्त्यर्थंसामानन्तर्येणत्युक्तम्। द्वौ द्वाविति। नित्यसामप्रगाथावित्यर्थः।

विश्वास-प्रस्तुतिः

अतिरात्रास्त्विह।

मूलम्

अतिरात्रास्त्विह।

टीका

ऊर्ध्वमाश्विनादित्यादिना वक्ष्यमाणेनैव वचनेनातिरात्रत्वे सिद्ध इदं वचनं षोडशिनिचातिरात्र इत्येवमाद्यतिरात्रधर्मप्राप्त्यर्थम्।

विश्वास-प्रस्तुतिः

अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनम्।

मूलम्

अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनम्।

टीका

विश्वजितिदेशादुत्तमेन पृष्ठयाहा तृतीयसवनं प्राप्तं तस्यायमद्वैपदोक्थ्यनिमित्तोऽयमपवादः। अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनमिति।

विश्वास-प्रस्तुतिः

ऊर्ध्वमाश्विनादतिरिक्तोक्थानि।

मूलम्

ऊर्ध्वमाश्विनादतिरिक्तोक्थानि।

टीका

अतिरिक्तोक्थानीति शस्त्रनामानि, तानि शस्त्राणि होतुर्होत्रिकाणां च।

विश्वास-प्रस्तुतिः

जरा बोध तद्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रेणाऽऽमात्यग्निःक्षेत्रस्यपतिना वयमितिपरिधानीया युवं देवा क्रतुना पूर्वेणेति याज्या।

मूलम्

जरा बोध तद्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रेणाऽऽमात्यग्निःक्षेत्रस्यपतिना वयमितिपरिधानीया युवं देवा क्रतुना पूर्वेणेति याज्या।

टीका

द्वे सूक्ते पच्छः। अर्वाग्रथं तृचस्योक्तः शंसनविधिः पच्छोऽर्घर्चशः पङ्क्तित इति।

विश्वास-प्रस्तुतिः

यदद्य कच्च वृत्रहन्नुद्धेदभिश्रुता मघमानो विश्वाभिःप्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमितिपरिधानीया युवां देवास्त्रय एकादशास इति याज्या।

मूलम्

यदद्य कच्च वृत्रहन्नुद्धेदभिश्रुता मघमानो विश्वाभिःप्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमितिपरिधानीया युवां देवास्त्रय एकादशास इति याज्या।

टीका

प्रातर्यावाणेति सूक्तं परिघानीया च पच्छः।

विश्वास-प्रस्तुतिः

तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसानूनमश्विनातं वां रथं मधुमतीरोषधीर्घाव आप इतिपरिधानीया पनाय्यं तदश्विना कृतं वामिति याज्या।

मूलम्

तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसानूनमश्विनातं वां रथं मधुमतीरोषधीर्घाव आप इतिपरिधानीया पनाय्यं तदश्विना कृतं वामिति याज्या।

टीका

‘यद्वान्कक्षीवान्यदिन्द्रेण स रथम्’ इत्येते ऋचौ, ‘तं वां रथम्’ इति सूक्तं परिघानीया च पच्छः।

विश्वास-प्रस्तुतिः

अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ।

मूलम्

अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ।

टीका

‘अतो देवा अवन्तु नः’इत्याद्याः षऴृच इत्यर्थः।

विश्वास-प्रस्तुतिः

उत नो धियो गो अग्रा इति वाऽनुरूपस्योत्तमा।

मूलम्

उत नो धियो गो अग्रा इति वाऽनुरूपस्योत्तमा।

टीका

इदं विष्णुर्विचक्रमे ‘इत्येवमाद्याः पञ्चर्चो गृहीत्वा ‘उत नो घियः’ इत्येतां वाषष्ठीं कुर्यादित्यर्थः।

विश्वास-प्रस्तुतिः

ईले द्यावापृथिवी उभा उ नूनं दैव्याहोतारा प्रथमा पुरोहितेति परिधानीयाऽयंवां भागो निहितो यजत्रेति याज्या।

मूलम्

ईले द्यावापृथिवी उभा उ नूनं दैव्याहोतारा प्रथमा पुरोहितेति परिधानीयाऽयंवां भागो निहितो यजत्रेति याज्या।

टीका

द्वे सूक्ते परिधानीया च पच्छः।

विश्वास-प्रस्तुतिः

यदि नाधीयात्पुराणमोकः सख्यंशिवं वामिति चतस्रो याज्याः।

मूलम्

यदि नाधीयात्पुराणमोकः सख्यंशिवं वामिति चतस्रो याज्याः।

टीका

यद्येता ऋचो नाधीयात्तदा पुराणमोकः सख्यमित्याद्याश्चतस्त्र ऋचो याज्या भवन्ति।एतासामध्ययने यत्किंचिद्व्रतमस्ति तच्चानुष्ठातुमशक्यमिति यदि नाघीयादित्युक्तम्। एतच्चभाष्यकारवचनादवगतम्। एषां चमसानामाश्विनत्व एता याज्या भवन्ति। आग्नेयैन्द्रवैश्वदेववैष्णव153त्वे त्वेता याज्या भवन्ति ‘यथा होतरस्मै वयं स्तीर्णे बर्हिषि समिधाने परोमात्रया’ इति।

विश्वास-प्रस्तुतिः

तद्वोगाय सुते सचा स्तोत्रमिन्द्राय गायत त्यमु वःसत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः।

मूलम्

तद्वोगाय सुते सचा स्तोत्रमिन्द्राय गायत त्यमु वःसत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः।

टीका

एते द्वे स्तोत्रियानुरूपयुगले लिङ्गान्मध्यमयोः शस्त्रयोर्भवतः।

विश्वास-प्रस्तुतिः

अपरिमिताः परःसहस्रा दक्षिणाः।

मूलम्

अपरिमिताः परःसहस्रा दक्षिणाः।

टीका

सहस्रादूर्ध्वं द्विसहस्रादर्वाग्यथाकाममित्यर्थः।

विश्वास-प्रस्तुतिः

श्वेतश्चाश्वतरीरथो होतुर्होतुः॥ ११॥

मूलम्

श्वेतश्चाश्वतरीरथो होतुर्होतुः॥ ११॥

विश्वास-प्रस्तुतिः

इति उत्तरपट्के तृतीयोऽध्यायः॥ ३॥

मूलम्

इति उत्तरपट्के तृतीयोऽध्यायः॥ ३॥

विश्वास-प्रस्तुतिः

————

मूलम्

————

टीका

अश्वतरीरथोऽश्वतरीभिर्युक्तो रथो रजतादिभिरन्यैर्वा श्वेतीकृतो होत्रेऽधिको दातव्यः।सर्वाभ्यः ऋतुदक्षिणाभ्योऽधिको होत्रे दातव्य इत्यर्थः॥ ११॥

विश्वास-प्रस्तुतिः

इत्याश्वलायनसूत्रवृत्तौ नारायणीयायां नवमोऽध्यायः॥ ९॥

मूलम्

इत्याश्वलायनसूत्रवृत्तौ नारायणीयायां नवमोऽध्यायः॥ ९॥


  1. “क. ग. °ध्ये यैः सा॰ ।”

     ↩︎
  2. " क. निरस्तधर्म" ↩︎

  3. “क.ग. घ. ङ. झ. न ज्योति॰। " ↩︎

  4. “च. °कृतेर्वे॰” ↩︎

  5. “ग॰ ॰द्याभि° । " ↩︎

  6. “ग. घ. ङ. झ. °हं साह ° । " ↩︎

  7. “ग. च. ‘वं समवि ° ।” ↩︎

  8. “च. वेदादेवो ।” ↩︎

  9. “च. वल्ये स्तो ।” ↩︎

  10. “क. —स्तोमप्रयुक्तम्।” ↩︎

  11. “च. तत्र ।” ↩︎

  12. “ग. व. ङ. झ. ‘वल्ये स्तो । च. ‘वल्यस्य स्तौ ।” ↩︎

  13. " ग. च. स्तोकारितरां° ।” ↩︎

  14. “च. ‘वल्ये स्तो° । " ↩︎

  15. “च. °वल्यस्तो ।” ↩︎

  16. “च. ‘स्तादेवाऽऽवा’ ।” ↩︎

  17. “क. ग. घ. ङ.. झ. प्राप्त ए’ ।” ↩︎

  18. “च. ‘यस्तृचा वृ’ । " ↩︎

  19. “घ. प्रकृति° ।” ↩︎

  20. “ङ. झ °तित्वा श्चातु ° । " ↩︎

  21. “ग. धर्माः कर्त ।” ↩︎

  22. “घ. ङ. झ. °नि षोड° ।” ↩︎

  23. “च. थमां छ°।” ↩︎

  24. “ग. घ. ङ. झ. ‘नि पाड’ । " ↩︎

  25. “ग.घ. झ॰ °नान्त्यैका॰ ।” ↩︎

  26. “च बन्ध्यश्व पशुर्बृह ।” ↩︎

  27. “घ. ते नेत्यु।” ↩︎

  28. “ग. °न्ध्या स्थाने भ’। " ↩︎

  29. “च. ‘ति स्र त्र्यहोति” ↩︎

  30. " घ, - महाव्रत उत्तरो माजलीयोऽस्ति।” ↩︎

  31. “क. घ. ङ. क्ष. °क्षिणां दा ।” ↩︎

  32. “च. ‘रय चाऽऽरो । " ↩︎

  33. “घ. झ. यानामन्वारम्भब्त ।” ↩︎

  34. “घ.ङ.झ. रस्मे वै” ↩︎

  35. “च, ‘र्वणिक” ↩︎

  36. “च. नि कर्माणि ।” ↩︎

  37. “ग. °र्तव्यमह°। " ↩︎

  38. “च. °वास्यायाः पु° । " ↩︎

  39. “च. °स्ययेत्येवम्। पु° ।” ↩︎

  40. “क. ङ. झ. संसपे ।” ↩︎

  41. “च. पक्षे कृ ।” ↩︎

  42. “ग. घ. ङ. च. झ. क्षणीयान्त’ ।” ↩︎

  43. “म. झ. यं शृणवच्च नि” ↩︎

  44. “च. ‘र्यनिर्वोढा’। " ↩︎

  45. “क. च. ‘सीनो हो । " ↩︎

  46. “च. °मुत्तरार्थ ।” ↩︎

  47. “ग. घ. च. बन्धादि ।” ↩︎

  48. " क. ङ. ऋचा गा° ।” ↩︎

  49. “क. ङ. ‘नां प्र । " ↩︎

  50. “च. रो भवति नान्यत्र । त’ ।” ↩︎

  51. “घ। च. °रयुक्तं॰ । " ↩︎

  52. “ङ. । तदेत” ↩︎

  53. “च. स्वं यथास्वं तत्तस्य यथास्वमासने च दद्यात् । यद्यस्य स्वं त° । " ↩︎

  54. “ग. घ. ङ. च. झ. स्मिन्निय ।” ↩︎

  55. “घ. ङ. झ. °श्च न यु ।” ↩︎

  56. “घ. °तवै ।” ↩︎

  57. “क. °ण्यं वा नि” ।” ↩︎

  58. “क. ण्यं नाग। ङ. झ. ण्यं नाम।” ↩︎

  59. “क. अब्रह्मण्या ग।” ↩︎

  60. “च. झ. ‘पाननुस।” ↩︎

  61. “च. तस्य। " ↩︎

  62. “ग. ध झ. ‘स्तोमोऽति’।” ↩︎

  63. “क, ङ. झ. वं न्याया’ ।” ↩︎

  64. “च. ‘हितश्च । " ↩︎

  65. “क. घ. ङ. शतस’ । च. शतं त’ । " ↩︎

  66. “च. ‘णार्थाया ।” ↩︎

  67. “च. °णानां स° ।” ↩︎

  68. “च. दीप्तकु’ ।” ↩︎

  69. “च. ‘तुः ।रजतमयौ प्रा° ।” ↩︎ ↩︎

  70. “क. ग. घ. ङ. झ. ‘मी, अत ।” ↩︎

  71. “च॰ ॰षगतैव ।” ↩︎

  72. “ग. घ. सवेंन य° । ङ. झ. ‘सवनेन य° ।” ↩︎

  73. “क॰ ‘मो भ॰ ।” ↩︎

  74. “क. ख. ङ. °षः । प्रागा’ ।” ↩︎

  75. “घ. चं. ‘ने तु द° । ग. ङ. झ. नेषु द” ↩︎

  76. “घ. ङ. झ. ° सामेवम° । " ↩︎

  77. “च. °सां दानं न । " ↩︎

  78. “च. वनस्थस्य । " ↩︎

  79. “च. °स्राणीत्यनु ।” ↩︎

  80. “क. काह एव भ° ।” ↩︎

  81. “च. त्र्येकस्त्वेता” ↩︎

  82. “च. न्नुक्थ्या भवन्ति सो° ।” ↩︎

  83. “च. °न्तरुक्थ्यः । " ↩︎

  84. “ङ. झ. रेवमाग्नि । " ↩︎

  85. “च.॰कार्यं कृतमि॰ ।” ↩︎

  86. “घ. °ण नि॰।” ↩︎

  87. “च. °नामधेयैः स्तु° ।” ↩︎

  88. “च. °चां तत्र न ।” ↩︎

  89. “च. निशं॰ ।” ↩︎

  90. “च. °नं न भ° ।” ↩︎

  91. “ग. घ. ङ. झ. नात्र कि° ।” ↩︎

  92. “घ. ङ. च. झ. °भावता ।” ↩︎

  93. “ध. च.°र्युशमि° ।” ↩︎

  94. “क. घ. ङ. झ. °मितृनि° ।” ↩︎

  95. “* धनुश्चिह्नान्तर्गतोऽयं ग्रन्थश्च पुस्तकस्थः।” ↩︎

  96. “च. °नाम स्नि॰ ।” ↩︎

  97. “च ॰राम्पेष॰।” ↩︎

  98. “च॰त्रूम्पेष॰ ।” ↩︎

  99. “च. °राश्च वे°।” ↩︎

  100. “च. °द्धे तु व° ।” ↩︎

  101. “च. °नादस्म° ।” ↩︎

  102. “च॰ ॰च्छास्ने वि॰ ।” ↩︎

  103. “च. °ल्या उच्छ्र° ।” ↩︎

  104. “च. °रिव्ययण°” ↩︎

  105. “च. °रि यथाऽऽग्नेयो भवति तथा प्राप्ते । वि° ।” ↩︎

  106. “च. अपि वै° ।” ↩︎

  107. “च. प्रयोक्तव्य ।” ↩︎

  108. “ङ.च. °गते’ इ° ।” ↩︎

  109. “क. ग. च °पादि° ।” ↩︎

  110. “च. कतमः श्रू° ।” ↩︎

  111. “च. ‘यमित्ये॰ ।” ↩︎

  112. “च. °ण । तस्य ग्र°।” ↩︎ ↩︎

  113. “च. °णं शस्यम° ।” ↩︎

  114. “क. ङ. झ. पूर्णांच°” ↩︎

  115. “क. ङ. झ. °व माध्यं ।” ↩︎

  116. “च. °राशया° ।” ↩︎

  117. “च. °रित्येवमर्थः ।” ↩︎

  118. “घ. ङ. झ. °लविदो° ।” ↩︎

  119. “घ. ङ. क्ष. °दिने भ° ।” ↩︎

  120. “घ. ङ. झ. °ते माध्यं° ।” ↩︎

  121. “च.°रेकैकस्यैके°।” ↩︎

  122. “ङ. च. °ते । पा° ।” ↩︎

  123. “च. °म क्ष° ।” ↩︎

  124. “च. निखाय ।” ↩︎

  125. “च. °न्ति केचित्पुरु ।” ↩︎

  126. “च. गायात् । आ° ।” ↩︎

  127. “च. °दे पठि ।” ↩︎

  128. “ग. पादं ।” ↩︎

  129. “ग. °रेण षो° । " ↩︎

  130. “च प्रतीकानि । " ↩︎

  131. “च. क्षिणा ! त° ।” ↩︎ ↩︎

  132. “घ. ङ. च. झ, तव्याः । त° ।” ↩︎

  133. “च. °कृप्तैव ।” ↩︎

  134. “ङ. ‘बाहना इ° ।” ↩︎

  135. “क. ग. च. ङ. झ. श । वाह्या’ ।” ↩︎

  136. “क.ग. घ. च. झ. ‘हानसानि ते’” ↩︎

  137. “क. ग. ङ. °ण्मय्वः क° । " ↩︎

  138. " च, °क्ताः पूर्वसू । " ↩︎

  139. “ग. घ. ङ.चं. झ. °न्विन्योऽ स्य । " ↩︎

  140. “च. °स्य वा द्र । " ↩︎

  141. “क. घ. ङ. झ. श गुणा । " ↩︎

  142. “क. ङ. झ. °का मध्यं । " ↩︎

  143. “घ. ङ.’ झ. ‘याननु । " ↩︎

  144. “ङ. झ. काहि कास्ते ।” ↩︎

  145. “क. सवनेन । " ↩︎

  146. “च. था तत्रा’ ।” ↩︎

  147. “घ. ङ. च. झ. ‘त्यादि ॥ १० ॥ " ↩︎

  148. " घ. ङ. च. झ. °स्त्र प्रा° ।” ↩︎

  149. “क. ग. ङ. झ. शाद्वयं प° । च. शादयं प° । " ↩︎

  150. “ङ. झ. तस्य । " ↩︎

  151. “क. च. °णास्व ° ।” ↩︎

  152. “च. ‘जिता अ° ।” ↩︎

  153. “ग. वत्वे । " ↩︎