०८

विश्वास-प्रस्तुतिः

अथ द्वितीयोऽध्यायः।
——

मूलम्

अथ द्वितीयोऽध्यायः।
——

विश्वास-प्रस्तुतिः

षष्ठस्य प्रातःसवने प्रस्थितयाज्यानांपुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजेन्ति1

मूलम्

षष्ठस्य प्रातःसवने प्रस्थितयाज्यानांपुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजेन्ति1

टीका

पृष्ठयोऽधिकृतस्तस्य षष्ठमहरिदानीमुच्यते। तस्यषष्ठस्य2 प्रातःसवने याः प्रस्थितयाज्यास्तास्वयं3 विशेषः। एकैकस्याः पुरस्तादेकैकामन्यामृचं4कृत्वोभाभ्यामनुच्छ्रसन्तो यागं कुर्युः। अन्या इति प्रकृतिभ्योऽन्या वक्ष्यमाणा इत्यर्थः। उभाभ्यामिति वचनमभयोः5 सहितयोरेव याज्यात्वसिध्द्यर्थ नैकैकस्या अपीति।अनवानन्त इतिवचनमुभयोः सर्वत्रानवानसिध्द्यर्थम्।

विश्वास-प्रस्तुतिः

वृषन्निन्द्र वृषपाणास इन्दवः सुषुमायातमदिभिर्वनोतिहि सुन्वन्क्षयं परीणसो मोषु वो अस्मदमितानि
पौंस्यौषणो शृणुहि त्वमलितोऽग्निं होतारंमन्ये दास्वन्तं दध्यङ्ह मे जनुषं पूर्वी अङ्गिरा इति।

मूलम्

वृषन्निन्द्र वृषपाणास इन्दवः सुषुमायातमदिभिर्वनोतिहि सुन्वन्क्षयं परीणसो मोषु वो अस्मदमितानि
पौंस्यौषणो शृणुहि त्वमलितोऽग्निं होतारंमन्ये दास्वन्तं दध्यङ्ह मे जनुषं पूर्वी अङ्गिरा इति।

टीका

सप्तैता ऋचः प्रस्थितयाज्याश्च सप्तैव साच्छावाकोनामेतेन6 तासां यथासंख्येन7 भवन्ति।

विश्वास-प्रस्तुतिः

एवमेव माध्यंदिनेऽध्यर्धां तु तत्रानवानम्।

मूलम्

एवमेव माध्यंदिनेऽध्यर्धां तु तत्रानवानम्।

टीका

तत्र माध्यंदिने सवनेप्रस्थितयाज्यामध्यर्धामेपानवानं8 ब्रूयात्। पूर्वामनुच्छ्वासेनोक्त्वोत्तरां9 संधाय तत्या अर्धेर्चेऽवसाय यष्टव्यमित्यर्थः। तन्नग्रहणं तत्रैव माध्यंदिनेऽध्यधनवानं भवति, उत्तरसूत्रविहितनामृयाजानां10 पूर्वोक्त एवोभाभ्यामनवानन्त इत्ययमेव विधिर्भवतीत्येवमर्थम्।

विश्वास-प्रस्तुतिः

पिबा सोममिन्द्र सुवानयन्द्रिभिरिन्द्रायहि पौरसुरी अनम्नेतेति षट्।

मूलम्

पिबा सोममिन्द्र सुवानयन्द्रिभिरिन्द्रायहि पौरसुरी अनम्नेतेति षट्।

टीका

एंताः सप्त माध्यंदिन आगन्तवः स्थितयाज्याः।

विश्वास-प्रस्तुतिः

उपरिष्टात्वृच ऋतुयाजानाम्।

मूलम्

उपरिष्टात्वृच ऋतुयाजानाम्।

टीका

अन्याः कृत्वोमाभ्यामनवानन्तो यजन्ति प्रेष्यति11 चेति शेषः।

विश्वास-प्रस्तुतिः

प्रैषमृते सौयजमृचंचानवानमु12क्त्वऋगन्तैरसौ यजेति प्रेष्येत्।

मूलम्

प्रैषमृते सौयजमृचंचानवानमु12क्त्वऋगन्तैरसौ यजेति प्रेष्येत्।

टीका

ऋतुप्रैषान्होतर्यजेत्यादिशब्दरहितानुक्त्वा तैर्ऋचः संघाय ऋगन्ते13 होतर्यजेत्यादिशब्दान्संघाय14 तैमैत्रावरुणः प्रेष्यत।

विश्वास-प्रस्तुतिः

एवमेव यजन्ति।

मूलम्

एवमेव यजन्ति।

टीका

एवंक्रमात्तयोरेव होता यक्षदसौ यजयोः स्थान आगूर्वषट्कारौ कृत्वा यजन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

तुभ्यं हिन्वानो वसिष्टगा अप इति।

मूलम्

तुभ्यं हिन्वानो वसिष्टगा अप इति।

टीका

एता ऋतुयाजानामृचः।

विश्वास-प्रस्तुतिः

अयं जायत मतुषो धरीमणीत्याज्यम्।

मूलम्

अयं जायत मतुषो धरीमणीत्याज्यम्।

टीका

एतत्सूक्तेमस्याह्र15 आज्यं भवति। आज्यकार्यस्य प्रकृतौ सूक्तसाध्यत्वात्पादग्रहणेऽपीदं सूकमेव भवति। पादग्रहणं ब्राह्मणानुवादः।

विश्वास-प्रस्तुतिः

एकेन द्वाभ्यां च विग्रहः।

मूलम्

एकेन द्वाभ्यां च विग्रहः।

टीका

आज्याद्यायाः प्रथणेऽर्धर्चे विग्रहः प्रकृतिप्राप्तः। अत्र च प्रथमार्धर्चस्यत्रिपादस्वास्कंथं16 विग्रह इति संशयनिवृत्त्य र्थमिदमुच्यते। पूर्वमेकः पादः पश्चाद्द्वौ पादौ यथा भवति तथा विग्रहः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

त्रिंभिरवसानं चतुर्भिःप्रणवो यत्रार्धर्चशः पारुच्छेप्यः।

मूलम्

त्रिंभिरवसानं चतुर्भिःप्रणवो यत्रार्धर्चशः पारुच्छेप्यः।

टीका

सप्तपदानां पारुच्छेपीनामनेकार्धर्चत्वादसकृदवसाने प्राप्त इदमुच्यते त्रिभिरवसानं चतुर्भिः प्रणव इति। अत एवायं विधिः पारुच्छेवीनां सप्तपदानामेव भवतत्युिक्तम्। अतः सप्तपदानां त्रिमिरवसानं चतुर्भिः प्रणदो न संभवतीति। पच्छःशस्यानामु परिष्टाद्विधीयमानत्वाद्यत्र17 पारुच्छेप्य इत्येतावदुक्तेऽप्यर्वर्चस्य18 विषय एवायं विधिर्भवति तत्र किमित्यर्धश19 इत्युच्यते। तस्येदं प्रयोजनम्। यदा पुनरयारुचेति पारुच्छेप्यो ग्रावस्तोत्रं प्राप्नुवन्ति तत्राप्यवसानप्रणवयोरयमेव20 विधिर्भवतीत्येवमर्थमर्चर्चश इतिवचनम्।

विश्वास-प्रस्तुतिः

स्तीर्णं बर्हिरिति तृचौ सुषुमायातमद्रिभिर्युवांस्तोमेभिर्देवयन्तो अश्विनार्मह इन्द्र वृषन्निन्द्रास्तुश्रौषलोषूणो अग्ने शृणुहि त्वमीलितो ये देवासोदिव्येकादश स्थेयमददाद्रमसमृणच्युतमितिप्रउगम्। द्वे चैका च पञ्चमे एकपातिन्य उपोत्तमे।

मूलम्

स्तीर्णं बर्हिरिति तृचौ सुषुमायातमद्रिभिर्युवांस्तोमेभिर्देवयन्तो अश्विनार्मह इन्द्र वृषन्निन्द्रास्तुश्रौषलोषूणो अग्ने शृणुहि त्वमीलितो ये देवासोदिव्येकादश स्थेयमददाद्रमसमृणच्युतमितिप्रउगम्। द्वे चैका च पञ्चमे एकपातिन्य उपोत्तमे।

टीका

तृच इत्युभयत्र शेषः।

विश्वास-प्रस्तुतिः

उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः।

मूलम्

उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः।

टीका

अष्टाक्षरा इत्यभ्यासविशेषणम्। अन्यपदार्थत्वाद्वहुव्रीहेः पुंलिङ्गं भवति। उत्तमे तृच21 इयमददादित्यस्मिन्प्रत्यृचमन्ततो यान्यष्टावक्षराणि तानि द्विरुक्त्वा प्रणवः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

न वा।

मूलम्

न वा।

टीका

वाशब्दः पक्षं व्या वर्तयति नैवाभ्यासः कर्तव्यः। श्रुतावतिच्छन्दः शब्दस्यविधेयत्वं22 मन्यमानेनाभ्यास उक्तः। तस्य विधेयत्वं न संभवति प्राप्तार्थत्वात्पारुच्छेपीषु तृचेषु। अतोऽनुवादतैवात्रावगता। नत्वेकः23 शब्दः प्राप्तमनुवदत्यप्राप्तं24 चात्र विदधाति। तेनात्र प्रउगेतिच्छन्दःशब्दः पारुच्छेपशब्दश्च ब्राह्मणग्रामशब्दवत्प्रयुक्ताविति सिद्धम्।

विश्वास-प्रस्तुतिः

स पूर्थ्यो महानां त्रय इन्द्रस्य सोमा इतिमरुत्वतीयस्य प्रतिपदनुचरौ यं त्वं रथमिन्द्र सयोवृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्।

मूलम्

स पूर्थ्यो महानां त्रय इन्द्रस्य सोमा इतिमरुत्वतीयस्य प्रतिपदनुचरौ यं त्वं रथमिन्द्र सयोवृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्।

टीका

अन्त्येन तृचेन सह त्रीणि सूक्तान्यत्र।

विश्वास-प्रस्तुतिः

एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयाद्द्वाभ्यामवसायद्वाभ्यां प्रणुयाद्यत्र पच्छः पारुच्छेप्यः।

मूलम्

एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयाद्द्वाभ्यामवसायद्वाभ्यां प्रणुयाद्यत्र पच्छः पारुच्छेप्यः।

टीका

यत्र विषये त्रिष्टब्जगत्यादीनां चतुष्पदानां पच्छःशंसनं विहितं तत्र पारुच्छेपीनामेवं भवति। एकेन पादेनाग्रेऽवसाय ततो द्वाभ्यां प्रणुत्य पुनर्द्वाभ्यां पादाभ्यामषसाय द्वाभ्यामेव प्रणुयात्। यत्रग्रहणं पारुच्छेवीनां सप्तपदानामेवायं विधिः स्यादित्येवमर्थम्। एतदुक्तं भवति—यास्वृक्ष्वेकेनाग्रेऽवसाय ततो द्वाभ्यां प्रणुयात्पुनश्च25 द्वाभ्यामवसाय द्वाभ्यामेव प्रणवः संभवति तासु पारुच्छेपीष्वयं विधिरिति। यत्र पच्छः पारुच्छेप्य इति सार्वत्रिकोऽयं26 विधिरिति दर्शयति। तेन ‘इन्द्राय हि द्यौरसुरो अनम्नत’ इत्येवमादिष्वपि भवति। ‘स नो नव्योभिः’ इत्येवमादिष्वसप्तपदत्वान्न संभवति।

विश्वास-प्रस्तुतिः

रैवर्त चेत्पृष्ठं रेवतीर्नः सधमादे रेवाँइद्रेवतः स्तोतेति स्तोत्रियानुरूपौ।

मूलम्

रैवर्त चेत्पृष्ठं रेवतीर्नः सधमादे रेवाँइद्रेवतः स्तोतेति स्तोत्रियानुरूपौ।

टीका

निष्केवल्यस्तोत्रे यदि रैवतं साम स्यादित्यर्थः। छन्दोगप्रत्ययत्वादनित्यवचनम्।

विश्वास-प्रस्तुतिः

एन्द्र याह्युप नः प्रघान्वस्पाभूरेक इति निष्केवल्यम्।

मूलम्

एन्द्र याह्युप नः प्रघान्वस्पाभूरेक इति निष्केवल्यम्।

टीका

इदमपि त्रिसूक्तम्।

विश्वास-प्रस्तुतिः

अभि त्यं देवं सवितारमोण्योरित्येका तत्सवितुर्वरेण्यमितिद्वे दोषो आगाबृहद्गायद्युमद्धेह्याथर्वण स्तुहि देवं
सवितारंतमु ष्टुह्यन्तः सिन्धुं सूनुं सत्यस्य युवानम्।अद्रोघवाचंसुशेवं सघानो देवः सविता साविषद्वसुपतिः।
उभे सुक्षिती सुधातुरिति वैश्वदेवस्य प्रतिपदनुचरौ।

मूलम्

अभि त्यं देवं सवितारमोण्योरित्येका तत्सवितुर्वरेण्यमितिद्वे दोषो आगाबृहद्गायद्युमद्धेह्याथर्वण स्तुहि देवं
सवितारंतमु ष्टुह्यन्तः सिन्धुं सूनुं सत्यस्य युवानम्।अद्रोघवाचंसुशेवं सघानो देवः सविता साविषद्वसुपतिः।
उभे सुक्षिती सुधातुरिति वैश्वदेवस्य प्रतिपदनुचरौ।

टीका

एकाग्रहणमृचं27पादग्रहणं28 इत्येवमादीनामेतच्छास्त्रोक्तानां परिभाषाणां खिलेण्वप्रवृत्तेः। तत्सवितुर्वरेण्यमित्यनयोरभिप्लव प्राप्त योरप्यसति पुनर्वचने चतस्त्र एवर्चः प्रतिपदनुचरौ स्याताम्। तत्राभित्यमित्येषा ऋत्रिरभ्यस्ता प्रतिपत्स्यादन्यथा वा स्यांदतस्तन्निवृत्त्यर्थं पुनर्वचनं कृतम्। इदं चैकाग्रहणस्यपुनर्वचनस्य29प्रयोजनमेतास्तिस्त्र एवर्चः प्रतिपत्स्यात् ’ उपरितनाश्च तिस्र एवानुचरः स्यादित्येवमर्थम्।इतरथा ’ विश्वो देवस्य नेतुः इत्यस्या अनैकाहिकत्वादुद्धारो न स्यादिति।

विश्वास-प्रस्तुतिः

उद्धृत्य चोत्तमं सूक्तं त्रीणि।

मूलम्

उद्धृत्य चोत्तमं सूक्तं त्रीणि।

टीका

अभिप्लवातिदेशात्प्राप्तानां सूक्तानामुत्तममुपासा नक्तेचेतत्सूक्तमुद्धृत्य30 तत्स्थाने त्रीणिसूक्तानि वक्ष्यमाणानि भवन्ती त्यर्थः।

कानि तानि केन वा क्रमेण शंस्तव्यानि कथं वा शंस्तव्यानी त्येतत्संशयनिवृत्त्यर्थमाह -

विश्वास-प्रस्तुतिः

इदमित्था रौद्रमिति।

मूलम्

इदमित्था रौद्रमिति।

टीका

एतदेकं सूक्तं शंस्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

प्रागुपोत्तमाया ये यज्ञेनेत्यावपते।

मूलम्

प्रागुपोत्तमाया ये यज्ञेनेत्यावपते।

टीका

इदमित्येत्येतस्य सूक्तस्थोपोत्तमायाः प्राग्ये यज्ञेनेत्येतद्वितीयं सूक्तमावपेत्।

विश्वास-प्रस्तुतिः

तस्यार्धर्चशः प्रागुत्तमाया ऊर्ध्वं चतुर्थ्याः।

मूलम्

तस्यार्धर्चशः प्रागुत्तमाया ऊर्ध्वं चतुर्थ्याः।

टीका

तस्य ये यज्ञेनेत्यस्य चतुर्थ्या ऊर्ध्वमुत्तमायाः प्राग्याः षलृवस्ता अर्धर्चशः शंस्तव्याः।‘विरूपासः’ इत्येवमाद्याः। ‘प्राक्छन्दांसि’ इत्यनेनैव प्राप्तस्य पुनर्वचैनविच्छन्दसामुद्धारः31 सूक्तन्यायशंसनयोराश्विन एवं प्रवृत्तिर्नान्यत्रेति प्रकटनार्थम्।

विश्वास-प्रस्तुतिः

शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भग इति तृचः।

मूलम्

शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भग इति तृचः।

टीका

शिष्टे’ इति ‘इदम्’ इत्यस्यापोत्तमोत्तमे32। अयं तृचस्तृतीयं सूक्तं भवति।शिष्टशस्त्वैतं33 तृचं शंसेत्। उध्दृत्येतिवचनमुषासा नक्तेत्यस्य34 नैका हिकस्यापि समुच्चयनिवृत्त्यर्थम्। त्रीणीत्यर्थसिद्धस्यास्य पुनवचनमुत्तमं सूक्तमुध्दृत्य तत्स्थानें त्रीणि सूक्तानि भवन्तीत्येवमर्थम्। इतरथोत्तमं सूक्तमुध्दत्येदमित्थेत्यस्य प्रागुपोत्तमायाः शंसेदित्येवमाद्या35 भ्रान्तयः स्युरिति। आवपत इतिग्रहणमन्यत्राप्यनयोः सूक्तयोः प्राप्तौ प्रागृपोत्तमाया एवैतत्सूक्तमावप्तव्यभित्येवमर्थम्।

विश्वास-प्रस्तुतिः

इति वैश्वदेवम्॥ १॥

मूलम्

इति वैश्वदेवम्॥ १॥

टीका

वैश्वदेवाधिकारे पुनर्वैश्वदेवग्रहणं विस्पष्टार्थम्॥ १॥

विश्वास-प्रस्तुतिः

होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते।

मूलम्

होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते।

टीका

इह पार्ष्टिके षष्ठेऽहनि तृतीयसवने होत्रकाणामुक्थ्य संज्ञकेषु शस्त्रेषु द्विपदावृक्षच्छन्दोगाः स्तुवते। होत्रकाणामित्ययम धिकारार्थः। तस्योपयोगमुत्तरत्र वक्ष्यामः। द्विपदाग्रहणं लक्षणतो द्विपदावे सिद्धेऽपि समाम्नायप्रसिद्धेलीयस्त्वार्थम्। इहेति विस्पष्टार्थम्। उक्थ्यानीति तार्तीयसवनिकानां36होत्रकशस्त्राणां संज्ञा। शंसनविशेषविधानार्थः परकर्तृकस्तवनोपदेशः।

विश्वास-प्रस्तुतिः

त ऊर्ध्वगनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः।

मूलम्

त ऊर्ध्वगनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः।

टीका

ते होत्रका अनुरूपेभ्य ऊर्ध्वं वालखिल्यादीनि “शिल्नसंज्ञकानि विहरणन्यूनिनदीदितानि शंसेयुः37। त इति वचनं होत्रका एवानुरूपेभ्य ऊर्ध्वंशिल्पिनिशंसेयुर्होतात्वन्यत्रेतिज्ञापनार्थम्। तेन नामानेदिष्ठस्यापि38 शिल्लत्वं साधितं भवति। ऊर्वमनुरूपेभ्य इति शिल्यानां स्थानावधानम्। विकृतानीतिवचनं विकृतान्यविकृतानि चेति शिलानां द्वैविध्यप्रदर्शनार्थम्। तेनैषु त्रिषु शस्त्रेषु विकृतानि शिलानीति विद्यात्। यानि पुनः प्रकृत्या शिलानि शंसेयुरित्यत्रोक्तानि39 तान्यविकृतानीति विद्यात्। द्वैविध्य प्रदर्शनस्य प्रयोजनं शिल्अन्यविकृतानि शंसेयरित्पत्राविकृताना मेव प्रापणार्थम्।

विश्वास-प्रस्तुतिः

मैत्रावरुणस्याने त्वं नो अन्तमोऽग्ने भव सुपमिधासमिद्ध इति स्तोत्रियानुरूपावथ वालखिल्या विहरेत्।

मूलम्

मैत्रावरुणस्याने त्वं नो अन्तमोऽग्ने भव सुपमिधासमिद्ध इति स्तोत्रियानुरूपावथ वालखिल्या विहरेत्।

टीका

अथास्मिन्नवसरे वालखिश्या ऋचो विहरेत्। ताश्च ‘अभिप्रवः सुराधसम्’ इत्थेवमाद्याः।

विश्वास-प्रस्तुतिः

तदुक्तं षोलशिना।

मूलम्

तदुक्तं षोलशिना।

टीका

तद्विहरण षोडशिना व्याख्यातं ‘पादान्व्यवधाय’ इत्येवमादिना।तस्यैव विशेषं वक्तुमाह—

विश्वास-प्रस्तुतिः

सूक्तानां प्रथमद्वितीये पच्छः।

मूलम्

सूक्तानां प्रथमद्वितीये पच्छः।

टीका

या40 वालखिल्पसंज्ञका ऋचस्ता अष्टौ सूक्तानि, तेषां ये प्रथमद्वितीये सूक्ते ते परस्परं पच्छो विहरेदित्यर्थः।

विश्वास-प्रस्तुतिः

तृतीयचतुर्थे अर्धर्चश ऋक्शः पञ्चमषष्ठे व्यतिमर्श वा विहरेत्।

मूलम्

तृतीयचतुर्थे अर्धर्चश ऋक्शः पञ्चमषष्ठे व्यतिमर्श वा विहरेत्।

टीका

अयमन्यो41विहारप्रकार उच्यते। व्यतिमृश्य व्यतिमृश्य वा विहरणं कर्तव्यं व्युत्क्रमेणेत्यर्थः।

तमेव विवृणोति -

विश्वास-प्रस्तुतिः

पूर्वस्य प्रथमामुत्तरस्य द्वितीययोत्तरस्य प्रथमां पूर्वस्य द्वितीया।

मूलम्

पूर्वस्य प्रथमामुत्तरस्य द्वितीययोत्तरस्य प्रथमां पूर्वस्य द्वितीया।

टीका

पूर्वस्य सूक्तस्य प्रथमामृचमुत्तरस्य सूक्तस्य द्वितीया ऋचा विहरेत्। उत्तरस्य प्रथमामृचं पूर्वस्य द्वितीयया ऋचा विहरेत्।

एवं प्रथमद्वितीययोः सूक्तयोर्द्वयोयोचोविंहार उक्तः। अथेदानीं तयोरेव सूक्तयोरन्यासामृचामेवंप्रकारस्य व्यतिमर्शविहा रस्य प्रापणार्थमाह -

विश्वास-प्रस्तुतिः

तयोर्नानर्चा।

मूलम्

तयोर्नानर्चा।

टीका

ऋचामिति शेषः। तयोः सूक्तयोः। शिष्टानामप्यचां मध्य एकैकामृचं व्युत्क्रमस्थामनेन प्रकारेण व्युत्क्रमस्थया पृथक्पृथग्विहरेदित्यर्थः।

विश्वास-प्रस्तुतिः

प्रथमद्वितीयाभ्यां पादाभ्यामवस्थेत्प्रथमद्वितीयाभ्यांप्रणुयात्तृतीयोत्तमाभ्यामबस्बेतृतीयोत्तमाभ्यां प्रणुयात्।

मूलम्

प्रथमद्वितीयाभ्यां पादाभ्यामवस्थेत्प्रथमद्वितीयाभ्यांप्रणुयात्तृतीयोत्तमाभ्यामबस्बेतृतीयोत्तमाभ्यां प्रणुयात्।

टीका

ऋग्व्यतिमर्श उक्तः। षादव्यतिमर्शश्च कर्तव्यः। स एतैश्चतुर्भिः सूत्रैरुच्यते। प्रथमद्वितीयाभ्यामित्येते शब्दा ऋग्यापेक्षया कल्पनीयाः।

प्रथमद्वितीययोः सूक्तयोर्व्यतिमर्शविहार उक्तः। अथेदानीमुत्तरेषामाह-

विश्वास-प्रस्तुतिः

एवं व्यतिमर्शमर्धर्चश उत्तर। एवं व्यतिमर्शमृक्श उत्तरे।

मूलम्

एवं व्यतिमर्शमर्धर्चश उत्तर। एवं व्यतिमर्शमृक्श उत्तरे।

टीका

व्यतिमर्शाधिकारे पुनर्व्यतिमर्शग्रहणं प्रथमद्वितीयाभ्यां पादाभ्यामवस्येत्प्रथम द्वितीयाभ्यां प्रणुयादित्येवमादिनिवृत्त्यर्थम्। अतस्तृतीयचतुर्थयोः सूक्तयोः प्रथमेनार्धनावस्वेत्। द्वितीयेन प्रणुयात्। पुनश्च प्रथमेनावसाय द्वितीयेन प्रणुयादिति। इदं च ऋग्विषयमेव। पञ्चमषष्ठयोः प्रथमां शस्त्वोत्तरस्य42 द्वितीयां शंसेत्।

पुनश्चैवम्-

विश्वास-प्रस्तुतिः

विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र।

मूलम्

विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र।

टीका

ये वालाखल्यानां सप्तमाष्टमे सूक्ते तयो विपर्यासं कृत्वा शंसेत्। अष्टमं पूर्व शस्त्वापश्चात्सप्तममित्यर्थः। एक्कासे विपरिहार एवात्र तयोः कर्तव्यो न विहारप्रतिगर इत्येवमर्थः। उत्तमवचनमष्टावेव सूक्तानि वालखिल्यशब्दवाच्या नीत्येवमर्थम्।गायत्रवचनमुत्तमायाः पङ्क्तेः पङ्क्तिशंसननिवृत्त्यर्थम्। अतोऽसावर्धर्चशः शंस्तव्या।सर्वत्रवचनमस्या विधेः पूर्वस्मिन्नपि प्रापणार्थम्।

विश्वास-प्रस्तुतिः

इमानि वां मागधेयानीतिप्रागुत्तमाया आहूय दूरोहणं रोहेत्।

मूलम्

इमानि वां मागधेयानीतिप्रागुत्तमाया आहूय दूरोहणं रोहेत्।

टीका

वालखिल्याम्य ऊर्ध्वमिमानि वां भागधेयानीत्येतत्सौपर्णसूतं शंसेत्। तस्य प्रागुक्त, माया ऋच आहूय दूरोहणं रोहेत्।आहावोऽयमपूर्वो43 विधीयते। दूरोहणमिति वक्ष्यमाणस्य44 शंसनस्य संज्ञा।रोहेदिति शंसेोदित्यर्थः।

तच्छंसनमारोहणावरोहणस्वरूपमिति कृत्वा रोहेदित्युक्तं तदिदानीमुच्यते—

विश्वास-प्रस्तुतिः

हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवानमुक्त्वाप्रणुत्यावस्येत्पुनास्त्रिपद्याऽर्धर्चशः पच्छ एवसप्तमम्।

मूलम्

हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवानमुक्त्वाप्रणुत्यावस्येत्पुनास्त्रिपद्याऽर्धर्चशः पच्छ एवसप्तमम्।

टीका

एतामृचमित्थं शंसेत्। प्रथमं पच्छः, द्वितीयमर्धर्चशः, तृतीयं त्रिभिः पादैरक्सायोसमेन वादेन प्रणुत्य, चतुर्थमनवानमुक्त्वा प्रणवेनावस्येत्। एतदारोहणम्। अथावरोहणम्। पुनन्त्रिपयेत्येवमादिनोक्तं पञ्चमम्, अर्धर्चशः षष्ठं, पुनः पच्छः सप्तमम्। एतदूरोहणं भवति। सप्तमवचनमियमेव सप्तकृत्वोऽभ्यस्ता45दूरोहणमिति ज्ञापनार्थम्। एवकारः पौनर्वाचनिकः।

विश्वास-प्रस्तुतिः

एतद्दूरोहणम्।

मूलम्

एतद्दूरोहणम्।

टीका

दूरोहणमिति प्रकृते पुनर्दूरोहणवचनं द्विविधं दूरोहणमस्तीति प्रदर्शनार्थम्। तेन स्वर्गकामस्य चतुरभ्यस्तैव दुरोहणं भवति। तथा च श्रुतिः— ‘अथ य एककामाः स्युः’ इत्यादिः।

विश्वास-प्रस्तुतिः

आवां राजानाविति नित्यमैकाहिकम्।

मूलम्

आवां राजानाविति नित्यमैकाहिकम्।

टीका

दूरोहणानंन्तरमस्य सूक्तस्योत्तमां शस्त्वाऽऽवां राजानाविति शंसेत्, अन्यदेकाहिकमर्थलुप्तं भवति। ऐकाहिकस्य नित्यवचनादनैकाहिकमनित्यमिति दर्शयति। तथा च श्रुतिः— तं यदि दर्प एव विन्देत् ’ इति।

विश्वास-प्रस्तुतिः

इति न हौण्डिनौ।

मूलम्

इति न हौण्डिनौ।

टीका

यावेतावुक्तौ विहारौ तौ हौण्डिनसंज्ञकावित्यर्थः।

विश्वास-प्रस्तुतिः

अथ महावालभित्।

मूलम्

अथ महावालभित्।

टीका

अथानन्तरं महावालभिन्नामैको विहारो वक्ष्यत इत्यर्थः।

विश्वास-प्रस्तुतिः

एतान्येव षट्सूक्तानि व्यतिमर्शं पच्छोविहरेद्यतिमर्शमर्धर्चशो व्यतिमर्शमृक्शः।

मूलम्

एतान्येव षट्सूक्तानि व्यतिमर्शं पच्छोविहरेद्यतिमर्शमर्धर्चशो व्यतिमर्शमृक्शः।

टीका

वालखिल्यानामादितः षट्सूक्तानि46 त्रिप्रकारं विहरेदित्यर्थः। एवकारः पौनर्वाचनिकः।

विश्वास-प्रस्तुतिः

प्रगाथान्तेषु चानुपसंतान ऋगावानमेकपदाः शंसेत्।

मूलम्

प्रगाथान्तेषु चानुपसंतान ऋगावानमेकपदाः शंसेत्।

टीका

वालखिल्यानां षट्सतानामष्टाविंशतिः प्रगाथास्तेषामन्तेष्वनुपसंतानगवानमुक्त्वा47 वक्ष्यमाणा एकपदाः शंसेत्। अनुपसंतानं चर्गावानं चानुपसंतानर्गावानम्। विवृत्तिरत्रच्छान्दसी।अनुपसंतानगविःनशब्दयोकवद्भावः। तौ चैकपदानां शंसनक्रियाविशे48षणत्वेन संबध्येते। तेनानुपसंतान विशिष्टमृगावानविशिष्टं च प्रगाथे प्रगाथे समाप्त एकपदानामेकैकां शंसेदित्यर्थः। अनुपसंतानता चैकपदानामृगावानवचनादेवोत्तरैः प्रगाथैर्न विधातव्या भवति। अतः पूर्वैः प्रगाथान्तैरेव संबध्यते। तस्य चैकपदानां शंसनविशेषणत्वेनोपांदानान्नायं संतानप्रतिषेधपरः, नाप्यवसानविधिपरश्च। अतो यः प्रगाथान्ते प्रणवः स त्रिमात्र एव भवति। ऋगन्तस्वात्प्रणवस्य प्राप्तिरस्ति। अवसानविध्यभावाच्चतुर्मात्रता49नास्तीति सिद्धम्।

विश्वास-प्रस्तुतिः

इन्द्रो विश्वस्य गोपतिरिन्द्रो विश्वस्य भूपतिरिन्द्रोविश्वस्य चेततीन्द्रो विश्वस्य राजतीति चतस्रः।

मूलम्

इन्द्रो विश्वस्य गोपतिरिन्द्रो विश्वस्य भूपतिरिन्द्रोविश्वस्य चेततीन्द्रो विश्वस्य राजतीति चतस्रः।

टीका

एताश्चतस्रो दशमेऽहनि श्रुतावुत्पन्ना अप्येता आचार्येणात्रैव पठिताः।

विश्वास-प्रस्तुतिः

एकां महाव्रतादाहरेत्।

मूलम्

एकां महाव्रतादाहरेत्।

टीका

‘इन्द्रो विश्वं विराजति’ इत्येतामित्यर्थः।

विश्वास-प्रस्तुतिः

त्रयोविंशतिमष्टाक्षरान्यादान्महानाम्नीभ्यः सपुरीषाभ्यः।

मूलम्

त्रयोविंशतिमष्टाक्षरान्यादान्महानाम्नीभ्यः सपुरीषाभ्यः।

टीका

महानाम्नीषु50पुरीषपदास्वैपकर्षणेऽष्टाक्षरास्त्रयोविंशतिरेव51 पादाः सन्ति तान्सर्वानाहरेत्। तैः52 सहाष्टाविंशतिरेकपदा भवन्ति*53

विश्वास-प्रस्तुतिः

षोलशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः।

मूलम्

षोलशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः।

टीका

विहृतान्तर्गर्तनामेकपदानां विहृतप्रतिगरप्रतिषेधार्थमिदं सूत्रम्।

विश्वास-प्रस्तुतिः

अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत्54

मूलम्

अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत्54

टीका

एकपदाध वर्जयित्वा चतुर्थ शंसेत्। अविहरन्निति विस्वष्टार्थम्।

विश्वास-प्रस्तुतिः

सभानमन्यत्॥ २॥

मूलम्

सभानमन्यत्॥ २॥

टीका

स्तोत्रियानुरूपाविमानि वामित्येतत्समानं, पूर्वाभ्यां विहाराभ्यामित्यर्थः॥ २॥

विश्वास-प्रस्तुतिः

ब्राह्मणाच्छंसिन इमानुकं भुवनासीपधामेतिपञ्चायावाजं देवहितं सनेमेति स्तोत्रियानुरूपौ।

मूलम्

ब्राह्मणाच्छंसिन इमानुकं भुवनासीपधामेतिपञ्चायावाजं देवहितं सनेमेति स्तोत्रियानुरूपौ।

टीका

इमानुकमिति पश्च द्विपदाः। अयावाजमित्येका द्विपदा। एतौ ब्राह्मणाच्छंसिनः स्तोत्रियानुरूपौ।

विश्वास-प्रस्तुतिः

अपप्राच इन्द्रेति सुकीर्तिः।

मूलम्

अपप्राच इन्द्रेति सुकीर्तिः।

टीका

इदं सूक्तं सुकीर्तिर्नाम वेदितव्यम्। अस्याः संज्ञायाः प्रवृत्तिनिमित्तं तदार्पत्वं न तच्छन्दवत्त्वमित्येतत्प्रतिपादनार्थं सूक्तादिग्रहणम्।

विश्वास-प्रस्तुतिः

तस्यार्धर्चशश्चतुर्थीम्।

मूलम्

तस्यार्धर्चशश्चतुर्थीम्।

टीका

‘युवं सुरामम्’ इत्यस्यानुष्टप्त्वादेवार्धचशंसने प्राप्ते पुनरर्धर्चशेसनवचनं प्राप्तानुवादःस पुनः प्रदर्शनार्थः। एवंप्रकाराया अन्यशस्यमध्यगतायों55अर्धर्चशः शंसनं स्वच्छन्दोन्यायेन शंसनं भवतीति।

विश्वास-प्रस्तुतिः

अथ वृषाकपि शंसेद्यथा होताऽऽज्याद्यां चतुर्थे।

मूलम्

अथ वृषाकपि शंसेद्यथा होताऽऽज्याद्यां चतुर्थे।

टीका

‘विहि सोतोः’ इत्येतत्सूक्तं वृषाकप्यात्वा वृषाकपिरित्युच्यते। अस्य शंसनोपायः पार्टिके चतुर्थेऽहन्याज्याद्यां यथा होता शंसेत्तथा वृषाकपि ब्राह्मणाच्छंसी शंसेत्। तस्यां ये धर्मारत इह कर्तव्या इत्यर्थः। अर्धर्चशंसनं विग्रहस्त्रिरभ्यासो न्यूङ्खो निनर्दः प्रतिगरश्चेति तस्यां56 धर्माः57। तत्र विग्रहः सर्वाज्याद्यायाः सामान्यधर्मः। अर्धर्चशंसनंच58न तस्या एव धर्मः। त्रिरभ्यासश्च तादृश एव। न्यूङ्खनिनर्दावपि न केवलं तस्या एव, उत्तरासामपि साधारणत्वात्। तयोरतिदेशे तु येन यत्रातिदेशः कृतस्तस्य59 वैशेषिकधर्मास्त एवातिदिश्येरन्न तत्र प्रयुज्यमानाः सामान्यधर्मा अपि। एवं सिद्धे यद्धोतृग्रहणं करोति तस्येदं प्रयोजनं चतुर्थेऽहन्याज्याद्यायां ये धर्माः प्रयुज्यन्ते साधारणा वैशेषिकाश्च ते सर्वत्रातिदिश्येरान्निति60। एतच्च होतृशब्दस्य कर्तृविशेषवाचितवात्कर्तुश्च प्रयोगानुबन्धभूतत्वाल्लम्यते। एवं च त्रिरम्यासोऽपि प्राप्नोति61 तत्कुत उक्तं होतृग्रहणं प्रयोगप्रत्यभिज्ञानार्थमिति। तेनाऽऽज्यायाया आद्यो यः प्रयोगस्तावन्मात्रादेवातिदेशे सिद्धे पुनरभ्यासस्य प्रापकं नास्तीति सिद्धम्।

विश्वास-प्रस्तुतिः

पङ्क्तिशंसं त्विह।

मूलम्

पङ्क्तिशंसं त्विह।

टीका

पङ्कित्वादेव पङ्क्तिशंसने प्राप्ते पुनर्वचनमाज्या द्यायां प्रयुज्यमानत्वादर्घर्चशंसनमपि प्राप्नोतीति तन्निवृत्त्यर्थम्।तुशब्दो विशेषद्योतकः। अयमत्र विशेषः पङ्किशंसनमिति। इहेति प्रसिद्धोऽयमर्थ इति दर्शयति62। तस्मादयं वृषाकपिः पङ्किश्छन्दास्तस्मादिह पङ्किशंसन मेवेति। अनेनैतत्साधितं भवति अतिदेशेनान्यच्छन्दःशंसनमन्यच्छन्दसो न प्राप्यत इति।

विश्वास-प्रस्तुतिः

अप्रणवान्तश्च प्रतिगरो द्वितीये पाङ्क्तावसाने।

मूलम्

अप्रणवान्तश्च प्रतिगरो द्वितीये पाङ्क्तावसाने।

टीका

आज्या द्याया अतिदेशे सति न्यूनिनर्दविकृतः प्रतिगरोऽपि प्राप्त एव। तत्रार्धर्चशः शस्यत्वात्प्रतिगरस्य चप्रणवान्तत्वेनें63 पठितत्वात्तत्र प्रणवान्त64 एवासौ संबध्यते। इह पुनः पङ्किशंसनत्वान्भ्यूङ्खादिविकृतः प्रतिगरोऽवसाने संपद्यत इत्यप्रणवान्त इत्युच्यते। अप्रणवान्तश्च प्रतिगर इत्येतावतैव सिद्धे द्वितीये पावसान इति वचनं प्राप्तोऽयमर्थ इति दर्शयति। यस्मादस्मिन्नवसाने प्रणवो नास्ति तस्मादत्रा65स्मिन्नवसाने66 प्रणवान्त एवं प्रतिगर इति प्राप्तिविवेकस्येदं67 प्रयोजनं योऽयं न्यूयादिविकृतः प्रतिगरः स प्राकृत एवेति प्रतिपत्तव्यमिति। तेनैतत्साधितं भवति - प्राकृतकार्यकरत्वात्प्राकृतस्य पुनः प्रयोगो न कर्तव्य इति।

विश्वास-प्रस्तुतिः

तस्मादूर्ध्वं कुन्तापम्।

मूलम्

तस्मादूर्ध्वं कुन्तापम्।

टीका

तस्माद्वृषाकपेरूर्ध्वं कुन्तापं शंसेत्। तस्मादूर्ध्वमितिवचनान्माध्यंदिने वृषाकपौ प्रविष्टे तदनन्तरं कुन्तपस्यासति68 प्रवेशे तृतीय सवनेऽपि तस्य प्रयोगो69 नास्तीति गम्यते।

विश्वास-प्रस्तुतिः

तस्याऽऽदितचतुर्दश विग्राहं निनर्दशंसेत्।

मूलम्

तस्याऽऽदितचतुर्दश विग्राहं निनर्दशंसेत्।

टीका

तस्य कुन्तापस्याऽऽदितश्चतुर्दश ऋचोविगृह्य विगृह्य निनर्द्यनिनर्द्य शंसेत्। विग्राहाः प्रागुक्ताः। निनर्दो70यस्मादपूर्व इति तस्य स्वरूपनिदर्शनायाऽऽह—

विश्वास-प्रस्तुतिः

तृतीयेषु पादेषूदात्तमनुदात्तपरं यत्प्रथमं तं निनर्देत्।

मूलम्

तृतीयेषु पादेषूदात्तमनुदात्तपरं यत्प्रथमं तं निनर्देत्।

टीका

तृतीयेषु पादेष्वादितो यदक्षरं तदनुदात्तीकृत्य ब्रूयात्। तस्मात्परं यत्तद्वितीयं तदुदात्ती कुर्यात्। एतदुक्तं भवति- तृतीयेषु पादेषु प्रथममादित इत्यर्थः। आदितो ये अक्षरे तयोः पूर्वमनुदात्तं यथा71 भवेत्तस्मात्परं72 द्वितीयमुदात्तं यथा भवेत्तथा निनर्देन्नितरां ब्रूयादित्यर्थः। तदेवमुच्चारणं निनर्दशब्देनोच्यत इत्यर्थः।

विश्वास-प्रस्तुतिः

तदपि निदर्शनायोदाहरिष्यामः। इदं जनाउपश्रुत। नराशंस स्तविष्यते। षष्टिं सहस्रानवति च कौरम आरुशमेषु दद्महोम ३।

मूलम्

तदपि निदर्शनायोदाहरिष्यामः। इदं जनाउपश्रुत। नराशंस स्तविष्यते। षष्टिं सहस्रानवति च कौरम आरुशमेषु दद्महोम ३।

टीका

षकारोऽनुदात्तष्टिकार उदात्तः, अन्यदेकश्रुतिः।

विश्वास-प्रस्तुतिः

ओथामो दैवोमित्यस्य प्रतिगरः।

मूलम्

ओथामो दैवोमित्यस्य प्रतिगरः।

टीका

प्रतिगरेऽप्यादितो73 यदक्षरद्वयं तयोः पूर्वमनुदात्तमुत्तरमुदात्तं कृत्वा ब्रूयात्। एतत्पाठादेव लभ्यते74।अयं प्रतिगरः प्रणवेऽवसाने प्राकृत एवास्य प्रतिगर इत। निनर्दसहितस्यार्धर्चस्थेत्यर्थः।

विश्वास-प्रस्तुतिः

चतुर्दश्यामेकेन द्वाभ्यां च विग्रहः।

मूलम्

चतुर्दश्यामेकेन द्वाभ्यां च विग्रहः।

टीका

‘उप वो नर एमसि’ इत्येषा चतुर्दशी सेयं पतिस्तस्याः प्रथमोऽर्धर्चस्त्रिपात्तत्र विग्राहे क्रियमाण एवं भवति पूर्वमेकेन विगृह्य ततो द्वाभ्यामवस्योदत्यर्थः।

विश्वास-प्रस्तुतिः

शेषोऽर्धर्चशः।

मूलम्

शेषोऽर्धर्चशः।

टीका

चतुर्दश्या ऋचो यः शेषः सोऽर्धर्चशः शंस्तव्यः।शंसने प्राप्त इदमुच्यते।

विश्वास-प्रस्तुतिः

एता अश्वा आप्लवन्त इति सप्ततिं पदानि।

मूलम्

एता अश्वा आप्लवन्त इति सप्ततिं पदानि।

टीका

सप्ततिवचनं शाखान्तरे क्वचित्षट्सप्ततिपदानि सन्तीति प्रदर्शनार्थम्।

विश्वास-प्रस्तुतिः

अष्टादशवा।

मूलम्

अष्टादशवा।

टीका

एतावन्ति वा पदानि शंसेत्। तान्येतानीत्याह -

विश्वास-प्रस्तुतिः

नवाऽऽद्याऽऽनि।

मूलम्

नवाऽऽद्याऽऽनि।

टीका

आदितो नव पदानि।

विश्वास-प्रस्तुतिः

अलाबुकं निखातकमिति सप्त यदीहनस्कथं हनस्पर्याकारं पुनः पुनरिति चैते।

मूलम्

अलाबुकं निखातकमिति सप्त यदीहनस्कथं हनस्पर्याकारं पुनः पुनरिति चैते।

टीका

एते च द्वे। एतान्यष्टादश पदानि संपाद्य शंसेत्सप्ततिं वेति विकल्पः।

विश्वास-प्रस्तुतिः

विततौकिरणौद्वाविति षलनुष्टुभः।

मूलम्

विततौकिरणौद्वाविति षलनुष्टुभः।

टीका

षड्ग्रहणं शाखान्तरेभूयस्थ75ःसन्तीति ज्ञापनार्थम्।अनुष्टुव्गरहणं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

दुंदुभिमाहननाभ्यां जरितरोथामो देव कोशबिलेजरितरोथामो देव रजनिग्रन्थेर्धानां जरितरोथामोदैवोपानहि पादं जरितरोथामो देवोत्तरां जनीमांजन्यां जरितरोथामो दैवोत्तरां जनींवर्त्मन्यांजरितरोथामो दैवेति प्रतिगरा अवसानेषु।

मूलम्

दुंदुभिमाहननाभ्यां जरितरोथामो देव कोशबिलेजरितरोथामो देव रजनिग्रन्थेर्धानां जरितरोथामोदैवोपानहि पादं जरितरोथामो देवोत्तरां जनीमांजन्यां जरितरोथामो दैवोत्तरां जनींवर्त्मन्यांजरितरोथामो दैवेति प्रतिगरा अवसानेषु।

टीका

प्रणवेषु प्राकृता एव।

विश्वास-प्रस्तुतिः

इहेत्थ प्रागपागुदगिति यतस्रो द्वेधाकारं प्रणवेनासंतन्वन्।

मूलम्

इहेत्थ प्रागपागुदगिति यतस्रो द्वेधाकारं प्रणवेनासंतन्वन्।

टीका

चतस्र इतिवचनं पादशः पठिता अपि नाष्टावेकपदाश्चतस्त्र एवैता द्विपदा द्वेधकारं पठिता अपीति प्रदर्शनार्थम्।ताः पच्छः शंस्तव्याः प्रणवेनासंतन्वन्। अत्राऽऽर्थिकत्वादबसानस्य भिमात्रा एव प्रणवा भवेयुः। असंतन्वन्निति संतानप्रतिषेधादेव प्रणवसद्भावे सिद्धे प्रणवेनेतिवचनमासां ये चत्वारः प्रणवास्तैः सर्वैः संतानो न कर्तव्य इत्येवमर्थन्। तेनैतत्साधितं भवति – प्रवाहिकानामन्त्याया यः प्रणवस्तेना76जिज्ञासे77नीनामांद्यायाः78 संतानोभवतीति।

विश्वास-प्रस्तुतिः

अलाबूनि जरितरोथामो देवो३म्।पृषातकानि जरितरोथामोदेवो३म्। अश्वत्थपलाशं जरितरोथामो दैवो३म्।पिपीलिकावटोजरितरोथामो दैवो३मिति प्रतिगराः प्रणवेषु।

मूलम्

अलाबूनि जरितरोथामो देवो३म्।पृषातकानि जरितरोथामोदेवो३म्। अश्वत्थपलाशं जरितरोथामो दैवो३म्।पिपीलिकावटोजरितरोथामो दैवो३मिति प्रतिगराः प्रणवेषु।

टीका

अवसानेषु प्राकृता एव।

विश्वास-प्रस्तुतिः

भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तम्।

मूलम्

भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तम्।

टीका

सर्वाणि यथानिशान्तामेति वचनादत्रोत्तंमेऽपि पदे प्रणवो न कर्तव्य इति गम्यते। तेमात्र त्रीणि पदानि यथानिशान्तं शंस्तव्यानि।

विश्वास-प्रस्तुतिः

श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफोजरितरोथामो दैवेति प्रतिगरा वीमे देवा अक्रसतेत्यनुष्टुप्।

मूलम्

श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफोजरितरोथामो दैवेति प्रतिगरा वीमे देवा अक्रसतेत्यनुष्टुप्।

टीका

अनुष्टुव्ग्रहणं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

पत्नी यीयप्स्यते जरितरोथामो देव होताविष्टीमेन जरितरोथामो दैवेति प्रतिगरौ।

मूलम्

पत्नी यीयप्स्यते जरितरोथामो देव होताविष्टीमेन जरितरोथामो दैवेति प्रतिगरौ।

टीका

द्वितीयप्रतिगरः प्रणवेऽप्यप्रणवान्त एव पाठसामर्थ्यात्।

विश्वास-प्रस्तुतिः

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयनितिसप्तदश पदानि ओं ह जरितरोथामो दैव तथाह जरितरोथामो दैवेतिप्रतिगरौ व्यत्यासं मध्ये।

मूलम्

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयनितिसप्तदश पदानि ओं ह जरितरोथामो दैव तथाह जरितरोथामो दैवेतिप्रतिगरौ व्यत्यासं मध्ये।

टीका

मध्यशब्देन मध्यवर्तीनि पदान्यभिधीयते। व्यत्यासमिति तेषु पञ्चदशसु पदेष्वेतौ प्रतिगरौ क्रमेण व्यत्यस्य प्रयोक्त व्यावित्यर्थः। एतौ मध्य इतिवचनादाद्ये पदे प्राकृत एव प्रतिगरी भवेत्। उत्तमे तु प्रणवो विहित एव प्रतिगरत्वेन !

विश्वास-प्रस्तुतिः

प्रणव उत्तमः।

मूलम्

प्रणव उत्तमः।

टीका

उत्तमे पदे प्रणव एवात्र प्रतिगरो भवेदित्यर्थः।

विश्वास-प्रस्तुतिः

त्वमिन्द्र शर्मरिणेति भूतेच्छदः।

मूलम्

त्वमिन्द्र शर्मरिणेति भूतेच्छदः।

टीका

भूतेच्छद इत्यासामृचां नामधेयम्।

विश्वास-प्रस्तुतिः

तिस्र एता अनुष्टुभो यदस्या अंहुभेद्या इत्याहनस्याः।

मूलम्

तिस्र एता अनुष्टुभो यदस्या अंहुभेद्या इत्याहनस्याः।

टीका

आहनस्या इति नामधेयम्।

विश्वास-प्रस्तुतिः

आज्याद्ययोक्ताश्चतुर्थे।

मूलम्

आज्याद्ययोक्ताश्चतुर्थे।

टीका

ता आहनस्याः आन्निं न स्ववृक्तिभिः’ इत्यनयर्चा व्याख्याताः79। सा यथा शंस्तव्या, एवमेता अपीत्यर्थः।

विश्वास-प्रस्तुतिः

कपृनरो यद्ध प्राचीरजगन्तेति चैते।

मूलम्

कपृनरो यद्ध प्राचीरजगन्तेति चैते।

टीका

एते अप्यृचापेतयैव व्याख्याते इत्यर्थः।

विश्वास-प्रस्तुतिः

ई ३ इ इ इ इ इ80ई३ इ इ इ इ इ ई३
इ इ इ किमयमिदमाहो ३ॐ ३ ॐ ३
ॐ ३ मोथामो दैवोमित्यासां प्रतिगरः।

मूलम्

ई ३ इ इ इ इ इ80ई३ इ इ इ इ इ ई३
इ इ इ किमयमिदमाहो ३ॐ ३ ॐ ३
ॐ ३ मोथामो दैवोमित्यासां प्रतिगरः।

टीका

आसां दशानामृचामयं प्रणवेषु प्रतिगरो भवति। अवसानेप्राकृत एव।

विश्वास-प्रस्तुतिः

दधिक्राव्णो अकारिपमित्यनुष्टुप्सुतासोमधुमत्तमा इति च तिस्रः।

मूलम्

दधिक्राव्णो अकारिपमित्यनुष्टुप्सुतासोमधुमत्तमा इति च तिस्रः।

टीका

चशब्दादिमा अप्यनुष्टुभ81 एव।

विश्वास-प्रस्तुतिः

अवद्रप्सो अंशुमतीमतिष्ठदिति तिस्रः।

मूलम्

अवद्रप्सो अंशुमतीमतिष्ठदिति तिस्रः।

टीका

एतास्त्रिष्टुमः पच्छः शंस्तव्याः।

विश्वास-प्रस्तुतिः

अच्छाम इन्द्रमिति नित्यमैकाहिकम्॥ ३॥

मूलम्

अच्छाम इन्द्रमिति नित्यमैकाहिकम्॥ ३॥

टीका

उक्तार्थमेतत्॥ ३॥

विश्वास-प्रस्तुतिः

अथाच्छावाकस्य प्रव इन्द्रायवृत्रहन्तमायेति स्तोत्रियानुरूपौ।

मूलम्

अथाच्छावाकस्य प्रव इन्द्रायवृत्रहन्तमायेति स्तोत्रियानुरूपौ।

टीका

एताः षड्विपदा अच्छावाकस्य स्तोत्रियानुरूपौ।

अथैवयामरुदुक्तो वृषाकपिना

‘प्र वो महे मतयो यन्तु विष्णवे इत्येतत्सूक्तमेवयामरुन्नामकं तद्वृषाकपिना व्याख्यातम्। यथा वृषाकपिः शंस्तव्यंस्तथैव82 यामरुनामकमपीति। नात्र पङ्किशंसनम्। अतिजागतोऽयमेव्यामरुत्, पुनः पञ्चपदारवेव पङ्किण्वित्युक्तम्। वृषाकप्यतिदेश स्त्वक्षरलाघवादिदमप्युक्तमतिदेशेनान्यच्छन्दसः शंसनमन्यच्छन्दसो न प्राप्नोतीति। इममेवाभिप्रायं भगवान्सूत्रकारः स्वयमे व प्रकटयन्प्रणवान्तमेव प्रतिगरं पठितवानाचार्यः तस्य पाठस्य भ्रान्तिमूलता कल्पयितुमयोग्या, अविमानात्।

विश्वास-प्रस्तुतिः

ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐॐ ॐओ३ ॐ ॐ ॐ मदे मधोर्मदस्य मदिरस्यमदैवो ३ ॐ ३ ॐ ३ ॐ ३ मोथामो दैवोमित्यस्यप्रतिगर ऋतुर्जनित्रीति नित्यान्यैकाहिकानि।

मूलम्

ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐॐ ॐओ३ ॐ ॐ ॐ मदे मधोर्मदस्य मदिरस्यमदैवो ३ ॐ ३ ॐ ३ ॐ ३ मोथामो दैवोमित्यस्यप्रतिगर ऋतुर्जनित्रीति नित्यान्यैकाहिकानि।

टीका

नित्यैकाहिकशब्दयोः प्रयोजनमुक्तम्।

विश्वास-प्रस्तुतिः

एवमुक्थानि यत्र यत्र द्विपदासु स्तुवीरन्।

मूलम्

एवमुक्थानि यत्र यत्र द्विपदासु स्तुवीरन्।

टीका

अत्रोक्थशब्दः शिल्पविषयः श्रुतौ तथा प्रयोगदर्शनात् ‘एतानि वा अत्रोक्थानि नाभानेदिष्ठोबालखिल्याः’ इत्यादौ। एवं शि ल्पानि भवन्ति। पाष्र्ष्टिकात्पष्ठा दह्रोऽन्यत्रापि यंत्र यत्र होत्रकाणां सर्वेषां तृतीयसवने द्विपदासुं यदि च्छन्दोगाः रतुवीरन्। ए तदुक्तं भवति - एकाहाहीनसत्रेषु यस्मिन्कस्मिंश्चिदहाने तृतीयसवने होत्रकाणां सर्वेषां यदि द्विपदासु स्तुवीरं छन्दोगास्तत्र सर्वत्राहन्येवं शिल्पानि कर्तव्यानीति।एकस्य होत्रकस्य द्वयोर्वा होत्रकयोर्यंदा द्विपदासुच्छन्दोगाः83 स्तुवीरंस्तदैकस्य द्वयोर्वा शिल्पानि कर्तव्यानि भवन्तिनैवं84 सर्वेषामपति। कु तएत्सलभ्यत एकस्य द्वयोर्वा द्विपस्तवने शिल्पायेवं85न भवन्तीति। एतदतो लभ्यते-होत्राणां द्विपदा स्वित्यतो होत्रकाणामिती दं बहुकचनमुक्तमिहानुवर्तते। तस्यैतत्प्रयोजनं यदा सर्वेषणं द्विपदास्तवनं तदैव शिल्पान्येवं कर्तव्यानि भवन्ति।

विश्वास-प्रस्तुतिः

नित्यशिल्पं त्विदमह्नः।

मूलम्

नित्यशिल्पं त्विदमह्नः।

टीका

इदं षष्ठमहर्नित्य शिल्पं भवति।शिल्पैर विना मतमित्यर्थः। नित्यवचनाचदतिदिष्टानामव्ययं धर्मो भवतीति86 गम्यते।

विश्वास-प्रस्तुतिः

विश्वजिच्च।

मूलम्

विश्वजिच्च।

टीका

एतदपि नित्यशिल्पं भवति।

शिल्पानां प्रवृत्तौ होत्रकाणां सर्वेषां तृतीयसजने द्विपदास्तकं निमित्तमित्युक्तम्। षष्ठविश्वजितौ नित्यशिल्पावित्येतदप्युक्त म्। एवं स्थिते षष्ठविश्वजितौ यद्यग्निष्टोमसंस्थौ स्यातां यदि वा तृतीयसकने होत्रकाणां सर्वेषां द्विपदास्तवनं न स्यात्तदाकरत योनिंत्यशिल्पत्वमापादनीयमिति तत्र निर्वाहमाह—

विश्वास-प्रस्तुतिः

तौ चेदग्निष्टोमौयदि वोक्थ्येष्वद्विपदासु स्तुवीरन्माध्यंदिन
एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः।

मूलम्

तौ चेदग्निष्टोमौयदि वोक्थ्येष्वद्विपदासु स्तुवीरन्माध्यंदिन
एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः।

टीका

यद्येवं तदा माध्यंदिन एव सवन आरम्भणीयाम्य ऊर्ध्वं प्रकृत्या87विहारन्यूयादिवर्जितानि88 शिल्पानि शंसेयुः। माध्यंदिन एवेत्यवधारणं यथेकस्त्र द्वयोर्वा तृतीयसवन द्विपदासुस्तुवीर सर्वेषां तथाऽवि माध्यंदिन एवं सवने सर्वे शंसेयरित्येवमर्थम्

विश्वास-प्रस्तुतिः

बार्हतान्येव सूक्तानि बालखिल्यानां मैत्रावरुणः।

मूलम्

बार्हतान्येव सूक्तानि बालखिल्यानां मैत्रावरुणः।

टीका

यदा माध्यदिने शिलानि शस्यन्ते तदैतावदनेनेति त्रयाणां नियमः क्रियते। वालखिल्यानां यानि बार्हतानि षट् सूक्तानि तान्येन मैत्रावरुणः शंसेतनान्यथैव89 किंचिच्छसमित्यर्थः।

विश्वास-प्रस्तुतिः

सुकीर्ति ब्राह्मणाच्छंसी वृषाकपि च पङ्किशंसम्।

मूलम्

सुकीर्ति ब्राह्मणाच्छंसी वृषाकपि च पङ्किशंसम्।

टीका

‘तस्मादूर्ध्व कुन्तापम्’ इत्यनेन कुन्तापस्य वृषाकप्यनन्तरवर्तितायां प्राप्तायां त्रिबृत्त्यर्थं पङ्किशंसनवचनम्। यावान्वृषाक पिः पङ्किशंसनार्हस्तावदेव शंसेत्, न तत्सन्धिकुन्तापमपीत्यर्थः90

विश्वास-प्रस्तुतिः

द्यौर्नय इन्द्रत्यच्छावाकः।

मूलम्

द्यौर्नय इन्द्रत्यच्छावाकः।

टीका

इदं सूक्तमच्छावाक आरम्भणीयाया ऊर्ध्वं शंसेत्। अस्मिन्पक्ष इदमप्यस्य शिल्पं भवतीति।

विश्वास-प्रस्तुतिः

प्रत्येवयामरुदित्येतदाचक्षते।

मूलम्

प्रत्येवयामरुदित्येतदाचक्षते।

टीका

एतत्सूक्तं प्रत्येवयामरुदिति श्रुतौ प्रसिद्धमित्यर्थः।

विश्वास-प्रस्तुतिः

होतैवयामरुतमाग्निमारुते पुरस्तान्मारुतस्य पच्छः समासमुत्तमे पदे।

मूलम्

होतैवयामरुतमाग्निमारुते पुरस्तान्मारुतस्य पच्छः समासमुत्तमे पदे।

टीका

अस्मिन्पक्ष आग्निमारुते शस्त्रे मारुतस्य सूक्तस्य पुरस्तादेवयामरुतं होता शंसेत्। ९च्छः। पच्छःशंसनविधानं सर्वाश्चैवाऽऽचतुष्पादा91 इत्यर्धर्चशंसने प्राप्ते पच्छः शंसने पञ्चपदत्वाद्वे द्वे पदे अतिरिच्येते इति तदर्थमिदमुच्यते समासमुत्तमे पदे, इति। उत्तमे पदे समस्य प्रणुयादिव्यर्थः। होतृग्रहणमच्छावानिवृत्त्यर्थम्। अत इदमवगम्यते अच्छावाकसंबन्धमप्ये तत्सूक्तमागन्तुकत्वेनास्मिन्शस्त्रे विधीयते न मास्त निविद्धानीयत्वादिति। तेनैतत्साधितं भवति घाय्यानन्तरं प्रवेशदस्या ऽऽहावो92 मारुतस्य च निविद्धानीयत्वादिति।

विश्वास-प्रस्तुतिः

षष्ठे त्वेव पृष्ठ्याहन्यहरहः शस्यस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत्।

मूलम्

षष्ठे त्वेव पृष्ठ्याहन्यहरहः शस्यस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत्।

टीका

एवं माध्यंदिने सवने शिलेषु नीयमानेषु पार्टिके षष्ठेऽहन्ययं विशेषः, दरोहणमपिरोहेदिति। एवकारोऽवधारणार्थः। अस्मिन्पक्षे षष्ठ एवाहन दुरोहणं रोहेन्न विश्वजितीत्यवचारणार्थः। पृष्ठयाधिकारे पुनः पृष्ठ्यग्रहणादिदं दूरोहणं पूर्वस्मादूरोह णादन्यद्दूरोहणमिति ज्ञायते। यदि पूर्वविहितस्यैवावधारणं ततो विश्वजिति व्यावृत्तिर्विधित्सिता स्यात्, तदा तस्य पार्षिक एव संभवात्पुनः पृष्ठ्यग्रहणं न कुर्यात्। करोति च। अतो ज्ञायते दूरोहणान्तरमेतदिति। अनेनैतत्साधितं भवति अस्य दूरोहण स्याऽऽहावविष्यमावाढाहावो न कर्तव्य इति। अहरहःशस्यस्य पञ्चचत्वात्तिस्त्रः ३ स्वेत्येतावतैव सिद्ध एकभूयसी रितिवचनं संपातसूक्तेऽप्येतस्य न्यायस्य प्रापणार्थम्।

विश्वास-प्रस्तुतिः

संपातसूक्त एकाहीभवत्सु।

मूलम्

संपातसूक्त एकाहीभवत्सु।

टीका

अस्मिन्पष्ठेऽहन्येकाही भवति सति संपातसूक्ते’कथामहामवृधत्’ इत्यस्मिन्दूरोहगंरोहेत्तस्यार्धा ऋच एकभूयसीः शस्त्वा। एकाही भवत्स्वितिबहुवचनं यदा पुनरिदमहरहीनेषु चाऽऽद्यं भवति तदा तत्र तायमानरूपाणामभावाद्नेकाहेऽप्येकाह वद्भवति93। तत्र यदि माध्यदिने शिल्पानि तदाऽहरहःशस्यस्याभावात्संपातसूक्त एव दूरोहणं कर्तव्यमित्येवमर्थम्।सत्रेषु माध्यंदिने होत्रकाणां शस्त्राण्येवं भवन्ति - स्तोत्रियानुरूपौ कस्तमिन्द्रेति। कद्वानप प्राच इन्द्रेत्यारम्भणीया।सघोह जात इत्यहरहःशस्यम्। आ सत्यो यात्वित्यहीनसूक्तम्। एवं मैत्रावरुणस्य ब्राह्मणाच्छेसिनः स्तोत्रियानुरूपौ कन्नव्यो अतसीनामिति।कद्वान्ब्रह्मणा ते ब्रह्मयुजेत्यारम्भणीया।अस्मा इदु प्र तवस इत्यहीनसूक्तम्। उदु ब्रह्माणीत्यहरहः शस्यम्। एवं ब्राह्मणाच्छंसिनः। अथाच्छावाकस्य स्तोत्रियानुरूपौ कदून्वस्याकृतमिति। कद्वानुरुं नो लोकमनुनेषि विद्वानित्यारम्भ णीया।शासइहिरित्यहीनसूक्तम्। अभितष्टे वेत्यहरहःशस्यम्। एवमेतानि षट् प्रतीकानि चतुर्विंशादिष्वहःसु भवन्ति। षव्हेषु षलहप्रकृतिषु चायं विशेषो भवति - अहीनसूक्तस्थाने94संपातसूक्तानि भवन्ति। मैत्रावरुणस्यैवाऽऽत्वा मिन्द्रेति प्रथमचतुर्थयोरहोः। यं न इन्द्रेति द्वितीयपञ्चमयोः। कथामहामवृधदिति तृतीयपष्ठयोः। एवं ब्राह्मणाच्छंसिनः। इन्द्रः पूर्णिय एक इद्यस्तिग्मशृङ्ग इत्येकैकं पूर्ववत्। एवमच्छावाकस्याप्येतानि सूक्तानि भवन्ति। इमामु न्त्रिच्छन्ति त्वा शासद्वह्रिरित्ये वमेतान्येतेष्वहःसु सत्रविषये शस्त्राणि भवन्ति। एकाहीभावे कद्वतामारम्भणीयानामहरहः शस्यानामभावः। अतः संपात सूक्ते दूरोहणमित्युक्तं भवति।

विश्वास-प्रस्तुतिः

न ह्येकाहीभवत्स्वहरहःशस्यानि नाऽऽरम्भणीया न कद्वन्तः।

मूलम्

न ह्येकाहीभवत्स्वहरहःशस्यानि नाऽऽरम्भणीया न कद्वन्तः।

टीका

एकाही भव स्त्विति प्रकृते पुनर्वचनमधिकारार्थम्।वक्ष्यमाणो विधिः सात्रिकेष्वहःस्खेकाही भवत्स्विति वेदितव्यम्। एतेष्वहःस्वकाही भवत्स्वहरहःशस्यान्यारम्भणीयाः कद्वन्तश्च न सन्ति। हिंशब्दः प्रसिद्धौ। प्रसिद्धाश्चायमर्थो यद्गणधर्म95 एकाहेषु नप्रवर्तत96 इति। अतस्तुल्यन्यायानां तार्क्ष्यजातवेदस्यादीनामेकाहीभवत्सु प्रवृत्तिप्रतिषेधः सिद्धो भवति।

विश्वास-प्रस्तुतिः

कद्वतां स्थाने नित्यान्प्रगाथा उशस्त्वासंपातानेव संपातवत्स्वही नसूक्तानीतरेषुततोऽन्त्यान्यै काहिकानि।

मूलम्

कद्वतां स्थाने नित्यान्प्रगाथा उशस्त्वासंपातानेव संपातवत्स्वही नसूक्तानीतरेषुततोऽन्त्यान्यै काहिकानि।

टीका

सात्रिकेष्वहःस्वेकाही मयत्स्वेवं शस्यं भवति। कद्वतां स्थाने नित्यानैकाहिकान्प्रगाथाशस्त्वा पृष्ठयाभिलवप्रकृतिषु97 संपाताशंसेयुः। इतरेषु चतुर्विंशादिप्रकृतिषु प्रगाथानन्तरमहीनसूक्तानि शंसेयुः। तत उभयेष्वहःस्वन्त्यान्यैकाहिकानि सूक्तानि शंसेयुः। माध्यंदिने सक्ने होञका इति नित्यानां निवर्तकेषु कद्वत्सु प्रतिषिद्धेषु प्राप्ता एव नित्याः प्रगाथाः किमिति ते पुनर्विधीयन्ते। यत्पुनर्विधानं यदा पुनरेतेषु सामप्रगाथा एकाहेषु प्राप्तवन्ति तदा तैर्नित्यानां बाधो न स्यादित्येवमर्थम्। किंचान्यत्प्रगाथानन्तरं मैत्रावरुणस्यापि संपातोऽहीनसूक्तं वा भवेन्नैका हिकमित्ययमेव च क्रमः सिध्येदित्येवमर्थं च।एवं हि सत्रेषु मैत्रावरुणस्य क्रमः प्रगाथानन्तरमहरहः शस्यं ततः संपातोऽहीनसूक्तं चेति।तत्राहरहःशस्यं पूर्वस्यैकाहिकस्य स्थाने विहितं तत्प्रतिषिध्यत इति पूर्वमेवैकाहिकं प्रतिप्रसूतं स्यात्। अतस्तद्पनीय तत्स्थाने संपातोऽहीनसूक्तं वा भवेत्। अन्त्यमेवैकाहिकं प्रतिप्रसूतमस्त्वित्ययं यत्नः क्रियते। एवं चेदन्त्यानां विधानं मन्दफलं भवेत्। अस्तु, तथाऽप्युत्तरार्थं कर्तव्यमेव।

विश्वास-प्रस्तुतिः

संपातवत्सु तु सर्वस्तोमेषु प्राकृतेवैकाहेऽहीनसूक्तान्यादितस्तृतीयानि।

मूलम्

संपातवत्सु तु सर्वस्तोमेषु प्राकृतेवैकाहेऽहीनसूक्तान्यादितस्तृतीयानि।

टीका

तुशब्दो विशेषविध्यर्थः। अयमस्मिन्सूत्र उपरितने च सूत्रे विशेषः सर्वार्थोऽयं सूत्रद्वयोक्तो विधिरित्येकाहीभवतामन्येषां च साधारण इत्यर्थः। यदा पुनः संपातवन्त्यहानि सर्वैस्त्रिवृदादिभिस्त्रयस्त्रिंशान्तैः षभिः स्तोमैर्युक्तानि भवन्ति, प्राकृतो वैकाह एभिः स्तोमै र्युक्तो भवति तदाऽहीनसूक्तान्यादित इतरेषां सूक्तानां भवन्ति। आदित इति, पुरस्तादित्यर्थः। तृतीयानि च भव न्ति। तृतीयवचनं प्रकृतेर्द्विसूक्तत्वान्निमित्तवशेन98 प्राप्तस्यापि संपातस्याहीनसूक्तस्य वा लोपः स्यादिति समुच्चयसिद्ध्यर्थम्। अत्र क्रमः – अहीनसूक्तमहरहः शस्यं संपात इति सत्रेषु मैत्रावरुणस्य।इतरयोरहीनसूक्तं संपातोऽहरहः शस्यमिति विशेषः। एकाहीभवत्सु मैत्रावरुणस्येतरयोश्च न विशेषः, अहीनसूक्तं संपातोऽन्त्यमैकाहिकमिति। यदा पुनः प्रकृतिभूतो ज्योतिष्टोमः सत्रमहीनमेकाई वा प्राप्तः99, यदा प्रथमस्य तूर्ध्वं चतुर्थात्सर्वतोमोऽतिरात्र इति सर्वस्तोमश्च भवति तत्रायं क्रमः–सर्वेषां च स्वं स्वमहीनसूक्तं तत ऐकाहिके च द्वे द्वे सूक्ते इति पूर्वयोरच्छावाकस्याही नसूक्तं भूय इदभितष्टीयम्100। एवमहर्गणप्राप्त वैकहिकत्वेऽहीनसूक्तानि द्वे द्वे चैकाहिके सर्वेषामिति।

विश्वास-प्रस्तुतिः

सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि।

मूलम्

सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि।

टीका

आदितस्तृतीयानि101 चोभयं निवृत्तम्। सामसूक्तानिपुरस्तात्सूक्तानामतिदेशविधानादादित102 इतिनिवृत्तम्।एकयोगनिवर्तनाद न्यदपि निवृत्तम्। यदा पुनः संपाताहीनसूक्तकाहिकानि103 त्रिप्रकाराण्यहानि सर्वपृष्ठानि भवन्ति तदा सामसूक्तानि भवन्ति। तेषां स्थानं स्वरूपं चोत्तरत्र वक्ष्यते। तेष्वेव शस्त्रेषु शाक्वरवैरू परैवतानि सामानि च पृष्ठकार्ये भवन्ति तेषां सामप्रगाथाश्च भवन्ति। तदेतत्सामसूक्तानि पृष्ठानि च तानि सप्रगाथानीत्येतत्रयं सर्व॑ष्टृष्ठनिमित्तं विधीयते। अस्मिन्नेव सूत्रेऽयं च विधिरे का हीभवतामन्येषां च साधारणः104। एवमत्र क्रमः – संपाताहःसु शाक्वरादीनां स्तोत्रियानुरूपाः’ ‘सामप्रगाथाः कद्वन्त आरम्भणी याः सामसूक्तान्यहीनसूक्तान्येतावत्सर्वेषां समानम्। ततोऽहरहःशस्यसंपाती मैत्रावरुणस्येतरयोः संपाताहरहःशस्ये इति। अहीनाहःस्वेवं भवति - सामसूक्तेभ्योऽनन्तरमहरहः शस्यमहीनसूक्तं मैत्रावरुगस्थेतरयारहीनसूक्ते105अहरहःशस्ये इति। विश्वजिति तु विशेषः अनुरूपेभ्य ऊर्ध्वं वामदेव्यादीनां योनिशंसनमिति प्रकृतौ ज्योतिष्टोमेऽहर्गणमध्यगते सामसूक्तान्यहीनसूक्तानि सर्वेषाम्। ततोऽहरहःशस्यमन्त्यमैका हिकं मैत्रावरुणस्यइतरयोः पूर्वे ऐकाहिके। ततोऽहरहःशस्ये इति। एवं त्रिप्रकारेण्वहःसु सर्वपृष्ठेषु माध्यंदिने सवने होत्रकाणां शस्त्राणि भवन्ति। एषामेवं त्रिप्रकाराणामहामेकाही भावे सर्वपृष्ठत्वेसत्येवस्यं106 भवति। कद्वतां शस्थानें नित्याः प्रगाथास्ततः सामसूक्तान्यहीमसूक्तानि संपाता अन्त्यान्यैकाहिकानोति संपाताहःसु। अहीनाहःसु तान्येव संपातवर्जितानि त्रीण्येवसू क्तानि। ज्योतिष्टोमिकेतु सामसूक्तान्यहीनसूक्तानि द्वे द्वे चैकाहिके इति सर्वेषामविशेषः। ततोऽन्त्यान्यैका हिकानीत्ये तदुत्तरार्थमित्युक्तमस्मिन्सूत्रे पूर्वस्मिंश्च सूत्र उपकरोति। प्रकृतेर्द्विसूक्तत्वात्तदन्त्यैका हिकैर्विनाऽपिद्विसूक्तत्वसिद्धेरेकाही107 भवत्स्वप्यहःस्वन्त्या नामपि लोपे प्राप्ते तेषामलोपार्थं तद्वचनम्।

विश्वास-प्रस्तुतिः

पृष्ठ्ये संस्थाः।

मूलम्

पृष्ठ्ये संस्थाः।

टीका

वक्ष्यन्त इति शेषः। संस्थाग्रहणं परप्रत्ययत्वात्संस्थानियतेःस्वशास्त्रोक्तः108 प्रायिकत्वप्रतिपत्त्यर्थम्।

विश्वास-प्रस्तुतिः

अग्निष्टोमः प्रथमं षोलशी चतुर्थमुक्थ्या इतरे।

मूलम्

अग्निष्टोमः प्रथमं षोलशी चतुर्थमुक्थ्या इतरे।

टीका

पृष्ठ एवंसंस्था109 भवन्तीत्यर्थः110

विश्वास-प्रस्तुतिः

इति पृष्ठ्यः। प्रत्यक्षपृष्ठः।

मूलम्

इति पृष्ठ्यः। प्रत्यक्षपृष्ठः।

टीका

इत्येवंगुणविशिष्टः111 प्राकृतो यः पृष्ठ्यः स अयुजेषुरथंतरपृष्ठः112। युश्च बृहत्पृष्ठः113। तृतीयादिषु वैरूपादिभिः समुच्चितपृष्ठो114 यः स प्रत्यक्षपृष्ठसंज्ञकः पृष्ठयो भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

अन्यैः परोक्षपृष्ठः।

मूलम्

अन्यैः परोक्षपृष्ठः।

टीका

एतेभ्योऽन्यैः सामभिर्यत्र पृष्ठकार्य क्रियतेपृष्ठ्ये115स परोक्षपृष्ठसंज्ञको भवति।

विश्वास-प्रस्तुतिः

एतैर्वोपसृष्टैः।

मूलम्

एतैर्वोपसृष्टैः।

टीका

उपसृष्टैरिति। ऋगन्तरसंबन्धैरित्यर्थः। एतैबृहद्रथंतरादिभिः स्वयोनिभ्योऽन्ययोनिसंबन्धैः116पृष्ठकार्यं यत्र पृष्ठे क्रियते स च परोक्षपृष्ठः।

विश्वास-प्रस्तुतिः

वैरूपादीनामभावे पृष्ठ्यस्तोमः।

मूलम्

वैरूपादीनामभावे पृष्ठ्यस्तोमः।

टीका

यदि बृहद्रयंतर एव केवलेक्रियेते117 न वैरूपादयस्तदा पृष्ठयस्तोमसंज्ञो भवति।

विश्वास-प्रस्तुतिः

पवमानभाव आपर्क्यपृष्ठ्यः।

मूलम्

पवमानभाव आपर्क्यपृष्ठ्यः।

टीका

यादे माध्यंदिने पत्रमाने रयंतरादीनि118 क्रियेरन्न पृष्ठत्याने तदाऽऽपर्यपृष्ठसंज्ञो भवति।

विश्वास-प्रस्तुतिः

तनूष्पृष्ठ्यो होतुश्चेच्छ्यैतनौधसे॥ ४॥

मूलम्

तनूष्पृष्ठ्यो होतुश्चेच्छ्यैतनौधसे॥ ४॥

टीका

यदि होतुंः पृष्ठे निष्केवल्यस्य स्थाने श्वैतं वा नौवसं वा कृत्वाऽन्यत्र बृहदादीनि क्रियेरंस्तदा तनूपृष्ठो नाम मवेत्। एवमनकथा पृष्ठविकल्119पाउक्ताः शास्त्रान्तरोक्ताश्च सन्ति, तेषु सर्वेषु बृहदादीनां यथास्थानमक्रियायामस्वयोनिभावं वा दृष्ट्वा यथाविधियोनिशंसनं कर्तव्यम्॥ ४॥

विश्वास-प्रस्तुतिः

अभिजिद्दृहत्पृष्ठः।

मूलम्

अभिजिद्दृहत्पृष्ठः।

टीका

ज्योतिष्टोमेन सह चतुर्दशाहानि व्याख्यातानि। इदानीं पञ्चदशमहरुच्यते। अभिजिनाम सबृहत्पृष्ठो भवति। पृष्ठानां रवंतरादीनां परप्रत्ययानां विधानस्य प्रयोजनं120 छन्दोगप्रत्ययमित्यत्र सूत्रे वक्ष्यते।

विश्वास-प्रस्तुतिः

उभयसामा यद्यपि रथंतरं यज्ञायज्ञीयस्य स्थाने।

मूलम्

उभयसामा यद्यपि रथंतरं यज्ञायज्ञीयस्य स्थाने।

टीका

इह स्थाने त्रिविधं छन्दोगानामुमयसामत्वं भवति। बृहद्रपंतरयोरन्यतरन्माध्यंदिने पवमाने भवति ब्रह्मसाम्नि वाऽग्निष्टोमसाम्नि वा। तत्रास्माकं पवमानभाव एव। सर्वत्रोभयसामत्वं साधयितुमत्रायं यत्नः कृतः। एतदुक्तं भवति सर्वत्र वृहद्रयंतरयोरन्यतरस्य पवमानभाव एवोमयसामत्वं भवतीति। अभिजिति तु यदि पृष्ठस्थाने121 बृहद्भवति रथंतरं चाग्निष्टोमस्थाने तदाऽप्यत्रोभयसानत्वं भवति। इदमत्र पृष्ठविधानस्य प्रयोजनं यदि पुन-विपरीतं तदाऽप्यनेनैवोभयसामत्वं भवतीति।

विश्वास-प्रस्तुतिः

पिबवांस्त्विह सामप्रगाथः।

मूलम्

पिबवांस्त्विह सामप्रगाथः।

टीका

इहग्रहणाद्वाचनिकोऽयमर्थ इति दर्शयति।

विश्वास-प्रस्तुतिः

पिबा सोमं तमु ष्टुहीति मध्यंदिनः।

मूलम्

पिबा सोमं तमु ष्टुहीति मध्यंदिनः।

टीका

तमु ष्टुहोत्यनेन साहचर्यात्पिबासोममित्यस्य भारद्वाजस्य ग्रहणं नान्यस्य**।**

विश्वास-प्रस्तुतिः

तयोरैकाहिके पुरस्तादन्ये वा शंसेयुः।

मूलम्

तयोरैकाहिके पुरस्तादन्ये वा शंसेयुः।

टीका

तयोः सूक्तयोः पुरस्तादैकाहिके ‘जनिष्ठा उम्र इन्द्रस्य नु वीर्याणि’ इत्येते, अन्ये वाऽनैकाहिके ये केचन तत्कार्ययोग्ये इत्यर्थः। एवं द्विषू (सू) क्तो मध्यंदिनो विहितो भवति पूर्वस्य च विधेर्निरपेक्षत्वात्। तेनैकसूक्तमेव विहितं भवति। अतः सामर्थ्याद्वाचनिकोऽयं122विक्ल्पइति निश्चिनुमः।

विश्वास-प्रस्तुतिः

एतेएवेति गौतमः सप्तदशत्वापृष्ठस्य123

मूलम्

एतेएवेति गौतमः सप्तदशत्वापृष्ठस्य123

टीका

एवं स्थित एकसूक्तपक्षेन्यायानुगुण्यमस्तीति गौतम आह। एते एवं पित्रा सोमंतमुष्टुहि’ इत्येते एव कर्तव्ये नैकाहिके अन्ये वेति।

अयमत्र न्यायः सप्तदशत्वात्पृष्ठस्येति124 पृष्ठस्य सप्तदशत्वमेकसूक्तत्वे यथा हेतुस्तथोपपादयितुमाह -

विश्वास-प्रस्तुतिः

यावस्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्येतावतिसूक्ता मध्यंदिनाः स्युरिति महान्यायः।

मूलम्

यावस्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्येतावतिसूक्ता मध्यंदिनाः स्युरिति महान्यायः।

टीका

कुशा नाम च्छन्दोगानां स्तुत्याऽऽवृत्तिसंख्या नार्थानि काष्ठानि तासां नवतो वा विभज्यमानानां यावत्यो निष्केवल्यस्तोमे पूर्णा भवन्ति तावतिसूक्ता125माध्यंदिना भवेयु। तावॆतिसूक्तास्तावत्सूक्ता इत्यर्थः। तावन्ति सुक्तानि येषु माध्यंदिनेषु ते तावतिसूक्तामाध्यंदिना इत्युच्यन्ते। अयं न्यायः प्राचुर्येण सर्वेष्वहःसु दृष्ट इति महान्याय इत्युक्तम्। अत्र व्यभिचाराशङ्का न कर्तव्या। यत्पुनर्मध्यमे छान्दोमिके चतुश्चत्वारिंशे स्तोमे पञ्चसूक्तानि दृष्टानि, तत्तु वाचनिकमिति परिहर्ते शक्पत एव। अत्रापि द्विसूक्तत्वं वाचनि कमेवेत्यस्याव्यभिचारिता युक्ता।न्यायव्युत्पादनस्य प्रयोजनं माध्यंदिने तु होतुनिष्केवल्ये स्तोमकारितं शस्यमित्यत्र वक्ष्यते।

विश्वास-प्रस्तुतिः

मरुत्वतीयस्योत्तमे विपरीते।

मूलम्

मरुत्वतीयस्योत्तमे विपरीते।

टीका

‘पिबासोममभि’ इत्यस्योत्तमे ऋचौ व्यत्यस्य शंसेत्।उत्तमां शस्त्वोपोत्तमां शंप्तेदित्यर्थः।

विश्वास-प्रस्तुतिः

चातुर्विंशिकं तृतीयसवनम्।

मूलम्

चातुर्विंशिकं तृतीयसवनम्।

टीका

अन्यद्धोतुरैकाहिकं होत्रकाणां सर्वत्र सात्रिकमेव।उक्तोऽभिजिदथेदानीं स्वरसामानो वक्ष्यन्ते–

विश्वास-प्रस्तुतिः

अभिप्लवत्र्यहः पूर्वः स्वरसामानः।

मूलम्

अभिप्लवत्र्यहः पूर्वः स्वरसामानः।

टीका

अभिप्लवस्य यः पूर्वरूग्रहस्तेनातिदिष्टानि वक्ष्यमाणगुणविशिष्टानि त्रीण्यहानि स्वरसामसंज्ञानि भवन्ति।

विश्वास-प्रस्तुतिः

स्वराणि126त्विह पृष्ठानि।

मूलम्

स्वराणि126त्विह पृष्ठानि।

टीका

स्वरसंज्ञकानि सामान्येतेष्वहःसु पृष्ठानि भवन्ति। एतदेवैषु स्वरसामशब्दस्य प्रवृत्ति निमित्तम्।

विश्वास-प्रस्तुतिः

तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एमेनं प्रत्येतनेति।

मूलम्

तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एमेनं प्रत्येतनेति।

टीका

यथासंख्येन तेषामेते स्तोत्रिया भवन्ति। अधिकारादेव तेषामित्यस्यार्थस्य सिद्धौ सत्यां तेषामितिवचनमुत्तरार्थम्।

विश्वास-प्रस्तुतिः

आद्यो वा सर्वेषाम्।

मूलम्

आद्यो वा सर्वेषाम्।

टीका

यज्जायथा अपूर्व्येत्ययमाद्यः स्तोत्रियः स एव वा त्रिषु स्वरसमस स्तोत्रियो भवति।

विश्वास-प्रस्तुतिः

वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्तेसाधिष्ठोऽवस इति षलनुष्टुभ इत्यनुरूपाः।

मूलम्

वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्तेसाधिष्ठोऽवस इति षलनुष्टुभ इत्यनुरूपाः।

टीका

एकां बृहतीं गृहीत्वा द्वे अनुष्टुभौ च गृहीत्वैकोऽनुरूपो भवति। एवमपरौ चानुरूपौ। अत्र तेषामित्यनेन संबन्धः। तेषां स्वराणां यथासंख्येनैतेऽनुरूपा भवन्तीति।

विश्वास-प्रस्तुतिः

स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे।

मूलम्

स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे।

टीका

स्तोत्रिये127 यत्स्थाने बृहती यत्स्थाने चानुष्टुभावनुरूपे च तत्स्थान एवैताः कर्तव्या इत्यर्थः।

विश्वास-प्रस्तुतिः

स्थायीन्येतानि यथा बृहद्रथंतरे॥ ५॥

मूलम्

स्थायीन्येतानि यथा बृहद्रथंतरे॥ ५॥

टीका

यथा बृहद्रथंतरे पृष्ठ्याभिप्लवयोस्तदतिदिष्टेषु चाहःसु पृष्ठत्वेन128 योनिशंसनरूपेण वा स्थायिनी नित्ये एवं स्वरसामसु स्वराणि नित्यानीत्यर्थः॥ ५॥

विश्वास-प्रस्तुतिः

विषुवान्दिवाकीर्त्यः।

मूलम्

विषुवान्दिवाकीर्त्यः।

टीका

विषुवानित्येकोनविंशम हस्तदिदानीमुच्यते विषुवान्दिवाकीर्त्योभवति। अयं विधिः वर्मणि निष्प्रयोजनः। उदिते प्रातरनुवाकविधानात्तस्य चाग्निष्टोमसंस्थत्वादग्निष्टोमस्यचाहन्येव समापनीयत्वात्कर्मणश्च कीर्तयतो विषयत्वाञ्च। अतस्तद्विधायकब्राह्मणस्य तत्साघनमतानां शस्त्रादीनां च दिवैवाध्ययनं कर्तव्यमित्येवमर्थोऽयं यत्नः कृतो भगवताऽऽश्वलायनाचार्येणेति मन्तव्यम्।

विश्वास-प्रस्तुतिः

उदिते प्रातरनुवाकः।

मूलम्

उदिते प्रातरनुवाकः।

टीका

अनुबक्तव्य इति शेषः।

विश्वास-प्रस्तुतिः

पृथुपाजा अगर्त्य इति षड्धाय्याः सामधेनीनाम्।

मूलम्

पृथुपाजा अगर्त्य इति षड्धाय्याः सामधेनीनाम्।

टीका

अस्मिन्नहाने सामिधेनीनामुपोत्तमायाः प्रांगेताः षड्ऋचो धाय्या भवन्ति। धाय्याग्रहणं स्थानलाभार्थम्। सामिधेनीग्रहणं शस्त्रधाय्यानिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

सौर्यः सवनीयस्योपालम्भ्यः।

मूलम्

सौर्यः सवनीयस्योपालम्भ्यः।

टीका

सुत्याधिकारादेव सवनीयत्वे सिद्धे सवनीयग्रहणं सवनीयस्योपालम्भनं129 कृत्वा पश्चात्सौर्य आलभ्य इत्येवमर्थम्।

सोमापौष्णो वा

अयं वा पशुरुपालम्भ्यः पूर्वो वेति विकल्पः।

विश्वास-प्रस्तुतिः

समुद्रादूमिरित्याज्यं त्यं सुमेषं कया शुभेति च मरुत्वतीयम्।

मूलम्

समुद्रादूमिरित्याज्यं त्यं सुमेषं कया शुभेति च मरुत्वतीयम्।

टीका

एकविंशाद्धीनस्तोमेऽपि विषुवत्यनयोः सूक्तयोः समुच्चितयोरेव,मरुत्वतीयत्वसिद्ध130 चशब्दः।

विश्वास-प्रस्तुतिः

महादिवाकीर्त्यंपृष्ठम्।

मूलम्

महादिवाकीर्त्यंपृष्ठम्।

टीका

महादिवाकीर्त्यमिति सामनाम।

विश्वास-प्रस्तुतिः

विभ्राबृहत्पिबतु सोम्यं मधु नमो मित्रस्यवरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदिबृहद्रथंतरे पवमानयोः कुर्युर्योनी एनयोः शंसेत्।

मूलम्

विभ्राबृहत्पिबतु सोम्यं मधु नमो मित्रस्यवरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदिबृहद्रथंतरे पवमानयोः कुर्युर्योनी एनयोः शंसेत्।

टीका

उत्तरविवक्षार्थोऽयमनुवादः।

विश्वास-प्रस्तुतिः

रथंतरस्य पूर्वाम्।

मूलम्

रथंतरस्य पूर्वाम्।

टीका

पूर्वशिष्टत्वात्समासे131च पूर्वनिपातत्वाहतो योनिः पूर्वं शंस्तव्येत्येतदाभासनिवृत्त्यसूत्रम्। एतत्सार्वत्रिकम्। अनयोयोनिशंसन प्राप्तावस्मरत्वहान निमित्तक्रमादेवैषोऽर्थः सिद्ध एवेति।

विश्वास-प्रस्तुतिः

आद्ये भवतोऽन्याभिरपि संनिपाते।

मूलम्

आद्ये भवतोऽन्याभिरपि संनिपाते।

टीका

अन्याभिर्वैरूपादीनां योनिभिः सह यदा वृहद्धयंतरयोर्योनी शस्येते तदैतयोयोनी शस्त्वाऽन्येषां योनीः शंसेत्। अयमपि विधिः सार्वत्रिक एवं।

विश्वास-प्रस्तुतिः

उत्तमस्त्विह सामप्रगाथः।

मूलम्

उत्तमस्त्विह सामप्रगाथः।

टीका

इन्द्रमिद्देवतातय इत्येषः।

विश्वास-प्रस्तुतिः

नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रोयस्तिरमशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीति।

मूलम्

नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रोयस्तिरमशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीति।

टीका

नृणामु त्वेत्येवमादीनि निष्केवल्यस्य सूक्तानि।

विश्वास-प्रस्तुतिः

एतस्मिन्नैन्द्र निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्यसुप्त इत्त्वमेष प्रपूर्वीवृषामदः प्र मंहिष्ठाय त्यमूष्विति।

मूलम्

एतस्मिन्नैन्द्र निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्यसुप्त इत्त्वमेष प्रपूर्वीवृषामदः प्र मंहिष्ठाय त्यमूष्विति।

टीका

एतस्मिन्नित्यनूच्यमाने सूक्तं समाप्य निवित्स्यात्तन्निवर्त्य132 सूक्तमध्ये निविदः प्रापणार्थमेतस्मिन्नित्युच्यते। ऐन्द्रीमिति विशेषणमत्रानन्द्यपि निविदस्तीति ज्ञापनार्थम्। तेन दूरोहणस्यापि निवित्त्वंसाधितं भवति। तथा च श्रुतिरस्ति ‘एषा ह वा अत्र निवित्’। निविदिति दूरोहणस्य निवित्वे सति प्रयोजनम् ‘एकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शंतति’ इत्युक्संख्याने‘हंसवती न संख्येया’ इति। निविदं शस्त्वोत्तराणि षडित्युच्यमाने सूक्तशेषस्याशंसनमाशङ्क्येततन्निवृत्त्यर्थं133 शंसे देवेत्युक्तम्। शंसेदेव सूक्तशेषमुत्तराणि134च षट्सूक्तानीत्युक्तं भगवता सूत्रकारेण। षड्ग्रहणमेकविंशाद्धीनस्तोमेऽपि विषुवति सूक्तहानिर्मा भूदित्येवमर्थम्।उत्तरग्रहणं प्रदर्शनार्थम्। अतः पूर्वेषामुत्तरेषां135 च हीनस्तोमेऽपि विषुवति सूक्तहानिर्नास्तीति सिद्धम्।

विश्वास-प्रस्तुतिः

इह तार्क्ष्यमन्ततः।

मूलम्

इह तार्क्ष्यमन्ततः।

टीका

अस्मिन्नहनि निष्केवल्यसूक्तेष्वेवान्ततस्तार्क्ष्यशंसेत्। अतोऽत्र निविद्धानीयत्वमप्यस्य भवतीति गम्यते136। ततोऽत्र तार्क्ष्यस्य पृथगाह्वानं न भवतीति। अन्यत्र तु सूक्तानन्तर्भावात्तेभ्यश्चान्यदनन्तरमित्याहावो137भवति। त्यमूष्वित्यत्र हीनपाद्ग्रहणात्सर्वत्र ताक्ष्यै सूक्तमेव भवति।

विश्वास-प्रस्तुतिः

तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत्।

मूलम्

तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत्।

टीका

तस्य तार्क्ष्यस्यैक्यमृचं शस्त्वाऽऽहूय दूरोहणं रोहेच्छंसेत्पूर्ववत्।

विश्वास-प्रस्तुतिः

इति निष्केवल्यं विकर्णं चेद्व्रह्मसामोर्ध्वमनुरूपात्तंवो दस्ममृतीषहमभि प्र वः सुराधसमितिब्राह्मणाच्छंसी श्यैतनौधसंयोर्योनी शंसेत्।

मूलम्

इति निष्केवल्यं विकर्णं चेद्व्रह्मसामोर्ध्वमनुरूपात्तंवो दस्ममृतीषहमभि प्र वः सुराधसमितिब्राह्मणाच्छंसी श्यैतनौधसंयोर्योनी शंसेत्।

टीका

यदि ब्राह्मणाच्छंसिनः स्तोत्रे विकर्ण138ंसाम कुर्युस्तदा ब्राह्मणाच्छंस्यनुरूपादूर्ध्वे ‘तं वो दस्ममृतीषहम्’ इति नौधसयोनिम्। ‘अभि प्र वः सुराधसम्’ इति श्यैतयोनिं च शंसेत्। श्यैतस्य पूर्वनिपातोऽल्पाच्तरत्वात्।

विश्वास-प्रस्तुतिः

नौधसस्य पूर्वाश्यैतस्योत्तराम्।

मूलम्

नौधसस्य पूर्वाश्यैतस्योत्तराम्।

टीका

नौधसस्य पूर्वामित्येतावतैव सिद्धे श्यैतस्योत्तरत्वे पुनस्तस्योत्तरवचनं ‘तं वो दस्ममृतीबहम्’ इति नौधसयोनिं पूर्वमुक्त्वा ‘अभि प्र वः सुराधसम्’ इति पश्चादुक्त्वा श्यैतनौघसयोयनी इति व्युत्क्रमेणसाम्नो139 निर्देशं कृतवानतस्तद्भ्रा140न्त्युपनिवृत्त्यर्थः पूर्वामुत्तरामिति चोक्तवान्। या पूर्वोक्ता सा नौधसयोनिः, योत्तरा सा श्यैतस्येत्ययमर्थः सिद्धो भवति। शंसने च नौघसस्य योनं पूर्व शंसेत्पश्चाच्छ्यैतस्येत्ययमर्थोऽत्रैक साधयितुमुभ्योग्रहणं कृतमिति सिद्धम्।

विश्वास-प्रस्तुतिः

एतद्धोत्रकाणां योनिस्थानं यच्च प्रगाथआह्वानमेताव्यस्तत्पञ्चाहावपरिमितत्वात्।

मूलम्

एतद्धोत्रकाणां योनिस्थानं यच्च प्रगाथआह्वानमेताव्यस्तत्पञ्चाहावपरिमितत्वात्।

टीका

यत्प्रगाथे प्रकृतिप्र प्तमाह्वानं तद्योनिभ्य एव भवति न प्रगाथेम्य इत्यर्थः। एवं चेद्वचनादेवायमर्थः सिध्यति किं हेतुवचनेनेति। हेतुवचनस्येदं प्रयोजनं, पञ्चाहावातिरेक भयादेवेदमन्यदीयमाह्वानमन्यस्योच्यते वचनबलादित्येतद्दर्शयितुमिति141

विश्वास-प्रस्तुतिः

उत्तमेनाऽऽभिप्लविकेनोक्तं तृतीयसवनम्।

मूलम्

उत्तमेनाऽऽभिप्लविकेनोक्तं तृतीयसवनम्।

टीका

‘षष्ठस्य सावित्रार्भवे तृतीयेन’ इत्यादिना।

विश्वास-प्रस्तुतिः

ऐकाहिकौतु प्रतिपदनुचरौ।

मूलम्

ऐकाहिकौतु प्रतिपदनुचरौ।

टीका

नाऽऽभिप्लविको ‘विश्वो देवस्य नेतुः’ इत्याद्यावित्यर्थः।

विश्वास-प्रस्तुतिः

मासं च यज्ञायज्ञीयस्य स्थाने।

मूलम्

मासं च यज्ञायज्ञीयस्य स्थाने।

टीका

भासं नाम सामविशेषः। तत्र कर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियांनुरूपौ।

मूलम्

पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियांनुरूपौ।

टीका

भासस्येत्यर्थः।

विश्वास-प्रस्तुतिः

मूर्धानं दिवो अरतिं पृथिव्या मूर्धादिवो नाभिरग्निः पृथिव्या इति वा।

मूलम्

मूर्धानं दिवो अरतिं पृथिव्या मूर्धादिवो नाभिरग्निः पृथिव्या इति वा।

टीका

इमौ वापूर्वौ142वेति विकल्पः।

विश्वास-प्रस्तुतिः

अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः।

मूलम्

अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः।

टीका

उक्ताभ्योऽन्यासु143 मूर्धलिङ्गासु चेद्भासः क्रियेत तदा भासस्तोत्रियं गृहीत्वा ‘मूर्धादिवो नाभिः’ इत्ययमेवानुरूपः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

आवृत्ताः स्वरसामानः॥ ६॥

मूलम्

आवृत्ताः स्वरसामानः॥ ६॥

टीका

आवृत्ताः प्रतिलोमा इत्यर्थः। स्वरसाम्नामुत्तमः प्रथमो मध्यमो मध्यम144 आद्योत्तम145 इत्येषां पुनर्वचनं नवरात्रपूरणार्थं नाहरन्तरसिद्धयर्थमिति॥ ६॥

विश्वास-प्रस्तुतिः

विश्वजितोऽग्निं नर इत्याज्यम्।

मूलम्

विश्वजितोऽग्निं नर इत्याज्यम्।

टीका

विश्वजिन्नाम विंशमहरुच्यते। तस्मिन्नहाने विज्ञजिति ‘अग्निं नरो दीधितिभिः इति सूक्तमाज्यं भवति।

विश्वास-प्रस्तुतिः

चतुर्विंशेन मध्यंदिनः।

मूलम्

चतुर्विंशेन मध्यंदिनः।

टीका

निष्केवल्यमरुत्वतीये चतुर्विंशेन व्याख्याते इत्यर्थः।

अत्र विशेषमाह -

विश्वास-प्रस्तुतिः

वैराजं तु पृष्ठं सन्यूङ्खम्।

मूलम्

वैराजं तु पृष्ठं सन्यूङ्खम्।

टीका

अत्र वैराजं नाम साम पृष्ठस्थाने भवति। तस्य च ‘पिबा सोममिन्द्र मन्दतु त्वा’ इति विराजस्तोत्रियानुरूपौ भवतः। तासां मध्यमेषु पादेषु न्यूङ्खश्च भवतीति वैराजं पृष्ठं सन्यूङ्खमित्युक्तम्।

विश्वास-प्रस्तुतिः

बृहतश्च योनिं प्रा वैरूपयोन्याः।

मूलम्

बृहतश्च योनिं प्रा वैरूपयोन्याः।

टीका

चतुर्विंशातिदेशादेवबृहतः146 क्रियमाणस्य योनिशंसने प्राप्ते पुनर्वचनं योनिशंसनस्थनिमित्त*147 द्वये सत्यपि सकृदेवास्य योनिं शंसेदित्येवमर्थम्।प्राग्वैरूपयोन्या इत्येतस्मिन्क्रमे सिद्धेऽपि पुनर्वचनं बृहतश्च योनिमित्येतावत्युच्यमाने योन्यन्तरनिवृत्ति शङ्कास्यादिति तदाशङ्कानिवृत्यर्थम्।

विश्वास-प्रस्तुतिः

होत्रकाणां पृष्ठानि शाक्वरवैरूपरेवतानि।

मूलम्

होत्रकाणां पृष्ठानि शाक्वरवैरूपरेवतानि।

टीका

होत्रकशस्त्रस्तोत्रेण्वेतानि सामानि भवन्तीत्यर्थः। अतस्तेषां योनयोऽस्मिनहानि होत्रकाणां शस्त्रेषु स्तोत्रिया भवन्ति। अनुरूपश्च तस्य स्तोत्रियस्य स्वकीयो भवति।

विश्वास-प्रस्तुतिः

ते योनीः शंसन्ति।

मूलम्

ते योनीः शंसन्ति।

टीका

त इति विशेषणं पृष्ठवन्तो148ऽष्पृष्ठवन्तश्च होत्रकाः सन्तीति होत्रकद्वैविध्यप्रतिपादनद्वारेण द्विविधो विश्वजित्सर्वपृष्ठोऽसर्वपृष्ठश्चेति प्रदर्शयति। तथा चतुर्विंशमहाव्रताभिजिद्विश्वजिदित्यसर्वपृष्ठग्रहणं149 कुर्वन्नपि भेदेन विश्वजिद्ग्रहणं करोति। तदपि दर्शयत्यसर्वपृष्ठो विश्वजिदस्त्रीति। अतस्ते पृष्ठवन्तो होत्रका योनीः शंसन्ति।

विश्वास-प्रस्तुतिः

वामदेव्यस्य मैत्रावरुण उक्ते ब्राह्मणाच्छंसिनः।

मूलम्

वामदेव्यस्य मैत्रावरुण उक्ते ब्राह्मणाच्छंसिनः।

टीका

उक्ते इति। श्यैतनौधसयोर्योनी इत्यर्थः।

विश्वास-प्रस्तुतिः

काले यस्याच्छावाकः।

मूलम्

काले यस्याच्छावाकः।

टीका

वामदेव्यकाले ययोरेते योनी इति प्रदर्शनार्थमाह।

विश्वास-प्रस्तुतिः

ऐकाहिकौस्तोत्रियावेतयोर्योनी।

मूलम्

ऐकाहिकौस्तोत्रियावेतयोर्योनी।

टीका

‘कया नश्चित्र आभुवत्’ ‘तरोभिर्वो विदद्वसुम्’ इत्येते इत्यर्थः।

विश्वास-प्रस्तुतिः

ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान्।

मूलम्

ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान्।

टीका

ता योनीः कद्वतः150 प्रगाथांश्चान्तरेण मध्य इत्यर्थः। एतेषां शाक्वरैवरू परैवतानां सामप्रगाथाशंसेयुरेकैकमेकेकः। ‘सामसूक्तानि सप्रगाथानि’ इत्यत्र सामसूक्तानां च सामप्रगाथानां च सर्वपृष्ठेषु प्राप्तिरुक्ता। इह151 तेषां मध्ये सामसूतानां स्वरूपं स्थानं चोच्यते। अन्येषां स्थानमेव, स्वरूपस्यान्यत्रोक्तत्वात्।

विश्वास-प्रस्तुतिः

सत्रा मदासो यो जात एवाभूरेक इतिसामसूक्तानि पुरस्तात्सूक्तानामुक्तंतृतीयसवनमुत्तमेन पृष्ठ्याह्नैकाहिकौतुप्रतिपदनुचरौ बृहच्चेदग्निष्टोमसाम त्वमग्नेयज्ञानामिति स्तोत्रियानुरूपाविति नवरात्रः।

मूलम्

सत्रा मदासो यो जात एवाभूरेक इतिसामसूक्तानि पुरस्तात्सूक्तानामुक्तंतृतीयसवनमुत्तमेन पृष्ठ्याह्नैकाहिकौतुप्रतिपदनुचरौ बृहच्चेदग्निष्टोमसाम त्वमग्नेयज्ञानामिति स्तोत्रियानुरूपाविति नवरात्रः।

टीका

योऽयमभिजिदादिर्विश्वजिदन्तोऽहःसमूह उक्तः। स नवरात्रसंज्ञो वेदितव्यः (संचाभिजित्स्वरसामानो152 विषुवानावृत्ताः स्वरसामानो विश्वजिच्चेति नवरात्रः। )

विश्वास-प्रस्तुतिः

सर्वेऽग्निष्टोमाः।

मूलम्

सर्वेऽग्निष्टोमाः।

टीका

सर्वग्रहणं स्वरसामसूत्तरयोरप्याग्निष्टोमत्वसिद्धयर्थम्। अभिप्लवप्रकृतित्वात्तयोरुक्थ्यसंस्थताऽऽशङ्क्येतेति।

विश्वास-प्रस्तुतिः

उक्थ्यानेकेस्वरसाम्नः।

मूलम्

उक्थ्यानेकेस्वरसाम्नः।

टीका

एवं केचिच्छाखानुसारिण इच्छन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

द्वितीयमाभिप्लविकं गौरायुरुत्तरम्।

मूलम्

द्वितीयमाभिप्लविकं गौरायुरुत्तरम्।

टीका

तृतीयमाभिप्लविकमित्यर्थः। संज्ञाप्रसङ्गादयमपि संज्ञाविधिरुच्यते।

विश्वास-प्रस्तुतिः

त्र्यहकॢप्ते पूर्वस्मात्र्यहात्सवनशो यथान्तरं गौरायुरुत्तरात्।

मूलम्

त्र्यहकॢप्ते पूर्वस्मात्र्यहात्सवनशो यथान्तरं गौरायुरुत्तरात्।

टीका

यदि गोआयुषी ज्यहकॢप्ते भवतस्तदैवं भवतः, पूर्वस्मादाभिप्लविकाग्रहात्सवनं सवनमादाय यथान्तरं यथाक्रमेणेत्यर्थः। एवं गौर्भवति। प्रथमात्प्रातःसवनं, द्वितीयान्माध्यंदिनं सवनं, तृतीयात्तृतीयसवनमिति। एवमुत्तरादाभिलविकायपहात्सवनशो यथान्तरमायुरित्यर्थः।

विश्वास-प्रस्तुतिः

षलहवऌप्ते युग्मेभ्यो गौरयुजेभ्य आयुः।

मूलम्

षलहवऌप्ते युग्मेभ्यो गौरयुजेभ्य आयुः।

टीका

षलहक्लप्ते ते एवं तदैवं भवतः।अभिप्लवस्य युग्मेभ्योऽहोम्यः सवनशो यथान्तरं गौः कल्प्यः। अयुजेभ्य आयुरिति पूर्ववत्। एवं त्रिप्रकारा गोआयुषोरुत्पत्तिः।

विश्वास-प्रस्तुतिः

दशरात्रे।

मूलम्

दशरात्रे।

टीका

अधिकारोऽयम्। एतद्विदमित्यस्मात्प्राग्यद्वक्ष्यते तद्दशरात्र इतिवेदितव्यम्। वक्ष्यमाणानि च दशाहानि दशरात्रसंज्ञानि भवन्तीत्युभयमत्रोच्यते।

विश्वास-प्रस्तुतिः

पृष्ठ्यः षलहः पूर्वत्र्यहः पुनश्छन्दोमाः।

मूलम्

पृष्ठ्यः षलहः पूर्वत्र्यहः पुनश्छन्दोमाः।

टीका

प्रथमं तावत्सृष्ठ्यः पलहो भवति। ततः पृष्ठघस्यैव यानि त्रीणि पूर्वाण्याने तेषां त्रयाणां च्छन्दोमा इति संज्ञा। एतानि दशरात्रे नवाहानि।पुनर्ग्रहणं किमर्थम्। स एव पूर्वरूयहः पुनरावर्तते तस्यान्यत्वमत्र नास्तीति ज्ञापनार्थम्। तेनेदं साधितं भवति स्वरसाम्नामाभिष्ठविकत्वे सत्यप्यैकाहिक एवं सामप्रगाथस्त्रिष्वप्यहःसु भवति नाऽऽभिप्लविक इति।

विश्वास-प्रस्तुतिः

न त्वत्र स्थापि वैरूपं तृतीये।

मूलम्

न त्वत्र स्थापि वैरूपं तृतीये।

टीका

अत्रेति च्छन्दोमप्रत्ययार्थमुच्यते। तेनात्र च्छन्दोमेषु तृतीयेऽहाने वैरूपं साम न स्थायि भवति। अनित्यमित्यर्थः। एतदुक्तं भवति – यदिपृष्ठस्थाने153 तत्कुर्युस्तदा स्तोत्रयत्वेन शंसेत्, यदि154 स्थाने न तत्कुर्युर्योनिशंसनमपि न कुर्यादिति। असत्यत्रग्रहणे दशरात्राधिकारात्तस्य तृतीयेऽहनि दैरूपस्यानित्यता प्रसज्येतातस्तन्निवृत्त्यर्थमन्त्रग्रहणम्।

विश्वास-प्रस्तुतिः

प्रथमस्य च्छान्दोमिकस्य द्विषूक्तो मध्यंदिनः।

मूलम्

प्रथमस्य च्छान्दोमिकस्य द्विषूक्तो मध्यंदिनः।

टीका

दशरात्राधिकाराछान्दोमिकस्थेति155 विशेषणम्।द्विषूक्तवचनं संसवेऽपि द्विधूकतासिद्धयर्थम्। तेनात्र ‘उद्धरेदितराणि’ इत्ययमेव पक्ष आश्रयणीय156 इति।

विश्वास-प्रस्तुतिः

वैषुवते निविद्धाने पूर्वे च।

मूलम्

वैषुवते निविद्धाने पूर्वे च।

टीका

‘त्यं सुमेषं कया शुभा’ इति च मरुत्वतीयम्। ‘अभि त्यं मेषमिन्द्रस्य नु वीर्याणि’ इति निष्केवल्यम्।

विश्वास-प्रस्तुतिः

द्वितीयस्य शंसा महान्महश्चित्वमिन्द्रपिबा सोममभि तमस्य द्यावापृथिवीमहाँ इन्द्रो नृवदिति मरुत्वतीयम्।

मूलम्

द्वितीयस्य शंसा महान्महश्चित्वमिन्द्रपिबा सोममभि तमस्य द्यावापृथिवीमहाँ इन्द्रो नृवदिति मरुत्वतीयम्।

टीका

द्वितीयस्य च्छान्दोमिकस्येत्यर्थः।

विश्वास-प्रस्तुतिः

अपूर्व्या पुरुतमानि तां सुते कीर्ति त्वं महाँ इन्द्रयो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमितिनिष्केवल्यंतृतीयस्येन्द्रः स्वाहा गायत्सामतिष्ठा हरी प्रमंदिन इमा उत्पति मरुत्वतीयम्।

मूलम्

अपूर्व्या पुरुतमानि तां सुते कीर्ति त्वं महाँ इन्द्रयो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमितिनिष्केवल्यंतृतीयस्येन्द्रः स्वाहा गायत्सामतिष्ठा हरी प्रमंदिन इमा उत्पति मरुत्वतीयम्।

टीका

छान्दोमिकस्येत्यनुवर्तते।

विश्वास-प्रस्तुतिः

सं च त्वे जग्मुरिति सूक्ते आ सत्यो यात्वहं मुवं तत्तइन्द्रियमिति निष्केवल्यमायाहि वनसेमा नु कं बभ्रुरेकइति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानाम्।

मूलम्

सं च त्वे जग्मुरिति सूक्ते आ सत्यो यात्वहं मुवं तत्तइन्द्रियमिति निष्केवल्यमायाहि वनसेमा नु कं बभ्रुरेकइति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानाम्।

टीका

एतानि157 सूक्तानि लक्षणतो द्वैपदान्येव, सत्किमर्थमेषां द्विपदावचनामेति। अस्येदं प्रयोजनं समाम्नायस्य बलीयस्त्वज्ञापनार्थम्। तेनैतत्साधितं भवति – याश्चतुष्पदावत्समाम्नाये पठ्यन्ते द्विपदाः’ पवस्त्र सोम मन्दयन्परिप्रधन्वेन्द्राय सोम इत्येवमाद्यास्तासां ग्रावस्तोत्रे चतुप्पदावदेव स्तवनं भवति। याः पुनर्द्विपदावदेव समाम्नायन्ते तासामध्या सवदित्युक्तमिति। वैश्वदेवसूक्त।नामिति कर्मचारयः समासो वैश्वदेवानि च तानि सूक्तानि चेति। अतस्त्रिप्वहःस्वेदानि यथाक्रमेण भवन्ति। तथा च व्यूह्लस्य प्रथमे छान्दोमिके वक्ष्यति ‘नित्यानि द्विपदासूक्तानि’ इति सर्वेषु च्छान्दोमिकेषु प्राप्तानीति158दर्शयति।

विश्वास-प्रस्तुतिः

इति नु समूह्लः॥ ७॥

मूलम्

इति नु समूह्लः॥ ७॥

टीका

दशरात्रोऽधिकृतः। तत्र नवाहान्युक्त्वा ‘इति नु समूह्लः’ इत्युपसंहृतवानाचार्यः। तेनैतज्ज्ञायते समूहलव्यूहलौ नवरात्रावपि स्त इति। दशममहर्वक्ष्यते, तच्च साधारणं द्वयोः। तेन समूह्लो व्यूह्लध दशरात्रो भवति। नवरात्र (त्रो) दशरात्र इत्युभयथा व्यवहारोऽस्त्येव। उभयथाव्यवहारेऽपि नवैवाहानि विक्रियन्ते दशमं159 तु तुल्यमेवंति सिद्धम्॥ ७॥

विश्वास-प्रस्तुतिः

व्यूह्लश्वेत्पृष्ठ्यस्योत्तरे त्र्यहे मध्यंदिनेषुगायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात्।

मूलम्

व्यूह्लश्वेत्पृष्ठ्यस्योत्तरे त्र्यहे मध्यंदिनेषुगायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात्।

टीका

यदि व्यूह्लो दशरात्रस्तदा पूर्वस्मादयं विशेष उच्यते160। पृष्ठ्यस्योत्तरे त्र्यहे मध्यंदिनेषु सूक्तेषु गायत्रांस्तृचानुपसंशस्य तेषु तृचेषु निविदो दध्यात्। गायत्रग्रहणं गायत्रेष्वप्यहःसु सवनच्छन्द इति दर्शयितुम्। अतोऽत्र गायत्रयाः सवनच्छन्दत्वान्निवितिपत्तौ गायत्र एवान्यस्मिंस्तृचे निविद्धेया। अन्यत्रापि निविदतिपत्तावेवं भवति। यत्सवनच्छन्दस्तत्सवनच्छन्दस्कं सूक्तमाहृत्य तस्मिन्निविद्धेया नातिपन्नच्छन्दस्के सूक्त इति। उपसंशस्थेतिवचनं तृचानामेतेषां सूक्तत्वेन स्वातन्त्र्यनिवृत्त्यर्थम्। इतरथा ‘तृचानेव याज्ञिकाः सूक्तमाहुः’ इतिस्मरणात्सुतान्येव सूक्तस्थानेष्वहीनेष्विति परिभाषया च स्वतन्त्रत्वं स्यात्। ततश्च161 हीनस्तोमेषु तृचवर्जममन्यस्योद्धारः स्यात्। इष्यते च तृचसाहितस्यान्त्यस्य162 सूक्तस्यालोपः163। संसवे च तृचसहितात्सूक्तादेव पुरस्तादावापो न केवलतृचादेवेतीत्येवमपि लभ्यते। तृचानामसत्यपि सूक्तत्वे तृचेष्वेव निविद्धेयेत्येवमर्थं ‘तेषु निविदो164 दध्यादित्युक्तम्।’ तेनैकां तृच इत्येवं निविद्धेया भवति।

विश्वास-प्रस्तुतिः

इमं नु मायिनं हुवे त्यमु वः सत्रासाहंमरुत्वाँ इन्द्रमीद्वस्तमिन्द्रं वाजयामस्ययंह येन वा इदमुप नो हरिभिः सुतमिति।

मूलम्

इमं नु मायिनं हुवे त्यमु वः सत्रासाहंमरुत्वाँ इन्द्रमीद्वस्तमिन्द्रं वाजयामस्ययंह येन वा इदमुप नो हरिभिः सुतमिति।

टीका

एते षट्तृचाः।

विश्वास-प्रस्तुतिः

त्रैष्टुभान्येषां तृतीयसवनानि।

मूलम्

त्रैष्टुभान्येषां तृतीयसवनानि।

टीका

एषामह्नातृतीयसवनानि त्रैष्टुभानि भवन्ति। इदमपिसवनच्छन्दस्त्वेन165विधीयते। प्रयोजनमपि पूर्ववदेव द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

चतुर्थेऽहन्या देवो यातुप्र द्यावेतिवासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवंवैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निंनर इत्याग्निमारुतमष्टादशोत्तमे विराजः।

मूलम्

चतुर्थेऽहन्या देवो यातुप्र द्यावेतिवासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवंवैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निंनर इत्याग्निमारुतमष्टादशोत्तमे विराजः।

टीका

विराड्वचनं विराज एवैता ऋचो नाऽऽसां विराड्धर्मो न्यूङ्ख इति।

विश्वास-प्रस्तुतिः

द्विपदा एकादश मारुत एकविंशतिर्वैश्वदेवसूक्ते।

मूलम्

द्विपदा एकादश मारुत एकविंशतिर्वैश्वदेवसूक्ते।

टीका

द्विपदा इति166 शेषः। द्विपदावचनमुक्तप्रयोजनम्।

विश्वास-प्रस्तुतिः

पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रोमहीद्यावापृथ्वी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं हविष्पान्तं वपुर्नुतदग्निर्होतागृहपतिःस राजेति तिस्र इत्याशिमारुतमुत्तमावैश्वदेवसूक्ते साध्यासोत्तमां जातवेदस्ये।

मूलम्

पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रोमहीद्यावापृथ्वी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं हविष्पान्तं वपुर्नुतदग्निर्होतागृहपतिःस राजेति तिस्र इत्याशिमारुतमुत्तमावैश्वदेवसूक्ते साध्यासोत्तमां जातवेदस्ये।

टीका

ऋच्यध्यस्यत इत्यध्यासः। समाप्तार्थायामृचि यस्यामुक्तार्थ इव यः पूर्वपादसदृशः पादो विधीयते सोऽध्यास इति विद्यात्।

विश्वास-प्रस्तुतिः

सर्वत्राध्यासानुपसमस्य प्रणुयात्।

मूलम्

सर्वत्राध्यासानुपसमस्य प्रणुयात्।

टीका

उपसमासो नामाकृत्वा प्रणवं *167 यथर्गक्षरमेव संधाय वचनम्। ऋगन्ते तु प्रणवः कर्तव्यः। एवं सर्वत्रवचनं प्रकरणादुत्कृ ष्याप्ययं विधिः प्रवर्तत इत्येवमर्थम्168। सर्वत्रवचनं कारणमन्तरेणाप्यस्य विधेः प्रापणार्थम्। साध्यासानामचतुष्पादत्वादर्घर्च169 शंसननिवृत्त्यर्थं वचनम्।

विश्वास-प्रस्तुतिः

पष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठउप नो वाजा इति त्रयोदशाऽऽर्भवं चतस्रश्चवैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवम्।

मूलम्

पष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठउप नो वाजा इति त्रयोदशाऽऽर्भवं चतस्रश्चवैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवम्।

टीका

किमु श्लेष्ठ इतित्रयोदशर्चः170, उप नो वाजा इति चतस्रः, एताः सप्तदशर्च आर्भवंभवति। समूहे+171त्रीणि वैश्वदेवसूक्तानि तेषामन्त्यं तृचमुद्धरेत्स्वस्त्यात्रेय इतिसंज्ञकम्।

विश्वास-प्रस्तुतिः

अहश्च कृष्णं मध्वो वो नामसप्रत्नथेत्याग्निमारुतमिति पृष्ठ्यः॥ ८॥

मूलम्

अहश्च कृष्णं मध्वो वो नामसप्रत्नथेत्याग्निमारुतमिति पृष्ठ्यः॥ ८॥

टीका

उक्त इति शेषः। उक्तानुसंकीर्तनं पृष्ठ्यस्यापि समूह्लव्यूहलव्यवहारसिध्द्यर्थम्॥ ८॥

विश्वास-प्रस्तुतिः

अथ च्छन्दोमाः।

मूलम्

अथ च्छन्दोमाः।

टीका

अथानन्तरं व्यूह्लस्य च्छन्दोमा अधिक्रियन्त इति संबन्धः।

विश्वास-प्रस्तुतिः

समुद्रादूर्मिरित्याज्यमा वायो भूष शुचिपा उप नःप्रयाभिर्यासि दाश्वांसमच्छानो नियुद्भिः शतिनीमिरध्वरं प्रसोताजीरो अध्वरेष्वस्थाद्ये वायव इन्द्र मादनासोया वां शतं नियुतोयाः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणा स्पर्धन्नागोमता नासत्या रथेनाऽऽनो देव शवसा याहि शुष्मिन्प्रवोयज्ञेषु देवयन्तो अर्चन्प्रक्षोदसा धायसा सस्र एषेति प्रउगम्।

मूलम्

समुद्रादूर्मिरित्याज्यमा वायो भूष शुचिपा उप नःप्रयाभिर्यासि दाश्वांसमच्छानो नियुद्भिः शतिनीमिरध्वरं प्रसोताजीरो अध्वरेष्वस्थाद्ये वायव इन्द्र मादनासोया वां शतं नियुतोयाः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणा स्पर्धन्नागोमता नासत्या रथेनाऽऽनो देव शवसा याहि शुष्मिन्प्रवोयज्ञेषु देवयन्तो अर्चन्प्रक्षोदसा धायसा सस्र एषेति प्रउगम्।

टीका

एकपातिन्यौ द्वौ172 तृचौ।

विश्वास-प्रस्तुतिः

माध्यंदिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात्।

मूलम्

माध्यंदिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात्।

टीका

मध्यंदिने भवं माध्यंदिनम्। निष्केवल्यमरुत्वतीययोः सूक्ते इत्यर्थः। मरुत्वतीये निष्केवल्ये च ये सक्त ते पूर्वोत्तरे कृत्वेतरयोरुत्तरीकृतयोर्निविदो दध्यात्। अन्त्ये173 निविदं दध्यादित्युत्तरयोरेव निविदि प्राप्ताया मितरयोरितिवचनं संसवेऽप्यनुद्धार एवास्मिन्दशरात्रे मवतीत्येवमर्थम्। अतस्त्रिपूतताऽप्यस्मिन्दशरात्रे भवतीति निविदतिपत्तौचान्यस्मिञ्जागत174एव निविद्धेया।

विश्वास-प्रस्तुतिः

एवमुत्तरयोश्चतुर्थपञ्चमे।

मूलम्

एवमुत्तरयोश्चतुर्थपञ्चमे।

टीका

अत्रापीतरयोरित्यनुवर्तते। प्रयोजनं च पूर्ववत्। एवमुत्तरयोरपि च्छन्दोमयोश्चतुर्थ175पञ्चमे सूक्ते विपरिहृत्योत्तरीकृतेष्वेव निविदो दध्यात्।

विश्वास-प्रस्तुतिः

अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवायजन्मन इति तृचा ऐभिरग्ने दुव इति वैश्वदेवम्।

मूलम्

अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवायजन्मन इति तृचा ऐभिरग्ने दुव इति वैश्वदेवम्।

टीका

पूर्वाणि त्रीणि सूक्तानि तृचा एव।

विश्वास-प्रस्तुतिः

नित्यानि द्विपदासूक्तानि।

मूलम्

नित्यानि द्विपदासूक्तानि।

टीका

वैश्वदेवसूक्तानामित्यस्य कर्मधारयत्वाद्विपदासूक्तानां त्रिषु च्छन्दोमेषु समूह्लेष्वपि176 प्राप्तानामनेन व्यूह्लेषु177 प्राप्तिरुच्यते।

विश्वास-प्रस्तुतिः

वैश्वानरो अजीजनदित्येकास विश्वं प्रति चावऌपदृतूनुत्सृजतेवशी। यज्ञस्य वय उत्तिरन्।वृषापावक दीदिह्यमे वैश्वानर द्युमत्।जमदग्नेिभिराहुतः। प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतम्॥ ९॥

मूलम्

वैश्वानरो अजीजनदित्येकास विश्वं प्रति चावऌपदृतूनुत्सृजतेवशी। यज्ञस्य वय उत्तिरन्।वृषापावक दीदिह्यमे वैश्वानर द्युमत्।जमदग्नेिभिराहुतः। प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतम्॥ ९॥

टीका

वैश्वानरीयं सूक्तं तृचमाद्या178 चातुर्मास्येषु कल्पजा। उत्तरे अत्रैवाऽऽम्नाते ‘स विश्वं वृषा पावके’ इत्येते॥ ९॥

विश्वास-प्रस्तुतिः

द्वितीयस्याग्निं वो देवमित्याज्यं कुविदङ्ग नमसा ये वृधासःपीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुपसः सुदिना अरिप्राइत्येकपातिन्य उशन्ता दूता नदमाय गोपा यावत्तरस्तन्वोयावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्यकाम्यं दुहाना ब्रह्माण इन्द्रोपयाहि विद्वानूर्ध्वो अग्निःसुमतिं वस्वो अश्रेदुतस्या नः सरस्वती जुषाणेति प्रउगम्।

मूलम्

द्वितीयस्याग्निं वो देवमित्याज्यं कुविदङ्ग नमसा ये वृधासःपीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुपसः सुदिना अरिप्राइत्येकपातिन्य उशन्ता दूता नदमाय गोपा यावत्तरस्तन्वोयावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्यकाम्यं दुहाना ब्रह्माण इन्द्रोपयाहि विद्वानूर्ध्वो अग्निःसुमतिं वस्वो अश्रेदुतस्या नः सरस्वती जुषाणेति प्रउगम्।

टीका

आद्यस्तृच एकपातिन्यः। द्वितीये179 एका द्वे च।

विश्वास-प्रस्तुतिः

हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नोयुवांना पितरा पुनरिति तृचौ देवानमिव इति वैश्वदेवम्।

मूलम्

हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नोयुवांना पितरा पुनरिति तृचौ देवानमिव इति वैश्वदेवम्।

टीका

प्रथमं चतुर्ऋचः। ततो द्वे सूक्ते तृचौ चतुर्थं सूक्तम्।

विश्वास-प्रस्तुतिः

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्।अजस्रं घर्ममीमहे। दिवि पृष्टो अरोचताग्निर्वैश्वानरोमहान्। ज्योतिषा बाधते तमः।अग्निः प्रत्नेषु धामसु कामो भूतस्यमध्यस्य।सम्रालेको विराजति। क्रीलं वःशर्धोऽग्ने मृलेत्याग्निमारुतम्॥ १०॥

मूलम्

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्।अजस्रं घर्ममीमहे। दिवि पृष्टो अरोचताग्निर्वैश्वानरोमहान्। ज्योतिषा बाधते तमः।अग्निः प्रत्नेषु धामसु कामो भूतस्यमध्यस्य।सम्रालेको विराजति। क्रीलं वःशर्धोऽग्ने मृलेत्याग्निमारुतम्॥ १०॥

टीका

प्रथमः चतुर्ऋचः180। ततो द्वे सूक्ते तृचौ181 चतुर्थं सूक्तम्॥ १०॥

विश्वास-प्रस्तुतिः

तृतीयस्थागन्म महेत्याज्यं प्रवीरया शुचयोदुद्विरेते ते सत्येन मनसा दीध्याना दिविक्षयन्ता रजसः पृथिव्यामा विश्ववाराऽश्विनागतंनोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्रब्रह्माणोअङ्गिरसो नक्षन्त सरस्वती देवयन्तोहवन्त
आ नो दिवो बृहतः पर्वतादासरस्वत्यभिनो नेषि यस्य इति प्रउगम्।

मूलम्

तृतीयस्थागन्म महेत्याज्यं प्रवीरया शुचयोदुद्विरेते ते सत्येन मनसा दीध्याना दिविक्षयन्ता रजसः पृथिव्यामा विश्ववाराऽश्विनागतंनोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्रब्रह्माणोअङ्गिरसो नक्षन्त सरस्वती देवयन्तोहवन्त
आ नो दिवो बृहतः पर्वतादासरस्वत्यभिनो नेषि यस्य इति प्रउगम्।

टीका

दद्विरेते इति प्रयोगपाठः।

विश्वास-प्रस्तुतिः

एकपातिन्य उत्तमः।

मूलम्

एकपातिन्य उत्तमः।

टीका

उत्तमस्तृच एकपातिन्यः।

विश्वास-प्रस्तुतिः

दोषो आगात्प्रवां महिद्यवी अमीति तृचाविन्द्र इथे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवम्।

मूलम्

दोषो आगात्प्रवां महिद्यवी अमीति तृचाविन्द्र इथे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवम्।

टीका

दोषो आगादिति पार्ष्ठिके षष्ठेऽहन्यनुचरत्वेन पठितेह182 सूक्तत्वायोच्यते183। द्यावापृथिवीयं तृच एव ‘इन्द्र इषे ददातु न’ इत्येका184 ‘तेनो रत्नानि धत्तन’ इति द्वे आर्भवं समाहार्यम्।

विश्वास-प्रस्तुतिः

वैश्वानरो न ऊतय आ प्रयातु परावतः। अग्निर्नःसुष्टुतीरुप।वैश्वानरो न आगमदिमं यज्ञं सजूरुप।अग्निरुक्थेन वाहसा।वैश्वानरो अङ्गिरोभ्यः स्तोमउक्थं च चाक्रनत्। ऐषु द्युम्नं स्वर्यमत्।मरुतोयस्य हि प्राग्नये वाचमित्याग्निमारुतम्॥ ११॥

मूलम्

वैश्वानरो न ऊतय आ प्रयातु परावतः। अग्निर्नःसुष्टुतीरुप।वैश्वानरो न आगमदिमं यज्ञं सजूरुप।अग्निरुक्थेन वाहसा।वैश्वानरो अङ्गिरोभ्यः स्तोमउक्थं च चाक्रनत्। ऐषु द्युम्नं स्वर्यमत्।मरुतोयस्य हि प्राग्नये वाचमित्याग्निमारुतम्॥ ११॥

टीका

वैश्वानरीय सूक्तंकल्पनस्तृचः॥ ११॥

विश्वास-प्रस्तुतिः

दशमेऽहनि।

मूलम्

दशमेऽहनि।

टीका

यादेत ऊर्ध्वं वक्ष्यते तद्दशमेऽहनीत्येवमाधिकारो भवति।

विश्वास-प्रस्तुतिः

अनुष्टुभां स्थानेऽग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये कतौ।

मूलम्

अनुष्टुभां स्थानेऽग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये कतौ।

टीका

आग्नेये ऋतौ या अनुष्टुभः प्रातरनुवाकेऽनूच्यन्ते तासां सर्वासां स्थानेऽयं तृचो भवति। ऋतुग्रहणं प्रातरनुवाक एवायं विधिः स्यान्नान्यत्रेत्येवमर्थम्।

विश्वास-प्रस्तुतिः

उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये।

मूलम्

उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये।

टीका

क्रतावित्यनुवर्तते, पच्छो द्विपदो185इत्यस्य शस्यविषयत्वात्। पच्छ इतिवचनमनुवचनेऽप्यत्र प्रापणार्थम्। या उपस्थे क्रतावनुष्टुभस्तासां सर्वासां स्थान एतां द्विपदां त्रिष्कृत्वो ब्रूयात्।

विश्वास-प्रस्तुतिः

आ शुभ्रायातमश्विनास्वश्वेति तृचमाश्विने क्रतौ।

मूलम्

आ शुभ्रायातमश्विनास्वश्वेति तृचमाश्विने क्रतौ।

टीका

क्रतुग्रहणमाश्विने शस्त्र एवं मा भूदित्येवमर्थम्। अतो ज्ञायते दशममहरतिरात्रसंस्थमेकाहीभूतमस्तीति। तथा च शास्त्रान्तरे दृष्टम्।

विश्वास-प्रस्तुतिः

स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्नेघृतस्य धीतिभिरुभे सुश्चन्द्रसर्पिष इत्येते।

मूलम्

स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्नेघृतस्य धीतिभिरुभे सुश्चन्द्रसर्पिष इत्येते।

टीका

प्रकृतेऽपि स्थानग्रहणे पुनः स्थानग्रहणं दशमेऽहन्यनुष्टुभां स्थान इत्यस्य सूत्रस्यानीप्सितार्थप्रतिपादकत्वशङ्कानिवृत्यर्थम्।दशमेऽहनि या अनुष्टुभस्तासां सर्वासां स्थानेऽन्या ऋचः कर्तव्या इति यद्ययमर्थः स्यात्तदा यासां स्थाने या उक्तास्तासां सर्वासां स्थाने ता भवन्ति। यासां नोक्तास्तासामन्या अन्वेषणीयाः स्युः। एवं सति प्रथमेनैव सूत्रेण गतार्थत्वात्पुनरपि स्थानग्रहणप्रपञ्चोऽनर्थकः स्यात्। कृतश्च प्रपञ्चः। अतो ज्ञायतेऽस्य प्रपञ्चस्यायमर्थ इति। यासां स्थानेऽन्याविधीयन्ते तासामेव स्थाने ता एव भवन्ति। अन्यासामनुष्टुभामेव प्रयोगः कर्तव्य इति पुनः पुनः स्थानग्रहणं कृतमिति सिद्धम्।

विश्वास-प्रस्तुतिः

इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान्मातरःसुन्धयन्त्विति अछा वो अग्निमवसेप्रत्यस्मा इति तृचयोः
स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः।

मूलम्

इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान्मातरःसुन्धयन्त्विति अछा वो अग्निमवसेप्रत्यस्मा इति तृचयोः
स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः।

टीका

अच्छावाकग्रहणमाश्विने शस्त्रेऽच्छा वो अग्निमवस इत्यस्योद्धारो मा भूदित्यतोऽपदि; महरेकाही भूतमतिरात्रसंस्थमस्तीति ज्ञापितं भवतीति।

विश्वास-प्रस्तुतिः

परि त्वाऽग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमित्युत्तिष्ठतावपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसासहेत्युरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवा मित्रो न शेव्यो घृतासुतिरिति।

मूलम्

परि त्वाऽग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमित्युत्तिष्ठतावपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसासहेत्युरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवा मित्रो न शेव्यो घृतासुतिरिति।

टीका

घृतयाज्याहणमियमेव घृतयाज्याऽस्मिन्नहनि नियमेन भवतीति। अनेन प्रकारेणास्मिन्नहन्यन्यतरश्चेत्ययं186 पक्षो न प्रवर्तत इति साधितं भवति।

विश्वास-प्रस्तुतिः

अहरहश्चाहर्गणेषु यत्रैतद्हः स्यात्।

मूलम्

अहरहश्चाहर्गणेषु यत्रैतद्हः स्यात्।

टीका

न केवलं दशम एवाहन घूतयाज्याया उभयतो यागपक्षः किं तर्हि सत्रेष्वहीनेषु च यस्मिन्नहर्गणे दशम महरस्ति तस्मिन्नहरहश्चायमेव187 घृतयाज्याविधिर्भवति। अहरहरिति। सर्वे वहः स्वित्यर्थः। एतदुक्तं भवति - यस्मिन्नहर्गणेऽविवा क्यमस्ति तस्मिन्सर्वेष्वहःसु घृतयाज्यायाः सौम्यस्योभयतो यागपक्ष एव नियम्यते।

विश्वास-प्रस्तुतिः

सिनीवाल्या अभ्यस्येदित्येके।

मूलम्

सिनीवाल्या अभ्यस्येदित्येके।

टीका

सिनीवाल्या ये याज्यानुवाक्ये उक्ते ते अनुष्टुभौ सत्यावम्यासेनान्यत्वमापादयेदित्येके मन्यन्ते। अभ्यासे चानुवाक्यायां चतुरक्षराभ्यासो याज्यायामष्टाक्षराभ्यासः कर्तव्य इति। [*188श्रुतावेव प्रसिद्धम्। अन्त्यानामष्टाक्षराणामभ्यासः।]

विश्वास-प्रस्तुतिः

नास्मिन्नहनि केनचित्कस्यचिद्वि वाच्यमविवाक्यमित्येतदाचक्षते।

मूलम्

नास्मिन्नहनि केनचित्कस्यचिद्वि वाच्यमविवाक्यमित्येतदाचक्षते।

टीका

अस्मिन्नहनिकेनचित्कर्त्रा कस्मैचित्कर्त्रे मन्त्रः कर्म वा न विवाच्यं नाऽऽख्यातव्यमित्यर्थः। कुतः। यस्मादेत दहरविवाक्यमिति श्रुतावेव प्रसिद्धम्। परस्परमविवेचनीयमे तस्मिन्नहनीत्यविवाक्यमिदमहर्भवति।

विश्वास-प्रस्तुतिः

संशये बहिर्वेदि स्वाध्यायप्रयोगः।

मूलम्

संशये बहिर्वेदि स्वाध्यायप्रयोगः।

टीका

यदि कस्यचित्कर्तुः स्वपदार्यकरणेऽज्ञानसंशयविपर्ययाः स्युस्तदा किं कर्तव्यमिति तत्राऽऽह — बहिर्वेदि स्थित्वा तस्याज्ञानाद्यपनयनार्थमध्ययनेनोन्येन189 स्वाध्यायप्रयोगः कर्तव्यः। कर्मणि संशयश्चेत्तद्विधायकशास्त्रं ब्राह्मणप्रयोगशास्त्रं190 वा पठेत्। मन्त्रे मन्त्रः मठेतन्यः।

एवं बहिर्वेद्यध्ययनेन यदि संशयादिर्नात्येयात्तदा-

विश्वास-प्रस्तुतिः

अन्तर्वेदीत्येके।

मूलम्

अन्तर्वेदीत्येके।

टीका

एवं चेदन्तर्वेदि स्थित्वैवं पठितव्यमुपदेष्टव्यम्।

विश्वास-प्रस्तुतिः

न व्यञ्जनेनोपहितेन वाऽर्थः।

मूलम्

न व्यञ्जनेनोपहितेन वाऽर्थः।

टीका

एवमपि संशयो यदि नापेयात्तदा व्यञ्जनेन वोपहितेन वा प्रतिरुद्धोऽर्थः कर्म वा मन्त्रोषा साधयितव्यः। व्यञ्जनं नाम व्यज्यते सूच्यते येन तव्यञ्जनम्। उपहितं नाम च्छलोक्तिः। अयमैद्यैवंप्रकारः191, नाहमस्मै वदामीत्येवंप्रकारः। एतदुक्तं भवति — अन्तर्वेदि स्वाध्यायप्रयोगेणापि तेषामर्थो यदि न सिध्येत्तदा केनचित्सूचकेन शब्देन तदर्थं ब्रूयान्नवाचकेनेत्यर्थः। अथवोपहितेन च्छलोक्त्या वा तेपामर्थः साधयितव्य इति। न व्यञ्जनेनेत्यत्र नेति व्यवच्छिद्य योजना। पूर्वोक्तेन यदि संशयो नापेयात्तदा व्यञ्जनेनोपहितेनेति192

विश्वास-प्रस्तुतिः

प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः।

मूलम्

प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः।

टीका

उक्तानामन्यतमेनोपायेनार्थः साधयितुं न शक्यते यदि तदाविधिर्मुखेनैव193तदर्थं साधयित्वा सर्वप्रायश्चित्तं जुहुयुः। स्वस्वशास्त्रविहितं विशिष्टं प्रायश्चित्तमस्तिचेर्त्तद्वा194 जुहुयुः।

विश्वास-प्रस्तुतिः

अग्ने तमद्याश्वं न स्तोभैरित्याज्यम्।

मूलम्

अग्ने तमद्याश्वं न स्तोभैरित्याज्यम्।

टीका

सूक्ता195र्थेविहितत्वात्सूक्तमेव भवति।

विश्वास-प्रस्तुतिः

पञ्चाक्षरेण विग्रहो दशाक्षरेण वाऽऽत्वा रथं यथोतयइत्येतस्याः स्थाने त्रिकटुकेषु महिषो यवाशिरमिति।

मूलम्

पञ्चाक्षरेण विग्रहो दशाक्षरेण वाऽऽत्वा रथं यथोतयइत्येतस्याः स्थाने त्रिकटुकेषु महिषो यवाशिरमिति।

टीका

आद्याया उद्धार उत्तरे द्वे भवतः। अनुचरादि सर्वं समानम्।

विश्वास-प्रस्तुतिः

सखाय आशिपामहीति तिस्र उष्णिहो,मरुत्वाँ इन्द्रेति मरुत्वतीयम्।

मूलम्

सखाय आशिपामहीति तिस्र उष्णिहो,मरुत्वाँ इन्द्रेति मरुत्वतीयम्।

टीका

एतास्तिस्त्र एकं सूक्तम्। मरुत्वाँ इन्द्र वृषभ इत्येकम्। एवं द्विषूक्तं मरुत्वतीयम्। उष्णिग्ग्रहणं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

कया नश्चित्र आभुवदित्येतासुरथंतरं पृष्ठं तस्य योनिं शंसेत्।

मूलम्

कया नश्चित्र आभुवदित्येतासुरथंतरं पृष्ठं तस्य योनिं शंसेत्।

टीका

उत्तरविवक्षार्थमेतत्।

विश्वास-प्रस्तुतिः

बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात्।

मूलम्

बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात्।

टीका

इदं सामान्यतो दृष्टमात्रम्।

विश्वास-प्रस्तुतिः

तार्क्ष्येणैकपदाउपसंशस्य ऋगावानमेकपदाःशंसेदिन्द्रो विश्वस्य गोपतिरिति चतस्रः।

मूलम्

तार्क्ष्येणैकपदाउपसंशस्य ऋगावानमेकपदाःशंसेदिन्द्रो विश्वस्य गोपतिरिति चतस्रः।

टीका

तार्क्ष्यानन्तरमेकपदामृगावानं196 शंसेत्। तार्क्ष्यस्योत्तमेन प्रणवेन प्रथमामेकपदामुपसंत नुयात्। उपसंशस्येतिवचनं तार्क्ष्यस्यैकपदाभिः सहैकतासिद्ध्यर्थम्। अतस्तार्क्ष्यसंबन्धे सत्येकपदाभ्यः पृथगाहावो न कर्तव्यः। असति तु तार्क्ष्य एकपदाभ्य एवाऽऽहावः कर्तव्य इत्येतत्साधितं भवति। पुनरेक पदाग्रहणं तार्याभावेऽप्येकाहेष्वकपदानां प्रापणार्थम्।

विश्वास-प्रस्तुतिः

उत्तमयोपसंतानः।

मूलम्

उत्तमयोपसंतानः।

टीका

उत्तमयैकादया सूक्तादेराहाव उपसंतनुयात् ‘इन्द्रो विश्वस्य राजतों३शोंसावो३म् ’ इति।

विश्वास-प्रस्तुतिः

य इन्द्र सोमपातम इति षलुष्णिहोयुध्मस्य त इति निष्केवल्यम्।

मूलम्

य इन्द्र सोमपातम इति षलुष्णिहोयुध्मस्य त इति निष्केवल्यम्।

टीका

उक्तार्थमेतत्।

विश्वास-प्रस्तुतिः

तत्सवितुर्वृणीमह इत्येतस्याःस्थानेऽभि त्यं देवं सवितारमोण्योरिति।

मूलम्

तत्सवितुर्वृणीमह इत्येतस्याःस्थानेऽभि त्यं देवं सवितारमोण्योरिति।

टीका

आद्यायाः स्थान एषा भवति। कविमित्यर्घर्चान्तः। अस्य हि स्वयशस्तरमित्यादिसमानम्।

विश्वास-प्रस्तुतिः

ऋभुक्षण इत्यार्भवं पश्वानतायुमिति द्वैपदं समिद्धमग्निंसमिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यम्।

मूलम्

ऋभुक्षण इत्यार्भवं पश्वानतायुमिति द्वैपदं समिद्धमग्निंसमिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यम्।

टीका

द्विप्रतीकवचनं द्विपदासूक्तानामप्तति वचने निविद्धानीयत्वं नास्तीति ज्ञापयितुम्। अत ‘आयाहि वनसा सह’ इत्यादीनामाहावो न कर्तव्यः। तेभ्यः परस्ताद्वैश्वदेवसूक्तादिष्वेवाऽऽहावः कर्तव्य इति सिद्धम्।

विश्वास-प्रस्तुतिः

चतुर्थेन व्यूह्लस्येतराणि सूक्तानि।

मूलम्

चतुर्थेन व्यूह्लस्येतराणि सूक्तानि।

टीका

वैश्वदेवाग्निमारुतयोरार्भवजातवेदस्या197दन्यानि सावित्रादीनि198 यानि सूक्तानि तानि व्युह्लस्य चतुर्थादह्न आहर्तव्यानीत्यर्थः। होतुरुक्तादन्यदेकाहिकम्। होत्रकाणां सात्रिकमेव सर्वमहीनसंपाताभावात्199। माध्यंदिनेऽयं विशेषः - आरम्भणीयाभ्य ऊर्ध्व मैत्रावरुणस्य ‘सद्यो ह जातः’ इत्यहरहः शस्यमन्त्यमैकाहिकमेव ‘आत्वामिन्द्र’ इति। ब्राह्मणाच्छंसिनः पूर्वमैकाहिकम् —इन्द्रः पूर्भिदुदु ब्रह्माणि इत्यहरहःशस्यम्। अच्छावाकस्प भूय इदिति पूर्वमैकाहिकमहरहःशस्यमभितष्टेवेति।

विश्वास-प्रस्तुतिः

वामदेव्यमग्निष्टोमसामाग्निं नरो दीधितिभिररण्योरितिस्तोत्रियानुरूपावग्निष्टोम इदमहः।

मूलम्

वामदेव्यमग्निष्टोमसामाग्निं नरो दीधितिभिररण्योरितिस्तोत्रियानुरूपावग्निष्टोम इदमहः।

टीका

अग्निष्टोमसंस्थमहर्भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

ऊर्ध्वं पत्नीसंयाजेभ्यः॥ १२॥

मूलम्

ऊर्ध्वं पत्नीसंयाजेभ्यः॥ १२॥

टीका

॥ १२॥

विश्वास-प्रस्तुतिः

गार्हपत्ये जुह्वतीह रमेह रमध्वमिहधृतिरिह स्वधृतिरनेवाट्स्वाहावालिति।

मूलम्

गार्हपत्ये जुह्वतीह रमेह रमध्वमिहधृतिरिह स्वधृतिरनेवाट्स्वाहावालिति।

टीका

गार्हपत्योऽत्र शालामुखीयः। तत्र सर्वे होत्रादयो जुह्वति।पत्नीसंयाजान्तादहः200 संस्थित इति वक्तव्ये यत्पत्नीसंयाजेभ्य ऊर्ध्वमिति ब्रवीति तज्ज्ञापयति दशमस्यैवाह एतदङ्ग मिति।

विश्वास-प्रस्तुतिः

आग्नीघ्रीय उपसृजं धरुणं मातरं धरुणो धयन्।रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति।

मूलम्

आग्नीघ्रीय उपसृजं धरुणं मातरं धरुणो धयन्।रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति।

टीका

अत्रापि होत्रादयः सर्वे कर्तारो जुह्वति। इदं होमद्वयं ब्राह्मणेऽप्युक्तं तत्रैको होमकर्ता, इतरे जुह्वतं समन्वारमन्त एवं वा जुहुयात्, सूत्रानुसारेण वा।

विश्वास-प्रस्तुतिः

सदः प्रसृष्य मानसेन स्तुवते।

मूलम्

सदः प्रसृष्य मानसेन स्तुवते।

टीका

अस्मिन्काले छन्दोगाः सदः प्रसृप्य मानसेन स्तुवते। मानसं नाम स्तोत्र विशेषः। सदः प्रसॄप्येति परकर्तृकविधानं यत्रैते स्तुवते तत्रैवोत्तरं कर्म होत्राऽपि कर्तव्यमित्येवमर्थम्। अतः ‘सदस्येवाध्वर्यवित्याह्वयीत’ इत्यादि सर्वे कर्तव्यम्।

विश्वास-प्रस्तुतिः

यर्हि स्तुतं मन्येताध्वर्यवित्याह्वयीत।

मूलम्

यर्हि स्तुतं मन्येताध्वर्यवित्याह्वयीत।

टीका

यदा छन्दोगैः स्तुतं मन्यते होता मानसत्वादप्रत्यक्षा201स्तुतिरिति यस्मिन्सुतं मन्यत इत्युक्तं तदाऽध्वर्यो इत्याहानं कुर्यात्।

विश्वास-प्रस्तुतिः

हो होतरितीतरः।

मूलम्

हो होतरितीतरः।

टीका

इतरोऽध्वर्युर्होहोतरिति प्रत्याह्वानं करोति।

विश्वास-प्रस्तुतिः

आऽयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीःशस्त्वा व्याख्यास्वरेण चतुर्होतॄन्व्याचक्षीत।

मूलम्

आऽयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीःशस्त्वा व्याख्यास्वरेण चतुर्होतॄन्व्याचक्षीत।

टीका

तित्र इतिवचनं202स्तुत्याधारत्वे सत्यप्यासां स्तोत्रियधर्मनिवृत्त्यर्थम्। तेनाध्वयों इत्ययमाहावः शस्त्राङ्गमेव भवति न स्तोत्रियाङ्गम्। अतः शस्त्रस्य मध्यम स्वरत्वादध्वर्यो इत्यपि मध्यमस्वरो भवति नोपांशुस्वरः। पराचीरित्यभ्यासानिवृत्त्यर्थम्। व्याख्यास्वरो नाम मध्यमस्वरः। चतुर्होतार इति ‘तेषां चित्तिः स्रुक्’ इत्येवमादेः ‘मन उपवक्ता’ इत्येवमन्तस्य मन्त्रस्य नाम, तं व्याचक्षीत वाक्ये वाक्येऽवसाय ब्रूयादित्यर्थः।

विश्वास-प्रस्तुतिः

देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत।

मूलम्

देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत।

टीका

एवं चतुर्होतृसंज्ञस्य मन्त्रस्योत्पत्तिवाक्यमिदमुक्त्वा चतुर्होतॄन्व्याचक्षीत॥

विश्वास-प्रस्तुतिः

ॐ होतस्तथा होतरित्यध्वर्युःप्रतिगृणात्यवसितेऽवसिते दशसु पदेषु।

मूलम्

ॐ होतस्तथा होतरित्यध्वर्युःप्रतिगृणात्यवसितेऽवसिते दशसु पदेषु।

टीका

ओहोतस्तथा होतरित्येतौ प्रतिगरौ तेषां चित्तिरित्यादिषु दशसु पदेषु भवतः। तत्र पूर्वेषु पञ्चसु पूर्वो भवति, उत्तरेपूत्तर इति विभागोऽर्थालभ्यते। दशसु पदेष्विति वचनाद्दशस्वेव पदेषु चतुर्होतृसंज्ञेष्वेतौ प्रतिगरौ भवतः, न प्रतिपत्तिवाक्ये न ग्रहसंज्ञे च मन्त्र इति। उत्तरयोस्तनुब्रोद्ययोरपवर्जन203वचनादेव प्रतिगराभावः। अन्नाऽऽहावो यस्तत्र हो होतरिति प्रतिगरः। सार्पराज्ञीनां शंसतिचोदितत्वात्प्राकृतावेव प्रतिगरौ ताबुपांशु कर्तव्यौ। उत्तमेऽर्धर्चे यः प्रणवस्तेनावसान204मर्थात्कल्प्यते205। उत्तरस्यानृवत्वादपदसमाम्नातत्वाच्च। तेनासौ त्रिमात्र एव भवति। प्रणवान्तश्च तत्र प्रतिगरः।

विश्वास-प्रस्तुतिः

तेषां चित्तिः सुगासी३त्। चित्तमाज्यमासी३त्।वाग्वेदिरासी३त्। आधीतं बर्हिरासी३त्। केतो अग्निरासी३त्।
विज्ञातमग्नीदासी३त्।प्राणो हविरासी३त्।माध्वर्युरासी३त्।वाचस्पतिर्होताऽऽसी३त्। मन उपवक्ताऽऽसी३त्।

मूलम्

तेषां चित्तिः सुगासी३त्। चित्तमाज्यमासी३त्।वाग्वेदिरासी३त्। आधीतं बर्हिरासी३त्। केतो अग्निरासी३त्।
विज्ञातमग्नीदासी३त्।प्राणो हविरासी३त्।माध्वर्युरासी३त्।वाचस्पतिर्होताऽऽसी३त्। मन उपवक्ताऽऽसी३त्।

टीका

अयं चतुर्होत्राख्र्यः206

विश्वास-प्रस्तुतिः

ते वा एतं ग्रहमगृह्णत। वाचस्पते विधे नामन्। विधेमते नाम।विधेस्त्वमस्माकं नाम्ना द्यां गच्छ।यां देवाः
प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति।

मूलम्

ते वा एतं ग्रहमगृह्णत। वाचस्पते विधे नामन्। विधेमते नाम।विधेस्त्वमस्माकं नाम्ना द्यां गच्छ।यां देवाः
प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति।

टीका

‘ते वा एतम्’इत्यादिः ‘तामृद्धिं रात्स्यामः’ इत्यन्तो ग्रहसंज्ञो मन्त्रः।

विश्वास-प्रस्तुतिः

अपव्रजत्यध्वर्युः।

मूलम्

अपव्रजत्यध्वर्युः।

टीका

अस्मिन्नवसरेऽध्वर्युरपगच्छति।

विश्वास-प्रस्तुतिः

अथ प्रजापतेस्तनूरितर उपांश्वनुद्रवति।

मूलम्

अथ प्रजापतेस्तनूरितर उपांश्वनुद्रवति।

टीका

ग्रहमन्त्रस्य मध्यमस्वर एव प्रकृतत्वात्। अथानन्तरं प्रजापतेस्तनूरितरो होताऽनुद्रवस्युपांशु।प्रजापतेस्तनूरिति मन्त्रसंज्ञा।

विश्वास-प्रस्तुतिः

ब्रह्मोद्यं च।

मूलम्

ब्रह्मोद्यं च।

टीका

ब्रह्मोद्यं चोपांश्वेवानुद्भवति।

विश्वास-प्रस्तुतिः

अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलयाचापमया चानाप्ता चानाव्या चानाधृष्याचाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः।

मूलम्

अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलयाचापमया चानाप्ता चानाव्या चानाधृष्याचाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः।

टीका

एते तनुसंज्ञका मन्त्राः।

विश्वास-प्रस्तुतिः

अग्निगृहपतिरिति हैक आहुः सोऽस्य लोकस्यगृहपतिर्वायुगृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य
गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्थेष पतिर्कतवोगृहाः। येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपती राध्नुवन्ति ते यजमानाः।येषां वा अपहृतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं ते।

मूलम्

अग्निगृहपतिरिति हैक आहुः सोऽस्य लोकस्यगृहपतिर्वायुगृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य
गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्थेष पतिर्कतवोगृहाः। येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपती राध्नुवन्ति ते यजमानाः।येषां वा अपहृतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं ते।

टीका

ब्रह्मोद्यसंज्ञका मन्त्राः।

विश्वास-प्रस्तुतिः

अध्वर्यो अरात्स्मेत्युच्चैः।

मूलम्

अध्वर्यो अरात्स्मेत्युच्चैः।

टीका

एतत्प्रियवाक्यं तदुच्चैर्वक्तव्यम्।

विश्वास-प्रस्तुतिः

एषा याज्या।

मूलम्

एषा याज्या।

टीका

यदेतत्प्रियवाक्यं तदेवमेवावस्थितं याज्या भवति।

विश्वास-प्रस्तुतिः

एष वषट्कारः।

मूलम्

एष वषट्कारः।

टीका

एवं वषट्कारश्चाऽऽगूश्च न कर्तव्या।

विश्वास-प्रस्तुतिः

नानुवषट्करोत्युक्तं वषट्कारानुमन्त्रणम्।

मूलम्

नानुवषट्करोत्युक्तं वषट्कारानुमन्त्रणम्।

टीका

तदिह कर्तव्यमिति शेषः।

विश्वास-प्रस्तुतिः

अरात्स्म होतरित्यध्वर्युः प्रत्याह।

मूलम्

अरात्स्म होतरित्यध्वर्युः प्रत्याह।

टीका

एतदुक्तं भवति दशममहः परिसमाप्तम् अतो वयमरात्स्म। अध्वर्यो समृद्धा वयमित्यर्थः। होत्रैवमुक्तोऽध्वर्युरपि तमेवार्थ मनुमोदते सत्यमेवमरात्स्म होतरिति।

विश्वास-प्रस्तुतिः

मनसाऽध्वर्युग्रहं गृहीत्वा मनसा भक्षमाहरति।

मूलम्

मनसाऽध्वर्युग्रहं गृहीत्वा मनसा भक्षमाहरति।

टीका

मनसा क्रियमाणमन्येन न शक्यते ज्ञातुमिति संविज्ञानार्थमिदमुच्यते।

विश्वास-प्रस्तुतिः

मानसेषु भक्षेषु मनसोपह्वानभक्षणे।

मूलम्

मानसेषु भक्षेषु मनसोपह्वानभक्षणे।

टीका

अध्वर्युर्णैवं कृते स्वयमप्थेवं करोति। अध्वर्युग्रहणादन्ये प्रतिप्रस्थात्रादयोऽपि भक्षाहरेणं207कुर्वन्ति। तेष्वेषोपहवयाचनं भवतीति ज्ञायते।

विश्वास-प्रस्तुतिः

मनसाऽऽत्मानमाप्याय्यौदुम्बरी समन्वारभ्य वाचंयच्छन्त्या नक्षत्रदर्शनात्तत्रानधरान्पाणींश्चिकीर्षेरन्।

मूलम्

मनसाऽऽत्मानमाप्याय्यौदुम्बरी समन्वारभ्य वाचंयच्छन्त्या नक्षत्रदर्शनात्तत्रानधरान्पाणींश्चिकीर्षेरन्।

टीका

तत्रौदुम्बर्यान्वारम्भणे पाणीनधरान्कर्तुं नेच्छेयुः। औदुम्बर्या अग्रप्रदेशे समन्वारभेरन्नित्यर्थः।

विश्वास-प्रस्तुतिः

दृश्यमानेष्वर्ध्वर्युमुखाः समन्वारब्धाःसर्पन्त्यातीर्थदेशाध्रुवन्तमिन्द्रा पर्वता पुरोयुधेति जपन्तः।

मूलम्

दृश्यमानेष्वर्ध्वर्युमुखाः समन्वारब्धाःसर्पन्त्यातीर्थदेशाध्रुवन्तमिन्द्रा पर्वता पुरोयुधेति जपन्तः।

टीका

दृश्यमानेषु नक्षत्रेष्वध्वर्युप्रधानाः परस्परं समन्वारब्धाः सर्पन्त्या तीर्थदेशप्राप्तेः ( युवन्तमिन्द्रा पर्वता ’ इत्येतामृचं सकृत्सर्वे जपन्तः।

विश्वास-प्रस्तुतिः

अध्वर्युपथेनेत्येके।

मूलम्

अध्वर्युपथेनेत्येके।

टीका

अयं सर्पणस्य मार्गविधिः। अध्वर्युपथो नाम हविर्धानाम्नीधीययोमंध्यं तेन वा प्रसर्पन्ति।

विश्वास-प्रस्तुतिः

दक्षिणस्य हविर्धानस्याधोऽक्षेणेत्येके।

मूलम्

दक्षिणस्य हविर्धानस्याधोऽक्षेणेत्येके।

टीका

अक्षस्याघस्ताच्चक्रयोर्मध्येनेत्यर्थः। एक इति द्विरुक्तेः प्रयोजनमस्य सर्पणस्य मार्गान्तरमप्यस्तीति प्रदर्शनार्थम्।

विश्वास-प्रस्तुतिः

प्राप्य वरान्वृत्वा वाचं विसृजन्ते यदिहोनमकर्मयदत्यरीरिचाम प्रजापतिं तत्पितरमध्येत्विति।

मूलम्

प्राप्य वरान्वृत्वा वाचं विसृजन्ते यदिहोनमकर्मयदत्यरीरिचाम प्रजापतिं तत्पितरमध्येत्विति।

टीका

तीर्थदेशं प्राप्य तत्राभिमतान्वरान्कामानित्यर्थः। वृत्वा प्रार्थयित्वा। ततो वाचं विसृजन्ते ‘यदिहोनम’ इत्यनेन मन्त्रेण। अस्थायमर्थः - अस्मिन्नहनि कर्मण्यूनमतिरिक्तं वा कृतवन्तो वयं तत्सर्वं प्रजापति पितरं पालयितारं गच्छत्विति।

विश्वास-प्रस्तुतिः

अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुपमैतु वागिति।

मूलम्

अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुपमैतु वागिति।

टीका

निह्नवन्ते नमस्कुर्युरित्यर्थः। अस्माभिर्विसृष्टा न गच्छतु, अस्मानेव पुनः प्रावेशत्वित्यर्थः।

विश्वास-प्रस्तुतिः

उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते।

मूलम्

उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते।

टीका

ततः सर्वे होत्रादय उत्करदेशे स्थित्वा सुब्रह्मण्योमिति त्रिराहूय वाचं विसृजन्ते।

विश्वास-प्रस्तुतिः

नित्यस्त्विह वाग्विसर्गः।

मूलम्

नित्यस्त्विह वाग्विसर्गः।

टीका

यदुक्तो वाग्विसर्गमन्त्रो भूर्भुवः स्वरिति तेनात्र वाग्विसर्गः कर्तव्यः।

विश्वास-प्रस्तुतिः

एतावत्साचं होतृकर्मान्यत्र महावतात्।

मूलम्

एतावत्साचं होतृकर्मान्यत्र महावतात्।

टीका

एतावदित्येतत्परिमाणमित्यर्थः। सत्रे भवं सात्रम्।होतृशब्देन होता तत्पुरुषाश्चोच्यन्ते। तेषां कर्म होतृकर्म। प्रथमं तावच्चतुःसंस्थो ज्योतिष्टोम उक्तः, ततः सत्राणामित्यधिकृत्य चतुर्विंशादीन्यविवाक्यपर्यन्तान्यहान्युक्तानि। महाव्रतं चान्यत्र वक्ष्यते।यदत्र सत्राणामित्यधिकृत्य त्रयोविंशतिरहान्युक्तानि सोपानि तस्यसर्वत्र208सत्राङ्गत्वज्ञापनार्थमित्येतावत्सात्रं होतकर्मेत्युपसंहरति। एतावदेव सात्रं होतकर्म न शास्त्रान्तरमवेक्षणीयम्209। नापि सत्रेषु पुनः प्रकृत्यतिदेशोऽपेक्षणीय इति। अत्र होतृकर्मेति विशेषणं ब्रह्मणो ब्रह्मपुरुषाणां शास्त्रान्तरोक्तमस्ति चेत्तदपि कर्तव्यमित्यर्थम्। सत्राणागित्यधिकृत्य त्रयोविंशतिमेवाहान्युक्त्वा महाव्रतमनुक्त्वैवैतावत्सात्रं होतृकर्मेत्युक्ते महाव्र-तस्यासात्रत्वप्रसङ्गः स्यात्, तन्निराकरणार्थमन्यत्र210 महात्रतादित्युक्तम् ’ अतो महाव्रतमपि सात्रमेवेत्युक्तं भवति।

विश्वास-प्रस्तुतिः

तदेषाऽभियज्ञगाथा गीयते। अतिरात्रश्चतुर्विंशं षलहावमिजित्स्वराः।विषुवान्विश्वजिंच्चैव च्छन्दोमा दशमत्रतम्।प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च। अभिजित्स्वरसामानोविषुवान्विश्वजित्तथा। छन्दोमा दशमं चाह उत्तमं तुमहाव्रतम्।अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते।यद्यन्यधीयतेपूर्वधीयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैव संवत्सरोमितः। एतेषामेव प्रमवस्त्रीणि षष्टिशतानि यदिति।

मूलम्

तदेषाऽभियज्ञगाथा गीयते। अतिरात्रश्चतुर्विंशं षलहावमिजित्स्वराः।विषुवान्विश्वजिंच्चैव च्छन्दोमा दशमत्रतम्।प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च। अभिजित्स्वरसामानोविषुवान्विश्वजित्तथा। छन्दोमा दशमं चाह उत्तमं तुमहाव्रतम्।अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते।यद्यन्यधीयतेपूर्वधीयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैव संवत्सरोमितः। एतेषामेव प्रमवस्त्रीणि षष्टिशतानि यदिति।

टीका

पञ्चविंशतिरिति ज्योतिष्टोमेन सहितस्य सत्रेष्वपि प्रवृत्तिरस्तीति सात्रिकैः सह गृह्यते। संवत्सर इति गवामयनमुच्यते। कथं पञ्चविंशत्या पष्टयंधिकानि त्रीणि शतानि पूर्यन्त इति तदुपपादयति—एतेषामेव प्रभव इति। अभ्यासादिना संख्यापूरणार्थं प्रभव इत्युच्यते।

विश्वास-प्रस्तुतिः

तद्ये केचने च्छान्दोग्ये वाऽऽध्वर्य्यवे वा होत्रामर्शाःसमान्नाता न तान्कुर्यादकृत्स्नत्वाद्धौत्रस्य।

मूलम्

तद्ये केचने च्छान्दोग्ये वाऽऽध्वर्य्यवे वा होत्रामर्शाःसमान्नाता न तान्कुर्यादकृत्स्नत्वाद्धौत्रस्य।

टीका

छन्दोगानां शास्त्रं छान्दोग्यम्। तथाऽऽध्वर्यवमेवेत्युक्तम् ‘एतावत्सात्रं होतृकर्म’ इति। तत्राऽऽध्वर्यवे छान्दोग्ये वा वेदे ये केचन हौत्रामर्शाः पदार्था दृष्टाः कर्तव्यतया ते न कर्तव्याः। हौत्रामर्शा इति। हौत्रामासा इत्यर्थः। कुतः। अकृत्स्नत्वाद्धौत्रस्य। तौ हि वेदौ हौत्रस्य न विधायकौ, अन्यपरत्वात्तयोः। अतस्तत्र ये समाम्नाताः पदार्थास्तेऽनर्थका वा भवन्तु, तत्सापेक्षेणापि वा प्रयोगशास्त्रान्तरेण सार्थका वा भवन्तुसर्वथा। तावदाश्वलायनसूत्रप्रयोगे ते न कर्तव्या एवेति निश्चिनुमःतद्ये केचनेत्यस्यापवादः सूत्रद्वयम्।अकृत्स्नत्वादिति हेतुवचनाद्यत्र कृत्स्नं हौत्रमाध्वर्यवेषु विहितं दर्शपूर्णमासनिरूढ कौकिल्यादिषु तत्र तस्कर्तव्यमेवेति सिद्धम्।

विश्वास-प्रस्तुतिः

छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति।

मूलम्

छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति।

टीका

तद्ये केचनेत्यस्यापवादः सूत्रद्वयम्। स्तोमादयश्छन्दोगप्रमाणा211 इत्यर्थः।

विश्वास-प्रस्तुतिः

अध्वर्युप्रत्ययं तु व्याख्यानं कामकालदेशदक्षिणानांदीक्षोपसत्प्रसव संस्थोत्थानानामेतावत्वंहविषामुच्चैरुपांशुतायां हविषां चाऽऽनुपूर्व्यम्।

मूलम्

अध्वर्युप्रत्ययं तु व्याख्यानं कामकालदेशदक्षिणानांदीक्षोपसत्प्रसव संस्थोत्थानानामेतावत्वंहविषामुच्चैरुपांशुतायां हविषां चाऽऽनुपूर्व्यम्।

टीका

एतत्सर्वमध्वर्युप्रत्यय मध्यवधीनमित्यर्थः। व्याख्यानं परिज्ञानम्। काम्यत इति कामः फलम्।कालः ‘शरदि वाजपेयेन’ इत्यादिः। देशः प्राचीनप्रवणादिः। दक्षिणा द्वादशशतादि। दीक्षैका, तिस्रो वा212‘तिस्र उपसदः’ इत्युपप्तदश्च। तत्रैव प्रसवः सुत्या। संस्था समाप्तिः। उत्थानं213 प्लाक्षं प्रस्रवणं प्राप्योत्थानमित्यादि। हविषामेतावत्त्वामियत्ता।हविषामेवोच्चैष्वमुपांशुत्वं च। हविषां चाऽऽनुपू देवतानां क्रमः, हविःशब्देन देवतोच्यते। एतत्सर्वमध्वर्युप्रत्ययम्214। छन्दोगप्रत्ययानामध्वर्युप्रत्ययानां सतामस्मच्छास्त्रे यदभिधानं तस्येदं प्रयोजनं यद्यस्मच्छास्त्रे विशेष विधिस्तेषां सामान्यवि धिस्तदाऽस्मदीय एव विधिः संग्राह्य इति प्रयोजनम्।

विश्वास-प्रस्तुतिः

एतेभ्य एवाहोभ्योऽहीनैकान्पश्चात्तरान्व्याख्यास्यामः॥ १३॥

मूलम्

एतेभ्य एवाहोभ्योऽहीनैकान्पश्चात्तरान्व्याख्यास्यामः॥ १३॥

टीका

यान्येतानि पञ्चविंशतिरहान्युपदिष्टान्येतेभ्य एवाहोम्योऽहीनैकाहान्पश्चात्तराव्याख्यास्यामः। पश्चात्तरानिति तरप्प्रत्ययो ब्रह्मचारिधर्मव्यवहितत्वात्। ‘सिद्धैरहोभिरह्लामतिदेशः’ इत्यस्मिन्सूत्रेऽयमेवार्थो वक्ष्यते, तत्किमर्थमयमेवार्थ उच्यते। तस्पेदं प्रयोजनम्। ‘एतद्विदं ब्रह्मचारिणम्।’ इत्यत्रैतच्छञ्देना ही नैकाहानामपि ग्रहणार्थम्। इतरषा तेषामसंविधानादेतच्छब्देन215 ते न गृह्येरन्नतस्तदर्थमन्त्राप्युक्तम्॥ १३॥

विश्वास-प्रस्तुतिः

एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमंचारयित्वा व्रतमनुयुज्यानुक्रोशिने प्रव्यादुत्तरमहः।

मूलम्

एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमंचारयित्वा व्रतमनुयुज्यानुक्रोशिने प्रव्यादुत्तरमहः।

टीका

यान्येतानि महाव्रतवर्ज्यान्यनुकान्तान्यहानि216 तानि मन्त्रब्राह्मणसूत्राध्ययनेन तदर्थज्ञानेन च विदित्वा तेषामहामेका हा हीनतत्रभावं च यो वेढ़ स एवैतद्विद217 उच्यते। ब्रह्मचारिग्रहणं यो ब्रह्मचारी विद्यां समाप्य स्नानं कर्तुं न शक्तति, द्वादश वर्षाण्यध्ययनं कुर्वन्नपि न किंचिद्ग्रहीतुं शक्नोति, तमपि ब्रह्मचारिणमनेतद्विदमप्येतानि व्रतानि ग्राहयित्वैता न्वेदभागानध्याप्याऽऽश्रमं स्वसामर्थ्यानुगुणं प्रवेष्टुं शिक्षेतेत्येवमर्थम्218।अनिराकृतिनमनुत्सृष्टाध्ययनम्। एवंविधं ब्रह्मचारिणं219 व्रतं ग्राहयित्वा संवत्सरावमं कालं चारयित्वा ततस्तस्मै ब्रह्मचारिणेऽनुक्रोशिन आत्मगुणयुक्तायोत्तरमहर्महाव्रतं प्रद्र्यात्प्रथमं ब्रूयादित्यर्थः। अहरधिकारे पुनरग्रहगस्येदं प्रयोजनं तद्हविधायकं वेदमागमर्थावगमनपर्यन्तमनु ष्ठानयोग्यं ग्राहयितव्यमिति।

विश्वास-प्रस्तुतिः

महानाम्नीरग्रे।

मूलम्

महानाम्नीरग्रे।

टीका

महाव्रतानुवचनास्पूर्व महानाम्नीभ्यो व्रतादेशनादिश्रवणान्तं कृत्वाऽनन्तरे संवत्सरे महात्रतं ग्राहयित्वा ततोऽनन्तरे संवत्सर उपनिषद् इति क्रमः।

विश्वास-प्रस्तुतिः

उदगयने पूर्वपक्षे श्रोष्यन्बहिर्ग्रामात्स्थालीपाकंतिलमिश्रंअपयित्वाऽऽचार्याय वेदयीत।

मूलम्

उदगयने पूर्वपक्षे श्रोष्यन्बहिर्ग्रामात्स्थालीपाकंतिलमिश्रंअपयित्वाऽऽचार्याय वेदयीत।

टीका

आचार्येणानुक्तं220 श्रोष्यन्ब्रह्मचार्युद्गयन आपूर्यमाणपक्षे ग्रामाद्बहिनिष्क्रम्प शुचौ देशेहोष्यन्धर्मेण पार्वणवत्तिलमिश्रं स्थालीपाकं नवभ्यो देवताभ्यस्तूष्णीं निर्वापप्रोक्षणे कृत्वा श्रपयेत्, तत आचार्याय वेदयीत विज्ञापयीतेत्यर्थः।

विश्वास-प्रस्तुतिः

विदिते व्रतसंशयान्पृष्ट्वा लघुमात्राच्चेदापत्कारिताःस्युरन्वारब्धे जुहुयादग्नावलिश्चरति प्रविष्टऋषीणां पुत्रो अधिराज एषः। तस्मैजुहोमिहविषा घृतेन मा देवानां मोमुहद्मागधेयेमो अस्माकं मोमुहद्भागधेयं स्वाहाया
तिरश्ची निपद्यतेऽहं विधरणी, इति। तांत्वा घृतस्य धारया यजे संराधनीमहं स्वाहा।यस्मै त्वा कामकामाय वयं सम्राड्यजामहे।तमस्मभ्यं कामं दत्त्वाऽथेदं त्वं घृतं पिबस्वाहा। अयं नो अग्निवरिवः कृणोत्वयंमृधः पुर एतु प्रभिन्दन्। अयं शत्रूञ्जयतुजर्हृषाणोऽयं वाजं जयतु वाजसातौस्वाहा। असूयन्त्यै चानुमत्यै च स्वाहा।प्रदात्रे स्वाहा। व्याहृतिभिश्च पृथक्।

मूलम्

विदिते व्रतसंशयान्पृष्ट्वा लघुमात्राच्चेदापत्कारिताःस्युरन्वारब्धे जुहुयादग्नावलिश्चरति प्रविष्टऋषीणां पुत्रो अधिराज एषः। तस्मैजुहोमिहविषा घृतेन मा देवानां मोमुहद्मागधेयेमो अस्माकं मोमुहद्भागधेयं स्वाहाया
तिरश्ची निपद्यतेऽहं विधरणी, इति। तांत्वा घृतस्य धारया यजे संराधनीमहं स्वाहा।यस्मै त्वा कामकामाय वयं सम्राड्यजामहे।तमस्मभ्यं कामं दत्त्वाऽथेदं त्वं घृतं पिबस्वाहा। अयं नो अग्निवरिवः कृणोत्वयंमृधः पुर एतु प्रभिन्दन्। अयं शत्रूञ्जयतुजर्हृषाणोऽयं वाजं जयतु वाजसातौस्वाहा। असूयन्त्यै चानुमत्यै च स्वाहा।प्रदात्रे स्वाहा। व्याहृतिभिश्च पृथक्।

टीका

विदिते शृ॒तः स्थालीपाक इत्यवगते व्रतसंशयान्त्रतापराधान्पृच्छेत्। ते यदि पृष्टा लघुमात्रात्कारणात्प्रवृत्तिनिमित्तादा पत्कारिताश्चेदग्नावग्निरित्यादिभिर्जुहुयान्न प्रायश्चित्तान्तरंकर्तव्यम्221 [*222 लघुमात्राश्चेदितिपाठे लघुमात्राश्चेद्भवन्ति व्रतापराधा इत्यर्थः। अथ चेत्कामकृतां महान्तश्च व्रतापराधा] गुरुप्रमाणकं प्रवृत्तिकारणं बुद्धिपूर्वं वा करोत्यपराधांस्तत्तदनुरूपं प्रायश्चित्तं कारयित्वा पुनर्वतमादिश्य ततः संवत्सरे पूर्ण एवं श्रावयेत्। विदित इति वचनं गृतः स्थालीपाक इति विदित एव व्रतसंशयप्रश्नप्रवृत्त्यर्थम्। अन्वारव्वे ब्रह्मचारिण्याचार्यो जुहुयादग्नावग्निरित्येवमादिभिरत्रैव एठितैर्मन्त्रैर्व्याहृतिभिश्च। पृथगिति समस्तव्याहृतिनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति।

मूलम्

हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति।

टीका

हुस्वेतिवचनमेतैर्मन्त्रैर्हत्वा स्विष्टकृतेऽवदाय तमहत्वैव निधाय ब्रूयासंप्रेषितव्यमित्येवमर्थम्223। एवं स्थालीपाकं सर्वमशानेत्यत्र संप्रैषः। ततश्चरूशेषं224ब्रह्मचारी सर्वमश्नीयात्।

विश्वास-प्रस्तुतिः

मुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापयेत्त्वंव्रतानां व्रतपतिरसि व्रतं चरिष्यामितच्छकेयं तेन शकेयं तेन राध्यासमिति।

मूलम्

मुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापयेत्त्वंव्रतानां व्रतपतिरसि व्रतं चरिष्यामितच्छकेयं तेन शकेयं तेन राध्यासमिति।

टीका

मुक्तवन्तमिति वचनं न केवलमशने संप्रैष एवाशनमपि कर्तव्यमेवेत्येवमर्थम्। उपस्थापयेदित्युपतिष्ठस्वाऽऽदित्यमिति ब्रूयादित्येवमर्थम्। ततो ब्रह्मचार्यद्भिः पूर्णाञ्जलिनाऽऽदिव्यं225 मन्त्रेणोपतिष्ठेत।

विश्वास-प्रस्तुतिः

समाप्य संमील्य वाचं सच्छेत्कालमभिसमीक्षमाणो यदा समयिष्यादाचार्येण।

मूलम्

समाप्य संमील्य वाचं सच्छेत्कालमभिसमीक्षमाणो यदा समयिष्यादाचार्येण।

टीका

समाप्यवचनमुपस्थानमन्त्रं समाप्यानन्तरं संमील्य वाचं यच्छेन्न कालविक्षेपं कुर्यादिस्येवमर्थम्। वाग्यमनं कुर्वन्यस्मिन्काल आचार्येण*226 सह समवायो मवेत्तं कालं मनसा अध्यायन्वाग्यमनं कुर्यात्।

अयं स काल इत्याह—

विश्वास-प्रस्तुतिः

एकरात्रमध्यायोपपादनात्227

मूलम्

एकरात्रमध्यायोपपादनात्227

टीका

एकरात्रं कालमेवाऽऽसित्वाऽनन्तरे दिवस आचार्येण सह समवायं गमिष्यामीति ध्यायेत्। कुतः। अध्यायोपपादनात्228। अध्यायः स्वाध्यायो महानाम्नीमन्त्र इत्यर्थः। तस्योपपादनात्229। उपपादनमन्यमुपेत्य230तस्याध्ययनस्य वादनं शिष्यमुपादायाध्या पनमित्यर्थः। एतदुक्तं भवति – य एकरात्राध्ययनेन महानाम्नीरध्येतुं शक्नोति स एकरात्रं ध्यायन्वाग्यमनं कुर्यादिति।

विश्वास-प्रस्तुतिः

त्रिरात्रं वा नित्याध्यायेन।

मूलम्

त्रिरात्रं वा नित्याध्यायेन।

टीका

त्रिरात्रं चैवमासीत यो नित्याध्यायेनाध्येतुं शक्नोति231स त्रिरात्रमेवाऽऽसित्वा चतुर्थेऽहन्यचार्येण समवायं गच्छेदित्यर्थः।

विश्वास-प्रस्तुतिः

तमेव कालमभिसमीक्षमाण आचार्योऽहतेनवाससा त्रिःप्रदक्षिणं शिरः समुखंवेष्टयित्वाऽऽहैतं कालमेबंभूतोऽस्वपन्मवेति।

मूलम्

तमेव कालमभिसमीक्षमाण आचार्योऽहतेनवाससा त्रिःप्रदक्षिणं शिरः समुखंवेष्टयित्वाऽऽहैतं कालमेबंभूतोऽस्वपन्मवेति।

टीका

तमेव कालं प्रतिपद्यमान आचार्यो यः कालो ब्रह्मचारिणा संकल्पित इत्यर्थः। अहतेनानिवसितेन धौतेन वाससा ब्रह्मचारिणः शिरो मुखेन सहितं त्रिःप्रदक्षिणं वेष्टयित्वा यथा न तद्वासः पतेत्तथोपायं कृत्वा ब्रूयादाचार्यः। एतं कालमिति संकल्पित प्रदर्शनार्थत्वादेकरात्रं कालमेवभूतोऽस्वपन्भवेति त्रिरात्रं कालमिति वा।

विश्वास-प्रस्तुतिः

तं कालमस्वपन्नासीत।

मूलम्

तं कालमस्वपन्नासीत।

टीका

यः संकल्पितः कालस्तस्मिन्काले सर्वदाऽस्वपन्भवेद्ब्रह्मचारी ततो232 गुरुः स्विष्टकृदादिहोमशेषं समापयेत्।

विश्वास-प्रस्तुतिः

अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निंप्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमित्युत्तरतोऽग्रःकृत्वा वत्सतरीं प्रत्यगुद्गसंश्रवणे बद्ध्वा।

मूलम्

अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निंप्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमित्युत्तरतोऽग्रःकृत्वा वत्सतरीं प्रत्यगुद्गसंश्रवणे बद्ध्वा।

टीका

आचार्याय वेदर्यातत्विशेषः। द्वितीये चतुर्थे वा दिवसे प्राप्त आचार्योऽनुवक्ष्यति233। तस्मिन्ननुबक्ष्यमाणे सत्यपराजितायां दिशि बहिर्ग्रामाच्छुचौ देश उल्लेखनादि कृत्वाऽग्निं प्रतिष्ठाप्य तस्योत्तरतोऽस्यादीन्निघाय तस्यैव च प्रत्यगुदग्यो देशस्तस्मिन्वत्सतरी बघ्नाति। यथाऽग्निसमीप उच्चमानः शब्दो वासतर्श नः सम्यक्श्रूयते तथा बनीयात्। एतावत्कर्मा ब्रह्मचारिणः स्वभूतः कश्चित्करोति। एतावति कृत आचार्याय वेदयीत।

विश्वास-प्रस्तुतिः

पश्चादग्नेराचार्यस्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः।

मूलम्

पश्चादग्नेराचार्यस्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः।

टीका

एवं प्रागग्रेषु तृणेषूपविशेत्।

विश्वास-प्रस्तुतिः

ब्रह्मचारी लेपान्परिमृज्य प्रदक्षिणमग्निमाचार्यंच कृत्वोपसंगृह्य पश्चादार्थस्योपविशेतृणेष्वेवप्रत्यग्दक्षिणाभिसमीक्षमाणः।

मूलम्

ब्रह्मचारी लेपान्परिमृज्य प्रदक्षिणमग्निमाचार्यंच कृत्वोपसंगृह्य पश्चादार्थस्योपविशेतृणेष्वेवप्रत्यग्दक्षिणाभिसमीक्षमाणः।

टीका

मुखगताँलेपा़ञ्शरीरगतांश्च शोधयित्वाऽग्निमाचार्यं च प्रदक्षिणं कृत्वाऽऽचार्यं विधिबदुपसंगृह्य पश्चादाचार्यस्योपविशेत्तृणेष्वेव प्रागग्रेषु प्रत्यग्दक्षिणां दिशमभिसमीक्षमाणः।

विश्वास-प्रस्तुतिः

पृष्ठेन पृष्ठं संधाय ब्रूयान्मनसा महानाम्नीर्भौ३ अनुबूहीति।

मूलम्

पृष्ठेन पृष्ठं संधाय ब्रूयान्मनसा महानाम्नीर्भौ३ अनुबूहीति।

टीका

पृष्ठं नाम शरीरस्य बहिः प्रदेशः। ब्रह्मचारी स्वपृष्ठदेशेनाऽऽचार्यस्य पृष्ठदेशं संनिघायाऽऽसित्वा मनसैवं ब्रूयान्महानाम्नीर्भोअनुब्रूहीति।

विश्वास-प्रस्तुतिः

पुनः पृष्ट्वाऽनुकोशिने संमील्यैवानुब्रूयात्सपुरीषपदास्त्रिः।

मूलम्

पुनः पृष्ट्वाऽनुकोशिने संमील्यैवानुब्रूयात्सपुरीषपदास्त्रिः।

टीका

अस्मिन्नपि काले व्रतसंशयान्पृष्ट्वा पूर्ववच्चेद्ब्रूयात्स्वयमपि संमील्यैव ताः पुनर्नवर्चः, नव च पुरीषपदानि ताः सर्वास्त्रिरनुब्रूयात्। [‘विदा मश्नवन्’234 इत्याद्या नवर्चः।‘एवाह्यैवैवाहि’ इत्यादीनि नव पुरीषपदानि च त्रिर्ब्रूयात्।]

विश्वास-प्रस्तुतिः

अनूच्योन्मुच्योष्णीपमादित्यमीक्षयेन्मित्रस्य त्वाचक्षुषा प्रतीक्षे मित्रस्य त्वा चक्षुषा समीक्षे।

मूलम्

अनूच्योन्मुच्योष्णीपमादित्यमीक्षयेन्मित्रस्य त्वाचक्षुषा प्रतीक्षे मित्रस्य त्वा चक्षुषा समीक्षे।

टीका

इतिकाराध्याहारेण सूत्रच्छेदः। सर्वत्र णिच्प्रत्यययोगे ‘आदित्यमुपतिष्ठस्व’ ‘आदित्यमीक्षस्व’ ‘पिण्डमशान’ इत्येवमादिसंप्रैषं ब्रूयात्।

विश्वास-प्रस्तुतिः

मित्रस्य वश्चक्षुषाऽनुवीक्ष इति दिशः संभाराः। पुनरादित्य मित्रस्यत्वा चक्षुषा प्रतिपश्यामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषो र्हेतुर्कच्छत्विति। भूमिमुपस्पृशेदग्न इला नम इला नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमुलीका सरस्वति। मा ते व्योम संदृशि। भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नीभवतामयोभिः स्तुषेजनं सुव्रतं नव्यसीभिः कया नश्चित्र आभुवदिति तिस्रः स्योना पृथिवि भवेति। समाप्य समानं संभारवर्जम्।

मूलम्

मित्रस्य वश्चक्षुषाऽनुवीक्ष इति दिशः संभाराः। पुनरादित्य मित्रस्यत्वा चक्षुषा प्रतिपश्यामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषो र्हेतुर्कच्छत्विति। भूमिमुपस्पृशेदग्न इला नम इला नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमुलीका सरस्वति। मा ते व्योम संदृशि। भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नीभवतामयोभिः स्तुषेजनं सुव्रतं नव्यसीभिः कया नश्चित्र आभुवदिति तिस्रः स्योना पृथिवि भवेति। समाप्य समानं संभारवर्जम्।

टीका

यदिदं महानाम्न्यध्ययनमुक्तं तत्समाप्योत्तरयोरपि महाव्रतोपनिषदाख्ययोव्रतमनुयुज्ये235 श्रवणान्तं महानाम्नीव्रतेन समानरूपं कर्तव्यम्। अयमेव तयोर्विरोषः पूर्वस्मात्।संभार वर्जेमिति236। संभारो नाम ‘श्रोष्यन्वहिग्रमात्’ इत्यारभ्य ‘पुनरादित्य मित्रस्य त्वा चक्षुषा’ इत्येवमन्तं वर्जयित्वेत्यर्थः। एतदुक्तं भवति — महाव्रतोपनिषदाख्ययोव्रतमनुयुज्य237 श्रवणान्तं संवत्सरादूर्ध्वमुद्गयने पूर्वपक्षे ग्रामाद्बहिर्गत्वा श्रवणमेव कर्तव्यं नान्यद्धोमादीनि।

विश्वास-प्रस्तुतिः

एष द्वयोः स्वाध्यायधर्मः।

मूलम्

एष द्वयोः स्वाध्यायधर्मः।

टीका

एष एवं महाव्रतोपनिषदोर्वेदभागयोरध्ययनविधिः। यो महानाम्नीनामध्ययनविधिरुक्तो व्रतमनुयुज्य संवत्सरावमं चारयित्वोद्गयने पूर्वपक्षे ग्रामाद्वहिर्गत्वाऽऽचार्यसकाशात्रिः श्रुत्वाऽनुप्रवचनीयं238 कृत्वा ततोऽध्ययनं [*239कर्तव्यमिति। एतदनयोरप्यध्ययने] संपादनीयमित्यर्थः।

विश्वास-प्रस्तुतिः

आचार्यवदेकः।

मूलम्

आचार्यवदेकः।

टीका

अयमपि विशेषो महाव्रतोपनिषदोरध्ययने भवति। यद्येकोऽवीयीत240।यथाऽऽचार्योऽनराजितां दिशमभिसमीक्षमाणो ब्रूयादेवमेकश्चेच्छिण्यस्तामेव दिशमाभिमुखोऽधीयीत।यदिद्वौ बहवो वा तदा नायं नियम आदरणीयः। अत एव ज्ञायते –एको द्वौ बहवो वाइघीयीरन्निति। अध्ययन एवायं नियमः श्रावणे त्वेक एव। व्रतादेशनादेरनुप्रवचनीयान्तसंस्कारस्य तन्त्रसिद्धौ प्रमाणामावात्।

विश्वास-प्रस्तुतिः

फाल्गुनाद्याश्रवणाया अनधीतपूर्वाणामध्यायः।

मूलम्

फाल्गुनाद्याश्रवणाया अनधीतपूर्वाणामध्यायः।

टीका

एष241महानाम्न्यादीनामध्ययनकाल उच्यते। श्रवणमात्रभेवं कृत्वा पूर्वमनधीतकन्तो ये तेषामयं कालः। फाल्गुनमासमारभ्य श्रावण्याः पौर्णमास्या यः कालः स तेषामध्ययनकालः।

विश्वास-प्रस्तुतिः

तैष्याद्यधीतपूर्वाणामधीतपूर्वाणाम्॥१४॥

मूलम्

तैष्याद्यधीतपूर्वाणामधीतपूर्वाणाम्॥१४॥

विश्वास-प्रस्तुतिः

इत्याश्वलायनश्रौतसूत्रोत्तरषट्के द्वितीयोऽध्यायः॥२॥

मूलम्

इत्याश्वलायनश्रौतसूत्रोत्तरषट्के द्वितीयोऽध्यायः॥२॥

टीका

येऽधीतपूर्वास्तेऽस्मिन्कालेऽघीयीरन्। श्रावणी पौर्णमासी परावधिस्तैषी पौर्णमासपूर्वावधिर्यस्य कालस्य स काल इति। अभ्यासोऽध्यायपरिसमाप्त्यर्थः॥१४॥

इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायामष्टमोऽध्यायः।
————
अथ उ० तृतीयोऽध्यायः।
—————


  1. “ग. ङ. झ. जन्तीति। पृ ।” ↩︎ ↩︎

  2. “घ. च. ष्टस्याह्नः प्रा॰ ।” ↩︎

  3. “घ. च. स्तासामथं " ↩︎

  4. “च. ‘मृचमुक्त्वो°।” ↩︎

  5. “घ. च. °योः संगत °। " ↩︎

  6. “घ. च. °कानां त। " ↩︎

  7. “घ. संख्यं भवति। ए° । " ↩︎

  8. “घ. च. ‘ज्यानाम। " ↩︎

  9. “घ. च. नुच्छ्वसन्नुक्त्वो। " ↩︎

  10. " क. ‘तानां क्रतु°।” ↩︎

  11. “घ.प्रेष्यन्ति चे।” ↩︎

  12. “ङ. च. झ. मुक्त्वा ऋ°।” ↩︎ ↩︎

  13. “घ. ङ. च. झ. ‘गन्तैर्द्दोत’।”

     ↩︎
  14. “ङ. झ. ‘शब्दौ सं॰।” ↩︎

  15. “ङ. झ. °क्तमध्याह्न।” ↩︎

  16. “ङ. झ. त्रिपद°। " ↩︎

  17. " ध. च. ‘त्र पच्छः पा।” ↩︎

  18. “घ. °चैशस्यस्य।” ↩︎

  19. “क. ग. झ. शस्य ह°।” ↩︎

  20. “घ, ङ. च. झ. तदाऽप्य।” ↩︎

  21. “डं, पद ।” ↩︎

  22. “झ . °धैयार्थत्वं।” ↩︎

  23. “घ. च. ह्येकः। " ↩︎

  24. “ध. च. प्तं च वि।” ↩︎

  25. “ग. घ. ङ. च. झ. ॰णुत्यं पु°।” ↩︎

  26. “क. ङ. झ. त्रिषूक्त°।” ↩︎

  27. “च. मृचां पा°।” ↩︎

  28. “घ. च. ‘णमित्ये’।” ↩︎

  29. “ग. व. च.स्य च प्र " ↩︎

  30. “ङ,°त्सूत्रमु।” ↩︎

  31. “ग. घ. च. चनं त्रि” ।” ↩︎

  32. “च. ‘मे ’ स गृणानः ’ इत्यादिके । अ’ ।” ↩︎

  33. “घ. शस्त्वा पूनं।” ↩︎

  34. “ग. घ. ‘स्या एका” ↩︎

  35. “ङ. ‘सेयुरित्वे।” ↩︎

  36. “ङ. झ. ‘यतानि”।”

     ↩︎
  37. “घ. ङ. च.° युः। शंसेयुरिति। "

     ↩︎
  38. “च घ. दिष्टे’ऽस्मा°।” ↩︎

  39. “°रित्यारभ्योक्ता’।” ↩︎

  40. ॑# “क. ग. घ, ङ. च. यास्ता वा।” ↩︎

  41. “च. ‘न्योऽपि वि।” ↩︎

  42. “घ. ङ. च. झ. शस्त्वा द्वि°।” ↩︎

  43. “च. वोऽयं पू।” ↩︎

  44. “च. °ण विषयस्य।” ↩︎

  45. “च.“चनं नियमेन ऋ°। ग. घ. ङ. झ. °चनमेव मियमृक्स।” ↩︎

  46. “ध. ङ. च. झ. °क्तान्यष्टा’।” ↩︎

  47. “ध. ङ. च. झ. मुक्तं व °।” ↩︎

  48. “च. याया वि॰।” ↩︎

  49. “ङ. °ताऽस्ती।” ↩︎

  50. “च. झ. षु सपु°।” ↩︎

  51. “क. ग. घ. ङ. च. स्वरक°।” ↩︎

  52. “घ ङ. ज. तैः षस क” ↩︎

  53. “घ. – सपुरीषाभ्य इतिवचनसार्थक्याय पुनरुक्तपदानां त्याग इति देवत्रातः।” ↩︎

  54. “च. °त् । एतानि षट्सूक्तान्यविहरंश्चतुर्थरूपकं स्त्। " ↩︎ ↩︎

  55. “याः।” ↩︎

  56. “च. तस्या!” ↩︎

  57. “च. °र्माः। विग्रादः। " ↩︎

  58. “क. च न तत°। ङ. च त° । च. चास्या ।” ↩︎

  59. “क. ग. घ. ङ.. झ. कृत्स्नस्य।” ↩︎

  60. “घ च सर्वेऽत्रा।” ↩︎

  61. “झ. °ति न त°।” ↩︎

  62. " ग. घ.ङ. च. झ. ति। यस्मा °।” ↩︎

  63. “ङ. झ. न पाठि’। " ↩︎

  64. “घ. ड. च. झ. °णय ए°।” ↩︎

  65. “घ,°दन्यस्मि°।” ↩︎

  66. “ग॰ झ॰नेऽप्र॰। " ↩︎

  67. “च. प्राप्ते वि।” ↩︎

  68. “च, ‘न्तापः स्वादस।” ↩︎

  69. “च. प्रवेशो” ↩︎

  70. “च. ‘र्दोऽयमपू’।”

     ↩︎
  71. “घ. यदा।” ↩︎

  72. “क. वे तस्मा।” ↩︎

  73. “च. ‘रेष्वादि।” ↩︎

  74. “ङ, लक्ष्यते।” ↩︎

  75. “च. भूयांसि।”

     ↩︎
  76. “च. ‘नाभिज्ञातेऽन्त्याना’। " ↩︎

  77. “ग. घ. ङ. झ. सेन्याना’।” ↩︎

  78. “ग. घ. ङ. च. झ. माद्यया सं° ।” ↩︎

  79. “च. °ताः य° । " ↩︎

  80. “क. ङ, इ इ ३ ।” ↩︎ ↩︎

  81. “च. अप्पानु ।” ↩︎

  82. “क. ग. घ. ङ.. च. ‘व्य एवं॰ ।” ↩︎

  83. “क. न्दोगादिस्तु । " ↩︎

  84. “क. नैव।” ↩︎

  85. “क. ग. °न्येव न।” ↩︎

  86. “घ. च. वत्येति” ↩︎

  87. “घ. च. त्या न्यू ।” ↩︎

  88. “दिविहार । च. दिविकार।” ↩︎

  89. “ग. नान्यत्किंचि । घझ, नान्यकं चि । च. नान्यत्र किंचि ।” ↩︎

  90. “क. रा. °बन्धं कु” ↩︎

  91. “च. तुष्पदा।” ↩︎

  92. “च, शादाहावस्याभावो। " ↩︎

  93. " घ. च. काद्दा अप्ये । घ. च.°वन्ति । त’।” ↩︎

  94. “क. °सूक्ते स्था° " ↩︎

  95. “घ. च. °धर्मा ए°।” ↩︎

  96. “घ.च. र्तन्त इ” ↩︎

  97. “च. प्लवं प्र॰” ↩︎

  98. “च. °कृतौ द्विसू॰ ।” ↩︎

  99. “च. ‘प्तः, त° ।” ↩︎

  100. “च. इत्यभि ।” ↩︎

  101. “घ.. ङ. च. ‘यानीति चो° ।” ↩︎

  102. “घ. च. झ. °नामिति दे॰ । " ↩︎

  103. “घ. ङ. च. °क्तैरैका । " ↩︎

  104. “क. रणाः । ए° ।” ↩︎

  105. “क. ग. घ. ङ. झ. °क्तेह° । " ↩︎

  106. “ग घ. च. ‘त्येवं श° ।” ↩︎

  107. “क. ङ. सिद्धरे ।” ↩︎

  108. “घ.ङ. झ. °के प्रा° ।” ↩︎

  109. “.°संस्थः पृष्ठयो भवति । इ° । " ↩︎

  110. “घ. ङ. झ. ‘र्थः । पृष्ठ्यो भवति । इ° ।” ↩︎

  111. “व. ङ. च. झ.°ष्टः प्रकृ° । " ↩︎

  112. “ङ॰ झ॰ पृष्ठ्यः ।” ↩︎

  113. “ङ. झ. पृष्ठयः । तृ । " ↩︎

  114. “घ. ङ. च. झ. पृष्ठयो यः ।” ↩︎

  115. “घ. पृष्ट्यो स । " ↩︎

  116. " ग. ‘बद्धैः पृ ।” ↩︎

  117. “क. घ. ट. क्रियते” ↩︎

  118. “क. खं. ‘रादि कि’ । " ↩︎

  119. “च. पृष्ठ्यवि। " ↩︎

  120. “च. °नं छान्दोग्यप्र’ ।” ↩︎

  121. “ग. घ. ङ. च. झ. पृष्ठसंङ्खा” ↩︎

  122. “च. र्थ्यादवाच ।” ↩︎

  123. “छ. त्पृष्ठ्यस्य ।” ↩︎ ↩︎

  124. “च त्पृष्ठ्यस्यें । " ↩︎

  125. “क. ग. घ. वन्ति सू ।” ↩︎

  126. “के. ङ. °णि त्र्यह°।” ↩︎ ↩︎

  127. “च. ‘ये परस्था’ ।” ↩︎

  128. “ग. घ. ङ. च. झ. पृष्ट्यत्वे।” ↩︎

  129. “घ. च. ‘यस्याऽऽलम्भं कृ°” ↩︎

  130. “क. घ. ङ. °यसि ।” ↩︎

  131. “झ. पूर्व सृष्ट° । घ. ङ पूर्व विशि” ↩︎

  132. “ग. न्निर्वर्त्य ।” ↩︎

  133. “क. ख. ‘र्थे दे° ।” ↩︎

  134. “घ. छ. झ. सूक्तं शे° । " ↩︎

  135. “ङ’पां चाही॰ ।” ↩︎

  136. “च. ते । अतोऽ । " ↩︎

  137. “घ. ङ. च. झ. ‘न्तर्याभावा ।” ↩︎

  138. “च. °र्णे ब्रह्मसा ।” ↩︎

  139. “च. नोऽतिदेशं।” ↩︎

  140. “च. °द्धान्त्यपनुत्त्यर्थंं ।” ↩︎

  141. “च. मिच्छति ।” ↩︎

  142. “ग घ ङ. झ. पूर्वो वे” ↩︎

  143. “च. °न्यास्वर्वेलिं।” ↩︎

  144. “च. °ध्य आ°। " ↩︎

  145. “च. योऽन्तत इ°। " ↩︎

  146. “क. ग. घ. ङ.झ. हतोकि°।” ↩︎

  147. " घ.—अत्रोक्तमेकम् । यत्पवमाने तस्य योनिरनु० नामन्यत्र शंसोदिति प्राकृतमपरम।” ↩︎

  148. “घ ङ. झ. ‘वतोऽपृ’।” ↩︎

  149. “घ. च. ‘त्यत्र स°।” ↩︎

  150. “घ.ङ. द्वन्तः प्र° । " ↩︎

  151. “घ. च. इहैते।” ↩︎

  152. " धनुश्चिह्नान्तर्गतोऽयं ग्रन्थः ग. च. पुस्तकस्थः।” ↩︎

  153. “घ. ङ. झ.पृष्ठ्यस्था’। " ↩︎

  154. “च, ‘दि तत्स्थाने न कुर्युः। " ↩︎

  155. “ङ. राच्छन्दो” ↩︎

  156. “च. आरम्भणी।” ↩︎

  157. “घ. °म्। छन्दा॰। " ↩︎

  158. “च. प्राप्नोतीति।” ↩︎

  159. “झ. ‘मं तूभयत्र तु°।” ↩︎

  160. “च. °ते । उभयत्र पृ ।” ↩︎

  161. “च. तश्चाही । " ↩︎

  162. “ग. ङ. झ. च संहि’ ।” ↩︎

  163. “घ. ङ. च.°पः । शंसने च ।” ↩︎

  164. “च. °नैकतृ । " ↩︎

  165. “च. °न न वि ।” ↩︎

  166. “ग. घ. ङ. झ. ति विशे । " ↩︎

  167. “ग. यथाऽन्त्यमक्षरमे° इति पाठान्तरम् ।” ↩︎

  168. “ग॰ घ. ङ. झ॰ ‘म् । सा° ।” ↩︎

  169. “ग. घ. ङ. झ. तुष्पद ।” ↩︎

  170. “ग. घ. ङ. झ. शर्चग्। उ’ ।” ↩︎

  171. “गः - इदमित्था, ये यज्ञेन स्वस्ति नो मिमीता।” ↩︎

  172. “च. प्रथमौ ।” ↩︎

  173. “च. अन्ते ।” ↩︎

  174. “ग. घ. ङ. झ. चास्मि°। " ↩︎

  175. “घ. झ. °तुःप° ।” ↩︎

  176. “ग. घ. ङ. च. ह्लेऽपि ।” ↩︎

  177. “ग. घ. ङ. च. झ. °ह्ले प्रा° ।” ↩︎

  178. “ग. ‘तूचं कल्पजस्तृच आद्या ।” ↩︎

  179. “च. तीयस्त्वेका ।” ↩︎

  180. “च.र्क्रचम् । त ।”

     ↩︎
  181. “क. ग. घ. ङ. झ. ‘चौ क्र ।” ↩︎

  182. “घ. ङ. च. झ. ठिता इह। " ↩︎

  183. “घ. ङ. च. झ. °च्यन्ते । पा° ।” ↩︎

  184. “ग. घ. ङ. झ. °त्येकां ते°। " ↩︎

  185. “च. ‘दासित्य’।” ↩︎

  186. “ध. च. श्चेदित्य।”

     ↩︎
  187. “घ. हः सर्वेश्चा।” ↩︎

  188. “धनुश्चिह्नान्तर्गतोऽयं ग्रन्थश्वपुस्तकस्थः।” ↩︎

  189. “ध. °नानेन। "

     ↩︎
  190. “च. ह्यणं प्र°।” ↩︎

  191. “ग. मप्येवं ।” ↩︎

  192. “ग. तेन वेति ।” ↩︎

  193. “ग. घ. ङ.झ॰ ॰मुख्येनै॰। " ↩︎

  194. “क. च. त्तदा जु ।” ↩︎

  195. “च. सूक्तकार्ये वि ।” ↩︎

  196. “ङ. च. °दा ऋगा।” ↩︎

  197. “घ. झ. ङ. ‘स्यान्या।” ↩︎

  198. “ग. त्राणि या” ↩︎

  199. “। च. ‘हीनं सं।” ↩︎

  200. “च. ‘जान्तत्वाद।” ↩︎

  201. “च. °क्षात्स्तुति° ।” ↩︎

  202. “घ. च. °नं सुत्या ° । ङ. झ °नं स्रुत्या ।” ↩︎

  203. “च. पब्रजन ।” ↩︎

  204. “क्र. ‘वस्थेनावासा ।” ↩︎

  205. “घ. च. ‘थार्ल्लभ्यते ।” ↩︎

  206. “च. ख्यः पदसमूहः। ते” ↩︎

  207. “घ. ङ. झ. रक्षां कु ।” ↩︎

  208. “च. र्वस्यत्रा ।” ↩︎

  209. “च. °मपेक्ष।” ↩︎

  210. “ङ. झ. °कर्षणा॰ ।” ↩︎

  211. “क. ङ. °माण इ°।”

     ↩︎
  212. “ङ झ. ‘वाऽतिति’।”

     ↩︎
  213. “ग. झ. ङ. नं प्लक्षप’। " ↩︎

  214. “ग. °र्वमाध्वर्यवम् । " ↩︎

  215. “च. संनिधा । " ↩︎

  216. “च. वर्जान्य ।” ↩︎

  217. “च. ‘द्विदित्युच्य॰ ।” ↩︎

  218. “च. शिक्षयीते । " ↩︎

  219. “क. ङ. णं तं ग्रा । झ. णं तद्पाह। " ↩︎

  220. “घ. ‘चारेणा’ ।” ↩︎

  221. “क. ग. ङ. च. झ॰ ॰म् अथचेद्गुरु । " ↩︎

  222. " धनुश्चिह्नान्तर्गतो ग्रन्थो घ. पुस्तकस्थः।” ↩︎

  223. “घ. संप्रेषमि॰” ↩︎

  224. “ग. ॰श्च हुतशे ।” ↩︎

  225. “घ. लिर्मन्त्रेणाऽऽदित्यमुप ° ।” ↩︎

  226. " ग. सह संवासः।” ↩︎

  227. “च. पवाद । " ↩︎ ↩︎

  228. “ध.ङ. च. झ. पवाद° ।” ↩︎

  229. “घ.ङ. च. झ. पवाद । " ↩︎

  230. “धं. ङ. च. झ. पवाद ।” ↩︎

  231. “ग. घ. ङ. च. झ. °ति । अध्ययनमध्यायः, नित्यमध्यायः, नित्यं संततमित्यर्थः । एतदुक्तं भवति — यो बहुभिरेवाहोभिरध्येतुं शक्तोति स ।” ↩︎

  232. “क. ग. ङ. च. झ. तत्र स्त्रि।” ↩︎

  233. “च. वसति” ↩︎

  234. “*धनुश्विद्धान्त मंतोऽयं ग्रन्थश्च पुस्तकस्थ एव।” ↩︎

  235. “च. °ज्य श्राव ° । " ↩︎

  236. “क. ग. घ. ङ. झ. °र्जनमि’ । " ↩︎

  237. “‘ज्य श्राव°” ↩︎

  238. “घ. ङ.च. झ. यं च कृ° ।” ↩︎

  239. “धनुश्चिह्नान्तर्गतोऽयं मन्थो च. च. पुस्तकस्थः।” ↩︎

  240. “क. °त तथाऽऽ ।” ↩︎

  241. “च. एषां म” ↩︎