०७

विश्वास-प्रस्तुतिः

सत्राणाम्।

मूलम्

सत्राणाम्।

टीका

अधिकारोऽयम्। आऽष्टमाध्यायपपरिसमाप्तेर्यद्वक्ष्यति तत्सत्रेष्विति वेदितव्यम्।

विश्वास-प्रस्तुतिः

उक्ता दीक्षोपसदः।

मूलम्

उक्ता दीक्षोपसदः।

टीका

एकाहप्रभृति ‘आ संवत्सरात्’ इत्यादिना ‘यथा सुत्योपसदः’ इत्येवमन्तेन दीक्षाःसत्राणामुक्ताः। उपसदः ‘चतुर्विंशतिः संवत्सर इति सत्राणाम्’ इत्युक्ताः। तच्चवचनं प्रकृतिप्राप्तदीक्षोपसदः1 संख्यानिवृत्त्यर्थम्। तत्र सत्राणामिति2वचनात्सव्रतद्वादशाहशब्दयोरहीनसंबन्धेऽप्यविरोधात्तापश्चितशब्दस्य च सत्रविशेषवाचित्वादहीनसंबन्धशङ्कांनिवर्त्य3 तस्य विधेः सत्रसंन्धार्थमिदं वचनम्। इदं तूपसद्ग्रहणं दीक्षासुत्याशब्दयोः परिसंख्यापरत्वाशङ्कानिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

एतेनाह्नासुत्यानि।

मूलम्

एतेनाह्नासुत्यानि।

टीका

उक्तः सोमयागश्चतुःसंस्थो ज्योतिष्टोमाख्यः प्रकृतिभूत एकाहाहीनसत्राणाम्। तान्येकाहादीनि नवमदशमैकादशद्वादशेषु वक्ष्यन्ते। इदानीं सर्वेषां सत्राणामधिकारं कृत्वासत्रधर्मा उच्यन्ते गवामयनानुसारेण। चतुर्विंशादीनि च तदीयान्यहान्युत्पाद्य4न्ते महाव्रतपर्यन्तानि। प्रायणीयोदयनीयौ तु ज्योतिष्टोमेनातिरात्रेण व्याख्याताविति कृत्वेदानींनोच्येते। एषामह्नांव्युत्पादने कृत एकाहाही5नानामपि व्याख्यानलाघवं भवतीतितेभ्योऽपि पुरस्तात्सत्राणामितीदं प्रकरणमध्यायद्वयेनाऽऽरब्धवानाचार्यः। एवं सूत्रप्रणयनेनास्मद्ब्राह्मणमनुसृतं भवतीत्येषाऽत्र सूत्रसंगतिः। इदानीं सूत्रं व्याख्यायते – एतेनेति। यः प्रकृतो दक्षिणीयादिरुदवसानीयान्तश्चतुःसंस्थो ज्योतिष्टोमाख्यः सोमयागः स निर्दिश्यते स एव चाह्नेत्युच्यते। सुत्यानीति प्रधानकर्माप्युच्यन्ते सोमयागरूपाणि। तत्रायमर्थः—सत्रेषु यानि प्रधानयागकर्माणि तान्येतेनाह्ना6निर्दिष्टानीति। एतेन सुत्यानीत्येतावतैवसिद्धेऽह्नेतिवचनमतिरात्रसंस्थस्याप्येकाहप्रहणे7न संग्रहार्थमहोरात्रद्वयसंबन्धे सत्यपीति।

विश्वास-प्रस्तुतिः

प्रातरनुवाकाद्युदवसानीयान्तान्यन्त्यानि।

मूलम्

प्रातरनुवाकाद्युदवसानीयान्तान्यन्त्यानि।

टीका

प्रतिप्रधानमङ्गावृत्तौ प्राप्तायां यावतोऽङ्गकलाप8स्य सकृत्कृतस्यापि प्रधानविशेषसंबन्धेकारणत्वन9 गृह्यते तत्सकृदेव कृतं सर्वार्थं भवतीति नाऽऽवर्तते, यस्य पुनरेवं न संभवतितदावर्तते10, तद्विवेकार्थमिदं सूत्रद्वयम्। यानि पत्नीसंयाजेभ्य11 ऊर्ध्वमङ्गानि तान्यन्त्येप्वेवाहःसु सकृत्कृतानि सर्वार्थानि भवेयुः। यानि प्रातरनुवाकात्पूर्वाणि तानि12 पूर्वेष्वेवाहःसुसकृर्तव्यानीत्यर्थः।

विश्वास-प्रस्तुतिः

पत्नीसंयाजान्तानीतराणि।

मूलम्

पत्नीसंयाजान्तानीतराणि।

टीका

इतराणि, अनन्त्यानीत्यर्थः। तानि पत्नीसंयाजान्तानि तेष्ववभृथादि न कर्तव्यम्।तेष्वेव यान्याद्13यङ्गानि प्रातरनुवाकात्पूर्वाणि14 न कर्तव्यानि15

विश्वास-प्रस्तुतिः

द्रप्सप्राशनसख्यविसर्जने त्वन्त्य एव।

मूलम्

द्रप्सप्राशनसख्यविसर्जने त्वन्त्य एव।

टीका

पत्नीसंयाजपर्यन्तानां प्रातरनुवाकप्रभृतीनामङ्गानां सर्वेष्वहःस्वावृत्तिरुक्ता। तदवध्यन्तर्भूतयोरप्यनयोरन्त्य एवाहनि क्रिया स्यादित्येवमर्थमिदं सूत्रम्।

विश्वास-प्रस्तुतिः

ध्रुवाः शस्त्राणामातानाः।

मूलम्

ध्रुवाः शस्त्राणामातानाः।

टीका

आतन्यते यैरित्यातानाः। यैरवयवरूपैः शस्त्राणि16 निरूप्यन्ते तूष्णीशंसननिवि17त्सूक्तादिभिस्त आताना इत्युच्यन्ते। ते ध्रुवा नित्या इत्यर्थः। परिभाषाप्रयोजनं मध्यंदिनइत्युक्त एते शस्त्रे प्रतीयादिति निष्केवल्यमरुत्वतीययोः संज्ञां कृत्वा व्यवहरति ‘जनिष्ठाउग्र उग्रो जज्ञे’ इति मध्यंदिनः। तत्रैताभ्यां सूक्ताभ्यां कृत्स्नयोः शस्त्रयोरुद्वारे प्राप्तेसूक्तयोरेवोद्धारो नान्येषां प्रतिपदादीनामित्येवमर्था परिभाषा।

विश्वास-प्रस्तुतिः

सूक्तान्येव सूक्तस्थानेष्वहीनेषु।

मूलम्

सूक्तान्येव सूक्तस्थानेष्वहीनेषु।

टीका

यानि प्रकृतौं सूक्तस्थानानि तेषु विधीयमानास्तृचादयोऽपि सूक्तान्येव भवन्ति। तैःसमस्त18स्यैव सूक्तस्योद्धारो नैकदेशस्थेत्यर्थः। एवकारान्न केवलं यत्र विहितानि तत्रैवसूक्तकार्यं कुर्वन्ति कथं तर्हि निविदतिपत्तावप्येतानि सूक्तान्येव भवेयुरित्यवगम्यते। तेनसूक्तेषु निविदतिपत्तावेतेषु तृचेषु निवि19द्धेया20, एतेषु वा निविदतिपत्तौ सूक्तेषु निविद्धेयेत्येवमपि भवति। उदाहरणम् – ‘हिरण्यपाणिमूतये’ इति चतस्त्रः ‘मही द्यौः पृथिवी चनः ’ युवाना पितरा पुनः’ इतितृचा वित्येवमादि। अहीनेष्वितिवचनं हीनेषु सूक्तस्थानेषु विहितानां तृचानां सूक्तवत्कार्यं मा भूदित्येवमर्थम्। यथा येऽर्वाक्त्रिवृत21स्तोमाःस्युस्तृचा एव तत्र सूक्तस्थानेष्विति सूक्तस्थानेषु22 हानिर्विधीयते। तेन तानि हीनानिसूक्तस्थानानि। अतस्तानि वर्जयित्वाऽन्येष्वहीनेषु सूक्तस्थानेषु विहितानां तृचादीनांसूक्तवस्कार्यं भवति न हीनषु विहितानाम्। हीनेषु तु विहितानि यदर्थं विहितानि तानितत्कार्यंमुक्त्वाऽन्यत्किंचिदपि सूक्तकार्यं न कुर्युः। सूक्तेषु निविदतिपत्तौ23 तेषु निविदो नदध्यात्, तेषु निविदतिपत्तौ तृचेष्वेवान्येषु निविदो24 न दध्या25न्नान्येषु सूक्तेष्विति सिद्धम्।

विश्वास-प्रस्तुतिः

दैवतेन व्यवस्थाः।

मूलम्

दैवतेन व्यवस्थाः।

टीका

यत्र सूक्तस्थानानि चत्वारि सन्ति त्रीणि सूक्तानि विहितानि दृश्यन्ते, तत्र दैवतेनव्यवस्थाः कर्तव्याः। यथा चतुर्विंशे ‘उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हिद्यावापृथिवी यज्ञस्य वो रथ्यामिति वैश्वदेवम्’ इत्यादौ।

विश्वास-प्रस्तुतिः

तृचाः प्रउगे।

मूलम्

तृचाः प्रउगे।

टीका

प्रउगार्थं गृह्यमाणषु प्रतीकेषु तृचा एव सर्वे ग्रहीतव्याः।

विश्वास-प्रस्तुतिः

सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्तेते अभ्यासातिप्रैषौ।

मूलम्

सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्तेते अभ्यासातिप्रैषौ।

टीका

तायमानं विस्तार्य26माणमित्यर्थः। एवंभूतस्य ऋतो रूपं तायमानरूपम्। सेवमन्वर्थसंज्ञाऽष्टानामभ्यासादीनामहरहः शस्यान्तानाम्। तेषां मध्येऽभ्यासातिप्रैषसंज्ञे द्वे तायमानरूपे सर्वेष्वहर्गणेषु प्रथममहरारभ्य सर्वेष्वहःसु प्रवर्तेते। अहर्गणग्रहणमहीनेष्वप्यस्यविधेः प्रापणार्थम्। सर्वग्रहणमेकाहेष्वपि द्व्यहत्र्यहचोदितेषु प्रवृत्त्यर्थम्। अस्मिन्सूत्रेद्वावर्थौ विधीयेते। सर्वेष्वहर्गणेषु तायमानरूपाणि भवन्तीत्येकोऽर्थः। तेषां मध्ये27 द्वेप्रथममहरारभ्य सर्वेष्वहःस्वभ्यासातिप्रैषौप्रवर्तेते इत्यपरः। तेन साकमेधत्र्यहे सर्वेषांतायमानरूपाणां मध्यभेऽहनिप्रवृत्तिः साधिता भवति। अहर्गणेषु सर्वेषां प्रवृत्तौविहितायाभितरेष28ांद्वितीयादिष्विति नियमादनयोः प्रथमारम्भोऽर्थसिद्ध एव। तत्र प्रथमादह्न इति किमर्थमुच्यते29, तस्येदं प्रयोजनम् – मित्रावरुणयोरयने मासि मासि सुत्या भवन्तिनाहरहः। तत्र प्रथमेऽतिरात्रे हारियोजनकालेऽतिप्रैषे वक्तव्ये सति श्वःशब्देनाऽऽद्यशब्देनवा वक्तुं न शक्यते, अनेकाहव्यवहित्वात्सुत्याकालस्य। तत्रापि कथंचिच्छ्वःशब्दलोपेना30तिप्रैषो वक्तव्यइत्येवमर्थं प्रथमादह्न इति वचनम्।

अतिप्रैषस्वरूपमुक्तमभ्यासस्वरूपमाह -

विश्वास-प्रस्तुतिः

अह्न उत्तमे शस्त्रे परिधनीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात्।

मूलम्

अह्न उत्तमे शस्त्रे परिधनीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात्।

टीका

उत्तमस्य शस्त्रस्याह्न इति विशेषणादह्न एवोत्तमे शस्त्रेऽभ्यासः कर्तव्यो नाऽऽगन्तुकेसोमातिरेका31दिनिमित्त ‘इति गम्यते। तस्मिञ्शस्त्रे परिधानीयायास्तृतीये वचने यदुत्तमंचतुरक्षरं32 तद्द्विरुक्त्वा प्रणुयात्। द्विरुक्त्वा प्रणुयादितिवचनात्पूर्ववचने प्रणवो न भवति। यज्जरित्रे यज्जरित्रों३ ऐरयेथामैरयेथो३म्’ इत्येवमाद्युदाहरणम्।

विश्वास-प्रस्तुतिः

द्वितीयादिषु त्यमूषु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम्।

मूलम्

द्वितीयादिषु त्यमूषु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम्।

टीका

द्वितीयादिष्वहःस्वेतत्तायमानरूपं भवति। निष्केवल्यसूक्तानामग्रे ’ त्यमूषु वाजिनंदेवजूतम् ’ इति सूक्तं तार्क्ष्यशब्दवत्त्वादेवतत्सूक्तं तार्क्ष्यमित्युच्यते। तार्क्ष्यवचनात्पादग्रहणेऽपि सूक्तमेवेदं भवति पादग्रहणं तु सूक्तमपीदं तत्सूक्तग्रहणेन33न गृह्यत इत्येवमर्थम्।अत्र समुच्चयार्थस्य चशब्दस्याभावादिदं निविद्धानीयं न भवति।

विश्वास-प्रस्तुतिः

जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम्।

मूलम्

जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम्।

टीका

द्वितीयादिष्वित्यनुवर्तते, अग्रे सूक्तानामिति च। आग्निमारुतमिति वचनमाज्यनिवृत्यर्थम्। तत्रापि जातवेदस्य निवित्संबन्धिसूक्तसंभवाज्जातवेदस्यानामिति बहुवचनं जात्यभिप्रायम्। इदमपि तायमानरूपम्।

विश्वास-प्रस्तुतिः

आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव।

मूलम्

आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव।

टीका

आरम्भणीयाः ‘ऋजुनीती नः’ इत्याद्याः प्रातःसवने। माध्यंदिने च ‘अपप्राच इत्याद्याः। पर्यासाः ‘प्रति वां सूर’ इत्याद्याः। ‘कस्तमिन्द्र त्वा वसुम्’ इत्यादयः कद्वन्तः प्रगाथाः। अहरहःशस्यानि ‘सद्यो ह जात उदु ब्रह्माण्यभितष्टे व ’ इत्येतानि। एतेषामारम्भणीयादीनां चतुर्विंशेऽहनि शंसनमुक्तं, स्थानं च संज्ञा च। अत्रैतेषां द्वितीयादिष्वहःसु प्रवृत्तिरुच्यते तायमान रूपसंज्ञा च। एतान्यारम्भणीयादीनि होत्रकशस्त्रसंबन्धितयैव चतुर्विंशेऽहनि विहितानि तत्रकिमिति होत्रकसंबन्धः पुनर्विधीयते। उच्यते – नात्र होत्रकसंबन्धः पुनर्विधातुमिष्टः।कस्तर्हि विधीयते। एषां द्वितीयादिष्वहःसु प्रवृत्तिरेव, होत्रकबंसन्धस्त्वनूद्यते पर्यासविशेषाणार्थम्। तत्र द्विविधाः पर्यासा दृश्यन्ते, केचिद्रात्रिपर्यायेषु केचिच्चतुर्विशे। तत्र येरात्रिपर्यायेषूक्तास्ते होत्राहोत्रकैश्च संबद्धाः, ये चतुर्विंशे ते होत्रकैरेव संबद्धाः। आरम्भणीयादयश्च होत्रकैरेव संबद्धाः। तेनायमर्थः — यान्यारम्भणीयादीनि हेत्रकाः शंसेयुरितिविधात्यति34 तानि द्वितीयादिष्वहःसु शंसेयुरित्यर्थः। द्वितीयादिष्विति35 वर्तमाने पुनर्द्वितीयादिवचनं36 ‘तानि सर्वाणि सर्वत्रान्यत्राह्न उत्तमात्’ इत्यत्र सर्वाणि सर्वत्रेतिवचनं37 यद्यदहर्विशेषेण संयुज्य विहितं तदुत्तममहर्वर्जयित्वाऽन्यत्र सर्वत्र प्राप्नुयादधिकारमनपेक्ष्य, अतस्तन्निवृत्त्यर्थं द्वितीयादिवचनम्।

विश्वास-प्रस्तुतिः

तानि सर्वाणि सर्वत्रान्यत्राह्न उत्तमात्।

मूलम्

तानि सर्वाणि सर्वत्रान्यत्राह्न उत्तमात्।

टीका

यान्येतान्यभ्यासादीन्यहरहःशस्यान्तानि तायमानरूपाण्युक्तानि तान्युत्तमादह्नोऽन्यत्रकर्तव्यानि न तान्युत्तमेऽहनि कर्तव्यानीत्यर्थः। सोऽयमत्रैकोऽर्थः। अपरस्तु तानि सर्वाणि सर्वत्रेति। अयमभिप्रायः–केषुचिदेकाहेषु त्रिवृतो हीनस्तोमेषु तृचा एवं सूक्तस्थानेषु विहितास्तान्येकाहानि कदाचिदहर्गणं प्राप्नुवन्ति। तत्राहरहःशस्यानामपि तृचत्वं प्राप्नोति तन्निवृत्यर्थमिदं वचनम्। एतदुक्तं भवति — तानि सर्वत्र हीनस्तोमेऽपि सर्वाणि भवेयुः।सर्वाणि कृत्स्नानि, अनवखण्डितानीत्यर्थः। तेन हीनस्तोमेऽप्यहरहःशस्यानामनवखण्डन38महरहः शंसनं साधितं भवति। प्रकृतेष्वप्येतेषु तानीतिवचनमत्र वाक्यार्थद्वयमस्तीतिसूचनार्थम्।

विश्वास-प्रस्तुतिः

वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते।

मूलम्

वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते।

टीका

तायमानरूपाणि प्रकृतानि39 कानिचित्प्रथममहरारभ्य चोत्तममहर्वर्जयित्वा सर्वेष्वहःसुभवन्तीति तान्येव कानिचिद्द्वितीयादिषु तद्वर्जेवित्युक्तम्। तत्राहर्गणेषु प्रकृतिभूतोऽग्निष्टोमः क्वचिद्वचना40त्प्रवर्तते, स चोपदेश41निरपेक्षःशस्यं प्रतीत्युक्तम्। तस्मिन्नहर्गणमध्यगतेऽग्निष्टोमेऽहर्गणान्तर्भावनिमित्तं यच्छस्यजातं तस्य प्राप्तावग्निष्टोमस्वरूपविरोधात्तन्न कर्तव्यमिति कश्चित्प्रतिभासः। उपदेशावग*तसकलधर्मस्याप्यन्यत्र प्राप्तस्याहर्गणान्तर्भावाद42ानियततज्जैर्धमैः संबध्यमानस्य नातीवस्वरूपविरोध इत्यपि कश्चित्प्रतिभासः। अनयोः प्रतिभासयोः कः श्रेयानिति निर्णेतुमशक्यमित्यभिप्रायेण वैकल्पिकानीत्युक्तवानाचार्यः। दुर्विज्ञेयत्वादस्य न्यायस्येत्यभिप्रायः। आदिमध्यगतयोरप्यस्य वैकल्पिकत्वस्य विशेषाभावान्मध्यगतशब्दः प्रदर्शनार्थः।

————————————————————————————————————
* क – बहुव्रीहिः।
————————————————————————————————

विश्वास-प्रस्तुतिः

अग्निष्टोमायनेषु वा।

मूलम्

अग्निष्टोमायनेषु वा।

टीका

वाशब्दः समुच्चयार्थः। अग्निष्टोमायनेषु चैवंनिर्णया43भावादनुष्ठानविकल्प एवेत्यर्थः। अग्निष्टोमैरेव येषु सत्रेष्वयनं गमनं भवति तान्यग्निष्टोमायनानि येषु44 सर्वाण्यहानि, अग्निष्टोमा एव तेषु सर्वेण्वित्यर्थः।

विश्वास-प्रस्तुतिः

अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुणभावात्।

मूलम्

अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुणभावात्।

टीका

यस्मिन्विषये45 प्राकृतानां पदार्थानां करणाकरणयोर्निर्णयाभावादव्यवस्थोक्ता तत्र तेषांमध्ये द्वयोः पदार्थयोरसाधारणेन हेतुना व्यवस्थोच्यते। अभ्यासातिप्रैषौकर्तव्यावेव46।विकृताविति सत्रान्तर्भावाद्विकृति47भावमापन्नेऽग्निष्टोम इत्यर्थः। कुतः। तद्गुणभावात्।तस्य गुणस्तद्गुणः। तदिति गणान्तर्गतोऽग्निष्टोम इत्युच्यते। गुणशब्देनोपकारकमङ्गमुच्यते। तद्गुणस्य भावस्तद्गुणभावः। तद्गुणभावात्तदुपकारकत्वादित्यर्थः। तथा48 हि —अभ्यासातिप्रैषौ तस्योपकारकौ। यस्मादु49त्तराहःसंतानमामन्त्रणं च ताभ्यां क्रियते तस्मात्तौनियमेन कर्तव्यौ। इतरथ50ा तस्याह्नःसत्रापन्नस्य वैगुण्यं स्यादिति। अत एव ताभ्यामन्यान्येव वैकल्पिकानीति कौत्स आहेत्यर्थः।

विश्वास-प्रस्तुतिः

नित्यानि होतुरिति गौतमः संघातादावनुप्रवृत्तत्वादच्युतशब्दत्वाच्च।

मूलम्

नित्यानि होतुरिति गौतमः संघातादावनुप्रवृत्तत्वादच्युतशब्दत्वाच्च।

टीका

एवं कौत्सेन द्वयोनिंध्यत्व उक्ते गौतमस्तार्क्ष्याभ्यासजातवेदस्यानां नित्यत्वमाह।होतुरिति। होतृग्रहणं पदार्थत्रयोपलक्षणार्थं न तत्कर्तव्यतयाऽत्र कश्चिद्विशेष इति।उक्तेन प्रकारेणाभ्यासातिप्रैषयोरसाधारण्यं गृह्णीमः। कर्तव्यतायामिदमध्यभ्यासे कारणमस्ति, संघ तादावनुप्रवृत्तत्वादिति। आद्यमेवाहरारम्य प्रवृत्तत्वादित्यर्थः। नानाकर्मसमुदा,यत्वात्सत्रस्य परस्परसंतानापेक्षत्वात्समुदायिनामभ्यासस्य चाहःसंतान प्रयोजकत्वादाद्यमेवाहरारभ्य प्रवर्तते। तदन्तर्भूतस्याग्निष्टोमस्यापि तत्प्रयोजनापेक्षा तुल्येति51। एवमय52मस्मिन्नर्थे हेतुः। तार्क्ष्यजातवेदस्ययोरच्युतशब्दत्वं हेतुः।

विश्वास-प्रस्तुतिः

होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य।

मूलम्

होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य।

टीका

अभ्यासादीनां चतुर्णी नित्यत्वमुक्तमिदानीमारम्मणी यादीनामपि नित्यत्वमुच्यते। होत्रकग्रहणमपि पूर्ववदेव पदार्थचतुष्टयोपलक्षणार्थम्। एतान्यपि नित्यं कर्तव्यानि। सत्रधर्मान्वयस्य नित्यत्वात्, सत्रेण सर्व53धर्माणां समन्वयस्य नित्यत्वात्। अयमभिप्रायः—एषा54 सत्राहःसंबन्धितया विधानमस्ति, क्वचिदपि निषेधो नास्ति, किमित्यग्निष्टोमेऽन्यस्मिन्वा न क्रियेरन्निति। एवमेषां करणे55ऽनध्य*वसायोपक्रमेणाध्यवसानमेवोपसंहृतवानाचार्यः। अन्यत्र सिद्धस्य स्वरूपस्यान्यत्रातिदेशेन प्राप्तस्य विकृत्युपदेशानुसारेण स्वरूपविपर्यये न कश्चिद्दोष इति साधयितुमिति।

विश्वास-प्रस्तुतिः

प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत्॥ १॥

मूलम्

प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत्॥ १॥

टीका

एतेषामागम ऐकाहिकं प्रकृतिप्राप्तं तावन्मात्रमेवोद्धरेन्न सर्वमित्यर्थः। त्रीणि त्रिवृन्त्यहान्यतिरात्र इत्यस्मिन्नतिरात्र ऐकाहिकमेव शस्यं प्राप्तं तत्र कद्वत्प्रगाथागमे नित्यानांप्रगाथानामेवोद्धारः। तथा तत्रैव प्रातःसवने पर्यास56तृचागमेऽन्त्यानां तृचानामेवोद्धारः। तत्रैव माध्यंदिनेऽहरहःशस्यसूक्तागमे तथैकाहिकस्य सूक्तस्यैवोद्धारः। तावदितिवचनादहरहःशस्यागमेऽप्येकस्यैव सूक्तस्योद्धारो न द्वितीयस्यापि। ऐकाहिकवचनं व्युत्क्रमस्थितस्याप्यैकाहिकस्यान्यागम उद्धारसिद्धयर्थम्। यथा संसदामयनगते57ऽनिरुक्त एकाहेमैत्रावरुणस्य शस्त्रे सूक्तानां पुरस्तान्निविशमानमप्यहरहःशस्यमन्त्यमप्यैकाहिकमेव बाधते।एवमन्यदप्येवंजातीयकमुदाहरणं द्रष्टव्यम्। एषां प्रगाथादीनामागन्तूनामैकाहिकैः प्रगाथादिभिः कार्यैक्यानवगमान्नात्र समानजाति58परिभाषा प्रवर्तत इति परिभाषान्तरमारब्धम्॥१॥

विश्वास-प्रस्तुतिः

चतुर्विंशे होताऽजनिष्टेत्याज्यम्।

मूलम्

चतुर्विंशे होताऽजनिष्टेत्याज्यम्।

टीका

सत्राणामित्यनुवर्तते। सत्रेषु प्रथममहः प्रायणीयं नाम तच्च ज्योतिष्टोमातिरात्रः सचोक्तः। इदानीं द्वितीयमहश्चतुर्विंशसंज्ञकमुच्यते। अत्र सर्वेष्वहःस्वेतेनाह्नासुत्यानीतिदीक्षणीयादिरुदवसानीयान्तो निर्दिष्टः। तत्र वचनान्न्यायाद्वा यदपोद्यते तद्वर्जमन्यत्सर्वंतदेव कर्तव्यम्। अतस्तदेव शरीरमाश्रित्याहन्यहनितस्यैव यावान्विशेषः स उच्यते।यन्नोच्यते तदैकाहिकमेवेति। अथास्मिंश्चतुर्विंशेऽहन्येतदाज्यं भवति।

विश्वास-प्रस्तुतिः

आ नो मित्रावरुणा मित्र वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षलहस्तोत्रिया मैत्रावरुणस्य।

मूलम्

आ नो मित्रावरुणा मित्र वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षलहस्तोत्रिया मैत्रावरुणस्य।

टीका

षलहस्तोत्रिया इत्येतेषां संज्ञा। षलहशब्देन पृष्ठ्याभिप्लवावुच्येते। तयोरिमे

————————————————————————————————————
* क. – संशयः।
———————————————————————————————————

स्तोत्रिया इति पलहस्तोत्रियाः। एतत्तु प्रवृत्तिनिमित्तमात्रमुक्तम्। संज्ञैव केवलमत्रविवक्ष्यते संव्यवहारार्थम्। स्तोत्रियशव्दवाच्यत्वात्तृचत्वमेषां भवति। एते मैत्रावरुणस्य।

विश्वास-प्रस्तुतिः

आयाहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहदिन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचोअस्थभिरुत्तिष्ठन्नोजसा सह भिन्धि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः।

मूलम्

आयाहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहदिन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचोअस्थभिरुत्तिष्ठन्नोजसा सह भिन्धि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः।

टीका

तृतीयः स्तोत्रियः समाहार्यः, एकया द्वाभ्यां च। षलहस्तोत्रिया इत्यनुवर्तते।

विश्वास-प्रस्तुतिः

इन्द्राग्नीआगतं स्तुतमिन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्राग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य।

मूलम्

इन्द्राग्नीआगतं स्तुतमिन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्राग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य।

टीका

अत्रापि पूर्ववत्।

विश्वास-प्रस्तुतिः

तेषां यस्मिन्स्तुवीरन्स स्तोत्रियः।

मूलम्

तेषां यस्मिन्स्तुवीरन्स स्तोत्रियः।

टीका

तेषामिति होत्रकाः शस्त्रिण उच्यन्ते। यस्मिन्निति। षलहस्तोत्रियाणां मध्ये यस्मिन्निति गम्यते। एतदुक्तं भवति अनेन प्रकारेण चतुर्विंश उत्पन्नानां पलहस्तोत्रियाणां मध्येयस्मिंस्तृचे स्तुवीरंश्छोन्दोगा अन्यस्मिन्वा कस्मिंश्चित्स तेषां होत्रकाणां स्तोत्रियो भवतिस्तोत्रियधर्मैः संबध्यत इत्यर्थः। तेनेतरेऽपि तृचा एव स्तोत्रियधर्म59सहिता होत्रकाणांभवन्तीति गम्यते। अनेन प्रकारेण चतुर्विंश उत्पन्नानां पलहस्तोत्रियाणां सत्राधिकारात्सत्रसंबन्धिहोत्रकोद्देशेन विधानात्सर्वाहःसु प्राप्तिः साधिता भवति। एवं व्याख्यायमान60एतत्सूत्रमर्थकद्भवति। इतरथा तेषामिति होत्रकसंग्रहार्थंपलहस्तोत्रियसंग्रहार्थं च नवक्तव्यं प्रकृतत्वादस्मिन्नहानि। तथा यस्मिन्स्तुवीरन्स स्तोत्रिय इत्यपि न वक्तव्यम्।अनुच्यमानेऽपि स एव स्तोत्रियो भवति च्छन्दोगप्रत्ययत्वात्तस्येति। अतस्तदप्यत्र नविधेयम्61। अतः षलहस्तोत्रियेभ्योऽन्यस्मिन्नपि यदि स्तुयुश्चतुर्विंशेऽपि स एव स्तोत्रियःकर्तव्यः। एवमेतेषां सर्वार्थत्वप्रतिपादनपरमेवेदं सूत्रं व्याख्येयं नान्यथेति सिद्धम्।

एवं सर्वेष्वहःसु प्रातःसवने स्तोत्रियज्ञानोपाय उक्तः, अनुरूपज्ञानोपायं दर्शयितुमाह-

विश्वास-प्रस्तुतिः

यस्मिञ्च्छ्वःसोऽनुरूपः।

मूलम्

यस्मिञ्च्छ्वःसोऽनुरूपः।

टीका

यस्मिंस्तृचे श्वः स्तुयुः सोऽनुरूपः कर्तव्यः। एवं सर्वेप्वहःसु द्रष्टव्यम्। अत्रापिसत्राणामित्यनुवर्तते। तेन सत्रसंबन्धिषु सर्वेष्वहःसु प्रायणीयेऽपि श्वःस्तोत्रिय एवानुरूपो भवति नान्यः प्राकृतो लाक्षणिको वा।

विश्वास-प्रस्तुतिः

एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत्सर्वोऽहर्गणः षलहो वा।

मूलम्

एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत्सर्वोऽहर्गणः षलहो वा।

टीका

श्वःस्तोत्रियोऽनुरूप इत्युक्तम्। यदा पुनरेकस्तोत्रियाण्यनेकान्यहानि तदायावन्त्येकस्तोत्रियाणि तावद्भ्योऽनन्तरं यदहर्भिन्नस्तोत्रियं तस्मिन्यः स्तोत्रियः स62 सर्वेष्वेकस्तोत्रियेष्वनुरूपो भवति। अन्योऽनन्तर इत्युभयविशेषणमेकस्तोत्रियेभ्योऽनन्तरमेव यदा पुनर63न्यस्तोत्रियं64 तस्यैत्र यः स्तोत्रियः स पूर्वेष्वेकस्तोत्रियेष्वनुरूपो भवतीत्येवमर्थम्65। एतदेकस्तोत्रियत्वं होत्रकसंबन्धितयैव ग्रहीतव्यम्। तेषां चैकस्य द्वयोः सर्वेषां वा यावन्मात्रमेकस्तोत्रियत्वं भवति तावन्मात्रमेवायं विधिः प्रवर्तते। अन्यस्य श्वःस्तोत्रिय एव। एवमयंविधिः प्रवर्तते। यदि सर्वोऽहर्गण एकस्तोत्रियो न भवेत्ष66लहो67 वा पृष्ठ्याभिप्लवाख्यस्तत्रयदा सर्वोऽहर्गण एकस्तोत्रियस्तदाऽन्यस्यानन्तरस्याभावादयं विधिर्न भवति। षलयोरेकस्तोत्रियत्वे पर्युदासादेवायं विधिर्न68भवति।

विश्वास-प्रस्तुतिः

ऐकाहिकस्तथा सति।

मूलम्

ऐकाहिकस्तथा सति।

टीका

यदा सर्वोऽहर्गण एकस्तोत्रियः पृष्ठ्योऽभिप्लत्रो वा पलहस्तेदैकाहिक एव वाऽनुरूपोभवति नानन्तरः। अहर्गणस्य सर्वस्यैकस्तोत्रियत्वेऽन्यस्यानन्तरस्याभावादेवानन्तरो नभवति69। एतत्किमिति। न चेत्सर्वोऽहर्गण इति तत्पर्युदासः कृतः। तस्येदं प्रयोजनमैकाहिकानुरूपविधेस्तस्यापि विषयत्वसिध्द्यर्थम्। अथ कस्मिंश्चिद्विषय एवं भवति। कानिचित्राणि चत्वारि वाऽहान्येकस्तोत्रियाणि तदनन्तरं पृष्ठ्योऽभिप्लवो वा पलहः पूर्वैः सहैकस्तोत्रियस्तदनन्तरं च द्वित्रीण्यहान्येकस्तोत्रियाणि ततो भिन्नस्तोत्रियः। तत्र कथं भवति। तत्रैवं भवति। पलहादुत्तरेष्वन70न्तर एव भवति। षलह ऐकाहिक एव भवति। एवं चसति पलहात्पूर्वेष्वप्यैकाहिक एव भवति नानन्तरः। षलहव्यवधानादित्येवमर्थं तदेतिवक्तव्ये तथा सतीत्युक्तम्।

विश्वास-प्रस्तुतिः

अन्त्ये च।

मूलम्

अन्त्ये च।

टीका

अन्त्ये चाहनि पूर्वयोर्विध्योः प्रवृत्त्यसंभवादैकाहिक एव भवति। एवं सत्यतिदेशादेवायमर्थः सिध्यति - अपवादश्च नास्ति किमत्र वचनेनेति। अयमभिप्रायः— वचनादेवसर्वत्रानुरूपो भवतिनातिदेशेनेति ज्ञापनार्थं तत्प्रकटनार्थमनुरूपाधिकारे द्वितीयमनुरूपग्रहणंकृतम्। अतः स्तोत्रियस्तावच्छन्दोगप्रत्यय एव। सर्वत्रास्मद्वचनं प्राथिकमेव। यत्पुनरनुरूपलक्षणविधानं तस्योत्तरे सवनेऽवकाशस्तस्यैवायमपवादः, प्रातःसवने स्तोत्रियानुरूपाभ्यामन्यदेवातिदेशेन प्राप्नोती71त्यनुरूपविधिप्रकटनार्थमारब्धम्।

विश्वास-प्रस्तुतिः

ऊर्ध्वमनुरूपेभ्य ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि यत्सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्स्वान्परिशिष्टानावपेरंश्चतुर्विंशमहावताभिजिद्विश्वजिद्विषुवत्सु।

मूलम्

ऊर्ध्वमनुरूपेभ्य ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि यत्सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्स्वान्परिशिष्टानावपेरंश्चतुर्विंशमहावताभिजिद्विश्वजिद्विषुवत्सु।

टीका

ऋजुनीतीत्याद्या आरम्भणीयसंज्ञास्ता अनुरूपेभ्य ऊर्ध्वमेकैकामेकैकः शंसेत्। पाठादेवोर्ध्वमनुरूपेभ्यः शंसने सिद्धेऽनुरूपेभ्य इतिवचनं नियमार्थम्, अनुरूपेभ्य ऊर्ध्वमेताएव शंसेयुर्नैकाहिकमिति। एताः शस्त्वास्वान्स्वा72न्स्तोत्रियत्वेन परिशिष्टानावेपरन्।परिशिष्टा नाम पलहस्तोत्रियेषु स्तोत्रियत्वेनानुरूपत्वेन वा गृहीताः73। शिष्टाञ्शस्त्वेतिवचनमस्मिन्नपि क्रम ऐकाहिकनिवृत्त्यर्थम्। स्वान्स्वानितिवचनं छन्दोगवशात्षलहस्तोत्रियेभ्यो व्यतिरिक्ता एव स्तोत्रियानुरूपाश्च यदि भवेयुस्तदा परिशिष्टत्वं नास्तीतिनोच्यन्ते तदाऽप्यावापसिद्ध्यर्थम्। तेन परिशिष्टान्सर्वान्स्वान्षलहस्तोत्रियानावपेयुरित्यर्थः74।अयमावापश्चतुर्विंशादिपञ्चस्वहःसु कर्तव्यः। प्रकृतत्वेऽपि चतुर्विंशग्रहणं परिसंख्याशङ्कानिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

सर्वस्तोभसर्वपृष्ठेषु च।

मूलम्

सर्वस्तोभसर्वपृष्ठेषु च।

टीका

** **सर्वस्तोमो नाम यस्मिन्क्रतौ त्रिवृदादयस्त्रयस्त्रिंशपर्यन्ताः पलहस्तोमा भवन्ति। स्थंतरादीनिरैवतपर्यन्तानि षट् सामानि यस्मिन्भवन्ति स सर्वपृष्ठ इत्युच्यते। सर्वस्तोमसर्वपृष्ठेषु चायमावापः कर्तव्यः। अभिजितःसर्वस्तोमत्वाद्विश्वजितः सर्वपृष्ठत्वादेवाऽऽवापे सिद्धे पूर्वसूत्रेतयोर्ग्रहणमसर्वस्तोमासर्वपृष्ठयोरपि प्रापणार्थम्।

विश्वास-प्रस्तुतिः

ऊर्ध्वमावापात्प्रति वां सूर उदिते व्यन्तरिक्षमतिरच्छ्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः।

मूलम्

ऊर्ध्वमावापात्प्रति वां सूर उदिते व्यन्तरिक्षमतिरच्छ्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः।

टीका

ऊर्ध्वमावापादिति वचनं पूर्ववदैकाहिकशस्यनिवृत्त्यर्थम्। आवापादूर्ध्वं पर्यासास्तृचाःशंस्तव्याः। ‘प्रति वां सूरः’ इत्याद्याः पर्याससंज्ञका भवन्ति। अन्वर्थसंज्ञेयं पर्यासशब्दस्यान्तवाचित्वात्। तेनैवमन्तं शस्त्रं भवति अत ऐकाहिकस्य क्वचिदपि प्रवृत्तिर्नास्तीति सिद्धम्। समानजातीयत्वादेभिः शस्त्रैरैकाहिकानि शस्त्राणि निवर्तन्ते। ऊर्ध्वमेभ्य इति वक्तव्य ऊर्ध्वमावापादितिवचनमिदमावापस्थानमिति ज्ञापनार्थम्। तेनान्यदप्यावप्तव्यमस्मिन्नेव स्थान आवतव्यमिति सिद्धम्।

विश्वास-प्रस्तुतिः

स त्वेवमैत्रावरुणस्य षलहस्तोत्रिय उत्तमः सपर्यासः।

मूलम्

स त्वेवमैत्रावरुणस्य षलहस्तोत्रिय उत्तमः सपर्यासः।

टीका

उत्तरविवक्षार्थोऽयमनुवादः प्राप्तिभेदप्रदर्शनार्थश्च। तेनासति प्राप्तिभेदे वक्ष्यमाणोविधिर्न भवति यथा ‘ईलेद्यावीयमावर्तयेत्’ इत्येवमादौ।

विश्वास-प्रस्तुतिः

तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत।

मूलम्

तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत।

टीका

पूर्वस्येत्युत्त75मस्य पलहस्तोत्रियस्येत्यर्थः। तदैवतं मित्रावरुणदैवतम्। ‘अन्यं तृचंकुर्वीत गायत्रं प्रातःसवनम्76’ इतिश्रुतेः। गायत्रश्च स भवति। आग्नेयं प्रातःसवनमित्यस्यापवादो मैत्रावरुणं शंसेदिति77। एवं मैत्रावरुणं78 चेत्येव सिद्धे यत्तदैवतग्रहणंकरोति79 तज्ज्ञापयति देवतैवात्राऽऽदरणीया नान्यानि80 च्छन्दःप्रमाणलिङ्कादीनीति। स चान्यस्तृचो ‘यदद्य सूर’ इत्ययं संभवति। यदा पुनस्तानस्तित्यनुरूपः क्रियते तदाकाव्येभिरदाभ्येत्ययं तृचः कर्तव्यो ‘नः यदद्य सूरः’ इति।

विश्वास-प्रस्तुतिः

अन्यत्रापि संनिपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विः शंसेत्।

मूलम्

अन्यत्रापि संनिपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विः शंसेत्।

टीका

न केवलं षलहस्तोत्रियपर्याससंनिपात एवायं विधिर्भवति किंतर्ह्यन्यत्रापि सर्वस्यतृचस्य सूक्तस्य वा विधिद्वयेन प्राप्तस्य संनिपातेन द्विःशंसने81 प्राप्तेऽव्यवायेनैकासने82 द्विःशसनं प्रतिषिध्यते। तृचसूक्तग्रहणमेकस्य द्वयोर्वा नायं विधिः स्यादित्येवमर्थम्। अनन्तर्हितवचनाद्यवधानेने83 द्विःशंसनं न प्रतिषिध्यते। एकासन इत्यविवक्षितम्। एकासनंभिन्नासनं वाऽस्तु, अनन्तर्हितं न द्विः शंसेदित्यत्र तात्पर्यं न त्वन्यत्र तृचसूक्तयोः संनिपाते पूर्वस्य स्थानेऽन्यत्तद्दैवतं कर्तव्यमित्ययमेवार्थः प्रकरणाद्विधेतयाऽवगम्यते। द्विःशंसनप्रतिषेधस्त्वार्थिकत्वेनापि व्याख्यातुं शक्यते कथमत्र द्विःशंसनप्रतिषेधे तात्पर्योक्तिर्भवति।अत्रोच्यते – यद्यत्र पूर्वस्य तद्दैवतविधिरभिप्रेतः स्यादन्यत्रापि संनिपाते तृचसूक्तयोरनन्तर्हितयोरित्येव सूत्रं प्रणेतव्यं स्यात्। तत्तथा न प्रणीतम्। अतो द्विःशंसनप्रतिषेध एवात्रतात्पर्येण विधीयते। तेन78 न प्रकरणप्राप्तं तद्दैवतविधानं नियतमिति गम्यते। क्चाचित्पूर्वस्य स्थाने भवति क्वचिदुत्तरस्य स्थाने, क्वचिदेकस्य लोपः पूर्वस्य वोत्तरस्य वेतिप्राप्तिप्रमाणबलाबलचिन्तया योजनीयम्।

विश्वास-प्रस्तुतिः

महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन्गायत्रीकारम्।

मूलम्

महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन्गायत्रीकारम्।

टीका

प्रातःसवनिकहोत्र84कशस्त्रप्रसङ्गादिदमुच्यते। यस्मिन्क्रतौ तृतीयसवने मैत्रावरुणो महावालभिदं शंसेत्तस्मिन्प्रातः सवने होत्रकाः स्वे स्वे शस्त्र ऊर्ध्वमनुरूपेभ्य आरम्भणीयाभ्योवा नाभाकांस्तृचानावपेरन्। गायत्रीकारं शंसेयुः। ताः षट्पदा जगत्यः। द्वे द्वे गायत्र्यौकृत्वा शंसेयुरित्यर्थः। नाभाका इत्यृषि85नाम्ना व्यपदेशः स्तोमातिशंसने तासां षट्पदानामेवग्रहणं86 न त्रिपदानामिति।

विश्वास-प्रस्तुतिः

सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः॥ २॥

मूलम्

सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः॥ २॥

टीका

मैत्रावरुणस्य प्रतीकविकल्पः॥ २॥

विश्वास-प्रस्तुतिः

मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्यावावपते पूर्वौनित्यात्।

मूलम्

मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्यावावपते पूर्वौनित्यात्।

टीका

मरुत्वतीय इत्यधिकारार्थः। चतुर्विंशे यन्मरुत्वतीयं शस्त्रं भवति तस्मिन्नित्याद्ब्राह्मणस्पस्यात्पूर्वावेतौ ब्राह्मणस्पत्यौ भवतः। ब्राह्मणस्पत्यवचनादेतयोरपि प्रगाथत्वं गम्यते।आवपतिग्रहणं प्राकृतस्यावाधनार्थम्। सर्वत्र चाऽऽवपतिग्रहणस्येदमेव प्रयोजनम्।

विश्वास-प्रस्तुतिः

बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्।

मूलम्

बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्।

टीका

आवपत इत्यनुवर्तते।

विश्वास-प्रस्तुतिः

कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत्।

मूलम्

कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत्।

टीका

‘कया शुभा’ इति च सूक्तं मरुत्वतीये ‘जनिष्ठा उग्रः’ इत्यस्मात्पुरस्ताच्छंसेत्।चशब्दो निविद्धानीयत्वसमुच्चयार्थः। तेन तार्क्ष्यमनिविद्धानीयं भवति तत्र समुच्चयार्थस्य चशब्दस्याभावात्। मरुत्वतीयाधिकारे पुनर्मरुत्वतीयग्रहणं ’ ध्रुव इन्द्रनिहवः’ इत्यस्मिन्सूत्रे विशेषसिध्द्यर्थम्।

विश्वास-प्रस्तुतिः

एवं स्थितान्प्रगाथान्पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्तयेयुः।

मूलम्

एवं स्थितान्प्रगाथान्पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्तयेयुः।

टीका

यथा चतुर्विंश एते प्रगाथाः स्थिता एवमेव87 स्थितानेतान्प्रगाथान्पृष्ठ्याभिप्लवयोः षलहथोरहन्यहन्यावर्तयेयुरित्यर्थः। आवर्तयेयुरितिबहुवचनमविवक्षितम्। एवंस्थितवचनमेषांषण्णामेवंक्रमिकाणामेव प्रवृत्त्यर्थम्। इतरथैकाहिकयारेत्र विधानाभावात्तयोः प्रवृत्तिर्नस्यात्। प्रवृत्तौ च चतुर्विंशो88क्तः क्रमो न लभ्येत। तेनोभयसिध्द्यर्थमेवंस्थितवचनम्।अन्वहवचनमस्य विधेः षलहावयवभूताहर्धर्मत्वसूचनार्थम्। तेन वैश्वदेव्यास्थाने प्रथमंपृष्ठ्याहरित्यादौ षलहावयवभूतान्यतिदिष्टेऽप्ययं विधिर्भवति। पुनः पुनरितिवचनं द्वयोःषलहयोस्त्रिष्वहःसु प्रगाथपर्याये समाप्ते पुनः क्रियायां प्रमाणं नास्तीति पुनः पुनरितिवीप्सावचनं पृष्ठ्येचाभिप्लवे च पुनःक्रिया89सिध्द्यर्थम्।

विश्वास-प्रस्तुतिः

एकैकं ब्राह्मणस्पत्यानाम्।

मूलम्

एकैकं ब्राह्मणस्पत्यानाम्।

टीका

एते प्रगाथाः पलहयोरहन्यहनि कर्तव्या इत्युक्तम्। तत्र प्रत्यहं सर्वेषु प्राप्तेष्वेकैकोनियभ्यते। षलयोरेकैकस्मिन्नहनि ब्राह्मणस्पत्यानामेकैक एव कर्तव्यः।

विश्वास-प्रस्तुतिः

एवं मरुत्वतीयानाम्।

मूलम्

एवं मरुत्वतीयानाम्।

टीका

एवं मरुत्वतीयानामप्येकैकमेव कुर्यात्।

विश्वास-प्रस्तुतिः

ध्रुव इन्द्रनिहवः।

मूलम्

ध्रुव इन्द्रनिहवः।

टीका

द्वितीयं मरुत्वतीयग्रहणमत्र संबध्यते। तेनायमर्थः – मरुत्वतीये शस्त्र इन्द्रनिहवप्रगाथो ध्रुवो भवति। ध्रुवशब्देन चात्र प्राप्तितः प्रयोगतश्चाविचालित्वमुच्यते न संज्ञामात्रम्। मरुत्वतीयग्रहणमुत्तरस्य सूत्रस्य सर्वार्थत्वाय। तेन सर्वेषु शस्त्रेषु धाय्या ध्रुवा भवन्ति।इतरथा मरुत्वतीयाधिकाराद्वाय्या अपि मरुत्वतीय एव ध्रुवाः स्युर्नान्येषु शस्त्रेषु।अतो द्वितीयं मरुत्वतीयग्रहणमेतदर्थं कृतम्।

विश्वास-प्रस्तुतिः

धाय्याश्च।

मूलम्

धाय्याश्च।

टीका

गतार्थमेतत्, नेवं ध्रुवत्वमत्र विधीयते। प्राप्तितः प्रयोगतश्चाविचालित्वमात्रमत्रानूद्यते।तेनेन्द्र90निहवधाय्याप्रकारमन्यदप्य91ब्दैवतदेवपत्नीद्वृचाद्यविचालियुवशब्देन गृह्यते। तेनाग्निष्टुति विचालिशब्देनैवंप्रकारादन्यदेव ग्रहीतव्यम्।

मरुत्वतीयमुक्त्वा निष्केवल्यं वक्तुमाह —

विश्वास-प्रस्तुतिः

बृहत्पृष्ठम्।

मूलम्

बृहत्पृष्ठम्।

टीका

चतुर्विंशेऽहनि भवतीति शेषः।

विश्वास-प्रस्तुतिः

रथंतरं वा।

मूलम्

रथंतरं वा।

टीका

छन्दोगप्रत्ययसिद्धस्य वचनमुत्तरविवक्षार्थम्।

विश्वास-प्रस्तुतिः

तयोरक्रियमाणस्य योनिं शंसेत्।

मूलम्

तयोरक्रियमाणस्य योनिं शंसेत्।

टीका

तयोर्बृहद्रथंतरयोर्यत्पृष्ठस्थाने न क्रियते बृहद्रथंतरं वा तस्य योनिं शंसेत्। बृहतोयोनिः ‘त्वामिद्धिहवामहे’ इति द्वृचः। रथंतरस्य योनिः ‘अभि त्वा शूर नोनुमः’इति द्वृच एव।

विश्वास-प्रस्तुतिः

वैरूपवैराजशाक्वररैवतानां च।

मूलम्

वैरूपवैराजशाक्वररैवतानां च।

टीका

अक्रियमाणस्येत्यनुवर्तते। अस्मिन्नहनि निष्केवल्यएषामपि योनीः शंसेत्। अक्रियमाणस्येत्यनुवृत्तिसामर्थ्याच्चतुर्विंशातिदिष्टविश्वजिदतिदेशादप्तोर्यामे वैराजस्य पृष्ठस्थाने क्रियमाणस्य योनिशंसनं92 न भवतीति गम्यते। चतुर्विंश93वचनसामर्थ्यादसत्यपि94 स्वयोनिभावएषां योनिशंसनं कर्तव्यम्।

वैरूपादीनां योनीर्दर्शयितुमाह-

विश्वास-प्रस्तुतिः

पृष्ठ्यस्तोत्रिया योन्यः।

मूलम्

पृष्ठ्यस्तोत्रिया योन्यः।

टीका

** **पृष्ठ्ये षलहे तृतीयादिष्वहःसु निष्फेवल्येषु स्तोत्रिया विहितास्ता वैरूपादीनां योन्य इति वेदितव्याः।

विश्वास-प्रस्तुतिः

अर्धर्चाः।

मूलम्

अर्धर्चाः।

टीका

ता योन्योऽर्धर्चशः शंस्तव्याः। पुनरादानन्यूङ्खादयो विकारा योनिशंसने न कर्तव्याइत्यर्थः।

विश्वास-प्रस्तुतिः

तासां विधानमन्वहम्।

मूलम्

तासां विधानमन्वहम्।

टीका

‘पृष्ठ्यस्तोत्रिया योन्यः’ इत्युक्तम्। पृष्ठानां95 बहुत्वात्कस्य पृष्ठ96स्येति तन्निर्णयार्थमिदमुच्यते। यासां योनीनां यस्य पृष्ठ्यस्तोत्रियस्य निष्केवल्यस्तोत्रियत्वेनान्वहं विधानमस्ति तासां योनीनामत्र शंसनं कर्तव्यम्। स च पृष्ठ्यः प्रत्यक्षपृष्ठस्तत्र97 हि तासांविधानमन्वहमस्तीति सिद्धम्।

विश्वास-प्रस्तुतिः

ताभ्य ऊर्ध्वं सामप्रगाथान्।

मूलम्

ताभ्य ऊर्ध्वं सामप्रगाथान्।

टीका

ताभ्योयोनिभ्य ऊर्ध्वं सामप्रगाथाञ्शंसेत्। अस्यायं सामप्रगाथ इत्याह—

विश्वास-प्रस्तुतिः

उक्तो रथंतरस्य।

मूलम्

उक्तो रथंतरस्य।

टीका

यदुक्तं ‘पिबा सुतस्य’ इति स रथंतरस्य।

विश्वास-प्रस्तुतिः

उभयं शृणवच्च न इति बृहतः।

मूलम्

उभयं शृणवच्च न इति बृहतः।

टीका

** **अयं बृहतो वेदितव्यः। एवं चेत्प्रकृतावपि बृहतः प्रवेशेऽयमेव सामप्रगाथः प्राप्नुयात्।अस्त्विष्यत एवायमर्थः। एवं चेत्प्रकृतावेवायं प्रगाथः कस्मान्नोपदिश्यते। येषु क्रतुषुरथंतरादिषट्कव्यतिरिक्तं यत्किंचित्साम पृष्ठ98स्थाने भवति तेषु पिबवानेव सामप्रगाथो भवती99त्यर्थः प्रकृतावनुपदेशः।

विश्वास-प्रस्तुतिः

इन्द्र त्रिधातु शरणं त्वमिन्द्र प्रतूर्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद्द्विपदामिन्द्रमिद्देवतातय इतीतरेषाम्।

मूलम्

इन्द्र त्रिधातु शरणं त्वमिन्द्र प्रतूर्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद्द्विपदामिन्द्रमिद्देवतातय इतीतरेषाम्।

टीका

‘मोषु त्वा वाघतश्च न’ इत्ययंप्रगाथो ‘रायस्कामः’ इत्यनया द्विपदया सहवर्तते। तस्याश्च शंसनप्रकारः पूर्वस्मिन्नर्धर्चे प्रणवमकृत्वाऽर्धर्चान्तेन वर्णेन द्विपदाद्यवर्णं यथाशास्त्रं संदध्यात्। ‘रथेन पादमादधू रायस्कामः’ इति। सोऽयमुपसमासः, एवं कृत्वा शंसेत्। एते वैरूपादीनां सामप्रगाथास्तानपि शंसेत्। एतेषां सामान्वयेन विधानात्तत्साम्नि क्रतौ स एव भवति प्रगाथः।

विश्वास-प्रस्तुतिः

पृष्ठ्य एवैकैकमन्वहम्।

मूलम्

पृष्ठ्य एवैकैकमन्वहम्।

टीका

सामप्रगाथानां सामान्वयित्वेन विधानात्पार्ष्ठिकेष्वहःस्वन्येष्वपि सर्वेष्वहःसु रथंतरादिषुसामसु पृष्ठ100स्थाने निविश101मानेषु स्वस्वसामप्रगाथो भवती102त्येव संदेहोनास्ति। वचनस्येदंप्रयोजनं पार्ष्ठिकेष्वहःसु रथंतरादिष्वप्रयुज्यमानेष्वप्येते सामप्रगाथा नियमेन कर्तव्याइत्येतत्103

विश्वास-प्रस्तुतिः

तदिदासेति च पुरस्तात्सूक्तस्य शंसेत्।

मूलम्

तदिदासेति च पुरस्तात्सूक्तस्य शंसेत्।

टीका

‘इन्द्रस्य नु वीर्याणि’ इत्यस्मात्पुरस्तादित्यर्थः। चशब्दप्रयोजनमुक्तम्।

विश्वास-प्रस्तुतिः

उक्थपात्रं चमसांश्चान्तराऽतिग्राह्यान्भक्षयन्ति निष्केवल्ये।

मूलम्

उक्थपात्रं चमसांश्चान्तराऽतिग्राह्यान्भक्षयन्ति निष्केवल्ये।

टीका

निष्केवल्याधिकारे पुनर्निष्केवल्यग्रहणं सत्रसंबन्धिसर्वनिष्केवल्यसंप्रत्ययार्थम्। तेनायमर्थः— सत्रसंबन्धिषु सर्वेषु निष्केवल्येषूक्थपात्रे भक्षिते चमसेष्वभक्षितेष्वन्तराऽतिग्राह्यानाम ग्रहाः सन्ति तांस्तत्र प्रतिभक्षयेयुः।

विश्वास-प्रस्तुतिः

नित्यो भक्षजपः।

मूलम्

नित्यो भक्षजपः।

टीका

उत्तरसूत्रेण भक्षधर्मेषु प्राप्तेषु मन्त्रस्यायमपवादः।

विश्वास-प्रस्तुतिः

षोलशिपात्रेण भक्षिणः॥ ३॥

मूलम्

षोलशिपात्रेण भक्षिणः॥ ३॥

टीका

षोलशिपात्रेण भक्षिणो व्याख्याताः। भक्षिषु विधीयमाने तद्विशेषणं भक्षणमपिविहितं भवति। तच्च विधीयमानं सधर्मकं विधीयते। अत एव मन्त्रापवादः पूर्वसूत्रेकृतः। अनेन न्यायेन दधिधर्मेऽपि प्राणभक्षः सिद्धो भवति॥ ३॥

विश्वास-प्रस्तुतिः

होत्रकाणाम्।

मूलम्

होत्रकाणाम्।

टीका

माध्यंदिने सवने होतुर्विधिरुक्तः, इदानीं होत्रकाणां विधिरुच्यत इति संबन्धः।इति मैत्रावरुणस्येति ब्राह्मणाच्छंसिन इत्यच्छावाकस्येत्येतैरेव होत्रकसंबन्धे सिद्धे होत्रकाणामितिवचनं चतुर्विंशेनैषां स्तोत्रियानुरूपाणां संकोचनिवृत्यर्थम्। तेन104सत्रसंबन्धिनांहोत्रकाणां माध्यंदिने सवन एते स्तोत्रियानुरूपा वेदितव्याः। ननु सर्वत्र च्छन्दोगप्रत्ययएव स्तोत्रियस्तत्र किं वचनेनेति। अनुरूपनियमार्थम्। यदि ‘यच्चिद्धि त्वा’ इत्यत्रस्तुयुस्तदा ‘माचिदन्यत्’ इत्ययमेवानुरूपो भवति नान्यो लाक्षणिक इत्येवं सर्वत्रप्रयोजनं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

कया नश्चित्र आभुवत्कया त्वं नऊत्या माचिदन्यद्विशंसत यच्चिद्धि त्वाजना इम इति स्तोत्रियानुरूपा मैत्रावरुणस्य।

मूलम्

कया नश्चित्र आभुवत्कया त्वं नऊत्या माचिदन्यद्विशंसत यच्चिद्धि त्वाजना इम इति स्तोत्रियानुरूपा मैत्रावरुणस्य।

टीका

एतत्स्तोत्रियानुरूपस्य105 युगलद्वयं मैत्रावरुणस्य।

विश्वास-प्रस्तुतिः

तं वो दस्ममृतीषहं तत्वा यामि सुवीर्यममित्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा सुतावन्तः क ईं वेद सुते सचा विश्वाः पृतना अमिभूतरं नरं तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे चेन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूपकृत्नुमूतये शुष्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्महाँ असि सूर्योदुत्यद्दर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्तिषु त्वमिन्द्र यशा असीन्द्र क्रतुं न आभरेन्द्र ज्येष्ठं न आभराऽऽत्वा सहस्रमाशतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः।

मूलम्

तं वो दस्ममृतीषहं तत्वा यामि सुवीर्यममित्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा सुतावन्तः क ईं वेद सुते सचा विश्वाः पृतना अमिभूतरं नरं तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे चेन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूपकृत्नुमूतये शुष्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्महाँ असि सूर्योदुत्यद्दर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्तिषु त्वमिन्द्र यशा असीन्द्र क्रतुं न आभरेन्द्र ज्येष्ठं न आभराऽऽत्वा सहस्रमाशतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः।

टीका

एतान्येकादश युगलानि चतुर्थस्यानुरूप106ःसंहार्यः।

विश्वास-प्रस्तुतिः

तरोभिर्वो विदद्वसुं तरणिरित्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्थाविशूवत इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो न किष्टं कर्मणा नशन्न त्या बृहन्तो अद्रय उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचनप्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्र प्रागपागुद्ग्यथा गौरो अपाकृतमित्यच्छावाकस्य।

मूलम्

तरोभिर्वो विदद्वसुं तरणिरित्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्थाविशूवत इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो न किष्टं कर्मणा नशन्न त्या बृहन्तो अद्रय उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचनप्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्र प्रागपागुद्ग्यथा गौरो अपाकृतमित्यच्छावाकस्य।

टीका

एतानि दश युगलानि107

विश्वास-प्रस्तुतिः

स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्स्तोत्रियाऽनुरूपः।

मूलम्

स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्स्तोत्रियाऽनुरूपः।

टीका

स्तोत्रियानुरूपाधिकारे पुनः स्तोत्रियानुरूपवचनं सर्वेषु स्तोत्रियानुरूपेष्वस्य विधेःप्रापणार्थम्। तेन माध्यंदिने तृतीयसवने च होतुर्होत्रकाणां चायं विधिर्भवतीति वेदितज्यम्। प्रातःसवनमतिक्रम्यास्य विधेरुक्तत्वात्तत्रायं विधिर्न भवति।

विश्वास-प्रस्तुतिः

ऊर्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्र त्वा वसुं कन्नब्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः।

मूलम्

ऊर्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्र त्वा वसुं कन्नब्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः।

टीका

कद्वन्त इति प्रगाथानां संज्ञा, ते च होत्रकाणां यथासंख्येन भवन्ति।

विश्वास-प्रस्तुतिः

अपप्राच इन्द्र विश्वाँ अमित्रान्ब्रह्मणा ते ब्रह्म युजा युनज्म्युरुं नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः।

मूलम्

अपप्राच इन्द्र विश्वाँ अमित्रान्ब्रह्मणा ते ब्रह्म युजा युनज्म्युरुं नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः।

टीका

आरम्भणीया इत्यासामृचां संज्ञा। ता अपि यथासंख्येन होत्रकैः संबध्यन्ते।कद्वद्भ्य इति पञ्चमीदर्शना- दूर्ध्वमित्यध्याह्रियते। कद्वद्भ्य ऊर्ध्वमारम्भणीया भवन्तीति।

विश्वास-प्रस्तुतिः

ऊर्ध्वमारम्भणीयाभ्यः सद्यो ह जात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्विह्निरितीतरावहीनसूक्ते।

मूलम्

ऊर्ध्वमारम्भणीयाभ्यः सद्यो ह जात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्विह्निरितीतरावहीनसूक्ते।

टीका

आरम्भणीयाया ऊर्ध्वं मैत्रावरुणः सद्यो ह जात इत्येतत्सूक्तमहरहः शस्यसंज्ञकंशंसेत्। ब्राह्मणाच्छंस्यच्छावाकौ द्वावारम्भणीयाभ्यामूर्ध्वमस्मा इदु प्रतवसे शासद्वह्निरित्येते सूक्के अहीनसूक्तसंज्ञके शंतेयाताम्।

विश्वास-प्रस्तुतिः

आ सत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहः शस्ये।

मूलम्

आ सत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहः शस्ये।

टीका

आतत्यो यात्वित्येतत्सूक्तमहीनसूक्तसंज्ञकं च द्वितीयं मैत्रावरुगः शंसेत्। ब्राह्मणाच्छंस्यच्छावाकावुदु ब्रह्माण्यभितष्टे वेत्येते सूक्ते अहरहः शस्यसंज्ञके द्वितीये सूक्ते शंसेयाताम्।

विश्वास-प्रस्तुतिः

नूनं सात इत्यन्तमुत्तमम्।

मूलम्

नूनं सात इत्यन्तमुत्तमम्।

टीका

एतेषां सूक्तानां यदुत्तमं सूक्तमभितष्टीयं तन्नूनं सातं इत्यन्तं भवति। ऋगाममेऽप्युद्धाराभावादधिकेयं भवति तेन शुनंहुवीयाया उद्धाराभावे सति सकृदिन्द्रं निराहेति ब्राह्मणवचनमुपपन्नं भवति।

विश्वास-प्रस्तुतिः

अहीनसूक्तानि षलहस्तोत्रियानावपत्सु।

मूलम्

अहीनसूक्तानि षलहस्तोत्रियानावपत्सु।

टीका

आसत्यो यात्वस्मा इदु प्रतवसे शासद्वह्निरित्येतान्यहीनसूक्तानि, तेषां प्रवेशविषयउच्यते। यान्यहानि षलहस्तोत्रियवन्ति तेष्वेतानि भवन्ति। चतुर्विंशसहचारिषु महाव्रतादिष्वित्यर्थः। षलहस्तोत्रियावापसहचारिणीत्युक्तं भवति।

इदानीं तृतीयसवनमुच्यते—

विश्वास-प्रस्तुतिः

उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि
द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवम्।

मूलम्

उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि
द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवम्।

टीका

आर्भवमेकाहिकमेव वैश्वदेवशस्त्रं भवति।

विश्वास-प्रस्तुतिः

पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धतेत्याग्निमारुतम्।

मूलम्

पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धतेत्याग्निमारुतम्।

टीका

एतदान्निमारुतं108 भवति।

विश्वास-प्रस्तुतिः

अग्निष्टोम इदमहः।

मूलम्

अग्निष्टोम इदमहः।

टीका

एतच्चतुर्विंश महरग्निष्टोमसंस्थं भवति109। आग्निमारुतान्तमित्यर्थः।

विश्वास-प्रस्तुतिः

उक्थ्यो वा॥ ४॥

मूलम्

उक्थ्यो वा॥ ४॥

टीका

अयं चतुर्दिश उत्थ्यसंस्थो वा भवेत्। अस्मिन्नहनि यत्प्रत्यक्षमाम्नातं तस्मादन्यत्सर्वमैकाहिकं भवति। एवं सर्वत्र प्रत्यक्षाम्नातादन्य110त्सर्वं प्रकृतितो ग्रहीतव्यम्॥ ४॥

विश्वास-प्रस्तुतिः

अभिप्लवपृष्ठ्याहानि।

मूलम्

अभिप्लवपृष्ठ्याहानि।

टीका

अभिप्लवश्च पृष्ठ्यश्चाभिप्लवपृष्ठठ्यौ, तयोरहान्य111भिप्लवपृष्ठ्याहानि। इत ऊर्ध्वं वक्ष्यन्त इति संबन्धः। अभिप्लवस्त्र पूर्वनिपातो गवामयने112 तस्य पूर्वप्रयोग इत्यनेनाभिप्रायेण।

विश्वास-प्रस्तुतिः

रथंतरपृष्ठान्ययुजानि।

मूलम्

रथंतरपृष्ठान्ययुजानि।

टीका

अभिप्लवष्पृष्ठ्याहान्य113धिकृतानि तयोर्यान्ययुजानि विषमाणि तानि रथंतरपृष्ठानि भवेयुः। तेषु रथंतरं साम पृष्ठस्थाने114 भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

बृहत्पृष्ठानीतराणि।

मूलम्

बृहत्पृष्ठानीतराणि।

टीका

इतराणि युग्मानि समानि। तेषामेव द्वितीय चतुर्थषष्ठान्यधिकृतान्यहानि यानि तानि बृहपृष्ठानि स्युः। तेषु वृहत्साम पृष्ठस्थाने115 भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

तृतीयादिषु पृष्ठ्यस्यान्वहं
द्वितीयानि वैरूपवैराजशाक्वररैवतानि।

मूलम्

तृतीयादिषु पृष्ठ्यस्यान्वहं
द्वितीयानि वैरूपवैराजशाक्वररैवतानि।

टीका

पृष्ठ्यस्य यानि तृतीयादीन्यहानि चत्वारि तेषु वैरूपादीनि चत्वारि सामानि यथासंख्येन रवंतरस्य बृहतश्च द्वितीयानि पृष्ठानि116भवन्ति।द्वितीयवचनं117वृहद्रथंतरथोरवाघनार्थम्। अन्वहवचनमेते षामहर्धर्मत्वप्रतिपत्त्यर्थम्। तेन पृष्ठ्याहरतिदिष्टेष्वप्येष धर्मो भवतीति गम्यते।

विश्वास-प्रस्तुतिः

तेषां यथास्थाने क्रियायां योनीः शंसेत्।

मूलम्

तेषां यथास्थाने क्रियायां योनीः शंसेत्।

टीका

पृष्ठ्याभिप्लवाहानि विषमाणि स्यंतरपृष्ठानि समानि बृहत्पृष्ठानि पृष्ठे118 तृतीयादीनि वैरूपादीनि119द्विष्टेष्ठानीत्युक्तम्120। एवं यदि च्छन्दोगाः कुर्युरस्माभिरप्येषां साम्नां योनिभिनिष्केवल्यानां121 स्तोत्रियाः कर्तव्या भवन्तीत्येतदवगतम्। इदानीमिदमुच्यते यद्येतानि निष्केवल्यस्थाने न कुर्युस्तदाऽस्माभिस्तस्मिंस्तस्मिन्नहनि तदीया योनियनिस्थाने शस्तव्येति। यथास्थानवचनं तस्मिन्नहनि पृष्ठस्य122स्थाने123 या स्वक्रिया सैव योनिशंसनस्य निमित्तं नाहःसंबन्धिनीत्येवमर्थम्। तेनपृष्ठस्थानादन्यत्र124 क्रियाया मप्यक्रिया चेतृष्ठस्थाने125 शंस्तव्यैव योनिरिति वेदितव्यम्। तयोरक्रियमाणस्थेत्यत्र यथास्थानवचनमन्तरेणापि सिध्यत्ययमर्थः। तत्रैकैकस्यैव साम्नस्तत्कार्य संबन्धितयोक्तत्वादक्रियमाणस्येत्युक्तेऽपि कार्यविशेषसंबन्धो गृह्यत एव126। तत्र पुनः केषांचिद्विसामत्वाद्वाभ्यां127वा तत्कार्यं कुर्युः। एकेन वा तस्मिन्कार्ये कृतेऽन्यदन्यस्मिन्कार्ये कुर्युरिति कार्यविशेषज्ञापको128 नावगम्यते। अक्रियायामित्येतावत्युक्ते द्विसामसंबन्धिष्वनियतत्वात्कार्यस्याहःसंबन्धिन्यक्रियेति कस्यचिद्भ्रान्तिः स्यात्त दपनोदनार्थं यथास्थानवचनं कृतम्।

विश्वास-प्रस्तुतिः

सर्वत्र चास्वयोनिभावेऽन्यत्राऽऽश्विनात्।

मूलम्

सर्वत्र चास्वयोनिभावेऽन्यत्राऽऽश्विनात्।

टीका

तेषां योनीः शंसेदित्यनुवर्तते। सर्वत्रेत्यनेन पृष्ठ्याभिप्लवाभ्यामन्यत्रापि पृष्ठस्थानादन्यत्रापीत्येतदुभयं129 गम्यते। तदेव स्पष्टयति अन्यत्राऽऽश्विनादिति। साम्न उत्पत्तिर्य स्यामृचि सा योनिरित्युच्यते130। स्वा योनिः स्वयोनिः, न स्वयोनिरस्वयोनिस्तस्या भावोऽ स्वयोनिभावः। एतदुक्तं भवति रथंतरादीनां षण्णां यत्र क्वाप्यहनि यत्र क्वापि कार्ये स्वयोनिभावे सति तत्र तत्राहनि निप्केवल्ये योनिस्थाने योनिशंसनं कर्तव्यमिति।अन्यत्राऽऽश्विनादश्विनार्था131त्संधिस्तोत्रादन्यत्रैवं भवति। तत्र यो ह्यस्वयोनिभावः स132च योनिशंसनस्य निर्मित्तं133 न भवतीत्यर्थः। सर्वत्र योनिशंसनं निष्केवल्यस्य योनिस्थान एव।

विश्वास-प्रस्तुतिः

यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां
योनिं व्याहावं शंसेदूर्ध्वमितरस्यानुरूपात्।

मूलम्

यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां
योनिं व्याहावं शंसेदूर्ध्वमितरस्यानुरूपात्।

टीका

यज्ञायज्ञीयस्याक्रियमाणस्य, अपिशब्दादस्वयोनिभूतस्य च योनिशंसनं विधीयते, तस्यैव योनिशंसनस्य द्वाविमौ विशेषावृर्ध्वमितरस्पानुरूपादिति योनिशंसनस्य स्थानंसानुरूपत्वं134 च स्तोत्रियानुरूपयोराहावपृथक्त्वं चेत्येते पञ्चार्था अस्मिन्सूत्रे विधीयन्ते। व्याहाववचनं सकृत्पृथग्वेति विकल्प निवृत्त्यर्थम्। अन्यप्राप्तं विधीयते। ऊर्ध्वमितरस्यानुरूपादिति यज्ञायज्ञीयस्य स्थाने यदन्यत्प्रविष्टं तस्यानुरूपा दुवमित्यर्थः। एकस्या एव योनित्वे सत्यपि योनिशंसने क्रियमाणे यत्साम यास्वृक्षु प्रयोगकाले गीयते ताः समस्ता ऋचः शंस्तव्या135नैकैकशः, तत्सामसंबन्धेन तत्सामसंबन्धिनीनामृचां विवक्षितत्वात्।

विश्वास-प्रस्तुतिः

होत्रकाः परिशिष्टानावापानुद्धृत्य।

मूलम्

होत्रकाः परिशिष्टानावापानुद्धृत्य।

टीका

तत्स्थाने वक्ष्यमाणा ऋच आवपरेन्निति शेषः। होत्रकाणां प्रातःसवने शस्त्राण्येवं मवन्ति। परिशिष्टानावापानुद्घृत्य तत्स्थाने वक्ष्यमाणा ऋचः शस्त्वा चातुर्विशिकान्येव136 भवन्ति। एतेनाह्रा सुत्यानीति सर्वत्रैकाहिके शस्ये प्राप्त तन्निवृत्त्या चातुर्विशिकप्रापणार्थं137 परिशिष्टानावापानुदूधृत्येत्युक्तम्।

विश्वास-प्रस्तुतिः

मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणाऽऽनो मित्रावरुणेति तृचाः प्र वो मित्रायेतिचतुर्णां द्वितीयमुद्धरेतप्र मित्रयोर्वरुणयोरिति षट्काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इतिचतस्रो मैत्र्यो यच्चिद्धि ते विश इति वारुणम्।

मूलम्

मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणाऽऽनो मित्रावरुणेति तृचाः प्र वो मित्रायेतिचतुर्णां द्वितीयमुद्धरेतप्र मित्रयोर्वरुणयोरिति षट्काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इतिचतस्रो मैत्र्यो यच्चिद्धि ते विश इति वारुणम्।

टीका

मैत्र्यो वारुणमिति देवता निर्देशस्येदं प्रयोजनम् –मित्रावरुण138देवतत्वान्मैत्रावरुणस्यैतासामावापो मिश्रितानामेव कर्तव्य इति। तत्र मिश्रणे बहुत्वाद्वारुणीनां बह्रयो वारुण्योऽल्पीयस्यो मैत्र्य इत्येवं मिश्रयेत्।

विश्वास-प्रस्तुतिः

एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात्।

मूलम्

एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात्।

टीका

एतस्य ऋक्समाम्नायस्य सकाशात्तृचं गृहीत्वा परिशिष्टावावस्थान आवपेन्मैत्रावरुणः। नित्यादित्युद्धृतपरिशिष्टावापश्चातृर्विशिकं139 शस्यं नित्यमित्युच्यते तस्मादधिकमित्यर्थः।

नित्येनैव पञ्चदशात्प्राक्तनाः स्तोमा अतिशस्ता140 भवन्ति141 तथाऽपि तेष्वपि नियमेन नित्यादधिकमावपेतेत्येवमर्थं नित्यादधिकमित्युच्यते। स्तोमकारणादिति स्तोमातिशंसनप्रयोजनकारितोऽयमावाप इति दर्शयति। तेन पञ्चदशस्तोमेऽपि तृचावापः कर्तव्यः।

विश्वास-प्रस्तुतिः

पञ्च सप्तदशे नवैकविंशे द्वादश चतुर्विंशेपञ्चदश त्रिणव एकविंशतिं त्रयस्त्रिंशेद्वात्रिंशतं चतुश्चत्वारिंशे षट्त्रिंशतमष्टाचत्वारिंशे।

मूलम्

पञ्च सप्तदशे नवैकविंशे द्वादश चतुर्विंशेपञ्चदश त्रिणव एकविंशतिं त्रयस्त्रिंशेद्वात्रिंशतं चतुश्चत्वारिंशे षट्त्रिंशतमष्टाचत्वारिंशे।

टीका

एकया द्वाभ्यां वा प्रातःसवन इत्यनेनैव स्तोमानुगुणा ऋच आवप्तव्या इत्येव सिद्धे संख्योपदेशस्येदं प्रयोजनं स्तोमातिशं सने नाभाका न गणयितव्या इति। अतस्तेषु142 सत्स्वपि तानगणयित्वा स्तोमातिशंसनार्थमेतत्संख्याको143 ऋच आवप्तव्या इत्ययमर्थः सिद्धो भवति।

विश्वास-प्रस्तुतिः

एकाल्पीयसीर्वा।

मूलम्

एकाल्पीयसीर्वा।

टीका

एकया हीना वाऽऽवपेत। चतस्रः सप्तदशेऽष्टावेकविंश इत्येवंप्रकारः सप्तदशात्प्राक्तनेषु स्तोमेषु। नित्यादधिक्रमिति वचन (त्तृत्र एव नित्यमावतव्यः।

विश्वास-प्रस्तुतिः

एकाहेप्वेकभूयसीर्वा।

मूलम्

एकाहेप्वेकभूयसीर्वा।

टीका

एतेष्वहःस्वेकाहीभवत्स्वेकभूयसीर्वाऽऽवपेत। पूर्वोक्ता वा षट्सप्तदशे दशैकविंश इत्येवं प्रकारो वैश्वदेव्यस्थाने प्रथमं पृष्ठ्याहरित्येवमादिषु।

अत्र प्र144करणमाह145 -

विश्वास-प्रस्तुतिः

नाऽऽरम्भणीया न पर्यासा अन्त्या
ऐकाहिकास्तूचाः पर्यासस्थानेषु।

मूलम्

नाऽऽरम्भणीया न पर्यासा अन्त्या
ऐकाहिकास्तूचाः पर्यासस्थानेषु।

टीका

तायमानरूपाणामहर्गणधर्मत्वादेकाहेषु प्राप्तिर्नास्ति। तेनाऽऽरम्भणीयाः146पर्यासाश्च तेषु न सन्ति। तत्राऽऽरम्भणीयास्थानं शून्यमेवावतिष्ठते। पर्यासस्थानेण्वन्त्या ऐकाहिकास्तृचा अस्मिन्नेव सूत्रे विधीयन्ते तेनैकाहिकेष्वेकयोनिशंस्यमिति युक्तमेतत्।

विश्वास-प्रस्तुतिः

ब्राह्मणाच्छंसिनः सुरूपकृत्नुभूतय इति षट् सूक्तानि।

मूलम्

ब्राह्मणाच्छंसिनः सुरूपकृत्नुभूतय इति षट् सूक्तानि।

टीका

सूक्तग्रहणमेतानि षट् सूक्तान्यत्र विहितानीति ज्ञापनार्थम्।इतरथा पादग्रहणादृच एव प्रतीयेरन्। एवं तर्हि पाद्ग्रहणं किमिति क्रियते। ऋक्संप्रत्ययार्थम्। अतोऽवगम्यत एतेषु षट्सूक्तेषु यावतीभिर्ऋग्भिः प्रयोजनं तावतीर्ॠच आवपेत नाखण्डितानि षट् सूक्तानीति।

अत्र ‘आद्हस्वधामनु’ इत्येताः षण्मारुत्य ऋचस्तासामुद्धारवचनाभावात्ता अपि प्रयोक्तव्याः। षट्सूक्तवचनं मारुतीनामपरिवर्जनं सूचयति। अस्मादेव वचनाज्ज्ञायते ता अप्यैन्द्यो147मरुतस्तासु148 निपातभाज इति। एवं सति ‘तस्मादैन्द्रं ब्राह्मणाच्छंसी प्रातःसवने शंसति’ इत्यस्याः श्रुतेरविरोधो भवति।

विश्वास-प्रस्तुतिः

आवाप उक्तो मैत्रावरुणेन।

मूलम्

आवाप उक्तो मैत्रावरुणेन।

टीका

आवाप उक्त इत्येतावतैव सिद्धे मैत्रावरुणेनेतिवचनं149 मैत्रावरुणस्य स्वदेवत्याभिऋग्मिरेवाऽऽवाप उक्त एवमस्यापि निर्दिष्टा ऋचः स्वदेवत्या एव न मारुत्य इत्येतत्प्रदर्शनार्थम्।

विश्वास-प्रस्तुतिः

इहेन्द्राग्नीइन्द्राग्नी आगतं ता हुवेययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य।

मूलम्

इहेन्द्राग्नीइन्द्राग्नी आगतं ता हुवेययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य।

टीका

आवाप उक्तो मैत्रावरुणेनेत्यत्रापि संबध्यते।

विश्वास-प्रस्तुतिः

आयात्विन्द्रोऽवस इति मरुत्वतीयमान इन्द्रइति निष्केवल्यं प्रथमस्याऽऽभिप्लविकस्य।

मूलम्

आयात्विन्द्रोऽवस इति मरुत्वतीयमान इन्द्रइति निष्केवल्यं प्रथमस्याऽऽभिप्लविकस्य।

टीका

प्रथमस्याऽऽभिप्लविकस्येत्ययमधिकारार्थः। प्रथमस्याह्न150एते निष्केवल्यमरुत्वतीययोः सूक्ते भवत इत्यर्थः।

विश्वास-प्रस्तुतिः

मध्यंदिन इत्युक्त एते शस्त्रे प्रतीयात्।

मूलम्

मध्यंदिन इत्युक्त एते शस्त्रे प्रतीयात्।

टीका

यत्र यत्र मध्यंदिन इति वक्ष्यति तत्र तत्र निष्केवल्यमरुत्वतीये शस्त्रे विद्यात्।

विश्वास-प्रस्तुतिः

अहीनसूक्तस्थान एवा त्वामिन्द्र यन्न इन्द्रःकथमहामिन्द्रः पूर्भिद्य एक ईद्यस्तिग्मशृङ्गइमामूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः।

मूलम्

अहीनसूक्तस्थान एवा त्वामिन्द्र यन्न इन्द्रःकथमहामिन्द्रः पूर्भिद्य एक ईद्यस्तिग्मशृङ्गइमामूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः।

टीका

यान्येतानि नव सूक्तानि निर्दिष्टानि तेषां संपाता इति संज्ञा विधीयते। ते च संपाता माध्यंदिने होत्रकाणां शस्त्रेषु यान्यही नसूक्तस्थानानि तेषु स्थानेषु भवन्तीत्ययमप्यथो॑ऽस्मिन्सूत्रे विधीयते। अहीनसूक्तस्थान इतिवचनादत्रापि चातुर्विंशिकस्य प्राप्तिं दर्शयति।

विश्वास-प्रस्तुतिः

एकैकस्य त्रयस्त्रयः।

मूलम्

एकैकस्य त्रयस्त्रयः।

टीका

प्रथम चतुर्थसप्तमादयस्त्रयः, संपाता एकैकस्य भवन्ति।

विश्वास-प्रस्तुतिः

उक्ता मरुत्वतीयैः।

मूलम्

उक्ता मरुत्वतीयैः।

टीका

यथा मरुत्वतीयाः प्रगाथाः पृष्ठ्याभिष्ठवयोरहः भवन्ति तथा संपाता अपीत्यर्थः।

विश्वास-प्रस्तुतिः

युञ्जते मन इहेहव इति चतस्रो देवान्हुव इति वैश्वदेवम्॥ ५॥

मूलम्

युञ्जते मन इहेहव इति चतस्रो देवान्हुव इति वैश्वदेवम्॥ ५॥

टीका

द्यावापृथिवीयमैकाहिकम्। एतद्वैश्वदेवशस्त्रम्, आज्यप्रउगे, आग्निमारुतं चैकाहिकानि। एतत्प्रथमस्याऽऽभिप्लविकस्या धिका151वा संपातास्तु वाक्येन सर्वार्थाः॥ ५॥

विश्वास-प्रस्तुतिः

द्वितीयस्य चतुर्विंशेनाऽऽज्यम्।

मूलम्

द्वितीयस्य चतुर्विंशेनाऽऽज्यम्।

टीका

द्वितीयस्याऽऽभिप्लविकस्य होताऽजनिष्टेत्याज्यं भवति।

विश्वास-प्रस्तुतिः

वायो ये ते सहस्रिण इति द्वे तीव्राः सोमासआगहीत्येकोमा देवा दिविस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः।

मूलम्

वायो ये ते सहस्रिण इति द्वे तीव्राः सोमासआगहीत्येकोमा देवा दिविस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः।

टीका

तृचग्रहणमृङ्निवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

गार्त्समदं प्रउगमित्येतदाचक्षते।

मूलम्

गार्त्समदं प्रउगमित्येतदाचक्षते।

टीका

गार्त्समदशब्दस्तदार्षाणां भूयस्त्वात्।

विश्वास-प्रस्तुतिः

विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इतिमरुत्वतीयस्य प्रतिपद्नुचरौ इन्द्र सोमं या तऊतिरवमेति मध्यंदिनः। निष्केवल्यस्योत्तमे विपरीते।

मूलम्

विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इतिमरुत्वतीयस्य प्रतिपद्नुचरौ इन्द्र सोमं या तऊतिरवमेति मध्यंदिनः। निष्केवल्यस्योत्तमे विपरीते।

टीका

निष्केवल्यस्य यत्सूक्तं या त ऊतिरिति तस्य ये उत्तमे ऋचौ ते विपर्यस्य शंसेत्।

विश्वास-प्रस्तुतिः

भारद्वाजो होता चेत्प्रकृत्या।

मूलम्

भारद्वाजो होता चेत्प्रकृत्या।

टीका

यदि होता गोत्रतो भारद्वाजःस्यात्तदा प्रकृत्यैव शंसेत्। होतृग्रहणाद्धोतुरेव भारद्वाजत्वमत्र विवक्षितं न प्रतिनिधिप्रवृत्तस्यापि। तेनाभरद्वाजोऽपि152 प्रतिनिधिप्रवृत्तः प्रकृत्यैव शंसेद्धोता चेद्भारद्वाजः स्यादिति।

विश्वास-प्रस्तुतिः

चातुर्विंशिकं तृतीयसवनं विश्वो देवस्यनेतुरित्येका तत्सवितुर्वरेण्यमिति द्वे आ विश्वदेवंसत्पतिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ।

मूलम्

चातुर्विंशिकं तृतीयसवनं विश्वो देवस्यनेतुरित्येका तत्सवितुर्वरेण्यमिति द्वे आ विश्वदेवंसत्पतिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ।

टीका

अयं तु विशेषश्चातुर्विंशिकात्तृतीयसवनादेतौ प्रतिपदनुचरौ भिद्येते इति।

विश्वास-प्रस्तुतिः

आज्यप्रउगे प्रतिपदनुचराश्चोमयोर्युग्मेष्वेवमभिप्लवे॥ ६॥

मूलम्

आज्यप्रउगे प्रतिपदनुचराश्चोमयोर्युग्मेष्वेवमभिप्लवे॥ ६॥

टीका

अस्मिन्नहनि य आज्यप्रउगे वैश्वदेवमरुत्वतीययोरुभयोः प्रतिपदनुचराश्चामिप्लवे यान्यहानि युग्मानि द्वितीयचतुर्थषष्ठानि तेषु ते भवन्ति न केवलं द्वितीय एवेति सूत्रार्थः। अभिप्लवाधिकारे पुनरभिप्लवग्रहणमुमयोरित्यस्य वचनस्य षलहविषयतां व्यावर्त्य शस्त्रविषयत्वज्ञापनार्थम्॥ ६॥

विश्वास-प्रस्तुतिः

तृतीयस्य व्यर्यमा यो जात एवेति मध्यंदिनः।

मूलम्

तृतीयस्य व्यर्यमा यो जात एवेति मध्यंदिनः।

टीका

आज्यप्रउग ऐकाहिके होत्रकाणां प्रातःसवने माध्यंदिने चोक्तान्येवोभयोरपि पलहयोध्वन्ति

विश्वास-प्रस्तुतिः

तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वोजातः परावतो य इति वैश्वदेवं वैश्वानरायधिषणांधारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिराइत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यम्।

मूलम्

तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वोजातः परावतो य इति वैश्वदेवं वैश्वानरायधिषणांधारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिराइत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यम्।

टीका

ऐकाहिकं मरुत्वतीयम्।

विश्वास-प्रस्तुतिः

हृयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवम्।

मूलम्

हृयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवम्।

टीका

ऐकाहिकं वैश्वदेवं सूक्तम्।

विश्वास-प्रस्तुतिः

वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्व गोपा इत्याग्निमारुतम्।

मूलम्

वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्व गोपा इत्याग्निमारुतम्।

टीका

आज्यप्र उगे प्रतिपदनुचराध द्वैतीयाः।

विश्वास-प्रस्तुतिः

पञ्चमस्य कया शुभा यस्तिग्मगृङ्ग इति मध्यंदिनः।

मूलम्

पञ्चमस्य कया शुभा यस्तिग्मगृङ्ग इति मध्यंदिनः।

टीका

आज्यप्रउग ऐकाहिके एव।

विश्वास-प्रस्तुतिः

कयाशुमीयस्य तु नवम्युत्तमाऽन्यत्रापि यत्र निविद्धानं स्यात्।

मूलम्

कयाशुमीयस्य तु नवम्युत्तमाऽन्यत्रापि यत्र निविद्धानं स्यात्।

टीका

अन्यत्रापीतिवचनात्कर्मान्तरेऽपि यत्रैतत्सूक्तं निविद्धानीयं भवति तत्र सर्वत्र नवम्युतमा कर्तव्या। अतो ‘निष्केवल्यस्यो त्तमे विपरीते’ ‘मरुत्वतीयस्योत्तमे विपरीते’ इत्येवमादिषु तत्कर्मावधिक एव तादृशो विधिर्भवतीति153 वेदितव्यम्। निविद्धान मित्यत्र154 शब्देन निविद्धानीयमिति। तेनैतत्साधितं भवति - बहुण्ञपि निविद्धांनीयेषु यंत्रास्मिन्नेव सूक्ते निविद्धीयते155 तत्रैव नवम्युत्तमा न निविद्धानीयमात्र इत्येतद्वगम्यत इति।

विश्वास-प्रस्तुतिः

घृतवती भुवनानाममिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ कटु प्रियायेति वैश्वदेवम्।

मूलम्

घृतवती भुवनानाममिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ कटु प्रियायेति वैश्वदेवम्।

टीका

सावित्रमैकाहिकमेव।

विश्वास-प्रस्तुतिः

पृक्षस्य वृष्णो वृष्णे शर्धाय नूचित्सहोजा इत्याग्निमारुतंषष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयं च कतरा पूर्वी
पासानक्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतम्।

मूलम्

पृक्षस्य वृष्णो वृष्णे शर्धाय नूचित्सहोजा इत्याग्निमारुतंषष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयं च कतरा पूर्वी
पासानक्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतम्।

टीका

आज्यप्रउगे प्रतिपदनुचराश्च द्वैतीयाः, अन्यदैकाहिकम्। ब्राह्मणस्पत्यमरुत्वतीययोरुक्तो विशेषः।

विश्वास-प्रस्तुतिः

इत्यभिप्लवः षलहः।

मूलम्

इत्यभिप्लवः षलहः।

टीका

षलहवचनमभिप्लवस्य षलहसंज्ञाविधानार्थम्। अभिप्लव इतिवचनं पृष्ठ्यस्या156भिप्लवषलहसंज्ञाप्रापणार्थम्। तेन षलहव्यवहारे द्वयोः संप्रत्ययः सिद्धो भवति।

विश्वास-प्रस्तुतिः

तस्याग्निष्टोमावभित उक्थ्या मध्ये।

मूलम्

तस्याग्निष्टोमावभित उक्थ्या मध्ये।

टीका

अभिप्लवस्य संस्थाविधिरेताभ्यांसूत्राभ्यां विधीयते।

विश्वास-प्रस्तुतिः

उक्थ्येषु स्तोत्रियानुरूपाः।

मूलम्

उक्थ्येषु स्तोत्रियानुरूपाः।

टीका

वक्ष्यन्त इति शेषः। तेष्विति वक्तव्य उक्थ्येष्वितिवचनमस्मैिन्स157त्रप्रकरणे य उक्थ्यास्तेषां सर्वेषां वक्ष्यमाणेन विधिना संबन्धसिध्यर्थम्।

विश्वास-प्रस्तुतिः

मैत्रावरुणस्य॥ ७॥

मूलम्

मैत्रावरुणस्य॥ ७॥

विश्वास-प्रस्तुतिः

एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वा ववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युमे सुश्चन्द्रसर्पिष इति द्वे एका चाग्निं तं मन्ये यो चसुरा ते वत्सो मनो यमदाऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्रो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति।

मूलम्

एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वा ववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युमे सुश्चन्द्रसर्पिष इति द्वे एका चाग्निं तं मन्ये यो चसुरा ते वत्सो मनो यमदाऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्रो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति।

टीका

दशैतानि स्तोत्रियानुरूपयुगलानि षष्ठप्त्य158स्तोत्रियः159 संहार्यः।

विश्वास-प्रस्तुतिः

अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरोयथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तं ते मदं गृणीमसि तम्बभि प्रगायत वयमु त्वामपूव्य यो न इदमिदं पुरेन्द्राय सामगायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदिन्तरमेतो न्विन्द्रं स्तवाम सखाय स्तुहीन्द्रं व्यश्ववत्वं न इन्द्राभर वयमु त्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूषोऽभ्रातृष्यो अनात्वं मा ते अमाजुरो यथेति।

मूलम्

अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरोयथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तं ते मदं गृणीमसि तम्बभि प्रगायत वयमु त्वामपूव्य यो न इदमिदं पुरेन्द्राय सामगायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदिन्तरमेतो न्विन्द्रं स्तवाम सखाय स्तुहीन्द्रं व्यश्ववत्वं न इन्द्राभर वयमु त्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूषोऽभ्रातृष्यो अनात्वं मा ते अमाजुरो यथेति।

टीका

एतान्यपि दशैव नवमस्यानुरूपः संहार्थः। आद्यस्य पुनर्वचनं सत्रादन्यत्राप्यस्य युगलस्य परस्परनियमार्थम्।

विश्वास-प्रस्तुतिः

अथाच्छावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थमिन्द्राय शंस्यं श्रुधीहवंतिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र।त इममिन्द्र सुतंपिब यदिन्द्र चित्रमेहना यस्ते साधिष्ठोऽबसे पुरा भिन्दुर्युवाकविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आत्वा गिरो रथीरिवेति।

मूलम्

अथाच्छावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थमिन्द्राय शंस्यं श्रुधीहवंतिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र।त इममिन्द्र सुतंपिब यदिन्द्र चित्रमेहना यस्ते साधिष्ठोऽबसे पुरा भिन्दुर्युवाकविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आत्वा गिरो रथीरिवेति।

टीका

एतानि षड्युगलानि, अत्राप्यनुरूपनियंमार्थमेषां विधानम्।

विश्वास-प्रस्तुतिः

सूक्तानामेकैकं शिष्ट्वाऽऽवरन्॥८॥

मूलम्

सूक्तानामेकैकं शिष्ट्वाऽऽवरन्॥८॥

टीका

॥८॥

विश्वास-प्रस्तुतिः

स्तोमे वर्धमाने।

मूलम्

स्तोमे वर्धमाने।

टीका

उक्थ्यशस्त्राणि प्रकृतानि तेषु शस्त्रेषु यद्यदन्त्यं सूक्तं तत्तदवैशिष्य160स्तोमे वर्धमाने तदुतिशंसनार्थं यावदर्थमृचो वक्ष्यमाणेभ्य ऋक्समुदायेभ्यो गृहीत्वाऽऽवपेरन्होत्रकाः।

विश्वास-प्रस्तुतिः

इमा उवां भृमयो मन्यमाना इति तिस्र इन्द्रा कोवामितिसूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषेवामिमानिवां भागधेयानीत्येतस्य यथार्थ मैत्रावरुणः।

मूलम्

इमा उवां भृमयो मन्यमाना इति तिस्र इन्द्रा कोवामितिसूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषेवामिमानिवां भागधेयानीत्येतस्य यथार्थ मैत्रावरुणः।

टीका

यथार्थं यथाप्रयोजनं यापतीनामृचामावापे सति161व्यवराभिऋग्भिः स्तोमोऽतिशस्तो भवति तावतीरावपेतेत्यर्थः।

विश्वास-प्रस्तुतिः

यस्तस्तम्म यो अद्रिभिद्यज्ञे दिव इति सूक्ते अस्तेव सुप्रतरमायात्विन्द्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसी।

मूलम्

यस्तस्तम्म यो अद्रिभिद्यज्ञे दिव इति सूक्ते अस्तेव सुप्रतरमायात्विन्द्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसी।

टीका

एतस्य यथार्थमानपेतेति शेषः।

विश्वास-प्रस्तुतिः

विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः॥ ९॥

मूलम्

विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः॥ ९॥

टीका

अत्राप्यावपेतेति शेषः॥ ९॥

विश्वास-प्रस्तुतिः

पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आधे आद्याभ्याम्।

मूलम्

पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आधे आद्याभ्याम्।

टीका

अभिप्लवस्य ये आद्ये अहनी ताभ्यां पृष्ठ्यस्याऽऽद्ये अहनी व्याख्याते। अभिप्लवस्य प्रथममहरेवं भवति, आज्यप्रउगे ऐकाहिके द्यावापृथिवीयमाग्निमारुतं च।इतरत्तत्रैवोक्तम्।द्वितीयमहरेवं भवति, आज्यं तृतीयसवनं162चातुर्विंशिकम्। इतरदुक्तमेव। एवं पृष्ठ्यस्याऽऽद्ये अहनी भवतः।

विश्वास-प्रस्तुतिः

तृतीयसवनानि चान्वहम्।

मूलम्

तृतीयसवनानि चान्वहम्।

टीका

न केवलमाद्ये एवाहनी अभिप्लवातिदिष्टे स्याताम् उत्तरेष्वहःसु यानि तृतीयसवनानि तान्यमिप्लवस्योत्तरेषामह्लामन्वहं तृतीयसवनानि यानि तैरेवातिदिष्टानीत्यर्थः।

विश्वास-प्रस्तुतिः

उपप्रयन्त इति तु प्रथमेऽहन्याज्यम्।अग्निं दूतमिति द्वितीये।

मूलम्

उपप्रयन्त इति तु प्रथमेऽहन्याज्यम्।अग्निं दूतमिति द्वितीये।

टीका

आद्ययोरप्यहोरयं विशेषः - एते तयोराज्ये भवत इति।

विश्वास-प्रस्तुतिः

तृतीये युक्ष्वाहीत्याज्यम्।

मूलम्

तृतीये युक्ष्वाहीत्याज्यम्।

टीका

आज्याधिकारे पुनराज्यंग्रहणं तृतीयशब्दस्य वैलक्षण्यप्रदर्शनाथम्। वैलक्षण्यं चोत्तस्त्राधिकारसिद्धिः।

विश्वास-प्रस्तुतिः

वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्रश्च वायवेषां सुतानामितिद्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेहगच्छतमाबाह्यद्विभिः सुतं सजूर्विश्वेभिर्देवोभरुतनः प्रियाप्रियास्वित्यौष्णिहं प्रउगम्।

मूलम्

वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्रश्च वायवेषां सुतानामितिद्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेहगच्छतमाबाह्यद्विभिः सुतं सजूर्विश्वेभिर्देवोभरुतनः प्रियाप्रियास्वित्यौष्णिहं प्रउगम्।

टीका

आद्यः संहार्यो द्वितीयो द्वाभ्यामृग्भ्यां प्रथमाभ्यासेन वा द्वितीयाभ्यासेन वा तृचः कर्तव्यः। औष्णिहमिति ब्राह्मणानुवादस्तस्य विधायकत्वं मन्यमानस्यानुष्ठानमाह।

विश्वास-प्रस्तुतिः

उत्तमेन्वृचमभ्यासाश्चतुरक्षराः।

मूलम्

उत्तमेन्वृचमभ्यासाश्चतुरक्षराः।

टीका

अन्वृचं प्रत्यृचमित्यर्थः। चत्वार्यक्षराणि यस्मिन्नम्यासे स चतुरक्षरोऽम्यासः। ते च त्रयः, ऋक्त्रयसंबन्धात्। स चाभ्यासस्तृतीये पादे भवति, उष्णिक्संपादनस्य चिकीर्षितत्वात्। ’ स्तोम्यामूस्तोम्यामोम्’ इत्येवम्।

विश्वास-प्रस्तुतिः

न वा।

मूलम्

न वा।

टीका

वाशब्दः पक्षं व्यावर्तयति। नात्राभ्यासः कर्तव्यः। औष्णिहशव्दस्य विधायकत्वं न संभवति प्राप्तार्थत्वात्। ब्राह्मणग्राम वच्छब्द प्रवृत्तिः संभवतीति।

विश्वास-प्रस्तुतिः

तृतीयेनाऽऽमिप्लविकेनोक्तोमध्यंदिनः।तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपद्नुचरौ वैरूपं चेत्पृष्ठंयद्याव इन्द्र ते शतं यदिन्द्रयावतस्त्वमिति प्रगाथौस्तोत्रियानुरूपौ॥ १०॥

मूलम्

तृतीयेनाऽऽमिप्लविकेनोक्तोमध्यंदिनः।तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपद्नुचरौ वैरूपं चेत्पृष्ठंयद्याव इन्द्र ते शतं यदिन्द्रयावतस्त्वमिति प्रगाथौस्तोत्रियानुरूपौ॥ १०॥

टीका

निष्केवल्यस्येति शेषः। रथंतरं चेटुक्तौ॥ १०॥

विश्वास-प्रस्तुतिः

चतुर्थेऽहनि प्रातरनुवाकप्रतिपद्यर्धर्चाद्योर् न्यूङ्खः।

मूलम्

चतुर्थेऽहनि प्रातरनुवाकप्रतिपद्यर्धर्चाद्योर् न्यूङ्खः।

टीका

पार्ष्टिके चतुर्थेऽहनि यत्प्रातरनुवाकं तस्याऽऽद्याया ऋचो163 यावर्धर्चयो164रादी165तयोर्न्योभवति। अहरधिकारे पुनरहनीतिवचनमहर्घर्मोऽयं न्यूङ्ख इति प्रदर्शनार्थम्। तेनात्र या न्यूङ्खमाज ऋचस्तासामन्यत्र वचनादृते न्यूयो न भवति।

विश्वास-प्रस्तुतिः

द्वितीयं स्वरम् ओकारं त्रिमात्रम् उदात्तं त्रिः।

मूलम्

द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तं त्रिः।

टीका

इदानीं न्यूङ्ख-लक्षणम् उच्यते।
तयोर् अर्धर्चयोर् यो द्वितीयः स्वरः
संहितावस्थायां तम् ओकारं त्रिमात्रं कृत्वा
त्रिर् ब्रूयात् पच्छोऽर्धश ऋक्श
इति सर्वत्र शंसन-विधानात्166
संहितावस्थनामेव167 मन्त्राणां शंसनम् उक्तं भवति।
अतः संहितावस्थायाम् इत्युक्तम्।
पूर्वसूत्रेऽर्धर्चाद्योरित्याद्ययोरक्षरयोर्न्यूङ्खो विहितः, इह तु द्वितीययोर्विधीयते कथमनयोः संवन्ध इति। पूर्वसूत्रस्यायमभिप्रायः ब्राह्मणोक्तो यो न्यूह्णविधिरेकाक्षरद्व्यक्षरत्र्यक्षर चतुरक्षरैरिति सोऽयमधर्चाद्योरित्यनेन सूचितो भवति।

यस्तु खलु पक्षस्तत्रैव सिद्धान्तितः
‘तस्माद् द्व्यक्षरेणैव न्यूङ्खयेत्’ इति
तमेव पक्षमङ्गीकृत्येदानीं न्यू विधीयते द्वितीयं स्वरमित्यादिना।

विश्वास-प्रस्तुतिः

तस्य तस्य चोपरिष्टादपरिमितान्पञ्च वाऽर्धौकाराननुदात्तान्।

मूलम्

तस्य तस्य चोपरिष्टादपरिमितान्पञ्च वाऽर्धौकाराननुदात्तान्।

टीका

तस्य तस्यौकारस्योपरिष्टादर्धोकाराननुदात्तानपरिमितांस्त्रीं श्चतुरः पञ्च वा ब्रूयात्। यत्र संख्याविशेषं168 निर्दिश्यापरिमितशब्दं ब्रवीति तत्र निर्दिष्टात्संख्याविशेषादुपरिष्टादपरिमितशब्दार्थो ग्रहीतव्यः। यत्र पुनरु परिष्टात्संख्या विशेषो निर्दिष्टस्तत्र प्रांगेव संख्याविशेषाद्वहुत्वे सत्येवानियतिर्ग्रहीतव्येति सिद्धम्। अर्धे च तदोकारश्चार्धीकार इति कर्मधारयः समासः।

विश्वास-प्रस्तुतिः

उत्तमस्य तु त्रीन्।

मूलम्

उत्तमस्य तु त्रीन्।

टीका

उत्तम169स्यौकारस्योपरिष्टात्रीनवार्धीकारान्यात्।

विश्वास-प्रस्तुतिः

पूर्वमक्षरं निहन्यते न्यूङ्ख्यमाने।

मूलम्

पूर्वमक्षरं निहन्यते न्यूङ्ख्यमाने।

टीका

निहन्यत इति अनुदात्ती क्रियत इत्यर्थः। न्यूह्वाधिकारे पुनर्ग्यूङ्ख्यमान इति वचनं प्रथमे द्वितीये चतुर्थे वाऽक्षरे न्यूङ्ख्यमानेऽपि तस्मात्पूर्वमक्षरं निहन्यत इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

तदपि निदर्शनायोदाहरिष्यामः।

मूलम्

तदपि निदर्शनायोदाहरिष्यामः।

टीका

उक्तलक्षणस्यापि न्यूङ्खस्यार्घौकारस्वरूपस्यालौकिकत्वाद्
अन्यद् अप्य् एव जातयिकं?? संदेहं व्यावर्तयितुं निदर्शनं क्रियते।

विश्वास-प्रस्तुतिः

आपो ३ ॐ ॐ ॐ ॐॐ ओ ३ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं विभृथामृतं च रायो ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ३ ॐ ॐ ॐ श्च स्थः स्वपत्यस्य पत्नीः सरस्वती तद्गुणते वयोधो ३ मापो ३।

मूलम्

आपो ३ ॐ ॐ ॐ ॐॐ ओ ३ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं विभृथामृतं च रायो ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ३ ॐ ॐ ॐ श्च स्थः स्वपत्यस्य पत्नीः सरस्वती तद्गुणते वयोधो ३ मापो ३।

टीका

आपो प्लुतः ३, ॐ ॐ ॐ ॐ ॐ170रेव • रायो प्लुतः ३, ॐॐॐ ॐ ॐ171श्चस्थः० यो धो ३ मापो प्लुत
इत्येवं न्यूङ्ख-पुनर्-आवृत्ति-प्रदर्शनं
प्रत्यावृत्ति-न्यूङ्ख-प्रापणार्थम्।
अयम् एव पाठो ऽविच्छिन्न-संप्रदायाद् आगतत्वात् त्यक्तव्यः??।
यस्तु पुनः संहितानुरूपेण पाठः
स प्रमादकृतत्वात् त्यक्तव्यः।

विश्वास-प्रस्तुतिः

आग्निं न स्ववृक्तिभिरित्वाज्यम्।

मूलम्

आग्निं न स्ववृक्तिभिरित्वाज्यम्।

टीका

पादग्रहणेऽपीदं सूक्तमेव, आज्यस्थाने विधानात्। अत्र पादग्रहणस्य प्रयोजनमन्वेषणीयम्।

विश्वास-प्रस्तुतिः

तस्योत्तमावर्जं तृतीयेषु पादेषु न्यूड्खो निनर्दश्च।

मूलम्

तस्योत्तमावर्जंतृतीयेषु पादेषु न्यूड्खो निनर्दश्च।

टीका

तस्य सूक्तस्य याः पुरस्तात्प्रागुत्तमाया ऋचस्तासां तृतीयेषु पादेषु न्यूको निनर्दश्चकर्तव्यः। उत्तमाऽपि न्यूनिनर्दरहिता शंस्तव्यैवत्वात्त्यक्तव्यः।

विश्वास-प्रस्तुतिः

उक्तो न्यूङ्खः।

मूलम्

उक्तो न्यूङ्खः।

टीका

उक्तसंकीर्तनमुत्तरविवक्षार्थम्।

विश्वास-प्रस्तुतिः

स्वरादिरन्त ओकारश् चतुर्-निनर्दः।

मूलम्

स्वरादिरन्त ओकारश्चतुर्निनर्दः।

टीका

तृतीयेषु पादेषु निनर्द उक्तः। तेषु कस्मिन्प्रदेश इत्युच्यते। पादान्ते स्वरादित्वरोवा टिप्रदेश इत्यर्थः। स ओकार श्चतुष्कृत्वो वक्तव्यः। स निनर्द उच्यते।

तस्यैव विशेषमाह—

विश्वास-प्रस्तुतिः

उदात्तौ प्रथमोत्तमौ। अनुदात्तावितरौ उत्तरोऽनुदात्ततरः।

मूलम्

उदात्तौ प्रथमोत्तमौ। अनुदात्तावितरौ उत्तरोऽनुदात्ततरः।

टीका

मध्यमयोरुत्तर इत्यर्थः।

विश्वास-प्रस्तुतिः

प्लुतः प्रथमो मकारान्त उत्तमः। तदपि निदर्शनायोदाहरिष्यामः।

मूलम्

प्लुतः प्रथमो मकारान्त उत्तमः। तदपि निदर्शनायोदाहरिष्यामः।

टीका

अत्रापि टिप्रदेशोपमर्दी निनर्दोऽनुपमर्दी172 वेत्येवमादिसंदेह निवृत्त्यर्थं निदर्शनम्।

विश्वास-प्रस्तुतिः

आग्निं न स्ववृक्तिभिः।होतारं त्वा वृणीमहे।यज्ञो३ ॐ ॐ ॐ ॐ ॐ ओ३ ॐ ॐ ॐ ॐॐओ३ ॐ ॐ ॐ यस्तीर्णबर्हिषे विवोमदो ३ॐ ३ ॐ ३ ॐ ३ शीरं पावकशोचिषं विवक्षसो ३माग्निं न स्ववृक्तिभिः।होतारं त्वा वृणीमहे।

मूलम्

आग्निं न स्ववृक्तिभिः।होतारं त्वा वृणीमहे।यज्ञो३ ॐ ॐ ॐ ॐ ॐ ओ३ ॐ ॐ ॐ ॐॐओ३ ॐ ॐ ॐ यस्तीर्णबर्हिषे विवोमदो ३ॐ ३ ॐ ३ ॐ ३ शीरं पावकशोचिषं विवक्षसो ३माग्निं न स्ववृक्तिभिः।होतारं त्वा वृणीमहे।

टीका

पूर्वस्मिन्नर्धर्चे यो विग्रहः स आज्यत्वकारितो न न्यूङ्खनिनर्दकारितः। तेन द्वितीयादिवृक्षु स न भवति। आवृत्तिप्रदर्शनार्थं पूर्वस्यार्धर्चस्य पुनः पाठः। सर्वत्र संहितापाठोऽपभ्रंश एव।

विश्वास-प्रस्तुतिः

173३ ॐ ॐ ॐ ॐ ॐ ॐ ३ ॐॐ ॐ ॐ ॐ ॐ ३ ॐ ॐ ॐमदेथमदैवो ३ ॐ ३ ॐ ३ ॐ ३मो थामो दैवोमित्यस्य प्रतिगरः।

मूलम्

173३ ॐ ॐ ॐ ॐ ॐ ॐ ३ ॐॐ ॐ ॐ ॐ ॐ ३ ॐ ॐ ॐमदेथमदैवो ३ ॐ ३ ॐ ३ ॐ ३मो थामो दैवोमित्यस्य प्रतिगरः।

टीका

न्यूनिनर्दाभ्यां प्रणवेन संबन्धाद्वितीयेऽर्धचेंऽयं प्रतिगरो भवति पूर्वस्मिन्तादिरेव।

विश्वास-प्रस्तुतिः

अपि वोदात्ताइनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः।

मूलम्

अपि वोदात्ताइनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः।

टीका

निनर्दरूपस्यौकारचतुष्टयस्य यथासंख्येन स्वरविशेषोऽनेन विधीयते। पूर्वोक्तस्यायं विकसः। तथाभूतशस्त्रनिनर्दे174 सति प्रतिगरनिनर्देऽपि तथाभावनिदर्शनेन दर्शयन्न्यूनविना तदर्शनाशक्तेस्तत्सहितमेव दर्शितवानाचार्यः।

विश्वास-प्रस्तुतिः

तदपि निदर्शनायोदाहरिष्यामः। आग्निं न स्ववृक्तिभिः। होतारंत्वा वृणीमहे।यज्ञो ३ ३ ३ ३ ३ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐयस्तीर्णबर्हिषे विवोमदो ३ ॐ ३ ॐ३ॐ ३ शीरंपावकशोचिषं विवक्षसो ३ माग्निं न स्ववृक्तिभिः। होतारं त्वा वृणीमहे।ॐ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐॐ मदेथमदैवो ३ ॐ ३ ॐ ३ ॐ ३ मोथामोदैवोमित्यस्य प्रतिगरः।

मूलम्

तदपि निदर्शनायोदाहरिष्यामः। आग्निं न स्ववृक्तिभिः। होतारंत्वा वृणीमहे।यज्ञो ३ ३ ३ ३ ३ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐयस्तीर्णबर्हिषे विवोमदो ३ ॐ ३ ॐ३ॐ ३ शीरंपावकशोचिषं विवक्षसो ३ माग्निं न स्ववृक्तिभिः। होतारं त्वा वृणीमहे।ॐ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐ ॐ ॐ ॐ ओ ३ ॐ ॐॐ मदेथमदैवो ३ ॐ ३ ॐ ३ ॐ ३ मोथामोदैवोमित्यस्य प्रतिगरः।

टीका

गतार्थमेतत्सर्वम्175

विश्वास-प्रस्तुतिः

प्रथमार्धौकाराद्ध्वर्युर्यूङ्खयेत्।

मूलम्

प्रथमार्धौकाराद्ध्वर्युर्यूङ्खयेत्।

टीका

अवसाने प्रणवे च प्रतिगरो वक्तव्यः। तत्र प्रतिगरान्तर्वर्तिनः176 प्रणवस्य ऋगन्तर्तिना177 प्रणवेन समानकालतासंपादनार्थं प्रतिगरान्तकालश्चतुर्भिः सूत्रैर्विधीयते प्रथमात्।

विश्वास-प्रस्तुतिः

द्वितीयाद्वा।

मूलम्

द्वितीयाद्वा।

टीका

काललक्षणार्थमेतदुभयं प्रथमस्य वा द्वितीयस्य वाऽर्धौकारस्य यः कालस्तत्र प्रतिगर आरब्धव्यः। एतौ विधी वृषाकप्यादिष्वल्पाक्षरेषु भवतः। तयोस्तत्र संभवात्। वक्ष्यमाणौ तु बह्वक्षरेषु भवतः।

विश्वास-प्रस्तुतिः

व्युपरमं हैके।

मूलम्

व्युपरमं हैके।

टीका

अस्मिन्पक्षे न्यूङ्खेन सह न्यूङ्खमारभ्य विविधमुपरम्योपरम्य न्यूजेन न्यूझं निनर्देन निनर्दे प्रणवेन प्रणवं संपादयेत्। उपरमणं चात्र विलम्बनमुच्यते नावसानम्। अस्य पक्षस्याभिमतत्वसूचनार्थं हशब्दं पठितवानाचार्यः।

विश्वास-प्रस्तुतिः

यथा वा संपादयिष्यन्तो मन्येरन्।

मूलम्

यथा वा संपादयिष्यन्तो मन्येरन्।

टीका

एवमारब्धे178 प्रणवेन प्रणवः संपादयितु179मशक्यत180 इति मन्यन्ते चेत्तथाऽऽरम्भः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

वायो शुक्रो अयामि ते वि हि होत्रा अवीता वायोशतं हरीणामिन्द्रश्च वायवेषां सोमानामाचिकिता नसुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यंवृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभं प्रउगम्।

मूलम्

वायो शुक्रो अयामि ते वि हि होत्रा अवीता वायोशतं हरीणामिन्द्रश्च वायवेषां सोमानामाचिकिता नसुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यंवृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभं प्रउगम्।

टीका

अत्राप्यानुष्टुभवचनं ब्राह्मणानुवादः। अत्र तु विशेषोऽप्यस्ति। वैश्वदेवस्तृच औष्णि इस्तत्र द्वादशाक्षराणि न्यूनानि परिघानीया बृहती तस्या स्त्रिभिर्वचनैर्द्वादशाक्षराण्यधिका नोति सर्वा अनुष्टुभ एवेति।

विश्वास-प्रस्तुतिः

एकपातिन्यः प्रथमः181

मूलम्

एकपातिन्यः प्रथमः181

टीका

तृच182स्त्रिप्रतीक इत्यर्थः।

विश्वास-प्रस्तुतिः

तं त्वा यज्ञेमिरीमंह इदं वसो सुतमन्धइति मरुत्वतीयस्य प्रतिपदनुचरौ।

मूलम्

तं त्वा यज्ञेमिरीमंह इदं वसो सुतमन्धइति मरुत्वतीयस्य प्रतिपदनुचरौ।

टीका

प्रतिपदनुचरयोः सहचारित्वादेको न प्राप्नोतीति प्राकृतस्यानुचरस्य विधानम्।

विश्वास-प्रस्तुतिः

श्रुधीहवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्।

मूलम्

श्रुधीहवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्।

टीका

इदं मरुत्वतीयं द्विसूक्तम्। तत्र किं द्वयोः सूक्तयोर्निविद्धेयोतैकस्मिन्निति संदेहः। यदैकस्मिंस्तदा पूर्वस्मिन्नुत परस्मिन्निति। एवमन्यत्रापि सूक्तमहत्वेऽपि संदेहः स्यात्तन्निवृत्त्यर्थमाह

विश्वास-प्रस्तुतिः

अन्त्ये निविदं दध्यादनेकमावे सूक्तानाम्।

मूलम्

अन्त्ये निविदं दध्यादनेकमावे सूक्तानाम्।

टीका

सर्वार्थेयं परिभाषा।

विश्वास-प्रस्तुतिः

वैराजं चेत्पृष्ठं पिबा सोममिन्द्र
मन्दतु त्वेति स्तोत्रियानुरूपौ।

मूलम्

वैराजं चेत्पृष्ठं पिबा सोममिन्द्र
मन्दतु त्वेति स्तोत्रियानुरूपौ।

टीका

बृहपृष्ठ उक्तावेव।

विश्वास-प्रस्तुतिः

कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्।
श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः॥

मूलम्

कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्।
श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः॥

टीका

अस्य सूक्तस्याऽऽद्ये तृचेऽर्धर्चे183न्यूङ्खः। आदिग्रहणं न केवलं द्वितीयाक्षर एव न्यूङ्खः कर्तव्यः। क्व तर्हि, आद्ये द्वितीये तृतीये चतुर्थे वा कर्तव्यो न्यूङ्ख इति गम्यते।

विश्वास-प्रस्तुतिः

एवं कुहश्रुतीयस्य।

मूलम्

एवं कुहश्रुतीयस्य।

टीका

एवमित्यनेन तृच आद्येऽर्धर्चादिषु न्यूङ्ख इति गम्यते।

विश्वास-प्रस्तुतिः

विराजां मध्यमेषु पादेषु।

मूलम्

विराजां मध्यमेषु पादेषु।

टीका

विराज इति ‘पित्रा सोममिन्द्र मन्दतु त्वा’ इति पलूव उच्यन्ते। तासां मध्यमेषु पादेषु न्यूङ्खः कर्तव्यो द्वितीय एवाक्षरे, अत्राऽऽदिशब्दाभावात्।

विश्वास-प्रस्तुतिः

नित्य इह प्रतिगरो न्यूङ्खादिः।

मूलम्

नित्य इह प्रतिगरो न्यूङ्खादिः।

टीका

अस्मिन्यूङ्खप्रकरणे184 नित्य एव प्रतिगरः ‘ओथामो दैव’ इति स एव न्यूङ्खादिर्भवति। तस्य यदाद्यमक्षरं तस्मिन्नेव न्यूङ्गः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रणवान्तः प्रणवे कुहश्रुतीयानाम्।

मूलम्

प्रणवान्तः प्रणवे कुहश्रुतीयानाम्।

टीका

कुहश्रुतीयानां द्वितीयेऽर्धचें यः प्रतिगरो न्यूह्लादिः स प्रणवान्तश्च भवति। यः पुनः कुहश्रुतीयानामेव चतुर्थ्यादिवृक्षु द्वितीयेऽर्धर्चे प्रतिगरः स प्लुतादिरेव।

प्रणवान्तः प्रणवे कुहश्रुतीयानामित्येतदुपपादयति–

विश्वास-प्रस्तुतिः

अर्धर्चशश्चैनदुत्तमावर्जम्।

मूलम्

अर्धर्चशश्चैनदुत्तमावर्जम्।

टीका

उत्तमा त्रिष्टुप्सा पच्छः शस्या, अन्या वृहत्योऽनुष्टुभश्च ता अर्धर्चशः शस्याः। तेन प्राप्तमेवानूद्यते प्रणवान्तत्वोपपाद नार्थम्। अतो हिशब्दस्थाने चशब्दो द्रष्टव्यः।

विश्वास-प्रस्तुतिः

न ते गिरो अपि मृध्ये तुरस्य प्रवो महे महि
वृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः।

मूलम्

न ते गिरो अपि मृध्ये तुरस्य प्रवो महे महि
वृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः।

टीका

विराज इतिवचनं विराज एवैता भवन्ति नैतासु विराधर्मो न्यूङ्खादिरित्येवमर्थम्। तथा चोक्तं ‘न न्यूङ्ख्या विराजः’ इति।

विश्वास-प्रस्तुतिः

तासामूर्ध्वमारम्भणीयाभ्यस्तृचानावपेरन्।

मूलम्

तासामूर्ध्वमारम्भणीयाभ्यस्तृचानावपेरन्।

टीका

एताः सप्त ऋच उक्ताः। एतासामेव सप्तानां चतुर्थेऽहनि माध्यंदिने सवने होत्रकाः स्वे स्वे शस्त्र आरम्भणीयाभ्य ऊर्ध्वमेकैकं तृचमावपेरन्नित्याह-

विश्वास-प्रस्तुतिः

आद्यं मैत्रावरुणस्तस्योत्तमा-
दिशस्तानां तृचं ब्राह्मणाच्छंसी।

मूलम्

आद्यं मैत्रावरुणस्तस्योत्तमा-
दिशस्तानां तृचं ब्राह्मणाच्छंसी।

टीका

तस्येति। तेनेत्यर्थः। तेन मैत्रावरुणेन शस्तानामुत्तमामृचमारम्य यस्तृचस्तं ब्राह्मणाच्छंस्यावपतेत्यर्थः।

विश्वास-प्रस्तुतिः

तस्य चाच्छावाकः।

मूलम्

तस्य चाच्छावाकः।

टीका

तस्येति पूर्ववत्। शेषश्च पूर्ववत्।

विश्वास-प्रस्तुतिः

यजामह इन्द्रं वज्रदक्षिणमिति द्वितीयानेवमेव।

मूलम्

यजामह इन्द्रं वज्रदक्षिणमिति द्वितीयानेवमेव।

टीका

द्वितीयवचनमेषां तृचानां पूर्वैस्तृचैः समुच्चयार्थम्। एवमेव पूर्ववत्सप्तभिऋमिस्त्रयस्तृचाः कर्तव्या इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव।

मूलम्

पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव।

टीका

अस्मिन्नेव185 प्रसङ्गे ग्रन्थलाघवार्थ पञ्चमषष्ठयोरप्यो स्तेष्वेव शस्त्रेषु तस्मिन्नेव स्थान एकैकं तृचं विधात्यत्रस्थ एव भगवान्सूत्रकारः।

विश्वास-प्रस्तुतिः

षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव॥ ११॥

मूलम्

षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव॥ ११॥

टीका

एवमेवेति पूर्ववदित्यर्थः॥ ११॥

विश्वास-प्रस्तुतिः

स्तोमे वर्धमाने को अद्य नर्यो वनेन वाय
आयाह्यर्वाङित्यष्टर्चान्यावरन्नुपरिटापारुच्छपीनाम्।

मूलम्

स्तोमे वर्धमाने को अद्य नर्यो वनेन वाय
आयाह्यर्वाङित्यष्टर्चान्यावरन्नुपरिटापारुच्छपीनाम्।

टीका

माध्यंदिने सवने होत्रकाणामावाप ऊर्ध्वमारम्भणीयाभ्योऽधिकृतः। अथेदानी स्तोमवृद्धिनिमित्त आवाप उच्यते। तेषामेव होत्रकाणां तेष्वेव शस्त्रेण्वेतानि त्रीणि सूक्तानि त्रयाणामेकैकमेकैकस्य यथासंख्येन भवन्ति। अष्टर्चवचनमेतेषां कृत्स्नावापसिद्ध्यर्थम्। तेनात्राऽऽवापस्य निमित्ते सति यथार्थावापो न कर्तव्यः। आवापाधिकारे पुनरावपेरनिति बहुवचनं विवक्षार्थम्। तेनैकस्याऽऽवापानिमित्त सति द्वयोर्वा सर्वे होत्रका अवपेरन्निति साघितं भवति। उपरिष्टात्वारुच्छेपीना मित्ययमूर्ध्वमारम्मणीयाम्य इत्यस्थापवादः। पारुच्छेपिग्रहणं पूर्वोक्तानामावापानां प्रदर्शनार्थम्। तेनायमर्थोऽवगतो भवति - तृचावापकत्स्वहःसु तृचेभ्य186 ऊर्ध्वमतिशंसनावापोऽन्यत्राऽऽरम्भणीयाभ्य ऊर्ध्वामिति।

विश्वास-प्रस्तुतिः

तैरप्पनतिशस्त ऐन्द्राणि त्रैष्टुमान्यमरुच्छब्दान्यावपेरन्।

मूलम्

तैरप्पनतिशस्त ऐन्द्राणि त्रैष्टुमान्यमरुच्छब्दान्यावपेरन्।

टीका

तैरष्टर्यैः शस्यमानैरपि स्तोमो यद्यतिशस्तो187 न भवेत्तदैन्द्राणि सूक्तानि मरुच्छन्दवर्जितान्यावपेरंस्त्रि188ष्टुप्छन्दस्कानि। अस्माद्वचनादेते त्रयोऽथ अवगम्यन्ते— अष्टर्चानामप्यति शंसनार्थत्वात्तैरनतिशस्त ऐन्द्राणामावापो नाष्टर्चावापेन विनैन्द्रैरेवाति शंसनमिति। तेनाष्टर्चावापे कृते तैरप्यनतिशस्ते स्तोम इन्द्रदेवत्यानि मरुच्छन्दवर्जितानि त्रैष्टुभानि सूक्तान्यावपेरन्। अन्यत्रोपयुक्तान्यनुपयुक्तानि189 वाऽयूरेक इत्येवंप्रकाराणि। त्रैष्टुभवचनं व्यूहूलादिषु गायत्रं माध्यंदिनं जागतं माध्यंदिनमित्येवमादौ वचने सत्यपि त्रैष्टुभानामेवाऽऽवापसिध्द्यर्थम्। आवपेरन्निति पुनर्वचनमहरन्तरेष्वप्यस्य विधेः प्रापणार्थम्। तेनायमावापः सत्रेषु सर्वोवहःसु स्तोमातिशंसनार्थं भवति।

विश्वास-प्रस्तुतिः

न त्वेतान्यनोप्यातिशंसनम्।

मूलम्

न त्वेतान्यनोप्यातिशंसनम्।

टीका

एतान्यष्टचीन्यनोप्यान्यैरतिशंसनं नैव कर्तव्यम्। ‘एकाहाहीनेष्वपीति190’ अनेन सूत्रेणाष्टर्चानां सर्वार्थत्वं विधीयते। पूर्वसूत्रेण यत्सर्वार्थत्ववचनं तत्सत्रेष्वेवाहरन्तरेषु प्राप्त्यर्थतयाऽप्युपपद्यत इत्यनेनैवाष्टर्चानामेकाहाहीनेषु प्राप्तिर्विधीयते। एतदेवात्र विधित्सितं नान्यदिति।

विश्वास-प्रस्तुतिः

एकया द्वाभ्यां वा प्रातःसवने।

मूलम्

एकया द्वाभ्यां वा प्रातःसवने।

टीका

अतिशंसनमुक्तं तदेतावतीभिरित्युच्यते। एकयर्चा द्वाभ्यां वा ऋक्भ्यां प्रातःसवने स्तोमोऽतिशंस्तव्यः।

विश्वास-प्रस्तुतिः

अपरिमितामिरुत्तरयोः सवनयोः।

मूलम्

अपरिमितामिरुत्तरयोः सवनयोः।

टीका

त्रिप्रभृतिभिर्ऋग्भिरुत्तरयोः सवनयोरतिशंसनं कर्तव्यमिति। अस्मिन्सूत्र उत्तरयोः सवनयोरितिवचनादेव पूर्वसूत्रस्य प्रांतःसवनविषयत्वे सिद्धे यत्पूर्वसूत्रे प्रातःसवनग्रहणं करोति तज्ज्ञापयति ब्राह्मणे विधिद्वयं तावदस्ति – अनवानं प्रातःसवने यजेदित्युक्त्वाऽनन्तरमेकां द्वेन स्तोममतिशंसेदित्युक्त्वाऽपरिमिताभिरुत्तरयोः सवनयोरित्येको विधिः। अपरस्त्वेकां द्वे न द्वयोः सवनयोः स्तोममतिशंसेदित्युक्त्वाऽपरिमिता मिस्तृतीयसव इति। विधिद्वय सूचनस्येदं प्रयोजनं191 मध्यंदिन192 एकया द्वाभ्यां वा193ऽपरिमिताभिर्वाऽतिशंसनं कर्तव्यमिति194

विश्वास-प्रस्तुतिः

पञ्चमस्येमयूषु वो अतिथिमुपर्बुधमिति नवाऽऽज्यम्।

मूलम्

पञ्चमस्येमयूषु वो अतिथिमुपर्बुधमिति नवाऽऽज्यम्।

टीका

पार्ष्ठिकस्य पञ्चमस्याह्न इममूषु व इति नवर्ऋचमाज्यं भवति।

विश्वास-प्रस्तुतिः

आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतनइत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उवां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वोऽबसेदेवं देवं बृहहु गायिषे वच इति बार्हतं प्रउगम्।

मूलम्

आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतनइत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उवां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वोऽबसेदेवं देवं बृहहु गायिषे वच इति बार्हतं प्रउगम्।

टीका

प्रथमस्तृचो द्विप्रतीकः। एवमस्य प्रउगस्य बार्हतत्वम् – द्वितीयं तृचं195 मुक्त्वाऽन्येषु षट्सु तृचेषु द्वितीयाः सतोबृहत्य उत्तमे तृतीया च ताः सप्त सन्ति। उत्तमायास्त्रिर्वचनेन196 नव सन्ति। नवसु बृहत्या अतिरिक्तानि षट्त्रिंशदक्षराणि तानि द्वितीये गायत्रे तृचे प्रक्षिप्य सर्व बार्हतं भवति। श्रुतेरव्ययमेवाभिप्रायः।

विश्वास-प्रस्तुतिः

प्रगाथानेके द्वितीयोत्तमवर्जम्।

मूलम्

प्रगाथानेके द्वितीयोत्तमवर्जम्।

टीका

द्वितीयोत्तमौ तृचौ वर्जयित्वाऽन्ये वृचा एव भवन्तीत्येकेषां मतम् प्रगाथशब्देनात्र द्वृचत्वमेवेष्यते न प्रगाथधर्म आहावादिः, ‘पुरोरुग्भ्य आह्वयीत ’ इति तत्र नियमात्।

विश्वास-प्रस्तुतिः

यत्पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्यप्रतिपद्नुचरौ।अविताऽसीस्था हीन्द्र पिब तुभ्यामिति मरुत्वतीयम्।

मूलम्

यत्पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्यप्रतिपद्नुचरौ।अविताऽसीस्था हीन्द्र पिब तुभ्यामिति मरुत्वतीयम्।

टीका

इदं त्रिसूक्तम्।

विश्वास-प्रस्तुतिः

शाक्वरं चेत्पृष्ठं महानाम्न्यः स्तोत्रियः। ताअध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति।

मूलम्

शाक्वरं चेत्पृष्ठं महानाम्न्यः स्तोत्रियः। ताअध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति।

टीका

ता महानाम्नीरध्यर्ध्वकारं शंसेत्रिभिस्त्रिभिरैध्यघै197रवसानं प्रणवं च कुर्यादित्यर्थः। ता अध्यर्धकारं शंसेद्यथा प्रकृत्या नव सत्यस्ता एव तिस्रो भवन्तीति सूत्रार्थः।

विश्वास-प्रस्तुतिः

ताभिः पुरीषपदान्युपसंतनुयात्।

मूलम्

ताभिः पुरीषपदान्युपसंतनुयात्।

टीका

ताभिर्महानाम्नीभिः पुरीषपदान्युपसंतनुयात्। महानाम्न्यो नाम नवर्चो नव च पदानि पुरीषपदसंज्ञानि तासामृचामन्त्येन प्रणवेन प्रथमं पुरीषपद् संघाय ततः सर्वाणि यथापदितानि शंसेदन्त्ये प्रणवं कृत्वाऽनुरूपमुपसंतनुयात्।

तत्राऽऽद्येषु198 पञ्चसु शंसनविशेष उच्यते-

विश्वास-प्रस्तुतिः

पञ्चाक्षरशः पूर्वाणि पञ्च।

मूलम्

पञ्चाक्षरशः पूर्वाणि पञ्च।

टीका

एवाह्ये199वैवैत्यवसाय200 पञ्च पदानि शंसेत्। उत्तराणि यथापठितमेव अपवादाभावात। अन्त्ये च प्रणवः कर्तव्य एव।

विश्वास-प्रस्तुतिः

सर्वाणि वा यथानिशान्तम्।

मूलम्

सर्वाणि वा यथानिशान्तम्।

टीका

सर्वाणि वा नव पदानि यथापठितमेव शंसेत्, न पञ्चाक्षरशः पञ्च पदानीति। पञ्चानां पञ्चाक्षरशः शंसननिवृत्तिपरमेतत्सूत्रं न परेषां शंसनं तद्विशेषं वा विदधाति अन्यत एव तस्यार्थस्य सिद्धेरिति।

विश्वास-प्रस्तुतिः

योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन संतानः।

मूलम्

योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन संतानः।

टीका

योनिशंसनस्थाने त्वयं विशेषः। तृचश्च यथानिशान्तमेव शंसेन्न केवलं पुरीषपदान्येव। यथानिशान्तवचनादृक्ष्वपि प्रणवो न कर्तव्यः। सपुरीषपदा इति पुरीषपदैः सह ऋचश्च यथापठितं शंस्तव्या इत्यर्थः। अस्मिन्नपि पक्ष उत्तमे पड़े प्रणवं कृत्वा तनोत्तरं संदध्यात्। अस्य विधेः प्रणवनिषेधपरत्वादुत्तमेऽपि पदे प्रणवनिषेधशङ्का स्यात्तनिवृत्त्यर्थमुत्तमेन संतान इत्युक्तम्।

विश्वास-प्रस्तुतिः

स्वादोरित्या विषूवत उप नो हरिभिः सुतमिन्द्रंविश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः।

मूलम्

स्वादोरित्या विषूवत उप नो हरिभिः सुतमिन्द्रंविश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः।

टीका

अनुरूपत्वादेता अध्यर्धकारमेव शंस्तव्याः।

विश्वास-प्रस्तुतिः

प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम्।

मूलम्

प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम्।

टीका

इमपि त्रिसूक्तमेव।

विश्वास-प्रस्तुतिः

पाङ्के पूर्वे सूक्ते मरुत्वतीये पाङ्क्तेनिष्केवल्ये।

मूलम्

पाङ्के पूर्वे सूक्ते मरुत्वतीये पाङ्क्तेनिष्केवल्ये।

टीका

द्वयोः शस्त्रयोर्मध्यमे201सूक्ते पाङ्के एव। आद्ये तु शाक्वरातिजागते, तयोरपि पाङ्क्तत्वविधानं पङ्किशंसनप्राप्त्यर्थम्। तेन तयोरपि प्रत्यृचमवसानद्वयं भवतीति गम्यते। अवसानस्थानमुत्तरत्र वक्ष्यति।

विश्वास-प्रस्तुतिः

आद्ये तु त्रिष्टुबुत्तमे।

मूलम्

आद्ये तु त्रिष्टुबुत्तमे।

टीका

तत्र तत्र च ये द्वे पाते उक्ते तयोर्ये आधे सूक्ते तयोरुत्तमे त्रिष्टुमौ भवतः। त्रिष्टुबुत्तमा यस्य तत्रिष्टुवृत्तमं ते द्वे इति त्रिष्टुबुत्तमे। इयावाश्वस्य सुन्वतः’ ‘श्यावाश्वस्य रेमतः’ इत्येते ऋचावक्षरतत्रिष्टुन्जगत्यौ साधारणे इति त्रिष्टुब्वचनम्। तथा शृणु त्वमेक इदुनयोः पादयोरवसाने202

विश्वास-प्रस्तुतिः

तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये।

मूलम्

तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये।

टीका

‘अवितासि’ इत्यत्रावसाने ‘शतक्रतो समप्सुजित्’ इति।

विश्वास-प्रस्तुतिः

शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये॥ १२॥

मूलम्

शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये॥ १२॥

टीका

भेदं ब्रह्मेत्यत्रावसाने शचीपतेऽद्येति॥ १२॥

इत्याश्वलायनसूत्रवृत्तौ नारायणीयायामुत्तरषट्के प्रथमोऽध्यायः॥ १॥
———


  1. “ग. घ. ङ. च. झ॰ °सदह सं° ।” ↩︎

  2. “व. ङ. च. °मित्यव° । " ↩︎

  3. “घ. निवृत्त्यर्थत° ।” ↩︎

  4. “घ. °हानुच्यन्ते । च. °हानि व्युत्पा° । " ↩︎

  5. “म. ङ. झ °हादीनाम° ।” ↩︎

  6. " ङ. च. झ. °ह्नाऽतिदिष्टा° ।” ↩︎

  7. “ङ. झ. °ग्रहेणसं° ।” ↩︎

  8. “८. ग. घ. ङ. च.झ. °ङ्गकाण्डस्य । " ↩︎

  9. “ग. घ. ङ. च. झ.°रणं न गू° ।” ↩︎

  10. " घ. °ते इति तेन त° । च. °ते तेन त° ।” ↩︎

  11. " क. ङ. °याज्येभ्य° ।” ↩︎

  12. " ङ. °नि सर्वे° ।" ↩︎

  13. “ग. घ. ङ. झ. °नयद्याङ्गा° । च. °न्याद्यन्तानि । " ↩︎

  14. “ग. घ. ङ. च.°नि तेषु च प्रा° ।” ↩︎

  15. “झ. °णि तानि न ।” ↩︎

  16. “ग. ङ. च. झ. °स्त्राण्युच्यन्ते।” ↩︎

  17. " घ. °वि्द्वत्सू ।” ↩︎

  18. “ङ. च. झ.°स्तस्य च सू° ।” ↩︎

  19. " ङ. °विदति° । " ↩︎

  20. “ग. न्न झ. °या तृचेषु नि° ।” ↩︎

  21. “च. °वृतःस्तो° ।” ↩︎

  22. " ङ. °पुहविर्वि° ।" ↩︎

  23. “ग. ड. झ. °त्तौ तृचेषु । च. °सौ तेन नि° । " ↩︎

  24. " च. दो द° ।” ↩︎

  25. “ङ. झ. °ध्यान सू°।” ↩︎

  26. “ग. घ. ङ. च. झ. विस्तीर्य° ।” ↩︎

  27. " ग. ङ. झ. °ध्ये प्र° ।" ↩︎

  28. " घ च °षां प्रवृत्तौ द्वि° ।" ↩︎

  29. “भ.घ. ङ॰ च. झं. °ते. अस्ये° । " ↩︎

  30. “ग. घ. च. °नाप्यति° ।” ↩︎

  31. “ङ. झ. °तिसारे° ।” ↩︎

  32. “क. ग. व. ङ. च. °रं द्विरक्त्वा प्रणुयादि° ।” ↩︎

  33. “घ.°न तद्गृह्य° । च. °न गृ°।” ↩︎

  34. “च. °स्यन्ति ता° ।” ↩︎

  35. " झ °ष्वियदुव° । " ↩︎

  36. “ङ. झ. °दिष्वितिव° । " ↩︎

  37. " ग. घ. ङ. च.झ. °चनाद्य° ।” ↩︎

  38. “ङ. झ. °ण्डनं सिद्धं भ° ।” ↩︎

  39. “ग. घ. ङ.च. झ. °नि तानि का° ।” ↩︎

  40. “क.च. °चित्क्वचिद्व° ।” ↩︎

  41. “घ. °चोद्देश° ।” ↩︎

  42. “ङ. झ.°वादिनिमित्तजैर्ध° । ग.°वादहनिमित्तजैर्घ° । क. पुस्तकेऽप्येतत्पाठान्तरम् ।” ↩︎

  43. " च. °निर्बन्धाभा° ।” ↩︎

  44. " ङ. झ. तेषु ।" ↩︎

  45. “घ. च. °ये प्रकृ° । " ↩︎

  46. “च. °व विकृतौ ।वि” ।” ↩︎

  47. " घ. °कृतभा° ।” ↩︎

  48. " घ. च. तस्याभ्या° ।" ↩︎

  49. " ग. ङ. झ. °स्मात्तदु° ।" ↩︎

  50. “ग. ङ. झ.थाऽस्या° ।” ↩︎

  51. “घ. च. °ल्येऽप्येव° ।” ↩︎

  52. “ग. ङ. झ. °भप्यय° ।” ↩︎

  53. “ग. ङ. झ. सत्रध° ।” ↩︎

  54. “ग. घ. ङ. च. झ. तेषां । " ↩︎

  55. “घ. °णेनाध्य° ।” ↩︎

  56. “ग. घ. °र्यासेतृ° ।” ↩︎

  57. " क. ङ.झ. °यने ग° ।” ↩︎

  58. “ग. घ. ङ. च. झ. °जातीयप° ।” ↩︎

  59. " ष॰ ङ॰ च. झ॰ °र्मरहि° ।" ↩︎

  60. " ग. ङ. झ. °नमेत° ।" ↩︎

  61. " °म् । तेन ष° । घ. °म्अतस्तेन ष° ।" ↩︎

  62. “घ. ङ.झ. स पूर्वे° ।” ↩︎

  63. “च °न्यः स्तो° ।” ↩︎

  64. “च. °त्रियस्तस्यै° ।” ↩︎

  65. “ग. ङ. झ.°म् । तदे° । " ↩︎

  66. “च. °वेन्न प° ।” ↩︎

  67. “च. °हो न वा ।” ↩︎

  68. " घ. °धिर्भव° ।” ↩︎

  69. " ग. झ. °ति । कि° ।" ↩︎

  70. “ग. च. °ष्वन्यतर ।” ↩︎

  71. " क. ङ. °प्नोति अनु° । " ↩︎

  72. “क. झ. °न्स्वास्तोत्रि° ।” ↩︎

  73. " क. ग. ङ. झ. °हीतशि°।" ↩︎

  74. " घ. च. °पेरन्नित्य°" ↩︎

  75. " घ. °त्तरस्य ।" ↩︎

  76. “च. °बने ’ इ° ।” ↩︎

  77. " घ. शंसतीति मै° । च. शंससीत्येवं मै°। " ↩︎

  78. “घ. च. रुणत्वे सि° ।” ↩︎ ↩︎

  79. " ग. ङ. झ. °ति, इति गमय° ।" ↩︎

  80. “च. °नि नियमलि° ।” ↩︎

  81. " ग. थ. च.ने न द्विःशंसेत् । तृ ।" ↩︎

  82. " ङ. °ने द्विः° ।" ↩︎

  83. " ग. घ. झ.°न प्र° ।" ↩︎

  84. " य. च. °कश° । " ↩︎

  85. “घ. च. इत्यपि ना° । " ↩︎

  86. “घ. च. °हणार्थो न ।” ↩︎

  87. " घ. च.°मेवं स्थि° ।” ↩︎

  88. “क. ग. °शोक्तेः क्र° ।” ↩︎

  89. " ग. °नः पुनः क्रि° ।" ↩︎

  90. “ङ. झ. तेनैन्द्र° ।” ↩︎

  91. “ङ,°प्यतत्रैव न दे°। च. °प्यत्रैव न दे° ।” ↩︎

  92. " झ. °नं भ° । " ↩︎

  93. “ग. ङ.. झ. °र्विशे व° । " ↩︎

  94. " ग. घ. च. °त्यप्यस्व° ।” ↩︎

  95. " घ.च, पृष्ट्यानां " ↩︎

  96. " घ. च. °पृष्ठ्यस्ये° । " ↩︎

  97. “घ. च. °पृष्ट्यस्त°।” ↩︎

  98. “घ. च. °पृष्ठ्यस्था° ।” ↩︎

  99. “ग. घ. च. °तीत्येवमर्थं प्र° ।” ↩︎

  100. " घ.ङ. च. झ. पुष्ट्यस्था° ।" ↩︎

  101. " ङ. झ. निवेश ।" ↩︎

  102. " च. °तीत्यत्र सं° ।" ↩︎

  103. “ङ. झ, °त्येव । तः° ।” ↩︎

  104. “च. °न शस्त्रसं° ।” ↩︎

  105. “घ. च. °पयु° । " ↩︎

  106. " घ. पः समाहा°।” ↩︎

  107. " घ. च. °नि स्तोत्रियानुरूपाणां रूपम् । स्तो° ।" ↩︎

  108. " च °तं शस्त्रं भ° ।" ↩︎

  109. “ग. ङ. झ. °ति । अग्नि° ।” ↩︎

  110. “ग घ. च. °न्यत्स्वप° ।” ↩︎

  111. “क. ग. ड. °झ. हानि व° । " ↩︎

  112. “झ. °नेन त°।” ↩︎

  113. “क. ग. ङ. झ. °हानि व° ।” ↩︎

  114. “झ. नेनत° " ↩︎

  115. “घ. पृष्ठ्यानि।” ↩︎

  116. “घ. च. पृष्ठ्यानि।” ↩︎

  117. “घ. च. ‘तीयानीतिव°।” ↩︎

  118. “घ. ङ. च. पृष्ट्ये।” ↩︎

  119. “ध. च. ‘पादिभिर्द्विपृ।” ↩︎

  120. “च. पृष्ठ्यानी” ↩︎

  121. “घ. योनीर्नि।” ↩︎

  122. “घ. च. पृष्ट्यस्था।” ↩︎

  123. “घ. ‘ने यस्य क्रि। ङ. झ. ने यस्य। च. ने यस्य चाऽऽद्यकि।” ↩︎

  124. “ग. घ. च. पृष्ठ्यस्था°।” ↩︎

  125. “घ. च. पृष्ठ्यस्था।” ↩︎

  126. “घ. ङ. झ. व। अत्र।” ↩︎

  127. “च. °भ्यां सामभ्यां।” ↩︎

  128. “घ. ॰षप्रायेण संबन्धो ना’ । च. ‘षसंबन्धप्रापको ना। " ↩︎

  129. “घ. च. पृष्ट्यस्था। " ↩︎

  130. “क. ग. च. °ते । सा यो।” ↩︎

  131. “ङ. च. झ. ‘नार्थसंबन्धिस्तो। "

     ↩︎
  132. “ग.स च स्वयो°। घ. ङ. च. झ. स स्वयो°।” ↩︎

  133. “च. °त्तं भ°।” ↩︎

  134. “क. च. °पत्वे च।” ↩︎

  135. “ग. °व्या एकै°। " ↩︎

  136. “च. झ. °न्येवाऽऽवपन्ति।” ↩︎

  137. “क॰ ङ. °विंशक ।” ↩︎

  138. “च. ‘णदैव’।” ↩︎

  139. “ङ. झ. वापं चातु।” ↩︎

  140. “च. झ. अभिश ।” ↩︎

  141. “घ. च. ‘वन्तीति त°।” ↩︎

  142. “ङ. झ. °षु शस्त्वाऽपि। " ↩︎

  143. “ग. ङ. झ. का गणयितव्या इ।” ↩︎

  144. “च प्रकारमा।” ↩︎

  145. “घ. रणादाह।” ↩︎

  146. “क. याः न प°।” ↩︎

  147. “घ. च. न्द्य्रो मारुत्यस्ता °।” ↩︎

  148. “क. ङ. °तस्तेषु नि’।” ↩︎

  149. “घ. च. नं यथा मै” ↩︎

  150. “घ. च. °स्याऽऽभिप्लविकस्याह्न।” ↩︎

  151. “ग. घ. ङ. च. झ. ‘कारात्संपा’।”

     ↩︎
  152. “ग. °तेन भार°। घ. च. तेनाभार।” ↩︎

  153. “क. ग. च. ‘धिर्नभव’। " ↩︎

  154. “घ. च. ‘त्ययं शब्दो न नि।” ↩︎

  155. “च. विद्धानीयं विधीयते।” ↩︎

  156. “घ. च. °स्यापि ष°। " ↩︎

  157. “क. ग. ङ. च. ‘स्मिन्सूत्र’।” ↩︎

  158. ॑# “च. °स्य युगलस्य स्तो।” ↩︎

  159. “च. ‘यः समाहा।” ↩︎

  160. “ग. ङ. झ. वशेष्य” ↩︎

  161. “ङ. सत्यव” ↩︎

  162. “झ. ‘नं च चा°।”

     ↩︎
  163. “झं. °ऋचा या॰।” ↩︎

  164. “क. ‘वदर्ध°।” ↩︎

  165. “क. ङ. ‘रादित’।” ↩︎

  166. “ङ. झ. ॰सने वि॰।” ↩︎

  167. “य. ङ. च. स्थायामे” ↩︎

  168. “घ. ङ. च. झ. ‘शेषनिर्दिष्टस्याप’।” ↩︎

  169. “क. ग. घ. ङ. झ. मस्योका” ↩︎

  170. “ग. ॐ ओ ३ ५ ओ ३ ३,रे।” ↩︎

  171. “ग. ॐ ओ ३ ५ ओ ३ ३ श्च°। " ↩︎

  172. “क.ङ पनिनदीं।” ↩︎

  173. “अत्र क. ग. ङ॰ झ. पूस्तकेषु सर्वे प्लुता ओकाराः निर्दिष्टाः।” ↩︎ ↩︎

  174. “झ. ‘भूते श’। " ↩︎

  175. “क. ग. ङ. ° तत्सर्वत्र ।प्र° । झ. तत्पूर्वत्र ।प्र’ ।” ↩︎

  176. " ग. झ.°न्तवर्ति°।” ↩︎

  177. “ग. झ. °न्तवर्ति ।” ↩︎

  178. “घ. ‘रारम्भकालश्च। " ↩︎

  179. “ग. °यितुं श° । " ↩︎

  180. “च. ‘क्य इ’ ।” ↩︎

  181. " झ. ‘मः । त्रिप्र ।” ↩︎ ↩︎

  182. “च. °चस्य त्रिः प्र ।” ↩︎

  183. “ग. घ. च. झ. चेंषु न्यू °।” ↩︎

  184. “ग. ङ. झ. प्रतिक॰।” ↩︎

  185. “च. °व सूत्रम°।” ↩︎

  186. “ङ. च. ‘तृवोऽन्त्य ऊ°” ↩︎

  187. “क॰ च द्यनति°। " ↩︎

  188. “ङ. झ. °पेरन्न त्रि°।” ↩︎

  189. “घ. ङ. च. °नि चाभू°। " ↩︎

  190. “ङ. च.‘नेष्विति ‘। " ↩︎

  191. “घ. च. नं माध्यं।” ↩︎

  192. “घच दिने सवन ए°।” ↩︎

  193. “घ. वा प्रातःसवनेऽप °।” ↩︎

  194. “ग. घ. ङ. च. झ. ऋच आज्यं।” ↩︎

  195. “क. ग. ङ. तृचमुक्ताऽन्ये’।”

     ↩︎
  196. “क. ङ. ने नव। " ↩︎

  197. “घ. च. ‘रर्धर्चैर°।” ↩︎

  198. “ङ.° त्रान्तेषु। च. ‘त्रान्येषु । " ↩︎

  199. “ग. ङ. च. झ. ह्येवेत्य’।” ↩︎

  200. “घ.वेत्येवमेव सा॰।” ↩︎

  201. “घ. च. ‘र्मध्ये सू°। " ↩︎

  202. “घ. ङ. च. पादौ । त ।” ↩︎