०६

विश्वास-प्रस्तुतिः

उक्थ्ये तु होत्रकाणाम्।

मूलम्

उक्थ्ये तु होत्रकाणाम्।

तृतीयसवन इत्यनुवर्तते। उक्थ्ये त्वयं विशेषः – तृतीयसवने होत्रकाणामपिशस्त्राणि भवेयुः।

तानीमानीत्याह-

एह्यूषुब्रवाणि त आग्निरगामि भारतश्चर्षणीधृतमस्तभ्नाद्यामसुरइति तृचाविन्द्रावरुणा युवमावां राजानाविन्द्रावरुणा मधुमत्तमस्येतियाज्या वयमु त्वामपूर्व्य यो न इदमिदं पुरेति प्रगाथौ सर्वाः ककुभः प्रमंहिष्ठायोदप्रतोऽच्छाम इन्द्रं बृहस्पते युवमिन्द्रश्च वस्व इति याज्याऽधाहीन्द्र गिर्वण इयन्त इन्द्र गिर्वण ऋतुर्जनित्री नूमर्तो भवामित्रःसं वां कर्मणेन्द्राविष्णू मदपती मदपती मदानामिति याज्या।

अत्र सर्वाः ककुभ इत्युक्तं किमनेनोक्तम्। काकुभेषु तावत्प्रगाथेषु तृतीयपञ्चमयोरभ्यासे सति ककुभ एव सर्वा भवन्ति। तथैव1 च स्तुवन्ति च्छन्दोगाः। अतोऽन्यत्प्रयोजनमन्वेषणीयम्। तदिदमुच्यते – ‘होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः’ इतीन्द्रनिहवब्राह्मणस्पत्यवच्छंसनं विहितं तत्र बार्हतानामेवायं विधिरित्यनुक्तत्वात्काकुभेष्वपिप्राप्नोति तन्निवृत्त्यर्थं ककुभ इति वचनम्। सर्वग्रहणं सर्वका कुभप्रगाथसंग्रहार्थम्। तेन वहितेष्वेवासौ विधिरिति मन्तव्यम्।

विश्वास-प्रस्तुतिः

इत्यन्त उक्थ्यः॥ १॥

मूलम्

इत्यन्त उक्थ्यः॥ १॥

टीका

एवमन्त उक्थ्यः क्रतुरित्यर्थः। ‘इत्यन्तोऽग्निष्टोमः’ इत्यस्यानन्तरं होत्रकाणामेतानिशस्त्राण्युक्त्वा ‘इत्यन्त उक्थ्यः’ इत्येतावत्युच्यमान एतानि शस्त्राण्युक्थ्या2 एवेति गम्यते,तत्किमर्थमुक्थ्ये तु होत्रकाणामित्यत्रोक्थ्यग्रहणम्। अयमभिप्रायः— अथ सोमेनेत्यारम्यत्रिष्वध्यायेषु ज्योतिष्टोमाख्यः सोमयागोऽधिकृतः। स च संस्थाभेदान्नामभेदाच्च चतुर्धाभिन्नो व्युत्पादितो भवति। तत्र सर्वत्र सोमेन यजेतेत्येतद्विधिविहित एवैको यागः केनचिदुपाधिवशेनाभ्यस्तो भिन्नो नाम प्रतीयते। अतः सर्वेषां प्रकरणित्वे प्राप्तेऽग्निष्टोम एवप्रकरणी, अन्ये तस्यैव गुणविकारा इति ज्ञापयितुमुक्थ्य इत्युच्यते। उक्थ्य एतावदे3वौपदेशिकमन्यत्सर्वमातिदेशिकमित्यर्थ इति॥ १॥

विश्वास-प्रस्तुतिः

अथ षोलशी।

मूलम्

अथ षोलशी।

टीका

अथशब्द आनन्तर्यार्थः। पोलशीत्ययं शब्दः शस्त्रवाची, तच्छस्त्रान्तस्य क्रतोरपिवाचकः। तत्रैकेनोच्चारणेनोभयमत्र विवक्षितमाचार्येण। तेनायमर्थो गम्यते यदि षोलशीक्रतुःस्यात्तदा तृतीयसवने होत्रकशस्त्रानन्तरं षोलशी नाम शस्त्रं भवतीति तस्य विधिरूच्यत इति संबन्धः।

विश्वास-प्रस्तुतिः

असावि साम इन्द्र त इतिस्तोत्रियानुरूपौ।

मूलम्

असावि साम इन्द्र त इतिस्तोत्रियानुरूपौ।

टीका

अस्मिन्नेव प्रतीके षलृच इत्यर्थः।

विश्वास-प्रस्तुतिः

आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः।

मूलम्

आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः।

टीका

अत्र च्छन्दोनिर्देशः संव्यवहारार्थः।

विश्वास-प्रस्तुतिः

उपोषु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती।

मूलम्

उपोषु शृणुही गिरः सुसंदृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती।

टीका

पङ्क्तय इत्यर्थः।

विश्वास-प्रस्तुतिः

यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिहर्बाहतौ तृचौ। आधूर्ष्वस्मा इति द्विपदा।

मूलम्

यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिहर्बाहतौ तृचौ। आधूर्ष्वस्मा इति द्विपदा।

टीका

द्विपदावचनं पच्छःशंसनार्थम्।

विश्वास-प्रस्तुतिः

ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप्। एष ब्रह्मा य ऋत्वियइन्द्रो नाम श्रुतो गृणे। विस्रुतयो यथापथ इन्द्रत्वद्यन्तिरातयः। त्वामिच्छवसस्पते यन्ति गिरो न संयत इति तिस्रोद्विपदाः। प्र ते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः। त्रिकद्रुकेषु महिषो यवाशिरम्। प्रोष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ।

मूलम्

ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप्। एष ब्रह्मा य ऋत्वियइन्द्रो नाम श्रुतो गृणे। विस्रुतयो यथापथ इन्द्रत्वद्यन्तिरातयः। त्वामिच्छवसस्पते यन्ति गिरो न संयत इति तिस्रोद्विपदाः। प्र ते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः। त्रिकद्रुकेषु महिषो यवाशिरम्। प्रोष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ।

टीका

अतिजगत्यादीनि च्छन्दांस्यतिच्छन्दःशब्देनोच्यन्ते। त्रिकद्रुकेष्वित्यन्त4प्रथमाऽष्टिः।उत्तरे अतिशक्वर्यौ5। प्रोष्विति तृचः शाक्वर एव। तेनाऽऽतिच्छन्दसावित्युच्येते।

विश्वास-प्रस्तुतिः

पच्छःपूर्वं द्वेधाकारम्।

मूलम्

पच्छःपूर्वं द्वेधाकारम्।

टीका

अनयोः पूर्वं तृचं द्वेधा कृत्वा शंसेत्। एकैकामृचं द्वे द्वे ऋचौ कुर्यादित्यर्थः। पच्छःशंसनेन तत्संपद्यत इति पच्छ इत्युक्तम्। एवं चेत्पच्छशंसनमत्र सिद्धमेव चतुष्पदत्वात्तथाऽपि पच्छ इत्युक्तं द्वेधाकारमित्यस्यार्धर्चशंसनविधिपरत्वाशङ्कानिवृत्त्यर्थम्। तेनैतास्तिस्रःषड्मवन्तीति स्तोमातिशंसनकाले षड्गुण्याः।

विश्वास-प्रस्तुतिः

उत्तरमनुष्टुब्गायत्रीकारम्।

मूलम्

उत्तरमनुष्टुब्गायत्रीकारम्।

टीका

अस्य तृचस्य सप्तपदत्वादेकैकामृचमेकामनुष्टुममेकां गायत्रीं च संपादयतीत्येवमुक्तम्।आद्यैश्चतुर्भिः पादैरनुष्टुभः, त्रिभिर्गायत्र्यः। अनेन प्रकारेणैता अपि च षड् भवन्ति।प्रयोजनं पूर्ववत्।

विश्वास-प्रस्तुतिः

प्रचेतनप्रचेतयाऽऽहिपिब मत्स्व। क्रतुश्छन्द ऋतं बृहत्सुम्न आधेहि नो वसवित्यनुष्टुप्। प्र प्र वस्त्रिष्टुभमिषमर्चतं प्रार्चत यो व्यती<MISSING_FIG href="../books_images/U-IMG-1708700108Screenshot2024-02-04231254.png"/>रफाणयदिति तृचा आनुष्टुभाः।

मूलम्

प्रचेतनप्रचेतयाऽऽहिपिब मत्स्व। क्रतुश्छन्द ऋतं बृहत्सुम्न आधेहि नो वसवित्यनुष्टुप्। प्र प्र वस्त्रिष्टुभमिषमर्चतं प्रार्चत यो व्यती<MISSING_FIG href="../books_images/U-IMG-1708700108Screenshot2024-02-04231254.png"/>रफाणयदिति तृचा आनुष्टुभाः।

टीका

अस्याऽऽनुष्टुभवचनस्य पूर्वोक्तप्रयोजन6स्य संभवादन्यदुच्यते। निविदतिपत्तौ सत्यामन्यस्मिन्नप्यानुष्टुभ एव तृचे निविद्धेयेत्येतत्प्रयोजनं न जागते7 सवनच्छन्दस्के तृच इति।तेनैतत्साधितं भवति यत्र च्छन्दोनिर्देशमन्तरेण सवनविरुद्धच्छन्दसि सूक्ते निविद्विहितास्यात्तत्र तस्मिन्निविदतिपत्तौ सत्यां सवनच्छन्दस्कमेव सूक्तमाहर्तव्यं नातिपन्ननिवित्सूक्तसमानच्छन्दस्कमिति।

विश्वास-प्रस्तुतिः

उत्तमस्योत्तमां शिष्ट्वोत्तमां निविदं दध्यात्।

मूलम्

उत्तमस्योत्तमां शिष्ट्वोत्तमां निविदं दध्यात्।

टीका

उत्तमां शिष्टेत्येतदेकां शिष्ट्वेत्यनेनैव सिद्धम्। पुनर्वचनं निविद्धानीयोऽत्र तृच एव8नसक्तमिति ज्ञापनार्थम्। तेनात्र निविदतिपत्तौ तृच एवान्य आहर्तव्यो न सूक्तमितिसिद्धम्। उत्तमां निविदमिति प्रसिद्धानुवादः। तस्य प्रयोजनं स्वाध्यायकालेऽप्यस्याःशाखाया अन्ते निविदः पठितव्या इति।

विश्वास-प्रस्तुतिः

लिङ्गैः पदानुपूर्वं व्याख्यास्यामो मत्सदहिं वृत्रमपां जिन्वदुदार्थमुद्यां दिवि समुद्रं पर्वताँइह।

मूलम्

लिङ्गैः पदानुपूर्वं व्याख्यास्यामो मत्सदहिं वृत्रमपां जिन्वदुदार्थमुद्यां दिवि समुद्रं पर्वताँइह।

टीका

अस्या निविदःपाठविप्रतिपत्तौसत्यामविच्छिन्नसंप्रदायागतपाठप्रदर्शनार्थं9लिङ्गानिपठति। कानि पुनस्तानीत्याह मत्स० इह। एतानि लिङ्गानीति प्रयोजनार्थोऽयमुपदेशः।

विश्वास-प्रस्तुतिः

उद्यद्ब्रध्नस्य विष्टपमिति परिधानीया। एवाह्येवैवाहीन्द्रम्।एवा हि शक्रो बशी हि शक्र इति जपित्वाऽपाःपूर्वेषां हरिवः सुतानामिति यजति॥ २॥

मूलम्

उद्यद्ब्रध्नस्य विष्टपमिति परिधानीया। एवाह्येवैवाहीन्द्रम्।एवा हि शक्रो बशी हि शक्र इति जपित्वाऽपाःपूर्वेषां हरिवः सुतानामिति यजति॥ २॥

टीका

जपित्वा यजतीतिवचनादुत्तरत्र याज्यासंसर्गदर्शनाद्याज्याङ्गमयं जपो न शस्त्वा जपइति गम्यते। तेनात्र ‘उक्थं वाचीन्द्राय देवेभ्यः’ इत्ययं भवति। तदनन्तरमेवाहीतिमन्त्रमुक्त्वा यजति॥ २॥

विश्वास-प्रस्तुतिः

विहृतस्येन्द्र जुषस्व प्रवहाऽऽयाहि शूर हरी इह। पिबा सुतस्य मतिर्न मध्वश्वकानश्वारुर्मदाय। इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न। अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थः। इन्द्रस्तुरापाण्मित्रो न जघान वृत्रं यतिर्न। बिभेद बलं भृगुर्नससाहे शत्रून्मदे सोमस्य। श्रुधीहवं न इन्द्रो न गिरो जुषस्व वज्री न। इन्द्र सयुग्भिर्दिद्युंनमत्स्वामदाय महे रणाय। आ त्वाविशन्तु कविर्न सुतास इन्द्र त्वष्टा न। पुणस्व कुक्षी सोमो नाविड्ढिशूर धिया हि या नः साधुर्न गृध्नुर्ऋभुर्नास्तेव शूरश्चमसो न। यातेव भीमो विष्णुर्न त्वेषः समत्सुकतुर्नेति स्तोत्रियानुरूपौ।

मूलम्

विहृतस्येन्द्र जुषस्व प्रवहाऽऽयाहि शूर हरी इह। पिबा सुतस्य मतिर्न मध्वश्वकानश्वारुर्मदाय। इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न। अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थः। इन्द्रस्तुरापाण्मित्रो न जघान वृत्रं यतिर्न। बिभेद बलं भृगुर्नससाहे शत्रून्मदे सोमस्य। श्रुधीहवं न इन्द्रो न गिरो जुषस्व वज्री न। इन्द्र सयुग्भिर्दिद्युंनमत्स्वामदाय महे रणाय। आ त्वाविशन्तु कविर्न सुतास इन्द्र त्वष्टा न। पुणस्व कुक्षी सोमो नाविड्ढिशूर धिया हि या नः साधुर्न गृध्नुर्ऋभुर्नास्तेव शूरश्चमसो न। यातेव भीमो विष्णुर्न त्वेषः समत्सुकतुर्नेति स्तोत्रियानुरूपौ।

टीका

विहृतस्य पोलशिनः ‘इन्द्र जुषस्व’इत्यादिनाऽत्रैवाऽऽम्नाताः पलृचः स्तोत्रियानुरूपौभवतः। तेन पूर्वोक्तावविहृतस्येति गम्यते।

विश्वास-प्रस्तुतिः

ऊर्ध्वं स्तोत्रियानुरूपाभ्यां तदेव शस्यं विहरेत्।

मूलम्

ऊर्ध्वं स्तोत्रियानुरूपाभ्यां तदेव शस्यं विहरेत्।

टीका

अत्र द्वावर्थौविधीयेते– शस्तव्यमेतावत्, एतावद्विहर्तव्यमिति। एतदुक्तं भवति —विहृतस्य स्तोत्रियानुरूपावुक्तौ ताभ्यामूर्ध्वमविहृते यच्छस्यं तदेव शंस्तव्यम्। स्तोत्रियानुरूपौ तु प्रत्याम्नानान्निवर्तेते इति। एवं शस्यप्राप्तिरेकोऽर्थः। अपरस्तु विहृतस्येत्यधिकृत्य10वचनात्सर्वत्र विहरणे प्राप्त ऊर्ध्वं स्तोत्रियानुरूपाभ्यामिति विहरणस्य विषयो नियम्यतइति। अतः स्तोत्रियानुरूपौ नास्माभिर्विहर्तव्यौ विहृतावेव पठितवानाचार्य इति गम्यते।तदेतदुक्तं ब्राह्मणे — ‘तद्यदि नानदं कुर्युः’ इत्यादिना ‘विहृतासु स्तुवते’इत्येवमन्तेन।

विहरणस्वरूपमाह -

विश्वास-प्रस्तुतिः

पादान्व्यवधायार्धर्चशः शंसेत्।

मूलम्

पादान्व्यवधायार्धर्चशः शंसेत्।

टीका

द्वाभ्यां पादाभ्यामनर्ध11र्चान्तेऽप्यवसानं भवेत्12। तत्रानृगन्तेऽपि प्रणव इत्येवमर्थमर्धर्चशइति वचनम्।

विश्वास-प्रस्तुतिः

पूर्वासां पूर्वाणि पदानि।

मूलम्

पूर्वासां पूर्वाणि पदानि।

टीका

पाठत एवास्मिन्नर्थे सिद्धे पुनर्वचनं ‘गायत्र्यः पङ्किभिः’ इत्यत्र पङ्किपदानांपूर्वप्रयोगे द्वयोरेवाव्यवधानं भवति। गायत्रीपाठक्रमानुसारेण त्रयाणामप्यव्यवधानंस्यात्तदा पादान्व्यवधायेत्येतद्दूरोत्सारितमिति पाठक्रमत्यागः स्यात्तन्निवृत्त्यर्थमिदमुच्यते।

विश्वास-प्रस्तुतिः

गायत्र्यः पङ्क्तिभिः।

मूलम्

गायत्र्यः पङ्क्तिभिः।

टीका

विहर्तव्या इति शेषः।

विश्वास-प्रस्तुतिः

पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्।

मूलम्

पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्।

टीका

इदं न वक्तव्यं प्राप्त एवायमर्थ उच्यते, अभ्यासेन पङ्क्तिपादसाम्यं13 गायत्रीपादानां14 नकर्तव्यमित्येवमर्थम्। तेनान्यत्र न्यूनाधिकपादयोर्विहारे कर्तव्येऽभ्यासेन पादसाम्यमापाद्यपादयोर्विहरणं कर्तव्यम्। महाव्रतादावित्येत्साधितं भवति।

विश्वास-प्रस्तुतिः

उष्णिहो बृहतीभिरुष्णिहां तूत्तमान्पादान्द्वौकुर्यात्।

मूलम्

उष्णिहो बृहतीभिरुष्णिहां तूत्तमान्पादान्द्वौकुर्यात्।

टीका

अत्र च पादविभागे क्रियमाणे व्यञ्जनान्युत्तराङ्गमिति स्मर्तव्यम्।

विश्वास-प्रस्तुतिः

चतुरक्षरमाद्यम्।

मूलम्

चतुरक्षरमाद्यम्।

टीका

ततोऽष्टाक्षरमिति शेषः। एवं चतुरो भागान्कृत्वा बृहतीपादैर्विहर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीमिः।

मूलम्

द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीमिः।

टीका

अत्र द्विपदाश्चतस्रस्ताः सर्वाश्चतुर्धा कर्तव्याः। प्रथमायां सर्वे भागा व्यूहेनाव्यूहेनच पञ्चाक्षराः। उत्तरासु15 चतुरक्षरा भागाः। तत्र च प्रथमां त्रिष्टुभा विहरेत्। उत्तरास्तिस्रो जगतीभिः। विभागे क्रियमाणे व्यञ्जनान्युत्तराङ्गमिति स्मर्तव्यम्।

विश्वास-प्रस्तुतिः

उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याऽऽद्यमुत्तरस्य।

मूलम्

उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याऽऽद्यमुत्तरस्य।

टीका

उत्तमाया द्विपदाया यच्चतुर्थमक्षरं तत्प्रथमस्य भागस्यान्त्यं भवति। तदेव द्वितीयस्य चाऽऽद्यं भवति।

विश्वास-प्रस्तुतिः

अनुष्टुभमतिच्छन्दःस्ववदध्यात्।

मूलम्

अनुष्टुभमतिच्छन्दःस्ववदध्यात्।

टीका

‘प्रचेतन’ इत्येतामनुष्टुभमतिच्छन्दःस्वृक्ष्ववधाय शंसेदित्यर्थः।

इत्थमवध्यादित्याह—

विश्वास-प्रस्तुतिः

द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत
उपदध्यात्प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम्।

मूलम्

द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत
उपदध्यात्प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम्।

टीका

अनुष्टुभः प्रथमपादं16 द्विधा कृत्वा ‘अधत्विषीमान्साकं जात इत्यनयोर्ऋचोस्तृतीयपादावसान उपधाय तत्रावस्येत्। प्रचेतनेति द्वितीयस्यां प्रचेतयेतिं तृतीयस्यामित्यर्थः।

विश्वास-प्रस्तुतिः

उत्तरास्वितरान्पादान्षष्ठान्कृत्वाऽनुष्टुप्कारं शंसेत्।

मूलम्

उत्तरास्वितरान्पादान्षष्ठान्कृत्वाऽनुष्टुप्कारं शंसेत्।

टीका

उत्तरासु ‘प्रोष्वस्मा’ इत्येतास्वित्यर्थः। इतराननुष्टुभो द्वितीयतृतीयचतुर्थानित्यर्थः।एतान्पादानुत्तरास्वृक्षु यथासंख्येन षष्ठान्कृत्वैकैकामृचं द्वे17 द्वे अनुष्टुभौ कुर्यात्।

विश्वास-प्रस्तुतिः

ऊर्ध्वं स्तोत्रियानुरूपाभ्यामातो विहृतः।

मूलम्

ऊर्ध्वं स्तोत्रियानुरूपाभ्यामातो विहृतः।

टीका

स्तोत्रियानुरूपाभ्यामूर्ध्वं प्रोष्वस्मा इत्येतदन्तो यः शस्त्रावयवः स विहृतो भवति।एतावत एव विहृतत्वे सिद्धे विहृतवचनं विहृत18धर्मस्य प्रतिगरादेरेतावत्येव नियमार्थम्।तेन स्तोत्रियानुरूपयोर्विहृतयोरपि विहृतप्रतिगरो न भवति। आनुष्टुभानामपि तृचानां विहृतस्येत्यधिकारात्कथंचिद्विहरणं प्राप्नुयात्तन्निवृत्त्यर्थं च।

विश्वास-प्रस्तुतिः

तत्र प्रतिगर ओथामो दैवमदे मदामो देवोमथेति।

मूलम्

तत्र प्रतिगर ओथामो दैवमदे मदामो देवोमथेति।

टीका

द्वावेतौ प्रतिगरौ, तत्रैकवचनं जात्यभिप्रायम्। तत्रग्रहणं यत्र यत्र विहृतो भवतितत्रतत्रैतौ प्रतिगरौ भवत इत्येवमर्थम्। ‘ओथामो दैवमदे’ ‘मदामो दैवमथ’ इत्येवमेतौ प्रतिगरौ।

विश्वास-प्रस्तुतिः

याज्यां जपेनोपसृजेत्।

मूलम्

याज्यां जपेनोपसृजेत्।

टीका

मिश्रयेदित्यर्थः।

तमुपसर्जन19प्रकारं स्वयमेव पठति —

विश्वास-प्रस्तुतिः

एवा ह्येवापाः पूर्वेषां हरिवः सुतानामेवाहीन्द्रम्। अथो इदं सवनं केवलं ते। एवा हि शक्रोममद्धि सोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रावृषं जठर आवृषस्वेति।

मूलम्

एवा ह्येवापाः पूर्वेषां हरिवः सुतानामेवाहीन्द्रम्। अथो इदं सवनं केवलं ते। एवा हि शक्रोममद्धि सोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रावृषं जठर आवृषस्वेति।

टीका

लक्षणत एव सिद्धस्य पुनः पाठप्रयोजनं च पदसंधिषु संध्यं यदक्षरं तस्याव्यूहेनापूरणे20सत्यपि परिपूरणार्थं व्यूहादि न कर्तव्यमित्येवमर्थम्।

विश्वास-प्रस्तुतिः

समानमन्यत्।

मूलम्

समानमन्यत्।

टीका

योऽयं विहृतस्य विशेष उक्तस्ततोऽन्यत्सर्वमविहृतेन समानमित्यर्थः।

विश्वास-प्रस्तुतिः

स्तोत्रियाय निविदे परिधानीयाया इत्याहावः।

मूलम्

स्तोत्रियाय निविदे परिधानीयाया इत्याहावः।

टीका

अयमपि विहृतस्यैव विशेषः। आहावनियमोऽनुरूपतदनन्तरयोः प्रतिषेधफलः। तेनाविहृतस्य पञ्चाहावत्वं भवति।

विश्वास-प्रस्तुतिः

आहृतं पोलशिपात्रं समुपहावं भक्षयन्ति।

मूलम्

आहृतं पोलशिपात्रं समुपहावं भक्षयन्ति।

टीका

इदं विहृताविहृतयोः साधारणं, षोलशिपात्रमिति विशेषणात्। आहृतमिति प्राप्तानुवादः। समुपहाववचनं य एतं भक्षयन्ति तेषां सर्वेषां परस्परमुपहवयाचनप्राप्त्यर्थं नवषट्कर्तृहोमकर्त्रोरेव परस्परमिति प्रदर्शनार्थम्।

अत्रैते भक्षयितार इत्याह—

विश्वास-प्रस्तुतिः

घर्मे च भक्षिणः।

मूलम्

घर्मे च भक्षिणः।

टीका

प्रथमं तावद्वषट्कर्तृहोमकर्तारो घर्मे ये भक्षिणस्ते चेत्यर्थः।

विश्वास-प्रस्तुतिः

मैत्रावरुणस्त्रयश्छन्दोगाः।

मूलम्

मैत्रावरुणस्त्रयश्छन्दोगाः।

टीका

सुब्रह्मण्यवर्जिताः।

विश्वास-प्रस्तुतिः

इन्द्र पोलशिन्नोजस्विंस्त्वं देवेष्वस्योजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु। तस्यत इन्द्रपीतस्यानुष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपः॥ ३॥

मूलम्

इन्द्र पोलशिन्नोजस्विंस्त्वं देवेष्वस्योजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु। तस्यत इन्द्रपीतस्यानुष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपः॥ ३॥

टीका

एष भक्षमन्त्रः। इत्यन्तः षोलशीत्यध्याहारः कर्तव्यः॥ ३॥

विश्वास-प्रस्तुतिः

अतिरात्रेपर्यायाणामुक्तः शस्योपायो होतुरपि यथा होत्रकाणाम्।

मूलम्

अतिरात्रेपर्यायाणामुक्तः शस्योपायो होतुरपि यथा होत्रकाणाम्।

टीका

उक्तः षोलशी। इदानीमतिरात्र उच्यते। तस्मिन्नतिरात्रे वक्ष्यमाणो विधिर्भवति।सदाधिकारार्थमतिरात्र इतिवचनम्। वक्ष्यमाणानि द्वादश शस्त्राणि पर्याया इत्युच्यन्ते। तेषामाद्यानि चत्वारि प्रथमः पर्यायः, मध्यमानि मध्यम उत्तमान्युत्तम इत्येवं नामविशेषःपर्यायाणामेषां शस्योपाय उक्तः। तत्र होतुर्होत्रकाणां च यः साधारणः, न तत्र विधेयमस्ति। यः पुनर्हेत्रकानुद्दिश्य विहितः शस्योपायः स यथा होत्रकाणां भवति होतुरपितथैव भवतीत्यत्र विधीयते। उक्तग्रहणमुक्तस्यैवायमतिदेशो न वक्ष्यमाणस्येवेत्येवमर्थम्21।तेन निर्ह्रासे होतृसंबन्धो नास्तीति गम्यते वक्ष्यमाणत्वादिति।

विश्वास-प्रस्तुतिः

प्रथमे पर्याये होतुराद्यां वर्जयित्वा प्रत्यूचं स्तोत्रियानुरूपेषु प्रथमानि पदानि द्विरुक्त्वाऽवस्यन्ति।

मूलम्

प्रथमे पर्याये होतुराद्यां वर्जयित्वा प्रत्यूचं स्तोत्रियानुरूपेषु प्रथमानि पदानि द्विरुक्त्वाऽवस्यन्ति।

टीका

प्रथमे पर्याये ये स्तोत्रियानुरूपास्तेषामाद्यस्याऽऽद्यामृचं वर्जयित्वाऽन्यासु सर्वास्वृक्षुप्रथमानि पदानि द्विरुक्त्वा तत्रैवावस्येयुरित्यर्थः22। पदानीति। पादानित्यर्थः।

विश्वास-प्रस्तुतिः

शिष्टे समसित्वा प्रणुवन्ति।

मूलम्

शिष्टे समसित्वा प्रणुवन्ति।

टीका

शिष्टौ यौ पादौ तौ समस्य प्रणवं कुर्वन्ति। ऋगन्तेप्रणवविधानं समाहार्यत्वादर्धर्चानां संदेहनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

सर्वे सर्वासां मध्यमे मध्यमानि प्रत्यादाय ऋगन्तैः प्रणुवन्ति।

मूलम्

सर्वे सर्वासां मध्यमे मध्यमानि प्रत्यादाय ऋगन्तैः प्रणुवन्ति।

टीका

प्रत्यृचं स्तोत्रियानुरूपेष्वित्यनुवर्तते। सर्व इत्युत्तरार्थम्। सर्वासामित होतुराद्यां वर्जयित्वेत्येतन्निवृत्त्यर्थम्। प्रत्यादायेतिवचनान्मध्यमानि पदानि सकदुक्त्वाऽवसाय तान्येव प्रत्यादाय तैर्ऋगन्तानि संघाय ऋगन्तैः प्रणुवन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

उत्तमान्युत्तमे।

मूलम्

उत्तमान्युत्तमे।

टीका

सर्व इति संबध्यते। तदत्राच्छावासंग्रहार्थं भवति। उतमे पर्याये स्तोत्रियानुरूपेषुसर्वासामृचामुत्तमानि पदानि सर्वे साच्छावाका द्विरुक्त्वा तैरेव प्रणुयुरित्यर्थः।

विश्वास-प्रस्तुतिः

चतुरक्षराणि त्वच्छावाकः।

मूलम्

चतुरक्षराणि त्वच्छावाकः।

टीका

उत्तम पर्यायेऽच्छावाक उत्तमे पादेऽन्ततश्चनुरक्षराणिद्विक्त्वा प्रणुयात्। अच्छावाकस्य पदाभ्यासश्चतुरक्षराभ्यासश्चोमयं विधीयते। तत्रार्थाद्विकल्पो भवति। तत्रतुशब्देन व्यवस्थाविकल्प इत्ययं विशेष उच्यते यत्र गायत्र्यस्तत्र पदाम्यासः, यत्रोष्णिहस्तत्र चतुरक्षराभ्यास इति।

विश्वास-प्रस्तुतिः

चतुःशस्त्राः पर्यायाः।

मूलम्

चतुःशस्त्राः पर्यायाः।

टीका

उक्तार्थमेतत्।

विश्वास-प्रस्तुतिः

होतुराद्यम्।

मूलम्

होतुराद्यम्।

टीका

शस्त्रं भवतीति शेषः। त्रिषु पर्यायेष्वेवं भवति। मुख्यत्वादेव होतराद्यमेव भवति।वचनप्रयोजनमाद्यशस्त्रस्य होत्रा संबन्धकरणं तथेतरैतिरेषामिति। तेन प्रथमाद्धोतेत्येवमादौस्वं स्वमेव शस्त्रं शंसेयुरित्येतत्साधितं मत्राते। अतिरिक्तेषु चानेन क्रमेण शस्त्रिणांशत्रसंबन्धः सिद्धो भवति।

विश्वास-प्रस्तुतिः

याज्याभ्यः पूर्वे पर्यासाः।

मूलम्

याज्याभ्यः पूर्वे पर्यासाः।

टीका

याज्याभ्यः पूर्वाणि यानि प्रतीकानि तानि पर्याससंज्ञानि भवन्ति।

** पान्त मा वो अन्धसोपादुशिष्यप्र्यन्धसस्त्यमु वः सत्रासाहमिति सूक्तशेषोऽभित्यं मेषमध्यर्यवो भरतेन्द्राय सोममिति याज्या प्र व इन्द्रायमादनं प्रकृतान्यृजीषिणः प्रतिश्रुताय वो धृषदिति पञ्चदश दिवश्विदस्येति पर्यासः स नो नव्येभिरिति चास्य मदे पुरुवर्पांसि विद्वानितियाज्या। वयमु त्वा तदिदर्था वयमिन्द्र त्वायवोऽभि वार्त्रहत्यायेत्युत्तमाभुद्धरेदिन्द्रो अङ्ग महद्भयमभिन्यूषु वाचमप्सु धूतस्य हरिवः पिबेहेतियाज्येन्द्राय मद्वने सुतमिन्द्रमिद्ग्रथिनोबृहदेन्द्रसानसिमेतोऽन्विन्द्रं स्तवामेशानं मा नो अस्मिन्मघवन्निन्द्र पिब तुभ्यं सुतो मदायेतियाज्याऽयं त इन्द्रसोमोऽयं ते मानुषे जन उद्घेदर्भात्युत्तमामुद्धरेदहंभुवमपाय्यस्यान्धसो मदायेति याज्याऽऽतून इन्द्र क्षुमन्तमा प्रद्रवपरावतो न ह्य१न्यं बलाकरभित्यष्टावींखयन्तीरहं दां पाता सुतमिन्द्रोअस्तु सोमं हन्ता वृत्रमिति याज्याऽभि त्वा वृषभा सुतेऽभि प्रगोपतिंगिराऽऽतून इन्द्र मद्र्यगिति सूक्ते अश्वावति प्राग्रां पीतिं वृष्ण इयर्मिसत्यामिति याज्या। इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः प्र सम्राजमुपक्रमस्वाभर धृषता तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रेतियाज्येदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा समस्य मन्यवे विश इतिद्विचत्वारिंशद्विश्वजिते तिष्ठा हरीरथ आयुज्यमानेति याज्याऽऽत्वेतानिषीदताऽऽत्वशत्रवागहि नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेच्छ्रत्ते दधामीदं त्यत्पात्रमिन्द्रपानमिति याज्या योगे योगे तवस्तरं युञ्जन्तिबध्नमरुषं यदिन्द्राहं प्र ते मह ऊती शची वस्तव वीर्येणेति याज्येन्द्रःसुतेषु सोमेषु य इन्द्र सोमपातम आघाये अग्निमिन्धत इति सप्तदश यइन्द्र चमसेष्वा सोमः प्र वः सतां प्रोद्रोणे हरयः कर्माग्मन्निति याज्या।**

अत्र मध्ये पर्यासवचनमनुत्तमस्यापि पर्यासत्वसिद्ध्यर्थम्। पान्त मा वः। प्र वइन्द्राय। यवमु त्वा23। वयमु त्वा तदिदुर्था। इन्द्राय मद्वने। अयं त इन्द्र। आतून।अभि त्वा वृषभा सुते। इदं वसो। इदं ह्यन्वोजसा। आत्वेता निषीदत। योगे योगे।इन्द्रः सुतेषु। एते त्रयः पर्यायाः। नकिरिन्द्रेत्येतत्पादग्रहणेऽपि सूक्तमेव, उत्तमामुद्धरेदिति वाक्यशेषात्।

विश्वास-प्रस्तुतिः

इति पर्यायाः।

मूलम्

इति पर्यायाः।

टीका

इत्येतेपर्यायसंज्ञा भवन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

पर्यासवर्जंगायत्राः॥ ४॥

मूलम्

पर्यासवर्जंगायत्राः॥ ४॥

टीका

छन्दोनिर्देशः स्तोमातिशंसनार्थमावापे कर्तव्ये गायत्राणामेवाऽऽवापसिद्ध्यर्थम्॥ ४॥

विश्वास-प्रस्तुतिः

संस्थितेष्वाश्विनाय स्तुवते।

मूलम्

संस्थितेष्वाश्विनाय स्तुवते।

टीका

अतिरात्र इत्यनुवर्तते। आश्विन इति शस्त्रनाम। पर्यायेषु समाप्तेषु च्छन्दोगा आश्विनाय स्तुवते। अनेनाऽऽश्विनारम्भकालो विहितो भवति।

** शंसिष्यन्विसंस्थितसंचरेण निष्क्रम्याऽऽग्नीध्रीये जान्वाच्याऽऽहुतीर्जुहुयादग्निरज्वी गायत्रेण च्छन्दसा तमश्यान्तमन्वारभे तस्मैमामवतु तस्मै स्वाहा। उषा अज्विनी त्रैष्टुभेन च्छन्दसा तामश्यान्ता24मन्वारमे तस्यै मामवतु तस्यै स्वाहा। अश्विनावज्विनौजागतेन च्छन्दसा तावश्यान्तावन्वारभे ताभ्यां मामवतु ताभ्यांस्वाहा। बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रं वो विश्वतस्परीति च।**

शंसिष्यन्नितिवचनं प्रतिनिधिः25 प्रवृत्तो यदि शंसेत्तदा जुहुयादित्येवमर्थम्। विसंस्थि26तसंचरेण ग्रहणं संस्थितेष्विति संस्थितशब्ददर्शनात्संस्थाशङ्का प्राप्नोतीति तन्निवृत्त्यर्थम्। एताःषडाहुतयः। चशब्दो होमे मन्त्रस*मुच्चयार्थः। तेनाऽऽज्यशेषप्राशनं तूष्णीमेव भवति।

विश्वास-प्रस्तुतिः

प्राश्याऽऽज्यशेषमप उपस्पृशेन्नाऽऽचामेद्विज्ञायते देवरथो वा एष यद्धोता नाक्षमद्भिः करवाणीति।

मूलम्

प्राश्याऽऽज्यशेषमप उपस्पृशेन्नाऽऽचामेद्विज्ञायते देवरथो वा एष यद्धोता नाक्षमद्भिः करवाणीति।

टीका

होमार्थं पृथक्कृतस्य तस्य परिशिष्टं यदाज्यं तत्प्राश्नीयात्। प्राश्य चाप उपस्पृशेत्,शुद्ध्यर्थमाचमनं न कुर्यात्। अनाचमने कारणत्वेन श्रुतिरेव दर्शिता। सैषा श्रुतिः –‘देवरथः’ इत्यादिः। होता देवानां रथस्तस्य वक्त्रं चक्रं जिह्वाऽक्षः। मम देवस्थभूतस्य होतुरक्षभूतां जिह्वामाज्येन स्वक्तां नाद्भिः प्रक्षालयामीति श्रुतेरर्थः। अनेन प्रकारेणाशुचित्वमेवात्र नास्तीति गम्यते।

विश्वास-प्रस्तुतिः

प्राश्य प्रतिप्रसृप्यपश्चात्स्वस्य धिष्ण्यस्योपविशेत्समस्तजङ्घोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा यथा शकुनिरुत्पतिष्यन्।

मूलम्

प्राश्य प्रतिप्रसृप्यपश्चात्स्वस्य धिष्ण्यस्योपविशेत्समस्तजङ्घोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा यथा शकुनिरुत्पतिष्यन्।

टीका

प्राश्य प्रतिप्रसृप्येतिवचनमस्य प्राशनस्याशुचित्वकारणत्वाभावादन्तः सदस्यपि प्राशनमविरुद्धमित्य27प्रसृप्यापि प्राश्नीयादिति तन्निवृत्त्यर्थमुच्यते। पश्चात्स्वस्य धिष्णस्येतिवचनं

————————————————————————————————————
* क. झ. समन्वयार्थः।
————————————————————————————————————

प्रातरनुवाकन्याय विधानाद्धविर्धान उपवेशनशङ्कानिवृत्त्यर्थम्। जङ्घा चोरुश्च जङ्घोरु।प्राण्यङ्गत्वादेकवद्भावः। जङ्घोरु जङ्घोरु चेति जङ्घोरुणी ते समस्ते यस्य सःसमस्तजङ्घोरुः। एवंभूतोऽरत्निभ्यां जानुभ्यां चोपस्थं कृत्वा भूमिमाश्रित्येत्यर्थः। पादाङ्गुलीभिश्च भूमिमाश्रियैवमुपविशेत्। एवमुपविष्टः शकुनिरिवोत्पतिष्यन्मवति। एतदासनं शस्त्रादौ य आहावस्तदुच्चारणसमकालमेव नोपरिष्टात्। एतत्तु ‘शकुनिरिवोत्पतिष्यन्नाह्वयीत’ इतिश्रुतिवचनाल्लभ्यते।

विश्वास-प्रस्तुतिः

उपस्थकृतस्त्वेवाऽऽश्विनं शंसेत्।

मूलम्

उपस्थकृतस्त्वेवाऽऽश्विनं शंसेत्।

टीका

उपस्थकृत इति यथाप्रकृत्युपविष्ट इत्यर्थः। आश्विनाधिकारे पुनराश्विनग्रहणमाहावादूर्ध्वंसर्वमाश्विनमुपस्थकृत एव शंसेदित्येवमर्थम्। तेन शकुनिरिवोत्पतिष्यन्नितिवचनं प्रथममाहावस्यैव न परिधानीयाहावस्येत्यवगम्यते।

विश्वास-प्रस्तुतिः

अग्निर्होता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः।

मूलम्

अग्निर्होता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः।

टीका

प्रतिपद्वचनं ब्राह्मणोक्तस्य प्रतिपदन्तरस्य निवृत्त्यर्थम्। ‘एषैव प्रतिपद्भवति’ इतिप्रतिपद्वचनात्तृचत्वार्धर्चशंसनप्राप्तौ तन्निवृत्त्यर्थमेकपातिनी पच्छ इत्युच्यते।

विश्वास-प्रस्तुतिः

एतयाऽऽग्नेयं गायत्रमुपसंतनुयात्।

मूलम्

एतयाऽऽग्नेयं गायत्रमुपसंतनुयात्।

टीका

एतया प्रतिपदा प्रातरनुवाकार्थस्य समाम्नायस्याऽऽग्नेयं गायत्रं यत्तदुपसंतनुयात्।तेन ’ आपो रेवतीः’ इतीयमृङ्न भवति। आग्नेयमित्येतावतैव सिद्धे गायत्रमितिवचनमाग्नेयस्य गायत्रस्य कृत्स्नस्य शंसनार्थम्।

विश्वास-प्रस्तुतिः

प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्यसहस्रावममोदेतोः शंसेत्।

मूलम्

प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्यसहस्रावममोदेतोः शंसेत्।

टीका

प्रातरनुवाकन्यायेनेति सप्तच्छन्दः सूक्तग्रहणं नान्यैराग्नेयं गायत्रम्। यथास्थानंध्रुवाणि माङ्गलानि। ‘ईले द्या28वीयमावर्तयेदा तमसोऽपघातात्’। इत्येवमादिः शस्यविषयोन्यायादतिदिश्यते न कर्तृविषय उत्सर्पणादिः। स्वरस्तु तृतीयसवनत्वादुत्तम एव। तस्यैव समाम्नायस्येति। प्रातरनुवाकार्थस्येत्यर्थः। सहस्रावममिति। यस्य शस्त्रस्य ऋचांसहस्रमवममात्रात्तत्सहस्रावममित्युच्यते। तदुदयात्प्रागेव शंसेत्। उदयो नामाऽऽदित्यमण्डलदर्शनमात्रमदर्शनेऽनुदयः। तेनात्राभिविधेरसंभवान्मर्यादैवं गृह्यते। तेनोदिते यच्छस्यंतद्वर्जयित्वैव सहस्रावममित्युक्तं भवति।

विश्वास-प्रस्तुतिः

बार्हतास्त्रयस्तृचा स्तोत्रिया प्रगाथा वा तान्पुरस्तादनुदैवतं स्वस्य च्छन्दसो यथास्तुतं शंसेत्।

मूलम्

बार्हतास्त्रयस्तृचा स्तोत्रिया प्रगाथा वा तान्पुरस्तादनुदैवतं स्वस्य च्छन्दसो यथास्तुतं शंसेत्।

टीका

बार्हता बृहतीछन्दस्का नाम। ते त्रयस्तृचा अग्न्युषोश्विदेवत्याः। संघिसाम्नः स्तोत्रियाश्छन्दोगैः क्रियन्ते बार्हता वा प्रगाथाः। तांस्तृचान्प्रगाथान्वा यथादेवतं बृहतीच्छन्दसः पुरस्ताद्यथास्तुतं शंसेत्। ‘सर्वमन्यद्यथास्तृतम्’ इत्यनेनैव सिद्धे पुनर्यथास्तुतवचनमत्राऽऽम्नातानां यथास्तुतत्वेन स्वस्य च्छन्दसः पुरस्ताद्यथादेवतं शस्तानां पुनः स्वस्यस्थाने शंसननिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

येषु वाऽन्येषु।

मूलम्

येषु वाऽन्येषु।

टीका

अन्येषु वा येषु केषुचिच्छन्दःसु यदि स्तुयुस्तथाऽपि यथा दैवतं स्वस्य च्छन्दस एवपुरस्ताच्छंसेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

पच्छो द्विपदाः।

मूलम्

पच्छो द्विपदाः।

टीका

द्विपदाः पच्छः शंसेत्। अत्र द्विपदानां बहुत्वासंभवात्सर्वार्थोऽयं विधिरित्यवगम्यते।

विश्वास-प्रस्तुतिः

उपसंतनुयादेकपदाः।

मूलम्

उपसंतनुयादेकपदाः।

टीका

एकपदाः पूर्वेण प्रणवेनोपसंतनुयात्।

विश्वास-प्रस्तुतिः

ताभ्यश्चोत्तराः।

मूलम्

ताभ्यश्चोत्तराः।

टीका

ताभ्य एकपदाभ्यो या उत्तरा ऋचस्ताश्चैकपदान्तगैःप्रणवैरुपसंतनुयात्। एकपदानामत्र बहुत्वासंभवादयमपि विधिः सर्वार्थ एव। एकपदाद्विपदानां प्रातरनुवाके दृष्टस्योपसमासस्यापवादार्थोऽयं यत्नः।

विश्वास-प्रस्तुतिः

विच्छन्दस उद्धरेत्।

मूलम्

विच्छन्दस उद्धरेत्।

टीका

विच्छन्दसो विरुद्धशस्यच्छन्दसः। ताश्चैवंप्रकारा वेदितव्याः—अर्धर्चशस्येषु पच्छःशस्याः, पच्छःशस्थेषु चार्धर्चशस्या इति। ता उद्धरेत्।

विश्वास-प्रस्तुतिः

अपि वा तन्न्यायेन शंसनम्।

मूलम्

अपि वा तन्न्यायेन शंसनम्।

टीका

अपि वा नैवोद्धारः कर्तव्यः। तन्न्यायेन सूक्तन्यायेन शंसनमुद्धारो वेति विकल्पइत्यर्थः। एवं विकल्पे प्राप्तेऽर्धर्चशस्यगतानां पच्छःशस्यानां सूक्तन्यायनार्धर्चशंसनमविरुद्धंक्वचिदृष्टपूर्वत्वादिति। तत्रोद्धारन्यायशंसनयोर्विकल्प उपपद्यते।

एवं पच्छःशस्यगतानामप्यर्धर्चशस्यानामुद्धारपच्छःशंसनयोर्विकल्वे प्राप्ते तन्निवृत्त्यर्थमाह—

विश्वास-प्रस्तुतिः

न तु पच्छोऽन्यास्त्रिष्टुब्जगतीभ्यः।

मूलम्

न तु पच्छोऽन्यास्त्रिष्टुब्जगतीभ्यः।

टीका

अत्रायं विशेषः—पच्छःशस्यगतानामर्धर्चशस्यानां पच्छःशंसने कर्तव्ये त्रिष्टुब्जगतीभ्योऽन्या या ऋचत्रिष्टुब्जगतीसूक्तमध्यगतास्ताः पच्छो न शंस्तव्या इत्यर्थः। कथं तर्हितासां कर्तव्यमित्युद्धारस्तच्छन्दोन्यायेन वा शंसनम्। एतदुद्धारवचनं सूक्तन्यायशंसनवचनंचाऽऽश्विन एव शस्त्रेऽन्यत्र सर्वत्र तच्छन्दोन्यायशंसनमेवेति सिद्धम्। ‘विच्छन्दस उद्धरेत्’‘अपि वा तन्न्यायेन शंसनम्’ एवं वाऽनयोः सूत्रयोरर्थः - प्रातरनुवाकार्थे समाम्नाये गायत्र्यादिवचनेष्वसत्स्वपि तासां स्वरूपत एव गायत्र्यादित्वे सिद्धे पुनर्गायत्र्यादिवचनमाश्विने गायत्र्याद्यन्तर्भूतानामन्यच्छन्दसामुद्धारार्थमिति मन्यमानो विच्छन्दस इत्युक्तवानाचार्यःस्वयमेव। एवं प्राप्त आह— अपि वा तन्न्यायेन शंसनम्। अपि वेति पक्षव्यावृत्त्यर्थः। नैव गायत्र्यादिवचनादेवोद्धारः कर्तुं शक्यते। तत्र प्रकरण उद्धारवचनाभावात् गायत्र्यादिवचनस्य श्रुत्यनुवादत्वेन प्रायिकत्वसंभवाच्च। अतस्तासां तन्न्यायशंसनं कर्तव्यम्। तत्र यासां सूक्तन्यायशंसनमुपपद्यते तासां तथा भवति। यासामेवं न संभवति तासां छन्दोन्यायशंसनमिति सिद्धं भवति।

विश्वास-प्रस्तुतिः

पाङ्क्तेनोदिते सौर्याणि प्रतिपद्यते।

मूलम्

पाङ्क्तेनोदिते सौर्याणि प्रतिपद्यते।

टीका

उदित आदित्ये प्रतिप्रियतममित्यस्योत्तमेन प्रणवेन ‘सूर्यो नो दिवः’ इत्येतत्संधायतदादीनि सौर्याणि सूक्तानि शंसेदित्यर्थः। ‘उदिते सौर्याणि’ इत्यनेनैवात्मात्प्राक्तनमुदयात्प्रागवेति सिद्धे यत् ‘ओदेतोः शंसेत्’ इति वचनं तस्यैतत्प्रयोजनमोदेतोः शंसेदेव नोपरमेदिति। तेनेलेद्यावीयावर्तनेनान्येन वा, ओदयादनुपरमं शंसेत्। अयनेवार्थोभगवताऽऽपस्तम्बेनोक्तः– ‘यस्याऽऽश्चिने29 शस्यमाने द्वितीयत्वेऽप्युत्तमशब्दप्रयोगादन्यत्रापि द्वयोरन्त्यस्योत्तमत्वेशस्यमाने सूर्योनाऽऽविर्भवति सर्वा अपि दाशतयीरनुब्रूयात्’इति सौर्याणीतिवचनमेषां चतुर्णां सूक्तानां सौर्याणीति संज्ञाकरणार्थम्। तेनैतानि दिवैवाध्येतव्यानि। सौर्याणीत्युक्त एतान्येव प्रत्येतन्यानि चेति।

विश्वास-प्रस्तुतिः

सूर्यो नो दिव उदु त्यं जातवेदसमिति नव चित्रं देवानां नमो मित्रस्य। इन्द्र क्रतुं न आभरामि त्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथाः। मही द्यौः पृथिवी च नस्ते हिद्यावापृथिवी विश्वशंभुवा। विश्वस्य देवीमृचयस्य जन्मनोऽनया रोषातिनग्रभदिति द्विपदा।

मूलम्

सूर्यो नो दिव उदु त्यं जातवेदसमिति नव चित्रं देवानां नमो मित्रस्य। इन्द्र क्रतुं न आभरामि त्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथाः। मही द्यौः पृथिवी च नस्ते हिद्यावापृथिवी विश्वशंभुवा। विश्वस्य देवीमृचयस्य जन्मनोऽनया रोषातिनग्रभदिति द्विपदा।

टीका

द्विपदावचनं पच्छःशंसनार्थम्।

विश्वास-प्रस्तुतिः

बृहस्पते अति यदर्यो अर्हादिति परिधानीया।

मूलम्

बृहस्पते अति यदर्यो अर्हादिति परिधानीया।

टीका

परिधानीयावचनं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

प्रतिपदे परिधानीयाया इत्याहावः।

मूलम्

प्रतिपदे परिधानीयाया इत्याहावः।

टीका

प्रतिपद्यप्राप्त आहावो विधीयते। अनुचराभावात्तृचत्वाभावाच्च नेयं लाक्षणिका(की)प्रतिषत्। परिधानीयाया विधानं प्रगाथस्तोत्रियेष्वाहावनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

बृहत्साम चेत्तस्य योनिं प्रगाथेषु द्वितीयां तृतीयां वा।

मूलम्

बृहत्साम चेत्तस्य योनिं प्रगाथेषु द्वितीयां तृतीयां वा।

टीका

संधिस्तोत्रे रथंतरं सामेत्युत्सर्गः। तत्र यदि बृहत्साम कुर्युस्तदा तस्य बृहतो योनिं‘त्वामिद्धि हवामहे’ इति द्वृचमेतेषु प्रगाथेषु द्वितीयामिन्द्रऋतुमित्यस्योपरिष्टत्तृतीयामभित्वेत्यस्योपरिष्टादित्यर्थः। एतयोरन्यतरस्मिन्क्रमे शंसेत्।

विश्वास-प्रस्तुतिः

न वा।

मूलम्

न वा।

टीका

कृतेऽपि बृहत्सामनि बृहतो योनिं न शंसेदित्यर्थः।

विश्वास-प्रस्तुतिः

आश्विनेन ग्रहेण सपुरोलाशेन चरन्ति।

मूलम्

आश्विनेन ग्रहेण सपुरोलाशेन चरन्ति।

टीका

आश्विनेनेत्यश्विदैवत्येनेत्यर्थः। ग्रहेणेति प्रदर्शनार्थम्। ग्रहेण वा चमसेन वा सपुरोलाशेन चरन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

इमे सोमासस्तिरो अह्न्यासस्तीव्रास्तिष्ठन्ति पीतये युवभ्याम्। हविष्मता नासत्या रथेनाऽऽयातमुपभूषतं पिबध्या इत्यनुवाक्या होता यक्षदश्विना सोमानां तिरो अह्न्यानामिति प्रैषः। प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेति याज्ये अध्यर्धामनवानम्।

मूलम्

इमे सोमासस्तिरो अह्न्यासस्तीव्रास्तिष्ठन्ति पीतये युवभ्याम्। हविष्मता नासत्या रथेनाऽऽयातमुपभूषतं पिबध्या इत्यनुवाक्या होता यक्षदश्विना सोमानां तिरो अह्न्यानामिति प्रैषः। प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेति याज्ये अध्यर्धामनवानम्।

टीका

अत्राप्यृचोरेव द्वित्वं न याज्याकार्यस्य। अत्राऽऽश्विनेनेति देवताविधानं नेयं शस्त्रयाज्येति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

यद्येतस्य पुरोलाशस्य स्विष्टकृता चरेयुः पुरोला
अग्ने पचतोऽग्ने वृधान आहुतिमिति संयाज्ये॥ ५॥

मूलम्

यद्येतस्य पुरोलाशस्य स्विष्टकृता चरेयुः पुरोला
अग्ने पचतोऽग्ने वृधान आहुतिमिति संयाज्ये॥ ५॥

टीका

इत्यन्तोऽतिरात्र इति शेषः॥ ५॥

विश्वास-प्रस्तुतिः

यदि पर्यायानमिव्युच्छेत्सर्वेभ्य एकं संभरेयुः।

मूलम्

यदि पर्यायानमिव्युच्छेत्सर्वेभ्य एकं संभरेयुः।

टीका

एवं तावच्चतुर्विधः सोमयागो ज्योतिष्टोमाख्य उक्तस्तस्यैव30विशेषमुपरिष्टाद्वक्ष्यति।अत्रान्तराले पर्यायाश्विनप्रसङ्गेन तेषां नैमित्तिकमपि वक्तुं प्रारभते – यदि पर्यायानभिव्युच्छेदिति। अस्यायमर्थः — यदा सर्वे पर्यायाः प्रयुक्ता न भवन्ति यद्येवमाशङ्का स्यादतिक्रान्तप्राया रात्रिः सा पर्यायाणामाश्विनस्य31वाऽपर्याप्तेति तदा सर्वेभ्यः पर्यायेभ्य एकंपर्यायं संभृत्य कुर्युरित्यर्थः।

एतमेवार्थंविवृणोति —

विश्वास-प्रस्तुतिः

प्रथमाद्धोता द्वितीयान्मैत्रावरुणो ब्राह्मणाच्छंसी चोत्तमादच्छावाकः।

मूलम्

प्रथमाद्धोता द्वितीयान्मैत्रावरुणो ब्राह्मणाच्छंसी चोत्तमादच्छावाकः।

टीका

प्रथमात्पर्यायद्धोता स्वं शस्त्रमाददीत। मैत्रावरुणब्राह्मणाच्छंसिनौ द्वितीयास्त्वेशस्त्रे।उत्तमादितरः स्वमेव शस्त्रमिति।

विश्वास-प्रस्तुतिः

द्वौ चेद्द्वौ प्रथमाद्वाउत्तमात्।

मूलम्

द्वौ चेद्द्वौ प्रथमाद्वाउत्तमात्।

टीका

प्रथमः पर्यायः प्रयुक्तः, मध्यमोत्तमावप्रयुक्तौ। तयोराश्विनस्य चापर्याप्ता रात्रिरित्याशङ्का स्यात्तदैवं कुर्युः – द्वौहोतृमैत्रावरुणौ प्रथमाद्ब्राह्मणाच्छंस्थच्छावाकावुत्तमादिति। अत्र प्रथमादितिवचनमप्रयुक्तयोरेव प्रथमान्मध्यमादित्यर्थः। अत्र द्वयोरधिकृतस्वादन्त्यस्य द्वितीयत्वेऽप्युत्तमशब्दप्रयोगादन्यत्रापि द्वयोरन्त्यस्योत्तमत्वं साधितं भवति। तेनान्यत्राह उत्तमादित्ययं विधिर्द्विरात्रेऽप्यन्ते भवति।

विश्वास-प्रस्तुतिः

अपि वा सर्वे स्युः स्तोमनिर्ह्रस्ताः।

मूलम्

अपि वा सर्वे स्युः स्तोमनिर्ह्रस्ताः।

टीका

अपि वा सर्वे स्तोमनिर्ह्रस्ता भवेयुर्न संभरणमिति। सर्ववचनं पूर्वोक्तयोर्द्वयोरभिव्युष्ट्योः संभरणनिवृत्त्यर्थम्। अयं स्तोमनिर्ह्रासो32 होत्रकाणामेव भवति न होतुरित्युक्तम्— ‘उक्तः शस्योपायः’ इत्यत्रोक्तग्रहणेन। स्तोमनिर्ह्रस्ता इत्यनेनैताद्वीधायते— पूर्वं पञ्चदश स्तोमासन्तः पञ्च स्तोमा भवेयुरिति। होतुस्तु पञ्चदश स्तोमा एव सर्वत्र।

स्तोमनिर्ह्रासे33 सत्येवं शस्यनिर्ह्रास इत्याह—

विश्वास-प्रस्तुतिः

ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमांस्तृचाञ्शंसेयुः।

मूलम्

ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमांस्तृचाञ्शंसेयुः।

टीका

स्तोत्रियानुरूपास्तावद्ययापूर्वंभवन्ति। तेभ्य ऊर्ध्वं यच्छस्यमस्ति तस्याऽऽदितस्तृचान्गृह्णीयुरन्ततश्च। एवं चत्वारस्तृचा भवेयुः। एतत्प्रमाणानि होत्रकशस्त्राणि भवेयुः। होतुस्तुपूर्ववदेव।

विश्वास-प्रस्तुतिः

निर्ह्रास एवैकस्मिन्।

मूलम्

निर्ह्रास एवैकस्मिन्।

टीका

पूर्वयोरभिब्युष्ट्योः संभरणनिर्ह्रासयोर्विकल्प उक्तः। अत्र संभरणस्यासंभने निर्ह्रासएवैको विधीयते। अवधारणवचनमस्मिन्पक्षे निर्ह्रास एवासाधारणो धर्म इति ज्ञापयितुम्।तेनोत्तरसूत्रे विहितं होतृवर्जनं सर्वास्वभिव्युष्टिषु साधारणं भवति नानन्तरायामेवाभिव्युष्टौ।

विश्वास-प्रस्तुतिः

होतृवर्जमित्येके।

मूलम्

होतृवर्जमित्येके।

टीका

एके शाखिनो होतृवर्जमेव निर्ह्रासं कुर्वन्ति।

विश्वास-प्रस्तुतिः

आश्विनायैकस्तोत्रियोऽग्ने विवस्वदुषस इति।

मूलम्

आश्विनायैकस्तोत्रियोऽग्ने विवस्वदुषस इति।

टीका

इदं चाभिव्युष्टिनिमित्तमेव।

विश्वास-प्रस्तुतिः

तं पुरस्तादनुदैवतं स्वस्य च्छन्दसो यथास्तुतं शंसेत्।

मूलम्

तं पुरस्तादनुदैवतं स्वस्य च्छन्दसो यथास्तुतं शंसेत्।

टीका

तं स्तोत्रियमाग्नेयक्रतौ बृहतीछन्दसः पुरस्तात्सकृच्छंसेत्। अनुदैवतमिति। नात्रवीप्सा विवक्षिता। यथास्तुतमिति पूर्ववदेव।

त्रीणि * षष्टिशतान्याश्विनम्।

आश्विनोद्देशेनास्याः संख्याया विधानात्प्रतिपन्माङ्गलसौर्यादीनि च तस्यामेव संख्यायामन्तर्भवन्तीत्यवगन्तव्यम्।

प्रायश्चित्तप्रसङ्गादन्यान्यपि सोमप्रायश्चित्तान्यत्रैवोच्यन्ते—

विश्वास-प्रस्तुतिः

विमतानां प्रसवसंनिपाते संसवोऽनन्तर्हितेषु नद्या वा पर्वतेन वा।

मूलम्

विमतानां प्रसवसंनिपाते संसवोऽनन्तर्हितेषु नद्या वा पर्वतेन वा।

टीका

विमता विरुद्धमतयः। विद्विषाणा इत्यर्थः। प्रसवशब्देन सुत्या लक्ष्यते। नद्यावा पर्वतेन वाऽव्यवहितदेशे विमतानामेकस्मिन्नहानिसुत्यासंनिपाते सति संसवो नामदोषो भवतीत्यर्थः। नद्या वा पर्वतेन वेत्युभयत्र वाशब्दप्रयोगादन्यदपि व्यवधायकं शास्त्रातरोक्तमस्तीति गम्यते। तच्च शास्त्रान्तराद्वगन्तव्यम्।

विश्वास-प्रस्तुतिः

अप्येकेऽन्तर्हितेष्वपि।

मूलम्

अप्येकेऽन्तर्हितेष्वपि।

टीका

विमतानां नद्यादिभिरनन्तर्हितेष्विति च विशेषणद्वयमुक्तं तदुभयव्य34भिचाराय। अपिशब्दद्वयेन संमतानामपि संसवदोषोऽस्तीत्येकोऽर्थः। अन्तर्हितेष्वपि देशेषु संसवोऽस्तीत्यपरोऽर्थः। एवमेके शाखिन आमनन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

तथा सतिऽऽ संत्वरा देवतावाहनात्।

मूलम्

तथा सतिऽऽ संत्वरा देवतावाहनात्।

टीका

एवं सत्या सवनदेवतानामावाहनात्संत्वरा कर्तव्या। एतदन्तं कर्म कायिकं वाचिकं चद्रुतया वृत्त्या कर्तव्यमित्यर्थः। लघवश्चोपायाः शतप्रभूत्यादयः प्रयोक्तव्याः।

किंच –

विश्वास-प्रस्तुतिः

कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत्।

मूलम्

कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत्।

टीका

इदं च तस्मिन्निभित्ते कर्तव्यम्। मरुत्वतीये शस्त्रे यस्मिन्सूक्ते निविद्धीयते तस्यसूक्तस्य पुरस्तादिदं सूक्तं शंसेत्। चशब्दो निविद्धानीयत्वसमुच्चयार्थः। तेन तस्य मरुत्वतीयस्य पूर्वावस्थायामेकसूक्तत्वेऽनेकं चेत्प्रथमेष्वाहाव इत्ययमाहावः कयाशुभीयादौभवति। द्वित्रादि35सूक्तत्वे कयाशुभीयस्यानाद्यत्वादस्याऽऽदौ न भवति तत्र सर्वेषामाद्येभवत्याहावः।

———————————————————————————————————
* ध. —षष्ट्यधिकानि त्रीणि शतानि।
————————————————————————————————————

विश्वास-प्रस्तुतिः

यो जात एवेति निष्केवल्ये।

मूलम्

यो जात एवेति निष्केवल्ये।

टीका

चशब्दः पुरस्तात्सूक्तस्येति चानुवर्तते। तेनात्रापि पूर्ववदेवार्थो योजनीयः।

विश्वास-प्रस्तुतिः

ममाग्ने वर्च इति वैश्वदेवसूक्तस्य।

मूलम्

ममाग्ने वर्च इति वैश्वदेवसूक्तस्य।

टीका

अत्रापि पदत्रयमनुवर्तते। वैश्वदेवशस्त्रे वैश्वदेवसूक्तस्य पुरस्तादित्यर्थः।

विश्वास-प्रस्तुतिः

अपि वैतेष्वेव निविदो दध्यादुद्धरेदितराणि।

मूलम्

अपि वैतेष्वेव निविदो दध्यादुद्धरेदितराणि।

टीका

अपि वैतेष्वागन्तुषु निविदो द्ध्यात्। येभ्यः पुरस्तादिमानि सूक्तानि विहितानि तान्युद्धरेत्। पूर्वेषां निविद्धानसूक्तानामुद्धारसंयोगनैतेषु निविदो दुध्यादिति यद्विदधाति तज्ज्ञापयति — यस्मिन्निविद्धीयते तस्याव्यवधानेन पुरस्तादेतानि भवन्ति न निविद्धानीयानांपुरस्तादिति।

विश्वास-प्रस्तुतिः

स्थानं चेन्निविदोऽतिहरेन्मा प्रगामेति पुरस्तात्सूक्तं शस्त्वाऽन्यस्मिंस्तद्दैवते दध्यात्॥ ६॥

मूलम्

स्थानं चेन्निविदोऽतिहरेन्मा प्रगामेति पुरस्तात्सूक्तं शस्त्वाऽन्यस्मिंस्तद्दैवते दध्यात्॥ ६॥

टीका

निविदः स्थानं यद्यतिहरेत्तदा यस्मिन्सूक्ते निविदतिपन्ना तत्पूर्वापरभूतं समाप्याऽऽगन्तुकात्त36दैवतात् पुरस्तात् ‘मा प्रगाम’इतीदं सूक्तमखण्डितं शस्त्वाऽन्यस्मिन्नागन्तुकेतद्दैवते तां निविदं दध्यात्। निविदः स्थानातिहारो नामैवंरूपः – सूक्तस्य यस्मिन्नन्तरालेनिविद्धीयते तस्माद्या पूर्वा, ऋक्तदन्तगतेन प्रणवेनाऽऽहावमकृत्वैवानन्तरामेवर्चंसंधायतत्यामृचि चोदितेऽवसानेऽवसानपर्यन्तमुक्त्वा यदाऽवस्येत्, एवंप्रकार एक निविदतिहारोनान्यप्रकार इति। अतोऽन्यथा यः प्रमादः स ऋग्दोष एव न निविदतिहारः। पुरस्ताद्वचनं माप्रगामीयस्य पुरस्तादतिपन्ननिवित्कं समाप्य मा प्रगामीयं शस्त्वाऽन्यत्तदैवतमानीयतस्मिन्निविद्धेयेत्येवमर्थम्। सूक्तग्रहणं बृहस्पतिसवादिष्वपि हीनस्तोमेषु माप्रगामीयस्याखण्डनार्थम्। अत्र किंचिदुच्यते – ‘यदि पर्यायान्’ इत्यत्र पर्यायानिति कर्मप्रवचनीययोगेद्वितीया। अभीति कर्मप्रवचनीयो लक्ष्यलक्षणसंबन्धद्योतकः। उछी विवासे विपूर्वः।संभावनायां लिङ्। अत्र पर्यायो लक्षणं व्युष्टिर्लक्ष्या। एतदुक्तं भवति – यदि पर्यायोपक्रमे तेषु वा शस्यमानेषूषःकाल आगच्छेत्तदा वक्ष्यमाणं नैमित्तिकं कर्म कर्तव्यमिति॥ ६॥

विश्वास-प्रस्तुतिः

सोमातिरेके स्तुतशस्त्रोपजनः।

मूलम्

सोमातिरेके स्तुतशस्त्रोपजनः।

टीका

सोमातिरेको नाम सवनार्थो यः सोमः स सवने परिसमाप्ते यद्यतिरिच्येत तदा सोमातिरेक इत्युच्यते। तदा37 स्तुतस्त्रयोजनोभवति। छन्दोगैः स्तव्यमस्माभिः शंस्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

प्रातः सवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ। महाँ इन्द्रो य ओजसाऽतो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्चस्तोममतिशस्यैन्द्र्यायजेत्।

मूलम्

प्रातः सवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ। महाँ इन्द्रो य ओजसाऽतो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्चस्तोममतिशस्यैन्द्र्यायजेत्।

टीका

पादग्रहणेऽप्यैन्द्रीभिर्वैष्णवीभिश्चेतिबहुवचननिर्देशाद्यावदर्थमुभय्यो ग्रहीतव्याः। ऐन्द्रीभिर्वैष्णवीभिश्चेति चशब्दसामर्थ्यात्समुच्चिताभिरेवोभयीभिः सोमातिरेकनिमित्तं स्तोममतिशस्य‘एकया द्वाभ्यां वा प्रातःसवने परिमिताभिरुत्तरयोः सवनयोः’ इत्यनेन न्यायेन यया कथाचिदैन्द्यागायत्र्या यजेत्। प्रातः सवनत्वाद्गायत्र्येति विशेष्यते।

विश्वास-प्रस्तुतिः

वैष्णव्या वा।

मूलम्

वैष्णव्या वा।

टीका

गायत्र्येति शेषः।

विश्वास-प्रस्तुतिः

ऐन्द्रावैष्णव्यति गाणगारिर्दैवतप्रधानत्वात्।

मूलम्

ऐन्द्रावैष्णव्यति गाणगारिर्दैवतप्रधानत्वात्।

टीका

यद्यैन्द्र्यावैष्णव्या वा यजेत तदा ‘यथा38वाव शस्त्रमेवं याज्या’ इत्येतद्विरुध्येत। अथ यद्यैन्द्रावैष्णव्या यजेत्तदा तद्देवत्याया गायत्र्या अभावाद्गायत्रं प्रातः सवनमित्येतद्विरुध्येत। तत्रैकस्य त्यागे सति च्छन्द एव त्यक्तव्यं बहिरङ्गत्वादप्राधान्यात्तस्येति। देवतायास्त्वभिधेयत्वादन्तरङ्गतेति मन्यमानो गाणगारिदैवतप्रधानत्वादित्युक्तवान्।

विश्वास-प्रस्तुतिः

सं वां कर्मणा समिषा हिनोमीति।

मूलम्

सं वां कर्मणा समिषा हिनोमीति।

टीका

सैषैन्द्रावैष्णवी त्रिष्टुप्। अनयैव यष्टव्यमिति सिद्धान्तितम्।

विश्वास-प्रस्तुतिः

माध्यंदिने बण्महाँ असि सूर्योदु त्यद्दर्शितं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ। महाँ इन्द्रो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या।

मूलम्

माध्यंदिने बण्महाँ असि सूर्योदु त्यद्दर्शितं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ। महाँ इन्द्रो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या।

टीका

ऐन्द्रीभिर्वैष्णवीभिश्चेत्याद्यत्राप्यनुवर्तते। अतोहीनपादग्रहणमत्राक्षरलाघवार्थमेव नकृत्स्नसूक्तग्रहणार्थम्।

विश्वास-प्रस्तुतिः

तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽतिरात्रात्।

मूलम्

तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽतिरात्रात्।

टीका

तृतीयसवनेयदि सोमोऽतिरिच्येत तदोत्तरोत्तरां संस्थां कुर्युराऽतिरात्रात्। एतदुक्तंभवति– यद्यग्निष्टोमे तृतीयसवनेऽतिरेकः स्यात्तदोक्थ्यं कुर्युः। यद्युक्थ्ये षोलशिनम्। यदिषोलाशन्यतिरात्रमिति। यद्यतिरात्रे तत्र वक्ष्यतीति। एवंचेदाऽतिरात्रादितिवचनमुत्तरोत्तरां संस्थामित्यत्र संनिहिता एव चतस्रःसंस्था गृह्यन्त इत्येवमर्थम्। इतरथाऽग्निष्टोमेऽतिरेकेऽत्यग्निष्टोमः प्रसज्येत। षोलशिनि वाजपेयः। अतिरात्रेऽप्तोर्याम इत्येतन्निवृत्त्यर्थमाऽतिरात्रादित्युक्तम्।

विश्वास-प्रस्तुतिः

अतिरात्राच्चेत्प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ। माध्यंदिनेन शेषः।

मूलम्

अतिरात्राच्चेत्प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ। माध्यंदिनेन शेषः।

टीका

‘महाँ इन्द्रो नृवत्’ इत्यादियाज्यान्तः शेष इत्युच्यते।

विश्वास-प्रस्तुतिः

त्वेषमित्था स मरणं शिमीवतोरिति वा याज्या॥ ७॥

मूलम्

त्वेषमित्था स मरणं शिमीवतोरिति वा याज्या॥ ७॥

टीका

इयं वा याज्या माध्यंदिनोक्ता वा भवति। अत्यग्नि39ष्टोमवाजपेयाप्तोर्यामेषु तृतीयसवनेषु सोमातिरेक इदमेव शस्त्रं भवति। सोमातिरेकादन्थेन वा निमित्तेन शास्त्रान्तरोक्तेनयदि स्तुतशस्त्रोपजनः स्यात्तदाऽप्यनेनैव सोमातिरेकोक्तनानुसवनं शस्त्राणि संपादनीयानि। स्तोत्रियस्तुत40 एव तदनुसारेणानुरूपः कल्पनीयः। एतच्च सोमातिरेके प्रातः सवनेऽस्तिसोम इत्येतावतैवास्यार्थस्य सिद्धौ सत्यां शस्त्रोपजन इत्यस्माद्वचनाल्लभ्यते। एतदुक्तंभवति – यत्र यत्र नैमित्तिकः शस्त्रोपजनस्तत्र तत्रानुसवनमेतेन विधानेन शस्त्राणिकल्पनीयानि। स्तोत्रियानुरूपौ छन्दोगप्रत्ययतदनुसारकल्पनाभ्यामिति॥ ७॥

विश्वास-प्रस्तुतिः

क्रीते राजनि नष्टे दग्धे वा।

मूलम्

क्रीते राजनि नष्टे दग्धे वा।

टीका

प्रायश्चितं वक्ष्यत इति शेषः। नष्ट इत्युक्ते नाशप्रकारविशेषाग्रहणात्सर्वप्रकारो नाशोगृहीतो भवति किमर्थं दग्धवचनमिति। तस्य प्रयोजनमुच्यते लतावस्थे सोमे द्वादशभ्यो वसाशुक्रादिभ्यो मलेभ्योऽन्येन केशकीटादिना दुष्टे तस्य त्यागो न कर्तव्य इत्येवमर्थम्।अन्यदपि दग्धवचनप्रयोजनमस्ति। केचिदेवं वदन्ति दग्धे सोमे तदेव भस्माभिषुत्यं तेनयष्टव्यमिति तन्निवृत्त्यर्थं चेति।

सोमनाशे प्रायश्चित्ते वक्तुं प्राप्ते सदआदीनां शालानां दाहे प्रायश्चित्तस्याल्पत्वात्तदेवप्रसङ्गादाह —

विश्वास-प्रस्तुतिः

अपि दग्धानि सदोहविर्धानान्यनावृता क्रियेरन्।

मूलम्

अपि दग्धानि सदोहविर्धानान्यनावृता क्रियेरन्।

टीका

अनावृता अमन्त्रकमित्यर्थः।

विश्वास-प्रस्तुतिः

आवृत्तावा41

मूलम्

आवृत्तावा41

टीका

न्यायविकल्पोऽयम्। शालास्तावद्दृष्टार्थाः। तेनाऽऽसु मन्त्रव्यापारः केवलमदृष्टार्थ एव।तस्यादृष्टार्थस्याऽऽश्रयभूता शाला प्रधानसंबन्धे द्वारभूतेत्यर्थः। स च द्वारभावो दाहात्प्रागेव निर्वृत्त इति न पुनः क्रिया42मन्त्राणामिति पूर्वः पक्षः। उत्तरस्तु पक्षो यत्कार्यार्थंयद्वस्तूपादीयते तस्य तत्कार्यजनने सामर्थ्यजननाय मन्त्रादयः संस्काराः प्रयुज्यन्ते।तद्यदि स्वकार्यमकृत्वैव नश्येत्तदा तत्स्थः कथं प्रधानेन संबध्नीयादिति पुनरपि मन्त्राःप्रयोक्तव्या इति सिद्धम्।

इदानीं सोमनाशे प्रायश्चित्तमाह -

विश्वास-प्रस्तुतिः

अन्यं राजानमभिषुणुयुः।

मूलम्

अन्यं राजानमभिषुणुयुः।

टीका

अन्यं राजानमानीय तमभिषुत्य तेन यजेतेत्यर्थः।

विश्वास-प्रस्तुतिः

अनधिगमे पूतीकान्फाल्गुनानि।

मूलम्

अनधिगमे पूतीकान्फाल्गुनानि।

टीका

सोमानधिगमे पूतीकान्फाल्गुनानि च संसृष्टान्युभिषुणुयुः। पूतीका नाम लतारूपाःसोमसदृशाः। फाल्गुनानि नाम स्तम्बरूपा ओषधिविशेषाः। अप्रसिद्धाः पदार्था अभियुक्तेभ्यः शिक्षितव्याः।

विश्वास-प्रस्तुतिः

अन्या वा ओषधयः पूतीकैः सह।

मूलम्

अन्या वा ओषधयः पूतीकैः सह।

टीका

फाल्गुनानामभावेऽन्या वौषध्यः43कुशदूर्वाद्याः पूतीकैर्मिश्रयित्वाऽभिषोतव्याः। ‘ अन्यावा ओषधयः पूतीकैः सह’ इति पूतीकानां स्थायित्वदर्शनात्पूर्वसूत्रोक्तानामेभिः सहितानामेवप्रतिनिधित्वमवगम्यते। अत एवाऽऽचार्याः सोमप्रतिनिधौ न केवलमेकद्रव्यमिच्छन्ति।‘अन्या वा ओषधयः पूतीकैः’ इति सहभावे सिद्धे यत्सहेतिवचनं तज्ज्ञापयति —पूतीकानामप्यभावे द्रव्यान्तराणि सह मिश्रयित्वाऽभिषुत्य तैर्यष्टव्यमिति।

विश्वास-प्रस्तुतिः

प्रायश्चित्तं वा हुत्वोत्तरमारभेत।

मूलम्

प्रायश्चित्तं वा हुत्वोत्तरमारभेत।

टीका

उत्तरसूत्रस्य सुत्याविषयत्वादिदं दीक्षोपसद्विषयं भवति। दीक्षासु44 क्रीतो नश्येदासोमलाभाद्दीक्षा वर्धयेत्। उपसत्सूपसदो वर्धयेत्। तत्र सर्वत्र प्रधानकालाविरोधेनाहर्वर्धनं कर्तव्यम्। अहर्वर्धने क्रियमाणेऽपि प्रधानकालाविरोधेनालभ्यमाने प्रतिनिधिमुपादाय पूर्वसंकल्पितकाले प्रधानयागं संपादयेत्। इत्थं वा कुर्यात् — प्रायश्चित्तं हुत्वाऽऽरब्धं प्रयोगं विसृज्य सोमं संपाद्य तस्मा एवं कर्मणे प्रयोगान्तरमारभेत। भूः स्वाहेतीदं प्रायश्चित्तमित्युच्यते। अथ वाऽस्यामवस्थायां शास्त्रान्तरे प्रायश्चित्तविशेषोऽस्ति चेत्कर्तव्यम्।

विश्वास-प्रस्तुतिः

सुत्यासूक्तमेव मन्येत।

मूलम्

सुत्यासूक्तमेव मन्येत।

टीका

सुत्यासु नष्टे राजनि तदलाभ उक्तमेव। प्रतिनिधिप्रयोगमेवेत्यर्थः। तत्कर्तव्यत्वेनमन्येतेत्यर्थः। नात्राहर्वृद्धिः प्रयोगत्यागो वा कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रतिधुक्प्रातःसवने।

मूलम्

प्रतिधुक्प्रातःसवने।

टीका

प्रतिधुगिति सद्योदुग्धं पय उच्यते। तत्प्रातःसवने प्रतिनिधिद्रव्यमभिषुत्य तद्रसेनमिश्रयेदित्यर्थः।

विश्वास-प्रस्तुतिः

शृतं माध्यंदिने।

मूलम्

शृतं माध्यंदिने।

टीका

क्वथितं पयः शृतमित्युच्यते। तेन माध्यंदिने प्रतिनिधिद्रव्यरसं श्रोणीयात्।

विश्वास-प्रस्तुतिः

दधि तृतीयसवने।

मूलम्

दधि तृतीयसवने।

टीका

पूर्ववन्मिश्रयेदित्यर्थः।

विश्वास-प्रस्तुतिः

श्रायन्तीयं ब्रह्मसाम यदि फाल्गुनानि वारवन्तीयं यज्ञायज्ञीयस्य स्थाने।

मूलम्

श्रायन्तीयं ब्रह्मसाम यदि फाल्गुनानि वारवन्तीयं यज्ञायज्ञीयस्य स्थाने।

टीका

यदि फाल्गुनानि प्रतिनिधित्वेन प्रविष्टानि तदैते सामनी श्रायन्तीयवारवन्तीये ब्रह्मसामाग्निष्टोमसामकार्ययोर्भवतो यथासंख्येन।

विश्वास-प्रस्तुतिः

श्रायन्तीयमेके।

मूलम्

श्रायन्तीयमेके।

टीका

एके शाखिनः श्रायन्तीयं यज्ञायज्ञीयस्य कार्ये भवतीत्याहुः। ब्रह्माम प्रकृत्यैवेति।

विश्वास-प्रस्तुतिः

एकदक्षिणं यज्ञं संस्थाप्योदवसाय पुनर्यजेत।

मूलम्

एकदक्षिणं यज्ञं संस्थाप्योदवसाय पुनर्यजेत।

टीका

एवं प्रतिनिधिना क्रियमाणं यज्ञप्रयोगमुदवसानीयापर्यन्तं समाप्य तस्माद्देशादुदवसायसोमं संपाद्य तमेव यज्ञं पुनः प्रयुञ्जीत।

विश्वास-प्रस्तुतिः

तस्मिन्पूर्वस्य दक्षिणा45 दद्यात्।

मूलम्

तस्मिन्पूर्वस्य दक्षिणा45 दद्यात्।

टीका

पुनः प्रयोगे ता दक्षिणा दद्यात्। यत्संख्याका पूर्वस्मिन्प्रयोगे संकल्पितास्तत्संरूपाका एव दद्यात्, नवैकल्पिकसंख्यान्तरयुक्ता इत्यर्थः। पूर्वस्मिन्प्रयोग एकैवगौदक्षिणा।

विश्वास-प्रस्तुतिः

सोमाधिगमे प्रकृत्या॥ ८॥

मूलम्

सोमाधिगमे प्रकृत्या॥ ८॥

टीका

यद्यपात्तेऽपि प्रतिनिधौ यागात्प्राग्यादि सोमो लभ्येत तदा प्रतिनिधिद्रव्यं त्यक्त्वासोमेनैव यष्टव्यम्। प्रतिनिधिनिमित्तानि सोमश्रयणानि च46 न भवन्ति। एतच्चैकाहेषु।अहर्गणेषु तन्त्रमध्य उदवसाय पुनर्यागो न शक्यते कर्तुमिति, सर्वाहःसाधारणत्वात्प्रयोगस्य। यदा पुनरहर्गणेषु मुख्यांसंभवात्प्रतिनिधिनैवैकमहः47 क्रियते तदा सत्रप्रयोगं समाप्योदवसाय तदेवाहः पुनः प्रयुञ्जीरन्। सत्रिणः संहता एष। तदर्थमेव यज्ञ संस्थाप्येतियज्ञग्रहणं कृतम्। तस्यायमभिप्रायः - आरब्धोयो यज्ञः फलसाधनं तस्य प्रयोगंसमाप्यैतत्कर्तव्यं नावान्तरमेकस्याहः प्रयोगामिति। एकाहेषु प्रतिनिधावुपात्ते प्रतिनिधिनैवेष्ट्वापुनर्यष्टव्यमेव॥ ८॥

विश्वास-प्रस्तुतिः

दीक्षितानामुपतापे परिहिते प्रातरनुवाकेऽनुपाकृते वा पुष्टिपते पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणं त्मने त्मानं वाचे वाचमस्मै पुनर्धेहि48स्वाहेति ब्रह्माऽऽहुतिं हुत्वा शीतोष्णा अपः समानीयैकविंशतिमासु यवान्कुशपिज्जूलांश्चावधाय ताभिरद्भिरबर्थं कुर्वीत ताभिरेनमाप्लावयेज्जीवानामस्थता ३। इमममुं जीवयतजीविकानामस्थता ३ इमममुं जीवयत संजीवानामस्थता ३। इमममुं संजीवयत संजीविकानामस्थता ३। इमममुं संजीवयतेत्यौषधिसूक्तेन च।

मूलम्

दीक्षितानामुपतापे परिहिते प्रातरनुवाकेऽनुपाकृते वा पुष्टिपते पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणं त्मने त्मानं वाचे वाचमस्मै पुनर्धेहि48स्वाहेति ब्रह्माऽऽहुतिं हुत्वा शीतोष्णा अपः समानीयैकविंशतिमासु यवान्कुशपिज्जूलांश्चावधाय ताभिरद्भिरबर्थं कुर्वीत ताभिरेनमाप्लावयेज्जीवानामस्थता ३। इमममुं जीवयतजीविकानामस्थता ३ इमममुं जीवयत संजीवानामस्थता ३। इमममुं संजीवयत संजीविकानामस्थता ३। इमममुं संजीवयतेत्यौषधिसूक्तेन च।

टीका

दीक्षितानां मध्ये यः कश्चिद्दीक्षित उपतऐद्या49धिपीडित50 इत्यर्थः। तत्र नैमित्तिकमुच्यते—परिहिते प्रातरनुवाके प्रागेवापोनप्त्रीयारम्भादेतास्मन्कालेऽनुपाकृते वा प्रातरनुवाक एतयोरन्यतस्मिन्काले ‘पुष्टिपते’ इत्यनेन ब्रह्माऽऽहुतिंहुत्वा शीतोष्णा अपो मिश्रयित्वातास्वेकविंशतिं यवान्प्रक्षिप्यैकविंशतिं कुशपिञ्जूलांश्चाऽऽधाय ताभिरुपतप्तं दीक्षितमाप्लावयेत्स्नापयेत् – जीवानामस्यतेत्येवमादिभिश्चतुर्भिर्मन्त्रैः ‘या ओषधीःपूर्वा जाताः’इत्यनेन सूक्तेन च। सर्वेषां मन्त्राणामन्ते सकृदेव प्लावनं कर्तव्यं न प्रतिमन्त्रम्। एतत्सर्वं ब्रह्मणा कर्तव्यम्। अस्य सुत्रस्य मध्ये ताभिरद्भिरबर्यंकुर्वीतेत्युक्तं तदोषधिसूक्तेनचेत्यस्मादुपरिष्टाद्द्रष्टव्यम्। तत्र ब्रह्मणः कर्तृत्वाभावात्। अस्यायमर्थः - ताभिरेवाद्भिरुप तप्तस्याऽऽचमनवर्जमुदककार्यंशौचादि कर्तव्यमिति। तस्य कर्ताऽर्थात्स्वयमेव। अशक्तावन्यो यः कश्चन परिचारकः। अतो नात्र ब्रह्मा नियम्यत इत्युत्कर्षो युक्त एव।

विश्वास-प्रस्तुतिः

आप्लाव्यानुमृजेत्।

मूलम्

आप्लाव्यानुमृजेत्।

टीका

आप्लावने प्रकृतेऽप्याप्लव्येतिवचनमाप्लावनानुमार्जनयोः समानकर्तृत्वसिध्द्यर्थम्। तेनैतदपि ब्रह्मैव करोति।

विश्वास-प्रस्तुतिः

उपांश्वन्तर्यामौ ते प्राणापानौपातामसा उपांशुसवनस्ते व्यानं पात्वसावैन्द्रवायवस्ते वाचं पात्वसौ मैत्रावरुणस्ते चक्षुषीपात्वसावाश्विनस्ते श्रोत्रं पात्वसावाग्रयणस्ते दक्षक्रतू पात्वसा उक्थ्यस्तेऽङ्गानि पात्वसौ ध्रुवस्त आयुः पात्वसाविति।

मूलम्

उपांश्वन्तर्यामौ ते प्राणापानौपातामसा उपांशुसवनस्ते व्यानं पात्वसावैन्द्रवायवस्ते वाचं पात्वसौ मैत्रावरुणस्ते चक्षुषीपात्वसावाश्विनस्ते श्रोत्रं पात्वसावाग्रयणस्ते दक्षक्रतू पात्वसा उक्थ्यस्तेऽङ्गानि पात्वसौ ध्रुवस्त आयुः पात्वसाविति।

टीका

उपांश्वन्तर्यामावित्यादिभिरष्टभिर्मन्त्रैरनुमृजेत्। असावित्यस्य स्थान उपतप्तस्य नामसंबुद्ध्या51 गृह्णीयात्। प्रथमेन नासिकामनुमृजेत्। द्वितीयेन सर्वंशरीरम्। सर्वशरीरव्यापित्वाद्ध्यानस्य। यस्य मन्त्रस्य स्थानविशेषो लिङ्गेनावगतस्तेन तदेवानुमृजेत्। अन्येन सर्वंशरीरम्।

विश्वास-प्रस्तुतिः

यथासनमनुपरिक्रमणम्।

मूलम्

यथासनमनुपरिक्रमणम्।

टीका

उपतप्तस्यैतस्मिन्कर्मणि कृते ततः सर्वे दीक्षिता यथास्वमासनमुपरि क्रमेयुर्गच्छेयुरित्यर्थः।अतोऽवगम्यते पूर्वस्मिन्कर्मणि क्रियमाणे सर्वे दीक्षिता ब्रह्मणा सह तत्रैवाऽऽसत इति।

विश्वास-प्रस्तुतिः

त्रातारमिन्द्रमवितारमिन्द्रमिति तार्क्ष्यादिः।

मूलम्

त्रातारमिन्द्रमवितारमिन्द्रमिति तार्क्ष्यादिः।

टीका

इषमृक्तार्क्ष्यस्याऽऽद्या भवति। अनया सह तत्सूक्तमस्मिन्निमित्ते तार्क्ष्यकार्यं करोति।

विश्वास-प्रस्तुतिः

यद्यप्यन्यदैकाहिकाद्वैश्वदेवं स्वस्त्यात्रेये निविदं दध्यात्।

मूलम्

यद्यप्यन्यदैकाहिकाद्वैश्वदेवं स्वस्त्यात्रेये निविदं दध्यात्।

टीका

यद्यप्यानोभद्रीयादैकाहिकादन्यत्तस्मिन्नहनि वैश्वदेवसूक्तं भवति निविद्धानीयं तदातदृद्धृत्य स्वस्त्यात्रेये तृचे निविदं दध्यात्। स्वस्त्यात्रेयशब्देन52 तृच एवात्र गृह्यते तृचस्यैवान्यत्र प्रवृत्तिदर्शनात्। स्वस्त्यात्रेयस्य निविद्धानत्वेन विधानात्तस्मिन्नहनि पूर्वस्यनिविद्धानस्योद्धारो भवति।

विश्वास-प्रस्तुतिः

प्रकृत्याऽगदे॥ ९॥

मूलम्

प्रकृत्याऽगदे॥ ९॥

टीका

अगदे व्याध्यपगम इत्यर्थः। तदा नेमे विकाराः कर्तव्या इत्यर्थः॥ ९॥

विश्वास-प्रस्तुतिः

संस्थिते53 तीर्थेन54 निर्हृत्याऽऽवभृथे प्रेतालंकारान्कुर्वन्ति।

मूलम्

संस्थिते53 तीर्थेन54 निर्हृत्याऽऽवभृथे प्रेतालंकारान्कुर्वन्ति।

टीका

संस्थिते मृत इत्यर्थः। तस्मिन्नुपतप्ते मृते55 तं तीर्थेन निर्हृत्य निर्गमय्यावभृथार्थंसंकलितदेशे निधाय प्रेतालंकारान्कुर्वन्ति। ये लोके प्रेतस्यैतेऽलंकारा इति प्रसिद्धास्ते प्रेतालंकारास्तैरलंकुर्युरित्यर्थः। अत्र56के चित्संस्थितेऽतीर्थेनेति पदच्छेदः। निर्हृत्याऽऽवभृथे। अवभृतार्थो यो देश आवभृथस्तस्येदमित्यण्। अथवाऽभृथइत्येव पदच्छेदे सत्यवभृथशब्दस्तदर्थे देशे लक्षणया वर्तते।

विश्वास-प्रस्तुतिः

केशश्मश्रुलोमनखानि वापयन्ति।

मूलम्

केशश्मश्रुलोमनखानि वापयन्ति।

टीका

प्रतस्य केशादीनां वापनं कर्तव्यम्।

विश्वास-प्रस्तुतिः

नलदेनानुलिम्पन्ति।

मूलम्

नलदेनानुलिम्पन्ति।

टीका

नलदो नाम द्रव्यविशेषः। स चाभियुक्तेभ्यः शिक्षितव्यः। तत्कृतेनानुलेपनेनानुलिम्पन्ति।

विश्वास-प्रस्तुतिः

नलदमालां प्रतिमुञ्चन्ति।

मूलम्

नलदमालां प्रतिमुञ्चन्ति।

टीका

माला च तत्कृताऽस्य प्रतिमोक्तव्या।

विश्वास-प्रस्तुतिः

निष्पुरीषमेके कृत्वा पृषदाज्यं पूरयन्ति।

मूलम्

निष्पुरीषमेके कृत्वा पृषदाज्यं पूरयन्ति।

टीका

प्रेतस्य शरीरे यान्यन्त्राणि57 तानि निष्पुरीषाणि कृत्वा पृषदाज्येन पूरयित्वा पुनःशरीरे बन्धयितव्यानीति मन्यन्ते केचिच्छास्त्रिणः।

विश्वास-प्रस्तुतिः

अहतस्य वाससः पाशतः पादमात्रमवच्छिद्य प्रोर्णुवन्ति प्रत्यद्गशेनाऽऽविःपादम्।

मूलम्

अहतस्य वाससः पाशतः पादमात्रमवच्छिद्य प्रोर्णुवन्ति प्रत्यद्गशेनाऽऽविःपादम्।

टीका

अहतमनिवसितम्। वाससो वसनारम्भप्रदेशः पाश इत्युच्यते समाप्तिप्रदेशो दशा।पाशप्रदेशे पादमात्रमवच्छिद्य तत्पादमात्रमवच्छेदं निधाय तेन वाससा प्रत्यद्गशेन प्राक्शिरसं प्रेतमाविष्पादं प्रच्छादयन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

अवच्छेदमस्य पुत्रा अमा कुर्वीरन्।

मूलम्

अवच्छेदमस्य पुत्रा अमा कुर्वीरन्।

टीका

तदवच्छेदं प्रेतस्य पुत्रा अमा कुर्वीरन्स्वी कुर्वीरन्नित्यर्थः।

विश्वास-प्रस्तुतिः

अग्नीनस्य समारोप्य दक्षिणतो बहिर्वेदि दहेयुः।

मूलम्

अग्नीनस्य समारोप्य दक्षिणतो बहिर्वेदि दहेयुः।

टीका

अस्य प्रेतस्याग्नीन्द्वयोररण्योः समारोप्य देवयजनस्य दक्षिणतो बहिर्वेदि प्रेतमानीयाग्निं मथित्वा विहृत्य58तत्रैव दहेयुर्दहन59विधिनैव।

विश्वास-प्रस्तुतिः

आहार्येणानाहिताग्निम्।

मूलम्

आहार्येणानाहिताग्निम्।

टीका

** **योऽनाहिताग्निः सत्री मवति तस्मिन्मृतेऽयं विशेषः। आहार्येणाग्निना तं दहेयुः।आहार्यशब्देनौपासनमुच्यते।

विश्वास-प्रस्तुतिः

पत्नीं च।

मूलम्

पत्नीं च।

टीका

दीक्षितस्य पत्नी यदि म्रियेत तां चाऽऽहार्येणैव दहेयुः। आहार्यशब्देनात्र लौकिकोऽप्युच्यते। अत्रायं विशेषः— येनाऽऽहिताग्निना सर्वाधानं कृतं तस्य पत्नी लौकिकेन।यस्यौपासनश्चास्ति तस्य पत्नीमौपासनेन। अतोऽवगम्यत आहार्यशब्देनाश्रौतोऽग्निर्लक्ष्यत इति।

विश्वास-प्रस्तुतिः

प्रत्येत्याहः समापयेयुः।

मूलम्

प्रत्येत्याहः समापयेयुः।

टीका

प्रत्येत्य दहनदेशाद्यत्पूर्वापरीभूतमहस्तत्समापयेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

प्रातरनभ्यासमनभिहिंकृतानि स्त्रानुवचनाभिष्टवनसंस्तवनानि60

मूलम्

प्रातरनभ्यासमनभिहिंकृतानि स्त्रानुवचनाभिष्टवनसंस्तवनानि60

टीका

यस्मिन्नहनि दीक्षितदहनं कृतं तस्मात्परमनन्तरमहः प्रातरित्युच्यते। तस्मिन्नहनिशस्त्रादीन्यभ्यासाभिहिंकारवर्जितानि भवेयुः। तत्राभिष्टवे ग्राव्णां पूर्वमेवाभिहिंकारो
नास्ति। आद्ये च शस्त्रे। तत्राभ्यासमात्रस्यैव निषेधः। एवमन्यत्र यथासंभवं निषेधःकल्पनीयः।

विश्वास-प्रस्तुतिः

पुरा ग्रहग्रहणात्तीर्थेन निष्क्रम्य त्रिः प्रसव्यमायतनं परीत्य पर्युपविशन्ति।

मूलम्

पुरा ग्रहग्रहणात्तीर्थेन निष्क्रम्य त्रिः प्रसव्यमायतनं परीत्य पर्युपविशन्ति।

टीका

तस्मिन्नेव प्रातरनभ्यासमित्युक्तलक्षणेऽहनि ग्रहग्रहणात्प्रागेव तीर्थेन निष्क्रम्य त्रिःप्रसव्यमप्रदक्षिणं श्मशानायतनं परितो गत्वा तदायतनं परित उपविशन्ति।

विश्वास-प्रस्तुतिः

पश्चाद्धोता।

मूलम्

पश्चाद्धोता।

टीका

श्मशानायतनादिति शेषः।

विश्वास-प्रस्तुतिः

उत्तरोऽध्वर्युः। तस्य पश्चाच्छन्दोगाः।

मूलम्

उत्तरोऽध्वर्युः। तस्य पश्चाच्छन्दोगाः।

टीका

तस्यग्रहणमध्वर्योरेिव पश्चाच्छन्दोग61ाउपविशन्ति नाऽऽयतनस्येत्येवमर्थम्। ब्रह्मणोदक्षिणत इति सिद्धत्वान्नोक्तम्।

विश्वास-प्रस्तुतिः

आयं गौः पृश्निरक्रमीदित्युपांशु स्तुवते।

मूलम्

आयं गौः पृश्निरक्रमीदित्युपांशु स्तुवते।

टीका

आस्वृक्षु च्छन्दोगा उपांशु स्तुवते।

विश्वास-प्रस्तुतिः

स्तुते होता प्रसव्यमायतनं परिव्रजन्स्तोत्रियमनुद्रवेदप्रणुवन्62

मूलम्

स्तुते होता प्रसव्यमायतनं परिव्रजन्स्तोत्रियमनुद्रवेदप्रणुवन्62

टीका

होताऽप्रणुव63न्स्तुते छन्दोगैस्त्रिःप्रसव्यं श्मशानायतनं परितो व्रजन्स्तोत्रियमनुद्भवेत्। वक्ष्यमाणाश्च ऋचः। ‘उपांशु स्तुवते’ इति स्तुता उपांशुत्वविधानं होतुरनुद्रवर्णेऽप्युपांशुत्वप्रापणार्थम्। स्तोत्रियवचनमृगुपलक्षणार्थम्। यासु स्तुवते ता अनुब्रूयादिति।शंसत्यादिचोदनाभावादेव सामिधेनीधर्माभावे सिद्धे पुनः स्तोत्रियशब्दसंबन्धाच्छत्रधर्मप्राप्त्याशङ्का स्यात्तन्निवृत्त्यर्थं प्रणवप्रतिषेधः। अथैतदनुद्रवणं किंरूपमिति। अनुमन्त्रणमिति ब्रूयात्। प्रेतस्याभिधानमत्र64चिकीर्ष्यते65। तच्च मन्त्रलिङ्गादवगतम्। याभीषुस्पष्टमेवैतत्। सार्पराज्ञीषु चानयैव दिशा प्रेताभिधानं कल्पनीयम्। अत्र च ब्रूयादितिवक्तव्येऽनुद्रवेदित्यनुशब्दसंबन्धाज्ज्ञायतेऽनुमन्त्रणप्रकारोऽयमिति। तथा च वक्ष्यति—‘तं दह्यमानमनुमन्त्रयते’ इति तेनानुमन्त्रणधर्मा एवाऽऽसु कर्तव्याः।

विश्वास-प्रस्तुतिः

यामीश्च।

मूलम्

यामीश्च।

टीका

ताश्चेमाश्च तथाभूतेन वक्तव्याः। यमेन यामायनैश्चैता ऋचो दृष्टाः। सूक्तं तुयमदृष्टं तेनैता याम्य इत्युच्यन्ते66 न यमदेवत्या इति।

विश्वास-प्रस्तुतिः

प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयमुद्धरेत्। मैनमग्ने विदहोमाऽभिशोचइति षट्।पूषा त्वेतश्र्व्यावयतु प्रविद्वानिति चतस्र उपसर्प मातरं भूमिमेतामिति चतस्रः सोम एकेभ्यः।

मूलम्

प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयमुद्धरेत्। मैनमग्ने विदहोमाऽभिशोचइति षट्।पूषा त्वेतश्र्व्यावयतु प्रविद्वानिति चतस्र उपसर्प मातरं भूमिमेतामिति चतस्रः सोम एकेभ्यः।

टीका

इदं सूक्तम्।

विश्वास-प्रस्तुतिः

उरूणसा वसुकृपा उदुम्बलाविति च समाप्य संचित्य तीर्थेन प्रपाद्य यथासनमासादयेयुः।

मूलम्

उरूणसा वसुकृपा उदुम्बलाविति च समाप्य संचित्य तीर्थेन प्रपाद्य यथासनमासादयेयुः।

टीका

एतदनुद्रवणं समाप्यानन्तरमस्थिसंचयनं कृत्वा तमस्थिकुम्भंतीर्थेन प्रवेश्य यदस्य67मृतस्य पूर्वमासनस्थानं तत्रास्थिकुम्भमासादयेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

भक्षेषु प्राणभक्षान्भक्षयित्वा दक्षिणे मार्जालीये निनयेयुः। दक्षिणस्यां वा वेदिश्रोण्याम्।

मूलम्

भक्षेषु प्राणभक्षान्भक्षयित्वा दक्षिणे मार्जालीये निनयेयुः। दक्षिणस्यां वा वेदिश्रोण्याम्।

टीका

अत्र वा निनये68युर्मार्जालीये69 वा निनयेयुरिति प्रदर्शनार्थम्। द्रवं निनयेयुरितरत्प्रक्षिपेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

सप्तदशमहर्भवति त्रिवृतः पवमाना रथंतरपृष्ठोऽग्निष्टोमः।

मूलम्

सप्तदशमहर्भवति त्रिवृतः पवमाना रथंतरपृष्ठोऽग्निष्टोमः।

टीका

यस्मिन्नहनि दीक्षितः प्रमीयते तदहरुक्तेन प्रकारेण समाप्य तदनन्तरं सप्तदशस्तोमंत्रिवृत्पवमानकं रथंतरपृष्ठमग्निष्टोमसंस्थमहरन्तरं दीक्षितमरणनिमित्तं70 सत्रमध्ये सत्रिभिः कर्तव्यम्।

विश्वास-प्रस्तुतिः

संस्थितेऽवभृथमेके गमयन्त्येतस्यैतदहरभिशब्दयन्तः।

मूलम्

संस्थितेऽवभृथमेके गमयन्त्येतस्यैतदहरभिशब्दयन्तः।

टीका

एतस्मिन्नहनि समाप्त एतान्यस्थीन्यवभृथकालेऽवभृथार्थंसंकल्पितास्वप्सु कुम्भेन सहप्रक्षिपेयुः, एतस्य प्रेतस्यैतदहरिति वदन्तः सर्वे सत्रिण इति सूत्रार्थः। एके संस्थितइत्यस्येदं प्रयोजनम्– संस्थिते तीर्थेनेत्यारभ्योक्तेन प्रकारेणैतदन्तं कर्म दीक्षितमरणनिमित्तंसत्रिभिः कर्तव्यम्। अतः परं प्रेतस्य संबन्धो नास्तीत्येके शाखिन आमनन्ति। तेनातःपरं सत्रिणः सत्रमेव समाप्य यथेष्टं गच्छेयुः।

विश्वास-प्रस्तुतिः

निर्मन्थ्येन वा दग्ध्वा निखाय संवत्सरादेनमग्निष्टोमेन याजयेयुः।

मूलम्

निर्मन्थ्येन वा दग्ध्वा निखाय संवत्सरादेनमग्निष्टोमेन याजयेयुः।

टीका

इदानीं दहनादारभ्य पक्षान्तरमुच्यते। मृतेऽप्यग्नयः पूर्ववदेव न्युप्ता एव तिष्ठन्ति। स्वयोररण्योस्तु मन्थनेनाग्निं सद्य उत्पाद्य तेन पूर्वोक्तदेशे पात्रचयन71वर्जं दुग्ध्वाऽस्थीनिसंचितानि निखायाविकृतं सत्रं समाप्य सत्रसमापनकालादारम्य संवत्सरे पूर्णे तान्यस्थीन्यादाय तानि यजमानं कृत्वाऽग्निष्टोमेन प्रातरनभ्यासमित्येवमादिविशेषणविशिष्टेन याजयेयुः। त एव सत्रिण इत्ययमपरः पक्षः। अस्मिन्पक्षे पूर्वस्मिंश्च पक्षे सत्रसमापने मृतपुरुषन्यूना एव समापयेयुः।

विश्वास-प्रस्तुतिः

नेदिष्ठिनं वा दीक्षयेयुः।

मूलम्

नेदिष्ठिनं वा दीक्षयेयुः।

टीका

शेषसमापने मृतस्य संस्थापूरणार्थं मृतस्य संनिकृष्टं दीक्षयित्वा सत्रसमापनं कुर्युः।निर्मन्थ्य दहनपक्षे नेदिष्ठप्रवेशे सत्यप्यस्थियज्ञो नित्य एव।

विश्वास-प्रस्तुतिः

अपि वोत्थानं गृहपतौ।

मूलम्

अपि वोत्थानं गृहपतौ।

टीका

गृहपतेर्मृतौ72 तदहःप्रवृत्तं समाप्यावभृथं कृत्वा सदसो दहनं कृत्वा सत्रादुत्थापनं73भवति न पुनः शेषं समापयेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

उक्तः स्तुतशस्त्रविकारः।

मूलम्

उक्तः स्तुतशस्त्रविकारः।

टीका

यः संवत्सरेऽस्थियज्ञो यस्मिंश्चाहनि गृहपतिम्रियते तयोः शस्त्रविकार उक्तः। अनभ्यासमित्यादयो ये विकारा उक्तास्ते तयोर्द्वयोरपि भवन्तीत्यर्थः।

विश्वास-प्रस्तुतिः

एकाहेषु यजमानासने शयीत।

मूलम्

एकाहेषु यजमानासने शयीत।

टीका

एकाहेषु यजमानः पूर्वं यस्मिन्नासन आस्ते मृतोऽपि तत्रैव शयीत यावत्स एकाहःपरिसमाप्यते मृतेऽपि तस्मिन्नासनस्थे तदहः परिसमापनं कुर्युरित्यर्थः।

विश्वास-प्रस्तुतिः

संस्थितेऽपायतीष्ववभृथं गमयेयुरित्यालेखनः।

मूलम्

संस्थितेऽपायतीष्ववभृथं गमयेयुरित्यालेखनः।

टीका

तस्मिन्नहनिसंस्थितेऽदभृथकालेऽपायतीष्वपगच्छन्तीषु वहन्तीष्वित्यर्थः। तास्वप्स्ववभृथंकर्म कृत्वा तं प्रेतं तत्र प्रक्षिपेयुरित्यर्थः। एवमालेखन आचार्य आह।

विश्वास-प्रस्तुतिः

पूर्वेण सदो दहेयुरित्याश्मरथ्यः।

मूलम्

पूर्वेण सदो दहेयुरित्याश्मरथ्यः।

टीका

तस्मिन्नहनि समाप्तेऽवभृथकाले पूर्वेण सदो यो देशस्तस्मिन्देशे तं प्रेतं सर्वैर्यज्ञपात्रैःसह तैरेवाग्निभिर्दहेयुरित्याश्मरथ्य आह।

विश्वास-प्रस्तुतिः

एष एवावभृथः॥ १०॥

मूलम्

एष एवावभृथः॥ १०॥

टीका

अस्मिन्पक्षेऽन्योऽवभृथो न कर्तव्यः। एष एवावभृथो74 भवेद्यदेनमेभिरग्निभिर्यज्ञसाधनेश्चास्मिन्देशे दहनेन समापनामति॥ १०॥

विश्वास-प्रस्तुतिः

अग्निष्टोमोऽत्यग्रिष्टोम उक्थ्यः षोलशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः।

मूलम्

अग्निष्टोमोऽत्यग्रिष्टोम उक्थ्यः षोलशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः।

टीका

अत्यग्निष्टोमो नाम संस्थाविशेषः। अत्यग्निष्टोमे राजन्यस्य षोलशिनं गृह्णीयादितिवचनादाग्निमारुतादूर्ध्वंषोलशिग्रहस्य स्तुतशस्त्रे यदा भवतस्तदा सोऽत्यग्निष्टोम इत्युच्यते।वाजपेयाप्तोर्यामौ वक्ष्येते। इतरेऽत्रैवोक्ताः। सोमयागोऽत्र प्रकृतस्तेन तस्यैते संस्थाविशेषाःसर्वे सोमयागाः संस्थया सप्तविधा एवेत्यर्थः।

विश्वास-प्रस्तुतिः

तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छम्।

मूलम्

तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छम्।

टीका

तासां संस्थानां मध्ये यां संस्थामुपयन्ति कुर्वन्ति तस्या अन्ते यज्ञपुच्छं नाम वक्ष्यमाणंकर्म कर्तव्यम्। एवं स्थिते यां कांचित्संस्थां प्रकल्प्य प्रवृत्तानां संस्थान्त्यत्वेन क्लृप्ताच्छस्त्रादधिकं निमित्तवशेन शस्त्रान्तरमापद्यते यदा तदा तन्निमित्तबलात्तच्छस्त्रान्तैव सा संस्थाविपरिणमत इति। तस्मादेव शस्त्रादूर्ध्वं यज्ञपुच्छं नाम कर्म कर्तव्यमित्येवमर्थंतासांयामुपयन्ति तस्या अन्त इत्युक्तम्।

विश्वास-प्रस्तुतिः

अनुयाजाद्युक्तं पशुनाऽऽ शंयुवाकात्।

मूलम्

अनुयाजाद्युक्तं पशुनाऽऽ शंयुवाकात्।

टीका

तदिदं यज्ञपुच्छमुच्यते। अनुयाजादिशंयुवाक75पर्यन्तं पशौ यदुक्तं तदिह76 कर्तव्यम्। ‘उत्तमस्त्विह सूक्तवाकप्रैषः ’ इति प्रैषविशेषविधानादेव पाशुकमेवात्र तन्त्रं भवति नैष्टिकम्। अतः पशुनेत्यस्येदं प्रयोजनम् – पशौ यद्ब्रह्मासनं दक्षिणत आहवनीयस्य तदत्रकर्तव्यमिति। तेनानुयाजादौ मनोजादौ चैवं भवति। पशुपुरोडाशे सदस्येवाऽऽसीतेति सिद्धम्। आशंयुवाकादित्याशंयुवाकात्पाशुकं कर्म कर्तव्यं नोर्ध्वमित्येवमर्थम्।

विश्वास-प्रस्तुतिः

उत्तमस्त्विह सूक्तवाकप्रैषः।

मूलम्

उत्तमस्त्विह सूक्तवाकप्रैषः।

टीका

प्रैषसमाम्नाये द्वौ सूक्तवाकप्रैषावाम्नातौ, तयोरुत्तर इत्यर्थः।

विश्वास-प्रस्तुतिः

अवीवृधतेति पुरोलाशदेवतां पशुदेवताम्।

मूलम्

अवीवृधतेति पुरोलाशदेवतां पशुदेवताम्।

टीका

अवीवृधतेति। पुरोलाशदेवतां पशुदेवतां चेत्यध्याहर्तव्यम्। अस्मिन्सूक्तवाकप्रैषे‘अवीवृधत पुरोलाशैः’ इत्याम्नातम्। तत्र पशुदेवताऽग्निः पुरोलाशानां देवता, इन्द्रश्च द्वेदेवते संनिहिते। तत्रावीवृधतेत्येकवचनान्तं पदं कां देवताममिधत्ते। पुरोलाशैरिति बहुवचनं केवलपशुदेवताभिधाने न घटते केवलेन्द्राभिधाने च प्रकृतिप्राप्तं पशुदेवताभिधानं नकृतं स्यात्। अतः संनिधानाविशेषादुभे अपि देवते अभिधत्ते तन्त्रेणेतिमन्यमानः पुरोलाशदेवतां पशुदेवतामित्युक्तवानाचार्यः। एवं सति पुरोलाशैरितिबहुवचनं पुरोलाशंधानादिपञ्चकं चाभिप्रेत्योपपन्नं भवति। एवं सति ‘अक्रियामेकेऽन्यत्र तदर्थवादवदनात्’इति पशुपुरोलाशाकरणे यत्पशुदेवतानभिवानमस्मिन्मन्त्रे हेतुत्वेनोपवर्णितं तदपि परिहृतंभवति। तेन पशुपुरोलाशश्च कर्तव्यो भवति। अवीवृधत पुरोलाशैरित्येवास्मिन्मन्त्रेवक्तव्यं च भवतीति सिद्धम्।

विश्वास-प्रस्तुतिः

एके यदि सवनीयस्य पशोः पशुपुरोलाशं कुर्युरवीवृधेतां पुरोलाशैरित्येव ब्रूयात्।

मूलम्

एके यदि सवनीयस्य पशोः पशुपुरोलाशं कुर्युरवीवृधेतां पुरोलाशैरित्येव ब्रूयात्।

टीका

मन्त्र इत्याहुरिति वाक्यशेषः। अक्रियामेक इति। एक आचार्याः पशुपुरोलाशाक्रियामुक्तवन्तस्त एवात्रैक इति प्रत्यवतिष्ठन्ते। त एवमाहुः - यदि सवनीयस्य पशोःपशुपुरोलाशः क्रियेत तदा द्वयोर्देवतयोः पुरोलाशेन वर्धने कर्तव्येऽवीवृघेतां पुरोलाशैरिति द्वयोरभिधानाय मन्त्रौ77 ब्रूयान्न तथा ब्रवीति। अतः पुरोलाशदेवतैवात्राभिधीयतेन पशुदेवता। अतस्तस्या अनभिधानात्पशुपुरोलाशस्याक्रियैवेत्येक आहुरित्यर्थः।

एवमेकीयं पक्षमुपन्यस्याऽऽत्मीये पक्षेऽभिधाननिर्वाहमुपपादयति-

विश्वास-प्रस्तुतिः

सवनीयैरेवेन्द्रो वर्धते पशुपुरोलाशेन पशुदेवता।

मूलम्

सवनीयैरेवेन्द्रो वर्धते पशुपुरोलाशेन पशुदेवता।

टीका

अवीवृधतेति देवतायागसंबन्ध उच्यते। स चोभयोरविशिष्टः, संनिधानं चाविशिष्टमस्मिन्मन्त्रे तथा दर्शनात्। एवं सत्येकवचनस्याविवक्षयाऽप्युभयोरभिधानमेव युक्तंनैकस्या एवेति। अस्मिन्नुपपन्ने पुरोडाशैरितीदमप्यनयैव दिशा घटत इत्युक्तं सवनीयैरेवेन्द्रो वर्धते पशुपुरोलाशेन पशुदेवतेति।

विश्वास-प्रस्तुतिः

ऊर्ध्वं शंयुवाकाद्धारियोजनः।

मूलम्

ऊर्ध्वं शंयुवाकाद्धारियोजनः।

टीका

शंयुवाकान्तस्यैवातिदेशमुक्त्वा हारियोजन उच्चमानस्तस्मादूर्ध्वमेव भवति तत्किमूर्ध्वचचनेन। तस्येदं प्रयोजनम् - तृतीयसवनं तावच्छस्त्रान्तमवे। यत्पुनः शस्त्रादूर्ध्वमनुयाजादि शंबुवाकान्तं तदैष्टिकत्वादुत्तमस्वरं भवति। तस्मादूर्ध्वं यत्सौमिकं तत्रस्वरविधानामाबादनियतस्वरं भवतीति तस्य स्वरविधानार्थमूर्ध्ववचनम्। शंबुवाकशब्देनात्रशंबुषाकस्थर उच्यते स चोत्तमस्तेनायमर्थः— उत्तमादप्युत्तमस्वरेण हारियोजनः प्रयोक्तव्य इति।

विश्वास-प्रस्तुतिः

अपाः सोममस्तमिन्द्र प्रयाहि धाना सोमानामिन्द्राद्धि च पिब च युनज्मि ते ब्रह्मणा केशिना हरी इति।

मूलम्

अपाः सोममस्तमिन्द्र प्रयाहि धाना सोमानामिन्द्राद्धि च पिब च युनज्मि ते ब्रह्मणा केशिना हरी इति।

टीका

हारियोजनस्यानुवाक्याप्रैषयाज्याः।

विश्वास-प्रस्तुतिः

इज्यानुवाक्ये अन्त्येष्वहःसु।

मूलम्

इज्यानुवाक्ये अन्त्येष्वहःसु।

टीका

एते याज्यानुवाक्ये अहर्गणेषु यान्यन्त्यान्यहानि तेषु भवतः। अन्त्यवदेकाह इतिन्यायादेकाहेष्वपि भवतः।

विश्वास-प्रस्तुतिः

तिष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु।

मूलम्

तिष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु।

टीका

अहर्गणेष्वेवान्त्येभ्यो यानीतराणि तेष्वेते भवतः। अनन्त्येष्वित्यर्थः।

विश्वास-प्रस्तुतिः

परायाहि मघवन्नाच याहीति वाऽनुवाक्योत्तरवत्स्वहःसु।

मूलम्

परायाहि मघवन्नाच याहीति वाऽनुवाक्योत्तरवत्स्वहःसु।

टीका

हारियोजनविषयत्वादस्य विधेरहःशब्देनात्र सुत्याहान्येवोच्यन्ते। तेन सारस्वतसत्रादिषु यानि सुत्याहान्यसौत्याहोभिरुत्तरवन्ति तेष्वनन्त्येष्वियमनुवाक्या भवति। तिष्ठासुकमिति वा। अयं यज्ञ इत्येषैव याज्या।

विश्वास-प्रस्तुतिः

अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मधवन्निन्द्र तेऽश्व इति।

मूलम्

अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मधवन्निन्द्र तेऽश्व इति।

टीका

हारियोजनाधिकारात्तस्यैवानुवषट्कारात्प्रागेवातिप्रैषनामकमिह मद इत्यादिकं प्रैष मैत्रावरुण आह। मैत्रावरुणग्रहणमननुवषट्कृत इतिवचनाद्धोतुः78 प्राप्तिशङ्कानिवृत्त्यर्थम्।आहेतिवचनं जपादिषट्कव्यावृत्त्यर्थम्। अस्य तु विषयं वक्ष्यति। तायमानरूपाणां प्रथमादह्नःप्रवर्तेते अभ्यासातिप्रैषाविति।

विश्वास-प्रस्तुतिः

अद्येत्यतिरात्रे।

मूलम्

अद्येत्यतिरात्रे।

टीका

अतिरात्रे ऋतौ वक्ष्यमाण79श्वःशब्दस्य स्थानेऽद्यशब्दः कर्तव्यः। समर्थनिगमत्वादेवोहेप्राप्ते पुनर्वचनमस्य प्रैषस्याहर्गणेष्वनन्त्याहरर्यतयोत्पत्तेरहर्गणानां च द्वादशाहप्रकृतित्वाद्द्वादशाहस्य चातिरात्रादित्वात्तत्प्रभृतित्वादस्य प्रवृत्तेः सैवास्य प्रकृतिरिति कृत्वाऽनूहं मन्यमानस्योत्तरमद्येत्यतिरात्र इति। अयमभिप्रायः – सत्यं द्वादशाहेऽनन्त्यान्यहान्यस्य प्रकृतिरिति। किंतु तेष्वेव यस्मिन्नहनिप्रकृतित्वेन गृहीतस्य80 मन्त्रस्य यथार्थमभिधानं संभवति तदेवास्य प्रकृतिरिति कृत्वाऽतिरात्र ऊह एव युक्त इति।

विश्वास-प्रस्तुतिः

अद्य सुत्यामिति च।

मूलम्

अद्य सुत्यामिति च।

टीका

इदमपि पूर्ववदेव द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

तस्यान्तं श्रुत्वाऽऽग्नीध्रःश्वःसुत्यां प्राह श्वःमुख्यां वा एषां ब्राह्मणानां तामिन्द्रायेन्द्राग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति॥ ११॥

मूलम्

तस्यान्तं श्रुत्वाऽऽग्नीध्रःश्वःसुत्यां प्राह श्वःमुख्यां वा एषां ब्राह्मणानां तामिन्द्रायेन्द्राग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति॥ ११॥

टीका

अतिप्रैषस्यान्तमाग्नीध्रःश्रुत्वा श्वःसुत्यासंज्ञकं ‘श्वःसुत्यां वा एषाम् ’ इत्येतं मन्त्रंग्राह। आहेत्येतावतैव जपादिषट्कव्यावृत्त्योपांशुत्वे निवृत्ते प्रकर्षवचनादुत्तम एवात्र स्वरोभवति। तस्यान्तं श्रुत्वेतिवचनमतिप्रैषश्वःसुत्ययोः संबन्धकरणार्थम्। तेन तस्मिन्नतिप्रैषेऽद्येस्यूहविधिः श्वःसुत्यामन्त्रेऽपि भवति। श्वःसुत्यामन्त्रेऽपि प्राहेतिवचनाद्य उत्तमस्वरोविहितः सोऽतिप्रैषेऽपि भवति। अनुवषट्कारात्प्रागित्ययमपि श्वःसुत्यामन्त्रेऽपि भवति।उपांशुत्वव्यावृत्तौ सत्यां हारियोजनान्तर्भावो मन्द्रादीनामप्यनियमं81 व्यावृत्त्योत्तमस्वरं नियमयतीत्ययमभ्युच्चयहेतुः॥ ११॥

विश्वास-प्रस्तुतिः

आहृतमुन्नेत्रा द्रोणकलशमिलामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत।

मूलम्

आहृतमुन्नेत्रा द्रोणकलशमिलामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत।

टीका

उन्नेत्राऽऽहृतम् ‘ उन्नेतरुपह्वयस्व’ इत्युक्त्वाऽवेक्षेत तूष्णीं द्रोणकलशस्थं सोमम्।

विश्वास-प्रस्तुतिः

हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य82 शस्त्वोक्थ83स्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रति प्रदाय द्रोण कलशमात्मानमाध्याय्य यथाप्रसृप्तं विनिःसृप्याऽऽग्नीध्रीये विनिःसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चं नियच्छन्। अयं कस्यचिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात्स्वाहा। इदं राधो अग्निना दत्तमागाद्यशो भर्गः सह ओजो बलं च। दीर्घायुत्वाय शतशारदाय प्रतिगृभ्णामि महते वीर्याय स्वाहेति।

मूलम्

हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य82 शस्त्वोक्थ83स्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रति प्रदाय द्रोण कलशमात्मानमाध्याय्य यथाप्रसृप्तं विनिःसृप्याऽऽग्नीध्रीये विनिःसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चं नियच्छन्। अयं कस्यचिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात्स्वाहा। इदं राधो अग्निना दत्तमागाद्यशो भर्गः सह ओजो बलं च। दीर्घायुत्वाय शतशारदाय प्रतिगृभ्णामि महते वीर्याय स्वाहेति।

टीका

हरिवत् इति प्राणभक्षमन्त्रः। आत्माप्यायनं मुखहृदयाभिमर्शने मन्त्राभ्याम्। यथा- प्रसृप्तमिति। यो येन यथा सदो हविर्धानं वा प्रसृप्तः स तेन विनिःसृपयेत्यर्थः। विनिःसृप्ताहुतीरिति होमयोर्नाम। अयं पीत इदं राध इति होममन्त्रौ।

विश्वास-प्रस्तुतिः

आहवनीये षट् षट्शकलान्यभ्यादधातिदेवकृतस्यैनसोऽवयजनमसि स्वाहा। पितृकृतस्यैनसोऽवयजनमसि
स्वाहा। मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा। आत्मकृतस्यैनसोऽवयजनमासे स्वाहा।एनस एनसोऽवयजनमसिस्वाहा। यद्वोदेवाश्चकृम जिह्वया गुर्विति च।

मूलम्

आहवनीये षट् षट्शकलान्यभ्यादधातिदेवकृतस्यैनसोऽवयजनमसि स्वाहा। पितृकृतस्यैनसोऽवयजनमसि
स्वाहा। मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा। आत्मकृतस्यैनसोऽवयजनमासे स्वाहा।एनस एनसोऽवयजनमसिस्वाहा। यद्वोदेवाश्चकृम जिह्वया गुर्विति च।

टीका

आहवनीयवचनमाऽऽग्नीघ्रीयाधिकारात्। शकलाभ्याधानं पञ्चभिर्यजुभिरेकयर्चा।

विश्वास-प्रस्तुतिः

द्रोणकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्या स्थाऽऽ मापूरयत प्रजया च धनेन च। इन्द्रस्य कामदुघास्थ कामान्मे धुङ्ध्वं प्रजां च पशूश्चेति।

मूलम्

द्रोणकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्या स्थाऽऽ मापूरयत प्रजया च धनेन च। इन्द्रस्य कामदुघास्थ कामान्मे धुङ्ध्वं प्रजां च पशूश्चेति।

टीका

आपूर्या इत्यवेक्षणमन्त्रः। अथ वा पूर्वभागोऽवेक्षणार्थः, उत्तरोऽवग्राणार्थ इति।

विश्वास-प्रस्तुतिः

अवघ्रायान्तःपरिधिदेशे निवषेयुः।

मूलम्

अवघ्रायान्तःपरिधिदेशे निवषेयुः।

टीका

तूष्णीमवघ्राय ता धाना अन्तःपरिधिदेशे निवपेयुः। अत्र देशग्रहणात्परिध्यभावेऽपिस देशो गृह्यते।

विश्वास-प्रस्तुतिः

प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसास्तान्सव्यावृतो व्रजन्ति।

मूलम्

प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसास्तान्सव्यावृतो व्रजन्ति।

टीका

आहवनीयदेशात्सर्वे दक्षिणावृतः प्रत्येत्याऽऽग्नीधीयं गच्छेयुः। विनिःसृप्ताहुतिप्रभृत्येतावत्सर्वैः कर्तव्यम्।सर्वैवाग्नीध्रीयदेशं गच्छत्सु तेषु ये चमसिनस्ते सव्यावृतो भूत्वातीर्थदेशे चमसानद्भिः पूर्णानध्वर्युभिः स्थापितान्व्रजेयुः।

विश्वास-प्रस्तुतिः

हरिततृणानि विमृज्य प्रतिस्वं चमसेभ्यस्त्रिःप्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः।

मूलम्

हरिततृणानि विमृज्य प्रतिस्वं चमसेभ्यस्त्रिःप्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः।

टीका

तांश्चमसान्व्रजित्वा। हरिततृणान्यार्द्रतॄणानीत्यर्थः। तानि च दूर्वाजातीयानि शास्त्रान्तरे विशेषदर्शनात्। तानि तृणानि निष्पीड्य स्वे स्वे चमसेऽन्तरा प्रक्षिप्य सर्वे चमसिनः स्वारत्स्वाच्चमसाद्दूर्वारसयुक्ता अपो गृहीत्वा ताभिरद्भिः स्वं स्वमात्मानं दक्षिणैः पाणिभिरप्रदक्षिणं पर्युक्षन्ते। दक्षिणग्रहणं पाणींश्चमसेष्वित्यत्र सव्याधिकारानिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

इतरैर्वा प्रदक्षिणम्।

मूलम्

इतरैर्वा प्रदक्षिणम्।

टीका

सव्यैर्वा पाणिभिः प्रदक्षिणं पर्युक्षन्ते।

विश्वास-प्रस्तुतिः

स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति।

मूलम्

स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति।

टीका

एते त्रयः पर्युक्षणमन्त्राः।

विश्वास-प्रस्तुतिः

उक्तं जीवमृतेभ्यः।

मूलम्

उक्तं जीवमृतेभ्यः।

टीका

पिण्डदाने यदुक्तं विधानं तदत्रापि प्रत्येतव्यम्। तत्र जुहुयाज्जीवेभ्य इत्युपायान्तरमस्ति।अत्रोपायान्तर84स्यासंभवाद्यस्य प्रेतास्त्रयो भवेयुः85 स एव पर्युक्षणं कुर्यान्नान्यः। तद्वर्जमन्यत्सर्वे कुर्युः।

विश्वास-प्रस्तुतिः

पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुतस्तोमस्यशस्त्वोक्थ86स्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षान्भक्षयित्वा भाऽहं प्रजां परासिचमित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिभृशन्ति।

मूलम्

पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुतस्तोमस्यशस्त्वोक्थ86स्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षान्भक्षयित्वा भाऽहं प्रजां परासिचमित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिभृशन्ति।

टीका

चमसिनः स्वे स्वे चमसे स्वं स्वं दक्षिणं पाणिमवधाय ततः स्वस्वचमसा दूर्वारसयुताअप आदायावजिघ्रन्ति ‘अप्सु धूतस्य’ इतिमन्त्रेण। ततो ‘माऽहं प्रजाम्’इत्यनेनाभ्यात्मं स्वचमसस्था अपो भूमौ निषिञ्चेयुः। एतेनेतिवचनमनुष्टुभोऽभ्युद्धारेऽप्यस्याअनुष्टुमोऽनुद्धारार्थम्। ततः ‘अच्छायं वः’ इत्येतयर्चा चमसस्था अपो भूमौ निषिक्ताअभिमृशन्ति।

विश्वास-प्रस्तुतिः

दधिक्राव्णो अकारिपमित्याग्नीधीये दधिद्रप्सान्प्राश्य सख्यानि विसृजन्त उभा कबी युवाना सत्यादा धर्मणस्पती। परिसत्यस्य धर्भणा विसख्यानि सृजामह इति॥ १२॥

मूलम्

दधिक्राव्णो अकारिपमित्याग्नीधीये दधिद्रप्सान्प्राश्य सख्यानि विसृजन्त उभा कबी युवाना सत्यादा धर्मणस्पती। परिसत्यस्य धर्भणा विसख्यानि सृजामह इति॥ १२॥

टीका

‘दधिक्राव्णः’ इत्येतयाऽऽग्नीध्रीये दधिद्रप्सान्प्राश्नीयुः सयजमानाः सर्वर्त्विजः।ततः सख्यविसर्जनमपि कुर्युः, उभा कवीइतिमन्त्रेण। सख्यविसर्जनं नाम तानूनप्त्राभिमर्शनाद्येतावन्तं कालं सखित्वेन वर्तितव्यम्। तत्सस्वित्वमस्मिन्काले विसर्जनीयमित्यर्थः। तच्च परस्परं हस्तसंस्पर्शनेन विसर्जनीयम्॥ १२॥

विश्वास-प्रस्तुतिः

पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ति।

मूलम्

पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ति।

टीका

‘यथाप्रसृप्तम्’ इत्यत्र ‘उदायुषा’ इत्यनेन होता होमार्थं निःसर्पति स इदानींवेदं गृह्णाति। ततः पत्नीसंयाजैश्चरित्वा पत्न्यै वेदप्रदानादि पूर्णपात्रानेनयनान्तं कर्मा87कृत्वैव वेदस्तरणं कृत्वाऽकृत्वा वा प्रायश्चित्तानि जुहुयादितरैरन्वारब्धः। ततोहृदयशूलोद्वासनमत्रैव कर्तव्यम्। यद्यनूबन्ध्यापशुर्न करिष्यते * तदा तदुद्वासनंपशुकर्तृभिरेव कर्तव्यम्। तत्र संस्थाजपमेवावस्थाप्यावभृथदेशं परिव्रजन्ति।

विश्वास-प्रस्तुतिः

व्रजन्तः साम्नो निधनमुपयन्ति।

मूलम्

व्रजन्तः साम्नो निधनमुपयन्ति।

टीका

साम पञ्चभक्तिकं तस्यान्त्या भक्तिर्निधनमित्युच्यते। तदवभृथं गच्छन्तो ब्रूयुरित्यर्थः।तत्सर्वर्त्विजामेतत्कार्यम्।

विश्वास-प्रस्तुतिः

अवभृथेष्ट्या तिष्ठन्तश्चरन्ति।

मूलम्

अवभृथेष्ट्या तिष्ठन्तश्चरन्ति।

टीका

अवमृथेष्टिर्नाम जले क्रियते। तया तिष्ठन्तश्चरेयुः।

विश्वास-प्रस्तुतिः

प्रयाजाद्यनुयाजान्ता नास्यामिला न बर्हिष्मन्तौ प्रयाजानुयाजौ अप्सुमन्तौ।

मूलम्

प्रयाजाद्यनुयाजान्ता नास्यामिला न बर्हिष्मन्तौ प्रयाजानुयाजौ अप्सुमन्तौ।

टीका

आज्यभागौ भवत इत्यर्थः।

विश्वास-प्रस्तुतिः

गायत्रौ।

मूलम्

गायत्रौ।

टीका

गायत्रौ चैतौभवतः। सूत्रभेदकरणं यत्र यत्राप्सुमन्तौ तत्र तत्र गायत्रौ भवतइत्येवमर्थम्।

विश्वास-प्रस्तुतिः

वारुणं हविः।

मूलम्

वारुणं हविः।

टीका

हविर्ग्रहणं हविर्दोषे सति यागावसरे पुनर्हविरेवोत्पाद्य यष्टव्यं न पुनरराज्येनेष्ट्वा पुनर्यष्टव्यमित्येवमर्थम्।

विश्वास-प्रस्तुतिः

अव ते हेलो वरुण नमोभिरितिद्वे। अग्नीवरुणौ स्विष्टकृदर्थे।

मूलम्

अव ते हेलो वरुण नमोभिरितिद्वे। अग्नीवरुणौ स्विष्टकृदर्थे।

टीका

स्विष्टकृदर्थ इति। स्विष्टकृद्यागेऽनीवरुणौ देवता भवतीत्यर्थः। तेन स्विष्टकृच्छब्दो नप्रयोक्तव्यः। अत्रा88निगदएवाग्नीवरुणावित्यादिश्य ‘स त्वं नः’ इत्यृचा यष्टव्यम्।

विश्वास-प्रस्तुतिः

त्वं नो अग्ने वरुणस्य विद्वानिति द्वे। संस्थितायांपादानुदकान्तेऽवदध्युर्नमो वरुणायाभिष्ठितो वरुणस्य पाश इति।

मूलम्

त्वं नो अग्ने वरुणस्य विद्वानिति द्वे। संस्थितायांपादानुदकान्तेऽवदध्युर्नमो वरुणायाभिष्ठितो वरुणस्य पाश इति।

टीका

संस्थितायामवभृथेष्टौ सर्वेऽस्मदीयाः ‘नमो वरुणाय’ इत्यनेन मन्त्रेण दक्षिणान्पादानुदकान्तेऽवदध्युः। उदकान्ते तीरसमीपवर्तिन्युदक इत्यर्थः। संस्थितवचनमवधानादीनामिष्टिसंबन्धित्वज्ञापनार्थम्। तेनेष्टेरक्रियापक्षेऽवधानादयोऽपि89 न भवन्ति।

————————————————————————————————
* घ. इदमध्वर्युवंशेन लभ्यते।
————————————————————————————————
तत आचामन्ति भक्षस्यावभृथोऽसि भक्षितस्यावभृथोऽसि भक्षं कृतस्यावभृथोऽसीति।

तत इति पूर्वेणेदं90 संबद्धमिति दर्शयति। आचामन्ति, अपः पिबन्तीत्यर्थः। त्रिभिर्मन्त्रैः पिबन्ति। सर्वत्र शौचार्थमाचमनं कर्तव्यम्।

विश्वास-प्रस्तुतिः

प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्त्युत्तराभ्याम्।

मूलम्

प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्त्युत्तराभ्याम्।

टीका

तेषु पानेषु विशेष उच्यते-प्रथमेन पीता अपः प्रोथ्य प्रष्टीवन्ति। प्रोथनभित्यन्तरास्यशोधनार्थः क्रियाविशेष उच्यते। तं कृत्वा निष्ठीवेयुरित्यर्थः। उत्तराभ्यां पीताः प्रोथ्य प्रगिरन्ति। आचमनविधानादेव प्रगिरन्तीति सिद्धे पुनः प्रगिरन्तीतिवचनमत्रापि प्रोथनप्राप्त्यर्थम्।

विश्वास-प्रस्तुतिः

तत आचम्याऽऽप्लवन्त आपो अस्मान्मातरः शुन्धयन्त्विदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्त्विति।

मूलम्

तत आचम्याऽऽप्लवन्त आपो अस्मान्मातरः शुन्धयन्त्विदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्त्विति।

टीका

तत इति पूर्ववत्पदार्थसंबन्धार्थम्। आचम्येतिवचनं शौचार्थमाचमने कृते पुनराप्लवनाङ्गमाचमनं कृत्वाऽऽप्लवेरन्नित्येवमर्थम्। स्नानमाप्लवनमित्युच्यते। तदेभिर्मन्त्रैः कुर्युरित्यर्थः।

विश्वास-प्रस्तुतिः

एतयाऽऽवृतांऽभ्युक्षेरन्नेवाप्यदीक्षिताः।

मूलम्

एतयाऽऽवृतांऽभ्युक्षेरन्नेवाप्यदीक्षिताः।

टीका

अनयाऽऽवृता एभिर्मन्त्रै रित्यर्थः। एतयाऽऽवृता अदीक्षिता अभ्युक्षेरन्नेव नाऽऽप्लवेरन्। अपिशब्दादाप्लवनमप्यनुकृष्यते। अस्य चावधारणसंबन्धो भवति। तेनायमर्थः —अदीक्षिता अभ्युक्षेरन्नेव वाऽऽलवेरन्नेव वेत्येवं विकल्पो भवति।

विश्वास-प्रस्तुतिः

उन्नतैनानुन्नयति।

मूलम्

उन्नतैनानुन्नयति।

टीका

उन्नेता स्वशास्त्रोक्तविधिना सर्वानुदकादुत्तारयति।

विश्वास-प्रस्तुतिः

उन्नेतरुन्नोन्नयोन्नेतर्वस्वो अभ्युन्नयान इत्युन्नीयमाना जपन्ति।

मूलम्

उन्नेतरुन्नोन्नयोन्नेतर्वस्वो अभ्युन्नयान इत्युन्नीयमाना जपन्ति।

टीका

उन्नेत्रोन्नीयमाना उन्नेतरित्येतं मन्त्रं जपन्ति।

विश्वास-प्रस्तुतिः

उद्वयं तमसस्परीत्युदेत्य।

मूलम्

उद्वयं तमसस्परीत्युदेत्य।

टीका

ब्रूयुरिति शेषः। उदेत्योदकादुत्तीर्येत्यर्थः। इयमप्यृङ्मन्त्रसंज्ञा भवति। तेनोपांशु प्रयोकव्या। लिङ्गादेव ऋतूपकारः कल्प्यः।

विश्वास-प्रस्तुतिः

समानमत ऊर्ध्वं हृदयशूलेनाऽऽसंस्थाजपात्।

मूलम्

समानमत ऊर्ध्वं हृदयशूलेनाऽऽसंस्थाजपात्।

टीका

अस्या ऋच ऊर्ध्वं यत्कर्तव्यं तद्धृदयशूलोद्वासनेन समानं भवति। अत्र हृदयशूलोद्वासनाभावादनुमन्त्रणमपामुपस्पर्शनंसंस्पर्श91परिहारार्थमर्थलुप्तत्वादकर्तव्यम्। अनवेक्षमाणाइत्यादयः सर्वैः कर्तव्याः समिदाधानान्ताः पदार्थाः। आसंस्थाजपादितिवचनं हृदयशूलोद्वासनेन संस्थाजपस्य संबन्धाभावात्तस्यापि प्रापणार्थम्।

विश्वास-प्रस्तुतिः

संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः॥ १३॥

मूलम्

संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः॥ १३॥

टीका

अवधानादय एते पदार्थाः सर्वैरस्मदीयैः कर्तव्याः। संस्थाजपस्त्वपवृत्तकर्मभिरेव कर्तव्यइत्येवमर्थं वचनम्। इदं चान्यत्प्रयोजनमपवृत्तकर्माणः संस्थाजपं कुर्युरिति संस्थाजपस्यकर्तृसंबन्धं ब्रुवन्कर्तृद्वारेण प्रयोगाङ्गत्वमस्य दर्शयति। तेन सोमप्रयोगे यत्कर्तृसंबन्धिसोमप्रयोगावयवः संतिष्ठते तस्यैव संस्थाजपो भवति। तेन दीक्षणीयादिषु संस्थाजपस्य प्रतङ्गःएव नास्तीति सिद्धम्॥ १३॥

विश्वास-प्रस्तुतिः

गार्हपत्य उद्यनीयया चरन्ति।

मूलम्

गार्हपत्य उद्यनीयया चरन्ति।

टीका

गार्हपत्ये92 शालामुखीय इत्यर्थः। स ह्युत्तरवेदिप्रणयनादूर्ध्वंसोमस्य गार्हपत्योभवति वचनाद्यतः प्रणयति स गार्हपत्य इति। उदयनीया नामेष्टिः। तस्याः शालामुखीय एवाऽऽहवनीयो भवति।

विश्वास-प्रस्तुतिः

सा प्रायणीययोक्ता।

मूलम्

सा प्रायणीययोक्ता।

टीका

साग्रहणं प्रायणीययाऽस्या वैलक्षण्यप्रदर्शनार्थम्। तच्च वैलक्षण्यं शंयुवन्ता कृत्स्नसंस्था वेत्येवमादि तस्या अध्वर्युप्रत्ययत्वान्नास्माभिर्निश्चीयते। शनैस्तरामित्येव93 स्वरोऽत्रनातिदिश्यते, अवधिस्वरत्वात्तस्य पदार्थस्य धर्मो ह्यतिदेशेन प्राप्यते नावधिधर्म इति।

विश्वास-प्रस्तुतिः

पथ्या स्वस्तिरिहोत्तमाऽऽज्य हविषाम्।

मूलम्

पथ्या स्वस्तिरिहोत्तमाऽऽज्य हविषाम्।

टीका

सर्वसाम्ये94 विशेष उच्यते। तत्र चतत्र आज्यहविषो देवता अदितिः पञ्चमी चरुर्हविः।पथ्या स्वस्तिस्तत्र प्रथमा। इह चतुर्थी भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

विपरीताश्च याज्यानुवाक्याः।

मूलम्

विपरीताश्च याज्यानुवाक्याः।

टीका

तत्र या याज्या सेहानुवाक्या तत्र याऽनुवाक्या सेह याज्या भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

ते चैव कुर्युर्ये प्रायणीयाम्।

मूलम्

ते चैव कुर्युर्ये प्रायणीयाम्।

टीका

तत्र ये कर्तारस्त एवात्र नियम्यन्ते। तत्र यदि प्रतिनिधिभूतः कुर्यात्स एवात्रकुर्यादित्यर्थः।

विश्वास-प्रस्तुतिः

प्रकृत्या संयाज्ये।

मूलम्

प्रकृत्या संयाज्ये।

टीका

** ** ‘विपरीताश्च याज्यानुवाक्याः’ इत्यस्य प्रतिप्रसवोऽयम्।

विश्वास-प्रस्तुतिः

संस्थितायां मैत्रावरुण्यनूबन्ध्या।

मूलम्

संस्थितायां मैत्रावरुण्यनूबन्ध्या।

टीका

उदयनीयायां समाप्तायां मित्रावरुणदेवत्योऽनूबन्ध्यानामा95 पशुः कर्तव्यः।

विश्वास-प्रस्तुतिः

सदस्येके।

मूलम्

सदस्येके।

टीका

स पशुः सदस्यासीनैर्होत्रादिभिः कर्तव्य इत्येक आहुः। अस्मिन्नपि पक्षे दण्डप्रदानान्तमुत्तरवेद्यामित्युक्तम्।

विश्वास-प्रस्तुतिः

उत्तरवेद्यामेके।

मूलम्

उत्तरवेद्यामेके।

टीका

एके शाखिन उत्तरवेदिसमीप आसीनैरित्याहुः।

विश्वास-प्रस्तुतिः

हुतायां वपायां यद्येकादशिन्यग्रतः कृताऽग्नीषोमीयेण संचरेण व्रजित्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरन्ति।

मूलम्

हुतायां वपायां यद्येकादशिन्यग्रतः कृताऽग्नीषोमीयेण संचरेण व्रजित्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरन्ति।

टीका

अनुबन्ध्याया वपायां हुतायामिदं नैमित्तिकं कर्मोच्यते। यदि यस्मिन्क्रतावग्नीषोमीयस्य स्थाने सवनीयस्थाने वा पश्वेकादशिनी प्रयुक्ता स्यात्तदा तस्मिन्क्रतावस्मिन्स्थानेऽग्नीषोमीयेण संचरेण, अग्नीषोमीयप्रणयने यः संचरस्तेनेत्यर्थः। तेन संचरेण शालामुखीयंगत्वा तत्र त्वाष्ट्रेण त्वष्टृदेवत्येन पशुना यजेयुरित्यर्थः।

विश्वास-प्रस्तुतिः

अञ्जनादि पर्यग्नि कृत्वोत्सृजन्त्यपुनरायनाय।

मूलम्

अञ्जनादि पर्यग्नि कृत्वोत्सृजन्त्यपुनरायनाय।

टीका

तं त्वाष्ट्रं पशुं यूपाञ्जनादिपर्यग्निकरणान्तं कृत्वोत्सृजन्ति। अपुनरायनाय अपुनरागमनायेत्यर्थः। तावानेवायं पशुयागो भवति नात ऊर्ध्वं कर्तव्यो भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात्।

मूलम्

यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात्।

टीका

उक्तः पक्ष उत्सर्गो नामायमपरः पक्ष उच्यते। यद्यध्वर्यव आज्येन तं पशुयागंसमापयेयुस्तदा होताऽपि तथा कुर्यात्। होतृग्रहणं मैत्रावरुणस्यापि प्रदर्शनार्थम्।

तथैवेत्यस्य विवरणार्थमाह —

विश्वास-प्रस्तुतिः

संप्रैषवदादेशान्।

मूलम्

संप्रैषवदादेशान्।

टीका

आज्येन समापनेऽनेके पक्षाःसंभवन्ति। आज्यशब्देन संव्यवहारमात्रं कृत्वा पशुवदेव क्रियत इत्येकः पक्षः। संव्यवहारोऽपि पशुशब्देनेत्यपरः। इष्टिवदेवाऽऽज्येन त्वाष्ट्र्याग इत्ययमप्यपरः पक्षः। इष्टिपक्षेऽपि वपापुरोडाशहविःस्थानेषु त्रिकृत्वः96 क्रियतइत्यपरः पक्षः। यद्यन्यथाऽषि कुर्युस्तस्य तस्यानुगुणमादेशान्ब्रूयात्। एतदुक्तं भवति –यथा यथाऽध्वर्यूणांसंप्रैषेषु देवतादेशा द्रव्यादेशाश्च97कृतास्तद्वदेव द्रव्यदेवतानामादेशानस्मदीयाः कुर्युरित्यर्थः।

विश्वास-प्रस्तुतिः

पशुवन्निपातान्।

मूलम्

पशुवन्निपातान्।

टीका

निपाता नामैवंप्रकाराः– भेद उद्धृतं पार्श्वतः श्रोणित’ इति ये पशुसमवेताभिधायिनो द्रव्यान्तरसमवेताभिधायिनो वा मन्त्रमध्ये निपातितास्ते निपाता उच्यन्ते। तानाज्येन क्रियमाणे पशुवत्क्रियायां पशुवदेव ब्रूयादित्यर्थः।

विश्वास-प्रस्तुतिः

यद्यनूबन्ध्ये पशुपुरोलाशमनुदेविकाहवींषि निर्वपेयुर्धाताऽनुमती राका सिनीवाली कुहूः।

मूलम्

यद्यनूबन्ध्ये पशुपुरोलाशमनुदेविकाहवींषि निर्वपेयुर्धाताऽनुमती राका सिनीवाली कुहूः।

टीका

यद्यत्र देविकाहवींष्यनुनिर्वपेयुरन्वायातयेयुरित्यर्थः, तदा धात्रादयः पञ्च देवतायष्टव्याः। ते यागा देविका इत्युच्यन्ते। स्थानोपदेश98श्चान्वायत्यत्वं स्पष्टयति।

विश्वास-प्रस्तुतिः

धाता ददातु दाशुषे प्राचीं जीवातुमक्षितम्। वयं देवस्य धीमहि सुमतिंवाजिनीवतः। धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान। धाताकृष्टीरनिमिषाऽभिचष्टे धात्र इद्धव्यं घृतवज्जहोतेति।

मूलम्

धाता ददातु दाशुषे प्राचीं जीवातुमक्षितम्। वयं देवस्य धीमहि सुमतिंवाजिनीवतः। धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान। धाताकृष्टीरनिमिषाऽभिचष्टे धात्र इद्धव्यं घृतवज्जहोतेति।

टीका

धातुरिहैवाऽऽम्नाते, इतरेषामदृष्टादेशन्यायेनान्वेषणीयाः।

विश्वास-प्रस्तुतिः

देवीनां चेत्सूर्यो द्यौरुषागौः पृथिवी।

मूलम्

देवीनां चेत्सूर्यो द्यौरुषागौः पृथिवी।

टीका

एषां च पञ्चानां दैव्य इति समाख्या। यद्येता अन्वायातयेयुस्तदैता देवता भवन्तीति।

विश्वास-प्रस्तुतिः

स्मत्पुरन्धिर्न आगहीति द्वे आद्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभाति तस्करो बलित्थापर्वतानां दृहूलाचिद्या वनस्पतीन्।

मूलम्

स्मत्पुरन्धिर्न आगहीति द्वे आद्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभाति तस्करो बलित्थापर्वतानां दृहूलाचिद्या वनस्पतीन्।

टीका

सूर्यस्य चातुर्मास्येभ्यो ग्रहीतव्ये याज्यानुवाक्ये।

विश्वास-प्रस्तुतिः

पश्वलाभे पयस्या मैत्रावरुण्यनूबन्ध्यास्थाने।

मूलम्

पश्वलाभे पयस्या मैत्रावरुण्यनूबन्ध्यास्थाने।

टीका

अनूबन्ध्यायाः पशुद्रव्यालाभे मैत्रावरुणी पयस्या कर्तव्या। देवतानिर्देशःप्रकृतायाएवानूबन्ध्यायाः पश्चलामे पयस्या कर्तव्या नान्यासामनूबन्ध्यानाम्। अ*न्यासामनूबन्ध्यानामयं पक्षो नास्तीत्यर्थः। स्थानग्रहणं तत्कार्यकरी99यं पयस्या न पश्वलाभे नैमित्तिकं कर्मान्तरमिति प्रदर्शनार्थम्।

————————————————————————————————————
* घ. अन्यदेवताकानाम्।
————————————————————————————————

विश्वास-प्रस्तुतिः

आज्यभागप्रभृतिवाजिनान्ता।

मूलम्

आज्यभागप्रभृतिवाजिनान्ता।

टीका

एषा पयस्यैतदादिरेतदन्ता भवति। अध्वर्युप्रत्ययादन्यथा वा भवति।

विश्वास-प्रस्तुतिः

कर्मिणो वाजिनं भक्षयेयुः।

मूलम्

कर्मिणो वाजिनं भक्षयेयुः।

टीका

उत्तरविवक्षार्थमेतत्।

विश्वास-प्रस्तुतिः

सर्वे तु दीक्षिताः।

मूलम्

सर्वे तु दीक्षिताः।

टीका

सत्रविषये यजमानत्वात्सर्वे भक्षयेयुः।

विश्वास-प्रस्तुतिः

सर्वे तु दीक्षितोत्थिताः पृथगग्नीन्समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते।

मूलम्

सर्वे तु दीक्षितोत्थिताः पृथगग्नीन्समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते।

टीका

तुशब्दो विशेषविध्यर्थः। तेनास्मिन्सूत्रेऽर्थद्वयमस्ति, सामान्यतो विशेषतश्च। सामान्यतस्तावदयमर्थः—प्रकृतेन ज्योतिष्टोमाख्येन सोमेन यजमानो दक्षिणीययादीक्षांप्रविष्टः सन्सोमेनेष्ट्वाऽवभृथेष्टौ दीक्षोन्मोचनं कृत्वा तस्मादुत्थित एवानूबन्ध्यान्तं प्रयोगंसमाप्य तदन्तेऽग्नीनरण्योः समारोप्योदग्देवयजनाद्यो देशस्तस्मिन्नग्नीन्मथित्वोदवसानीययायजत इत्येकोऽर्थः। अपरस्तु यदि सर्वे दीक्षिताः स्युः, सत्रं चेदित्यर्थः। दीक्षिताउत्थिता इतिपाठः कर्तव्यः समासपाठेऽर्थस्य दुर्गमत्वात्। यदि सर्वे दीक्षिताः स्युस्तदापूर्ववदेवानूबन्ध्यान्तं कर्म कृत्वा सर्वे स्वान्स्वानग्नीन्स्वेष्वेवारणीषु पृथक्पृथक्समारोप्य पूर्ववन्मथित्वा पृथगेवोदवसानीयया यजेरन्निति विशेषतोऽर्थः। मन्थनस्यार्थसिद्धत्वे सत्यपिमन्थनवचनं तदानीमेव मथित्वा सद्य उदवसानीया कर्तव्येत्येवमर्थम्। तेनोदवसानीयासोमाङ्गं भवति। तेनाग्निहोत्रकाले प्राप्तेऽप्यस्यामिष्टावपरिसमाप्तायां तन्न होतव्यमितिसिद्धं भवति। अनूबध्यान्ते प्रायश्चित्तानि हुत्वा संस्थाजपंच कुर्युः, पूर्वमकृतवन्तःसंस्थाजपम्।

विश्वास-प्रस्तुतिः

पौनराधेयिक्यविकृताऽविकृता॥ १४॥

मूलम्

पौनराधेयिक्यविकृताऽविकृता॥ १४॥

विश्वास-प्रस्तुतिः

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्केषष्ठोऽध्यायः॥ ६॥

मूलम्

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्केषष्ठोऽध्यायः॥ ६॥

टीका

————

सेयमुदवसानीयैवंरूपा भवति। पौनराधेयिकी पुनराधेये याऽऽम्नातेष्टिस्तद्रूपेत्यर्थः। किंचाविकृताऽविभक्त्या100ज्यभागविकारोपांशुत्वरहिता101 केवलमग्निदेवता102 प्रधानस्विष्टकृतोर्याज्यानुवाक्याश्चातिदिश्यन्ते नान्यदित्यर्थः॥ १४॥

इत्याश्वलायनश्रौतसूत्रवृतौ नारायणीयायां षष्ठोऽध्यायः॥ ६॥

————

अथ उत्तरषट्के प्रथमोऽध्यायः।
———


  1. " झ. तत्रेव । " ↩︎

  2. " ख. ग. घ. °ण्युक्थ्य ए°।" ↩︎

  3. “ख. ग. घ. एतदे°।” ↩︎

  4. " ख. ग. घ. च. झ. °त्यत्र म° ।" ↩︎

  5. “क. ङ. च. झ.°क्वर्ये । प्रो° ।” ↩︎

  6. " ख. ग. घ. च. झ. °नस्यासं° ।" ↩︎

  7. " घ. °ते न स° । " ↩︎

  8. " ख. ग. °व सू° । " ↩︎

  9. “क. ख.ग. व. झ. °नार्थोऽय°।” ↩︎

  10. “घ. °कृतव° ।” ↩︎

  11. “ख. ग. °मर्ध° ।” ↩︎

  12. “ख ग घ. °त् । अत्रा° ।” ↩︎

  13. " ख. ग. ङ. °ङ्क्तिपद° ।" ↩︎

  14. “ग.°त्रीपदा° । " ↩︎

  15. “झ. °त्तमासु ।” ↩︎

  16. “क. ङ. झ. °मपद° ।” ↩︎

  17. “ख. ग. द्वे द्वावनु°” ↩︎

  18. “ख. ग. घ. °तमर्धमस्य ।” ↩︎

  19. “खग. घ. °तदुप° । " ↩︎

  20. “च. °हेन पू° ।” ↩︎

  21. " ख. ग. घ. ङ. च. °स्येत्ये° ।” ↩︎

  22. “क. ख. ग. ग. ङ, झ, °र्थः । शि° ।” ↩︎

  23. “ख. ग. घ. ङ. च. °त्वा । इ° ।” ↩︎

  24. “क. °न्तावन्वा° ।” ↩︎

  25. " ख. ग. घ. ङ. च. °निधिप्र°” ↩︎

  26. “ङ. च. स्थितेष्वि ।” ↩︎

  27. " ख. ग. घ. ङ. च. °मिति प्र° ।" ↩︎

  28. “ख. ग. °द्यावापृथिवी° ।” ↩︎

  29. “क. घ. ङ.. घ. झ. °ने सू°” ↩︎

  30. “झ. °व शे° । " ↩︎

  31. “ख. ग. घ. च. झ. °स्य चाप° ।” ↩︎

  32. “ख. ग. °र्ह्रासः स्तोत्रियाणा° ।” ↩︎

  33. “घ. ङ, °सेत्ये° ।” ↩︎

  34. “च. °भयं व्य° ।” ↩︎

  35. “ख. ग. द्विरात्रादि° । " ↩︎

  36. “च. °काद्दैव° ।” ↩︎

  37. “ख. ग. घ. यदा ।” ↩︎

  38. “च. यावदेव श° ।” ↩︎

  39. “ख. ग॰ घ॰ च. अग्नि° । " ↩︎

  40. “च. °स्तु स्तुत ।” ↩︎

  41. “च. वा । समन्त्रकं वेत्यर्थः न्या° । " ↩︎ ↩︎

  42. “ग. °या तन्त्रा° ।” ↩︎

  43. “क. क. ग. च. °यघयःकु° ।” ↩︎

  44. “च. °क्षास्वक्री°।” ↩︎

  45. “क. ग. घ. छ. ज. झ. °क्षिणां द°।” ↩︎ ↩︎

  46. “ग. घ. च. भ° ।” ↩︎

  47. " क. ग. घ. ङ. झ. °नेवेक° ।” ↩︎

  48. " च. °नर्देहि ।” ↩︎ ↩︎

  49. " क. ग. व. ङ. °द्ब्याधिः पीडेत्य° ।” ↩︎

  50. “च. पीडयेत्य°।” ↩︎

  51. " क, ख. बुद्ध्य गृ° ।” ↩︎

  52. “क. घ. झ. °त्रेयेश° ।” ↩︎

  53. “च. तेऽती ।” ↩︎ ↩︎

  54. " क. व. झ. °नविर्ह° ।" ↩︎ ↩︎

  55. “ग. घ. ङ. च. झ. °ते तमती° ।” ↩︎

  56. “ग. घ. ङ. °ब्र किंचि° ।” ↩︎

  57. “क. घ. ङ. च. झ. °यान्यान्त्रा° ।” ↩︎

  58. “ग. °त्यं तेनैव ।” ↩︎

  59. " घ. झ. °हेयुस्तद्दह° ।" ↩︎

  60. “क. घ. झ. °स्तवानि ।” ↩︎ ↩︎

  61. " ग. गास्त्रिःप्रसव्यमृप° ।" ↩︎

  62. " च. °न् । स्तुते हो° ।" ↩︎ ↩︎

  63. “च.°बञ्छन्दो° । " ↩︎

  64. “क, घ. ङ.झ. °त्र विक्री° ।” ↩︎

  65. “च. चिकीर्षति । त° ।” ↩︎

  66. “ग. न्ते तेन य° ।” ↩︎

  67. “घ ङ. च. °दप्यमृ° । ग. °दतप्यमानस्य ।” ↩︎

  68. " च °युरित्यर्थः ।मार्जा° ।” ↩︎

  69. " च. °ये नि° ।" ↩︎

  70. “ग. °तग्रहण° ।” ↩︎

  71. “ग. °त्रनय° ।” ↩︎

  72. “ङ. च. °पतौ मृते त° । " ↩︎

  73. “ग. ङ. च. °त्थानं° ।” ↩︎

  74. “च. °थोऽवभृथे यदे° । " ↩︎

  75. “घ. वाकादिप° । " ↩︎

  76. “ग. घ. ङ. च. °तद्वदि°।” ↩︎

  77. " ग. घ. ङ. च. झ. मन्त्रो ब्रू° ।” ↩︎

  78. “चं. द्धोमप्रा° ।” ↩︎

  79. “क. झ °माणे श्वः° ।” ↩︎

  80. " झ °हीते म° । घ. °हीतेऽस्य म° ।” ↩︎

  81. " च. °मपि नि° ।” ↩︎

  82. " क. झ. °तसोम° ।" ↩︎ ↩︎

  83. “क. घ. ङ. च. झ. शस्तोक्थ° ।” ↩︎ ↩︎

  84. “ङ. °रस्य सं° । " ↩︎

  85. " क. °वेयुस्तत्र प° ।” ↩︎

  86. “क. घ. ङ. झ. शस्तोवथ° ।” ↩︎ ↩︎

  87. " च.कर्मे कृ°।" ↩︎

  88. “च. अत्र निगदाभावादग्नी°। " ↩︎

  89. " ग. °पि भा°” ↩︎

  90. “ग॰ घ॰ °र्वेण पूर्वेणे° ।” ↩︎

  91. " ग. ङ. च. °र्शनप° ।" ↩︎

  92. " ग. °पत्यः शा° ।" ↩︎

  93. “ङ. च. °त्येष स्व° ।” ↩︎

  94. " क. घ. इ. सर्वे सा° ।" ↩︎

  95. “क. घ. च. नाम प° ।” ↩︎

  96. " ग. त्रिष्टप्वः क्रि° । च त्रिः कृ° । ङ. त्रिष्कृत्वा क्रि°।" ↩︎

  97. “क. ग. घ. झ. °द्रव्यदे° ।” ↩︎

  98. “घ. झ. °शकश्चा°।” ↩︎

  99. “क. झ. °र्यकारी° ।” ↩︎

  100. “च. °भक्ताज्यभा° ।” ↩︎

  101. " क. ध. झ. °हितांके°" ↩︎

  102. " घ. ङ.°ग्निर्देव° ।" ↩︎