विश्वास-प्रस्तुतिः
परिहितेऽप इष्य होतरित्युक्तोऽनभिहिंकृत्यापो-
नप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः।
मूलम्
परिहितेऽप इष्य होतरित्युक्तोऽनभिहिंकृत्यापो-
नप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः।
टीका
परिधानविध्युत्तरकालमेवास्यानुवचनस्य विधानात्परिहित1 इत्यस्मिन्नर्थे सिद्धे यत्परिहितवचनं तत्परिधानीयापोनप्त्री-ययोः संबन्धकरणार्थम्। तेनानयोः कर्तृस्थानोपवेशनानामैक्यं साधितं भवति। अवधित्वं च शनैर्भावस्य परिधानीयाया एवेति साधितं भवति। संप्रैषपाठोऽनुवचनादिकालपरिज्ञानसाधनयोःसंप्रैषत्वशास्त्रचोदनयोर्विप्रतिपत्तौ तयोरन्यतरेणापि तदनुवचनादि2 सिध्यतीत्येवमर्थः। ईषदलमित्यर्थः। शनैस्तरां नीचैस्तरामित्यर्थः।परिहितवचनादेव परिधानीयाया अवधित्वे सिद्धे पुनः परिधानीयावचनं परिधानीयायाअन्त्यावस्थासंग्रहार्थं3 परिधानीयायामपि4 परिधानीयाया5 इत्येवमर्थम्। तत्र परिधानीयायामुत्तमस्वरोऽयमारोह्क्रमेण6 कृत्स्नः प्रयुक्तः। तत्रान्त्याद्यमाच्छनैस्तरां भवतीत्यर्थः। तत्रानन्तरैकान्तरयोर्यमयोरुच्चनीचत्वोपलम्भनाशक्ते7र्धन्तरादिषु सर्वेषु यमेषु प्राप्तेष्वपीष-च्छब्देनद्व्यन्त8रयम एव नियमोऽस्तीति नियम्यते। तेनोत्तमस्य चतुर्थेन यमेनानुवक्तव्यमितिसिद्धम्।
विश्वास-प्रस्तुतिः
तासां निगदादि शनैस्तरां ताभ्यश्चाऽऽप्रसर्पणात्।
मूलम्
तासां निगदादि शनैस्तरां ताभ्यश्चाऽऽप्रसर्पणात्।
टीका
प्रसर्पणशब्देनेहोत्तमयाऽनुप्रपद्येतेत्येतत्प्रपदनं गृह्यते। एतच्च तासामित्यस्य प्रसर्पणविशेषणत्वाल्लभ्यते। ताभ्य इति निगदात्प्राग्भाविन्य ऋचो गृह्यन्ते। एतदुक्तं भवतिअपोनप्त्रीयाणां यत्प्रसर्पणमा तस्मान्निगदादि शनैस्तरां भवतीति। अत्रेषच्छब्दाभावा9त्र्यन्तरादि ये यमास्ते गृह्यन्ते। तेनात्र मध्यमस्वरो वेदितव्यः।
विश्वास-प्रस्तुतिः
परं मन्द्रेण।
मूलम्
परं मन्द्रेण।
टीका
** **प्रपदनाद्यत्परमपोनप्त्री10यं तन्मन्द्रेण प्रयोक्तव्यम्। एतदपोनप्त्रीयाधिकाराल्लभ्यते।
विश्वास-प्रस्तुतिः
प्रातःसवनं च।
मूलम्
प्रातःसवनं च।
टीका
प्रातःसवने च मन्द्रस्वरेण प्रयोक्तव्यमिति। तच्चोपांशुग्रहाद्यच्छावाकशस्त्रपर्यन्तम्।तत्र सर्वत्र मन्द्रस्वरो भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
अध्यर्धकारं प्रथमामृगावानमुत्तराः।
मूलम्
अध्यर्धकारं प्रथमामृगावानमुत्तराः।
टीका
अध्यर्धकारस्योत्तरया संतानाविरोधादृगावानतायश् पूर्वयासंतानाविरोधादत्र द्वितीयादाने पञ्चार्धर्चाअनुच्छ्वसता वक्तव्याः।
विश्वास-प्रस्तुतिः
वृष्टिकामस्य प्रकृत्या वा।
मूलम्
वृष्टिकामस्य प्रकृत्या वा।
टीका
उत्तरा इत्यनुवर्तते। सामिधेनीन्यायेनेत्यर्थः।
विश्वास-प्रस्तुतिः
प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत्।
मूलम्
प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत्।
टीका
‘प्रकृत्या वा’इत्यस्मिन्पक्षे लिङ्गाकाङ्क्षैवं भवति-यस्या ऋचो यदपेक्षणीयं लिङ्गंतस्याः पूर्वस्या ऋचोऽर्धर्चे स्थित्वा तल्लिङ्गामाकाङ्क्षेत्।
विश्वास-प्रस्तुतिः
प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनो-
तानो अध्वरं देवयज्येति दशमीम्।
मूलम्
प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनो-
तानो अध्वरं देवयज्येति दशमीम्।
टीका
दशमीग्रहणंब्राह्मणानुवादः।
विश्वास-प्रस्तुतिः
आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु।
मूलम्
आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु।
टीका
अत्र द्विविधा आपः, वस्ततीवर्य एकधानाश्च। तत्र पूर्वेद्युरेव वस्ततीवर्यो गृहीताः।एकधना इदानीं गृह्यन्ते ता11गृहीता ग्रहणदेशाद्देवयजनदेशं यद्ऽऽवर्तन्ते तदेयमृगनुवक्तव्या।
विश्वास-प्रस्तुतिः
प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानासु।
मूलम्
प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानासु।
टीका
अग्रैवाऽऽसीनस्य दृष्टिपथमागतासु।
विश्वास-प्रस्तुतिः
आ धेनवः पयसा तूर्ण्यर्थाः।
मूलम्
आ धेनवः पयसा तूर्ण्यर्थाः।
टीका
इत्युपायतीष्विति ब्राह्मणोक्तरोषः। समीपमागतास्वित्यर्थः।
विश्वास-प्रस्तुतिः
समन्या यन्त्युपयन्त्यन्या इति।
मूलम्
समन्या यन्त्युपयन्त्यन्या इति।
टीका
समायतीष्वित्यत्रापि शेषः। वसतीवरीभिः समागतास्वित्यर्थः। इतिशब्दो ब्राह्मणोक्तकायसूचनार्थः।
विश्वास-प्रस्तुतिः
तीर्थदेशे होतुचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत्।
मूलम्
तीर्थदेशे होतुचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत्।
टीका
प्रकृति12भावपक्षेऽप्यत्रोपरमो नित्यो विधानसामर्थ्यात्।
विश्वास-प्रस्तुतिः
आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति। उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन्प्रतिनिष्कामेत्॥
मूलम्
आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति। उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन्प्रतिनिष्कामेत्॥
टीका
** ** प्रतिवचनपाठः प्रतिवचनार्थ13प्रतिपादनेऽविस्पष्टार्थत्वादयमसौ निगद इत्थं वक्तव्य इत्याह।
विश्वास-प्रस्तुतिः
तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टिवनिंतीव्रान्तं बहुरमध्ये बसुमते रुद्रवत आदित्यवतऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासां पथोऽवतिष्ठेत।
मूलम्
तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टिवनिंतीव्रान्तं बहुरमध्ये बसुमते रुद्रवत आदित्यवतऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासां पथोऽवतिष्ठेत।
टीका
इत्यन्तवचना14द्यस्येन्द्र इत्यादिरप्यस्यैव निगदस्थैकदेश इति गम्यते। आसामेकधनाना-मागच्छन्तीनां मुखतो गत्वा ता अपरेणातीत्योत्तरतस्तिष्ठेदित्यर्थः।
विश्वास-प्रस्तुतिः
उपातीतास्वन्वावर्तेत।
मूलम्
उपातीतास्वन्वावर्तेत।
टीका
तास्वदूरेणाऽऽत्मनोऽतीतास्वन्वावर्तेत।
विश्वास-प्रस्तुतिः
यस्येन्द्रः पीत्वा वृत्राणि जङघनत्प्र सजन्यानि तारिषो३मम्बयो यन्त्यध्वभिरिति तिस्रः।
मूलम्
यस्येन्द्रः पीत्वा वृत्राणि जङघनत्प्र सजन्यानि तारिषो३मम्बयो यन्त्यध्वभिरिति तिस्रः।
टीका
अन्वावृत्य ततो यस्येन्द्र इत्यादि ब्रुवन्ननुव्रजेत्। ऋगावानपक्षे15 चानेन प्रणवेन संतानःकर्तव्यः। पाठ16सामर्थ्यात्।
विश्वास-प्रस्तुतिः
उत्तमयाऽनुप्रपद्येत।
मूलम्
उत्तमयाऽनुप्रपद्येत।
टीका
तिसृणामुत्तमयेत्यर्थः।
विश्वास-प्रस्तुतिः
एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्नासूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणम्॥ १॥
मूलम्
एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्नासूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणम्॥ १॥
टीका
सन्नास्वेकधनास्वित्यर्थः। तासामेवाधिकारात्। आग्मन्नाप इत्यनया परिधाय ततोनिष्क्रम्य पुनः पूर्वया द्वारा हविर्घानं प्रविश्य तस्यामेव द्वारि योत्तरा स्थूणा तस्याःपार्श्वसमीपे राजानमभिमुख उपविशेदकृत्वैव निरसनं निरसन17मन्त्रमुपवेशनमन्त्रमनुक्त्वैव॥ १॥
विश्वास-प्रस्तुतिः
उपांशुं हूयमानं प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय
प्राण प्राणं मे यच्छेत्यनुमन्त्र्यउः18 इत्यनुप्राण्यात्।
मूलम्
उपांशुं हूयमानं प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय
प्राण प्राणं मे यच्छेत्यनुमन्त्र्यउः18 इत्यनुप्राण्यात्।
टीका
उपांशुर्नाम ग्रहः। तं हूयमानमभिमुखो भूत्वाऽनेन मन्त्रेणानुमन्त्र्याऽऽनुलोम्येनप्राणनं कुर्यात्। अन्तःशरीरस्थं वायुं नासिकाद्वारेण बहिर्निर्गमयेदित्यर्थः।
विश्वास-प्रस्तुतिः
अन्तर्यामिमपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छेत्यनुमन्त्र्य ऊं इति चाभ्यपान्यात्।
मूलम्
अन्तर्यामिमपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छेत्यनुमन्त्र्य ऊं इति चाभ्यपान्यात्।
टीका
आभिमुख्ये19नान्तःशरीरं बहिष्ठं20वायुं नासिकया प्रवेशयेत्। प्राणापानयोः स्वरूपेणनिदर्शने पदार्थसंशयनिवृत्त्यर्थम्। चकारो ब्राह्मणोक्तविष्यनुकर्षणार्थः। सोऽयं विधिःप्राणयच्छ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनु-मन्त्र्य21तमेवामिप्राणेदुत्तरेण भागेन। एवमन्तर्याममुत्तरस्य मन्त्रस्य पूर्वेण भागेनानुमन्त्र्योत्तरेण भागेनाप्यपा22नेदित्येवं वा प्रयोक्तव्यमिति चशब्दः।
विश्वास-प्रस्तुतिः
उपांशुसवनं ग्रावाणं व्यानाय
त्वेत्यभिमृश्य वाचं विसृजेत।
मूलम्
उपांशुसवनं ग्रावाणं व्यानाय
त्वेत्यभिमृश्य वाचं विसृजेत।
टीका
उपांशुग्रहार्थः सोम उपांशुरित्युच्यते। सोऽभिषूयते येन ग्राब्णा स उपांशुसवनः।तं व्यानाय त्वेत्यभिमृश्यापोनप्त्रीयारम्भस्थान उपविश्य भूर्भुवः स्वरिति वाचं विसृजेत्। प्रातरनुवाकामन्त्रणकाल एव नियता23 वाक्, तत्संबन्धादेवापोनत्प्रीयास्वपि तदव24स्यैवावस्थिता। तासु चानुब्रुवद25नुव्रजनमस्तीति तदन्ते विसृज्यमाना मन्त्रवत्येव विसृष्टा26 भवेन्ना27मन्त्रवदेव विसृज्यते। सैवात्र28तस्मान्ना29तयोरुपांश्चन्तर्यामयोरित्युत्कृष्टा विसृज्यत इत्यवगन्तव्यम्। नात्र विचारणीयमन्यदस्ति।
विश्वास-प्रस्तुतिः
पवमानाय सर्पणेऽन्वक्छन्दोगान्मैत्रावरुणो ब्रह्मा च नित्यौ।
मूलम्
पवमानाय सर्पणेऽन्वक्छन्दोगान्मैत्रावरुणो ब्रह्मा च नित्यौ।
टीका
पवमानायेतिवचनं पवमानार्थमुद्द्वात्रादयो यत आरभ्य प्रसर्पन्ति तत एवाऽऽरभ्यैतावपिप्रसर्पेतां न विप्रुड्ढोमोत्तरकालमेवेत्येवमर्थम्। अन्वक्पृष्ठत इत्यर्थः। नित्यवचनं30 शतातिरात्रादौ मुख्यकर्म द्वितीयः कुर्याद्द्वितीयकर्म तृतीयः कुर्यादित्यत्रापि सर्पणे तयोर्नित्ययोरेवप्रापणार्थम्। न तत्कार्ये कुर्वतोस्तद्वर्ग्यपुरुषयोः प्राप्तिरित्येवमर्थम्।
विश्वास-प्रस्तुतिः
तावन्तरेणेतरे दीक्षिताश्चेत्।
मूलम्
तावन्तरेणेतरे दीक्षिताश्चेत्।
टीका
ताविति। ब्रह्ममैत्रावरुणावित्यर्थः। इतर इति। ताभ्यामन्ये ब्रह्महोतृवर्ग्याः31पुरुषाइत्यर्थः। दीक्षिताश्चेदितिवचनाद-दीक्षितानामेतेषां सर्पणं नास्तीति गम्यते। दीक्षितानायजमानत्वादेव सर्पणे सिद्धे पुनर्वचन मे तेषामस्मच्छास्त्रोक्त-विधिप्रापणार्थम्। अन्तरेणेतिमध्य32इत्यर्थः।
विश्वास-प्रस्तुतिः
द्रप्सश्चस्कन्देति द्वाभ्यां विप्रुड्ढोमौहुत्वाऽध्वर्युमुखाः समन्वारब्धाः सर्पन्त्या तीर्थदेशात्।
मूलम्
द्रप्सश्चस्कन्देति द्वाभ्यां विप्रुड्ढोमौहुत्वाऽध्वर्युमुखाः समन्वारब्धाः सर्पन्त्या तीर्थदेशात्।
टीका
विप्रुढ्ढोम इति33 कर्मनाम34। हुत्वा सर्पन्तीति वचनात्सर्पणाङ्गो होम इति गम्यते। तेनये ये प्रसर्पन्ति ते ते जुहतीति गम्यते। अध्वर्युमुखा अध्वर्यूक्तकारिणः। समन्वारब्धाअविच्छेदेन परस्परं स्पृशन्त इत्यर्थः। आतीर्थदेशादितिवचनात्तावदेवाध्वर्युप्रधानत्वं35 तीर्थदेशं प्राप्योपवेशनादि36स्वाधीना37 एवेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः।
मूलम्
तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः।
टीका
तस्य बहिष्पवमानस्य स्तोत्रं तस्तोत्रं स्तुतिरित्यर्थः। बहिण्वमानस्त्युत्यर्थमुद्गातारमभिमुखा उपविशेयुः, दक्षिणतो ब्रह्मोदङ्मुखः पश्चान्मैत्रावरुणः प्राङ्मुखः। बहुवचनंसत्रापेक्षम्।
विश्वास-प्रस्तुतिः
तान्होताऽनुमन्त्रयतेऽत्रैवाऽऽसीनो यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्याम्। तस्यापिभक्षयामसि मुखमसि मुखं भूयासमिति।
मूलम्
तान्होताऽनुमन्त्रयतेऽत्रैवाऽऽसीनो यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्याम्। तस्यापिभक्षयामसि मुखमसि मुखं भूयासमिति।
टीका
तान्बहिष्पवमानार्थमुपविष्टानित्यर्थः। अत्रैवाऽऽसीन इति। यत्रैवोपविश्य वाग्विसर्गं करोति तत्रैवेत्यर्थः। होतृग्रहणं होतैवात्राऽऽसीनो ऽनुमन्त्रयते न यजमान इत्येवमर्थम्।यदि यजमान एव हौत्रं करोति तदा यजमानतया सर्पणं कृत्वा तत्रस्थ एवानुमन्त्रणंकुर्यात्। तथाच वचनमस्ति– ‘यद्यु वै स्वयं यजमानो होता स्यात्सर्पेदव38’ इति।
विश्वास-प्रस्तुतिः
दीक्षितश्चेद्व्रजेत्स्तोत्रोपस्वराय।
मूलम्
दीक्षितश्चेद्व्रजेत्स्तोत्रोपस्वराय।
टीका
यदि होता दीक्षितस्तदाऽनुमन्त्रणं कृत्वा पुनस्तत्र गच्छेद्याजमानं कर्तुम्। पूर्वसूत्रेहोतृग्रहणाद्यजमानस्य होतृत्वे गत्वाऽनुमन्त्रणमुक्तम्। अत्र होतुर्यजमानत्वेऽनुमन्त्रणंकृत्वा पश्चाद्याजमानं कर्तुं व्रजेदित्युक्तम्। तेनेदमुक्तं भवति - एकहाहीनेषु यजमानस्यहोतृत्वे सत्रेषु गृहपतेर्होतृत्वे च गत्वाऽनुमन्त्रणं भवति। सत्रेषु होतैवानुमन्त्रणं कृत्वागच्छेद्याजमानकरणाय, अन्यत्रानुमन्त्रणं कृत्वाऽपि39 न गन्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
सर्पेच्चोत्तरयोः सवनयोः।
मूलम्
सर्पेच्चोत्तरयोः सवनयोः।
टीका
यदि होता दीक्षितस्तदोत्तरयोः सवनयोः सर्पणमपि कुर्यात्। बहिष्पवमानेऽत्रैवाऽऽसीनोऽनुमन्त्र्य पुनर्गच्छेत्। उत्तरयोः सवनयोः सर्पणादि सर्वंयाजमानं कुर्यादित्यर्थः।
विश्वास-प्रस्तुतिः
ब्रह्मन्स्तोष्यामः प्रशास्तरिति स्तोत्रायातिसर्जितावतिसृजतः।
मूलम्
ब्रह्मन्स्तोष्यामः प्रशास्तरिति स्तोत्रायातिसर्जितावतिसृजतः।
टीका
ब्रह्ममैत्रावरुणयोरयं विधिः, तयोरेवात्र प्रत्यतिसर्जनविधिदर्शनात्। अतिसर्जनवाक्याठोऽतिसर्ननवाक्ये परस्मैपदप्रयोगे सत्यपि प्रत्यतिसर्जनवाक्य आत्मनेपदप्रयोगलाभार्थम् (र्थः)।
विश्वास-प्रस्तुतिः
भूरिन्द्रवन्तः सवितृप्रसूता इति जपित्वों स्तुध्वमिति ब्रह्मा प्रातःसवने।
मूलम्
भूरिन्द्रवन्तः सवितृप्रसूता इति जपित्वों स्तुध्वमिति ब्रह्मा प्रातःसवने।
टीका
प्रातःसवनग्रहणं माध्यं40दिनसवनादिस्तोत्रनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
भुव इति माध्यंदिने स्वरिति तृतीयसवने भूर्भुवःस्वरिन्द्रवन्तः सवितृप्रसूता इत्यूर्ध्वमाग्निमारुतात्।
मूलम्
भुव इति माध्यंदिने स्वरिति तृतीयसवने भूर्भुवःस्वरिन्द्रवन्तः सवितृप्रसूता इत्यूर्ध्वमाग्निमारुतात्।
टीका
इन्द्रवन्त इत्यादौ पूर्ववदधिकारेसिद्धेऽपि पुनर्वचनं व्याहृतित्रयविशिष्टश्चतुर्थोऽयं मन्त्रऊर्ध्वमाग्निमारुताद्भवति न पूर्वे41 त्रयो मन्त्राः संहत्य भवन्तीत्येवमर्थम्। उक्थ्यादिष्वितिवक्तव्यऊर्ध्वमाग्निमारुतादितिवचनंमानसा-त्यग्निष्टोमस्तोत्रसंग्रहार्थम्।
विश्वास-प्रस्तुतिः
स्तुत देवेन सवित्रा प्रसूता ऋतं च सत्यं चवदत। आयुष्मत्य ऋचो मा गात तनूपात्साम्नओमिति42 जपित्वा मैत्रावरुण स्तुध्वमित्युच्चैः॥ २॥
मूलम्
स्तुत देवेन सवित्रा प्रसूता ऋतं च सत्यं चवदत। आयुष्मत्य ऋचो मा गात तनूपात्साम्नओमिति42 जपित्वा मैत्रावरुण स्तुध्वमित्युच्चैः॥ २॥
टीका
जपित्वोच्चैरित्युभयवचनमस्यै43वेदं भवतीत्येवमर्थम्। तेन ब्रह्मणो44ऽत्राप्यूर्ध्वं वा प्रणवादित्ययमपि विधिर्भवतीति गम्यते॥ २॥
विश्वास-प्रस्तुतिः
अथ सवनीयेन पशुना चरन्ति।
मूलम्
अथ सवनीयेन पशुना चरन्ति।
टीका
सवनेषु भवः सवनीयः। वपया प्रातः सवने चरन्ति पुरोडाशेन माध्यंदिनेऽङ्गैस्तृतीयसवन इत्येवं यष्टव्य इत्यर्थः। परिव्ययणायुक्तमित्येवमादिभिर्लिङ्गैः पशुत्वे सिद्धेऽपि पशुनेतिवचनं पुरोडाशानामपि सवनीयसंज्ञाप्रापणार्थम्।
विश्वास-प्रस्तुतिः
यद्देवतो भवति।
मूलम्
यद्देवतो भवति।
टीका
तस्य पशोर्या या देवता शास्त्रान्तरेष्वपि विहिता तद्देवत्योऽपि पशुः कर्तव्यः।एतदुक्तं भवति सवनीये पशौ देवतान्तरप्राप्तावप्यसमाम्नातत्वं नास्तीत्यर्थः।
विश्वास-प्रस्तुतिः
आग्नेयोऽग्निष्टोम ऐन्द्राग्न उक्थ्ये द्वितीय ऐन्द्रो वृष्णिःषोलशिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थी।
मूलम्
आग्नेयोऽग्निष्टोम ऐन्द्राग्न उक्थ्ये द्वितीय ऐन्द्रो वृष्णिःषोलशिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थी।
टीका
अत्र च शब्दप्रयोगादेव समुच्चये संपाद्ये सत्यपि यद्वितीयादिभिः शब्दैः समुच्चयंविदधाति तज्ज्ञापयति प्राथिकोऽयं समुच्चय इति। वृष्णिर्मेषजातौ पुमान्।
विश्वास-प्रस्तुतिः
इति क्रतुपशवः45।
मूलम्
इति क्रतुपशवः45।
टीका
इतिशब्द एते चत्वारः क्रतुपशुसंज्ञा भवन्ति।
विश्वास-प्रस्तुतिः
परिव्ययणाद्युक्तमग्नीषोमीयेणाऽऽचात्वालमार्जनाद्दण्डप्रदानवर्जम्।
मूलम्
परिव्ययणाद्युक्तमग्नीषोमीयेणाऽऽचात्वालमार्जनाद्दण्डप्रदानवर्जम्।
टीका
परिव्ययणादि यच्चात्वालमार्जनपर्यन्तमग्नीषोमीये पशौ विहितं तदत्रापि भवति।अयमेवार्थोऽत्र विधातुमिष्टः46। एवं व्याख्यायमानेन तूभयत्र चात्वालमार्जनस्य नेदमादिषुमार्जनमिति47 प्रतिषिद्धस्य प्रतिप्रसवः कृतो भवति। अग्नीषोमीयसंबन्धितया सिद्धवदुपदिश्य तस्य48सवनीयसंबन्धितया पुनर्विधानात्तवध्यन्तर्भावा49द्दण्डप्रदानमत्र50 प्रतिषिध्यते।
तेनाप्रत्त51मेवामन्त्रकमादाय पूर्ववद्धोतारं न परिहृत्य तस्याग्रतो गमनादि पूर्ववत्कुर्यात्।
विश्वास-प्रस्तुतिः
उपविश्याभिहिंकृत्य परिव्ययणीयां त्रिः।
मूलम्
उपविश्याभिहिंकृत्य परिव्ययणीयां त्रिः।
टीका
उपविश्येतिवचनमुपविश्य परिव्ययणीयामेव ब्रूयान्न पूर्वस्या उत्तरार्धर्चमपीत्येवमर्थम्।
विश्वास-प्रस्तुतिः
आवह देवान्त्सुन्वते यजमानायेत्यावाहनादिसुन्वच्छब्दोऽग्रे यजमानशब्दादैष्टिकेषु निगमेषु।
मूलम्
आवह देवान्त्सुन्वते यजमानायेत्यावाहनादिसुन्वच्छब्दोऽग्रे यजमानशब्दादैष्टिकेषु निगमेषु।
टीका
आवाहनादिषु सुन्वच्छब्दोऽग्रेयजमानशब्दादित्येवंलक्षणसिद्धस्य सुन्वच्छब्दस्यसुन्वते यजमानायेतिपाठो यजमान-शब्दादेवाग्रे सुन्वच्छन्दः कर्तव्यः, न तत्पर्यायाच्चयज्ञपतिशब्दादेरित्येवमर्थं यजमानशब्दसमानविभक्तिप्रापणाय चेति। आवाहनादिग्रहणमस्मिन्नहनि यदा यदौष्टिकं तन्त्रं प्रवर्तते तदा तदाऽस्य विधेः प्रापणार्थम्। ऐष्टिकग्रहणमनैष्टिक-निवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
नान्त्याद्धारियोजनादूर्ध्वम्।
मूलम्
नान्त्याद्धारियोजनादूर्ध्वम्।
टीका
अहर्गणेऽन्त्यमनन्त्यं चास्तीति विशेषणम्। एकाहेष्वेकत्वादहस्तदेवाऽऽद्यन्तवद्भवति।अन्त्येऽहनि यद्धारि52योजनं तस्मादूर्ध्वमयं विधिर्न भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
न प्रावित्रं साधु ते यजमान देवता
ओमन्वतीतेऽस्मिन्यज्ञे यजमानेति च।
मूलम्
न प्रावित्रं साधु ते यजमान देवता
ओमन्वतीतेऽस्मिन्यज्ञे यजमानेति च।
टीका
अनयोरपि विधेययोरयं53 विधिर्न भवति।
विश्वास-प्रस्तुतिः
प्रागाज्यपेभ्यः सवनदेवता आवाहयेदिन्द्रं वसुमन्तमावहेन्द्रं रुद्रवन्तमावहेन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं
वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावहेति।
मूलम्
प्रागाज्यपेभ्यः सवनदेवता आवाहयेदिन्द्रं वसुमन्तमावहेन्द्रं रुद्रवन्तमावहेन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं
वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावहेति।
टीका
सवनदेवता अनिर्दिष्टदेवतानां सोमानां सवने सवने देवताः। ते च सवनमुखे सवनमुखेहोतुर्वषट्कारे हूयन्त इत्यर्थः। अपूर्वत्वात्सोमस्याऽऽवाहनप्रकार54पाठोऽयमप्राप्तत्वात्कृतः।
विश्वास-प्रस्तुतिः
ताः सूक्तवाक एवानुवर्तयेत्।
मूलम्
ताः सूक्तवाक एवानुवर्तयेत्।
टीका
अयमप्यप्राप्तविधिरपूर्वत्वादेव। एवकारो विस्पष्टार्थः।
विश्वास-प्रस्तुतिः
प्रवृताहुतीर्जुह्वति वषट्कर्तारोऽन्येऽच्छावाकात्।
मूलम्
प्रवृताहुतीर्जुह्वति वषट्कर्तारोऽन्येऽच्छावाकात्।
टीका
येऽस्मिन्नहनि वषट्कारसंबन्धिन55स्तेऽस्मिन्काले प्रवृताहुतीर्जुहत्यच्छावाकं वर्जयित्वा। अस्मादेवाच्छावाकप्रतिषेधाद-वगम्यते - प्रवृताहुतयो न वरणनिमित्ता इति। अच्छावाकस्यवरणाभावात्। तेनाग्नीषोमीयेऽहनि वरणे कृतेऽपि होतुरन्ये तस्मिन्नहनि न जुह्वति।होतुस्तु पाशुको वैकल्पिकः सिद्ध एव।
विश्वास-प्रस्तुतिः
चात्वाले मार्जयित्वाऽध्वर्युपथ उप-
तिष्ठन्त आदित्यप्रभृतीन्धिष्ण्यान्।
मूलम्
चात्वाले मार्जयित्वाऽध्वर्युपथ उप-
तिष्ठन्त आदित्यप्रभृतीन्धिष्ण्यान्।
टीका
चात्वालमार्जनान्तं पाशुकं कर्मोपदिष्टम्। तत्र चात्वाल56मार्जने कृते सौमिकमुपस्थानादिकर्म कुर्युरित्यर्थः। तेन पाशुककर्तार एव मार्जनं कुर्युः। *अध्वर्युपथ इति। अध्वर्युपतिष्ठन्त इत्यर्थः। आदित्यप्रभृतीन्वक्ष्यमाणान्धिष्ण्यानु-पतिष्ठन्ते। आदित्यप्रभृतिवचनमादित्यस्यापि धिष्ण्यत्वप्रतिपादनार्थम्। तेनोपस्थितां57श्चेत्यादावादित्यस्यापि ग्रहणं भवति।
विश्वास-प्रस्तुतिः
आदित्यमग्रेऽध्वनामध्वपते श्रेष्ठः
स्वस्त्यस्याध्वनः पारमशीयेति।
मूलम्
आदित्यमग्रेऽध्वनामध्वपते श्रेष्ठः
स्वस्त्यस्याध्वनः पारमशीयेति।
टीका
उपतिष्ठन्त इति वर्तते। अग्रवचनमादित्यप्रभृतीन्धिष्ण्यानुपतिष्ठन्त इतिवचनात्प्रत्युपस्थानमादित्यप्रभृतित्वे प्राप्ते तन्निवृत्त्यर्थम्। तेन सकृदेवाग्र उपस्थातव्यो न यावदुपस्थानमिति।
विश्वास-प्रस्तुतिः
यूपादित्याहवनीयनिर्मन्थ्यानग्नयः सगराः सगराअग्नयः सगरास्थ58 सगरेण नाम्ना पात माऽग्नयःपिपृत माऽग्नयो नमो वो अस्तु मा मा हिंसिष्टेति।
मूलम्
यूपादित्याहवनीयनिर्मन्थ्यानग्नयः सगराः सगराअग्नयः सगरास्थ58 सगरेण नाम्ना पात माऽग्नयःपिपृत माऽग्नयो नमो वो अस्तु मा मा हिंसिष्टेति।
टीका
अत्राप्यादित्य उपस्थेयो यूपादिभिः सह तस्यापि निर्देशात्। निर्मन्थ्यो नाम यत्राग्निर्मथ्यते स देशः।
विश्वास-प्रस्तुतिः
सव्यावृतः शामित्रोवध्यगोहचात्वालोत्करास्तावान्।
मूलम्
सव्यावृतः शामित्रोवध्यगोहचात्वालोत्करास्तावान्।
टीका
शामित्रः पशुश्रपणार्थोऽग्निः। ऊवध्यगोह आन्त्रप्रच्छादनस्थानम्। आस्तावो यत्रबहिष्पवमानः स्तूयते स देशः।
————————————————————————————————————
*घ.-अध्वर्युपथो नाम हविर्धानाग्नीध्रीययोर्मध्यमित्यविवाक्येऽध्वर्युपथेनेत्येक इति सूत्रे वृत्तौ।
५ घ ङ. च. झ.°नू। एवमेव शा°।
————————————————————————————————————
विश्वास-प्रस्तुतिः
एवमेव दक्षिणावृत आग्नीध्रीयमच्छावाकस्यवादं दक्षिणं मार्जालीयं खरमिति।
मूलम्
एवमेव दक्षिणावृत आग्नीध्रीयमच्छावाकस्यवादं दक्षिणं मार्जालीयं खरमिति।
टीका
एव मेवेत्युभयत्रापि संबध्यते। तेनाग्नयः सगरा इत्ययमेवोभयत्र भवति59। आग्नीधीयोऽग्निविशेषो60य उत्तरतो निहितः। अच्छावाकस्य वादः, यस्मिन्देश आसीनोऽच्छावाकः ‘अच्छावाक वदस्व’ इत्युक्तो वदति स देशः। दक्षिणं मार्जालीयमिति। दक्षिणोमार्जालीय एष61 उच्यते। तेनोत्तरेऽपि मार्जालीयोऽस्तीति गम्यते। खरो नाम यस्मिन्देशेग्रहचमसाः साद्यन्ते स देशः। विशेषणविशेष्यभावभ्रान्तिनिवृत्त्यर्थं समासाकरणं नोपस्थानभेदसिद्ध्यर्थम्। तेनैतांश्चतुरः सकृदेवोपतिष्ठेरन्।
विश्वास-प्रस्तुतिः
उत्तरेणाऽऽग्नीधीयं परिव्रज्य प्राप्य
सदोऽभिमृशन्त्युर्वन्तरिक्षं वीहीति।
मूलम्
उत्तरेणाऽऽग्नीधीयं परिव्रज्य प्राप्य
सदोऽभिमृशन्त्युर्वन्तरिक्षं वीहीति।
टीका
आग्नीध्रीयमुत्तरेण परिव्रज्य सदसो द्वारदेशं प्राप्य सदोऽभिमृशन्ति मन्त्रेण। प्राप्येतिवचनं प्राक्वेष्टतानिवृत्त्यर्थम्। प्राप्याभिमृशन्ति नान्यत्संपादनीयमित्यर्थः।
विश्वास-प्रस्तुतिः
द्वार्ये संमृश्यैवमपरानुपतिष्ठन्ते।
मूलम्
द्वार्ये संमृश्यैवमपरानुपतिष्ठन्ते।
टीका
द्वार्येइति। पूर्वद्वारस्थूणे इत्यर्थः। प्राप्य सद इति प्रकृतत्वादाहवनीयप्रदेशादागच्छतांसदःप्राप्तिः पूर्वभाग इति गम्यते। तत्र च प्राप्त्यनन्तरं द्वार्याभिमर्शनाविधानात्प्राप्तिश्चसदसो द्वारप्रदेशस्यैवेति गम्यते।अभिमृशन्तीतिवर्तमाने संमृश्येतिवचनं वैलक्षण्यज्ञापनार्थम्। तच्च वैलक्षण्यमसंनिहितेन मन्त्रेण ‘देवीर्द्वारो’ इत्यनेनाभिमर्शनम्। एवमिति।्अग्नयः सगरा इत्यनेनेत्यर्थः। अपरानिति। सदःपूर्वद्वारप्राप्तानां विधानात्सदसोऽपराञ्शालामुखीयादीनित्यर्थः।शालामुखीयादीनित्यनुक्त्वाऽपरानितिवचनात्तत्रस्था एवोपतिष्ठेरन्।
विश्वास-प्रस्तुतिः
उपस्थितांश्चानुपस्थितांश्चाप्यपश्यन्तोऽव्यनीक्षमाणाः।
मूलम्
उपस्थितांश्चानुपस्थितांश्चाप्यपश्यन्तोऽव्यनीक्षमाणाः।
टीका
उपतिष्ठन्त इति वर्तते। उपस्थिता आदित्यादयः। अनुपस्थिताः सदस्था62 होत्रीयादयः।चशब्द एवंशब्दानुकर्षणार्थः। अप्यपश्यन्त इतिवचनात्सर्वत्र शक्तिविषयेऽभिमुख एवकर्माणि कुर्यादित्यवगम्यते। नेक्षमाणा अनीक्षमाणा विविधमनीक्षमाणा व्यनीक्षमाणाः। नव्यनीक्षमाणा अव्यनीक्षमाणाः। द्विःप्रतिषेधात्प्रकृत्यर्थप्राप्तिः। विविधमीक्षमाणा इत्यर्थः।एतदुक्तं भवति उपस्थिताननुपस्थितांश्च सर्वानपश्यन्तो63ऽपीतस्तत ईक्षमाणाः ‘अग्नयःसगराः’ इत्यनेन मन्त्रेण सकृदेव सदसः पूर्वद्वारप्रदेशस्था एवोपतिष्ठेरन्निति।
विश्वास-प्रस्तुतिः
होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति पूर्वया द्वारा
सदः प्रसर्पन्त्युरुं नो लोकमनुनेषि विद्वानिति जपन्तः।
मूलम्
होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति पूर्वया द्वारा
सदः प्रसर्पन्त्युरुं नो लोकमनुनेषि विद्वानिति जपन्तः।
टीका
पूर्वद्वारदेशं64 गत्वा तथैव प्रसर्पणे सिद्धे यत्पूर्वग्रहणं करोति तज्ज्ञापयति सदःप्रवेशनद्वारा65 निर्देशे सति पूर्वयैव प्रवेशो भवतीति। ‘उरुं नो लोकम्’ इत्येतामृचं सर्वैःसह जपन्तः पूर्वया द्वारा प्रसर्पये66युरित्यर्थः।
विश्वास-प्रस्तुतिः
उत्तरेण सर्वान्धिष्ण्यान्सन्नान्सन्नानपरेण यथास्वंधिष्ण्यानां पश्चादुपविश्य जपन्ति यो अद्य सौम्योवधोऽद्यायूनामुदीरति। विषूकुहमिव धन्वनाव्यस्याः परिपन्थिनं सदसस्पतये नम इति।
मूलम्
उत्तरेण सर्वान्धिष्ण्यान्सन्नान्सन्नानपरेण यथास्वंधिष्ण्यानां पश्चादुपविश्य जपन्ति यो अद्य सौम्योवधोऽद्यायूनामुदीरति। विषूकुहमिव धन्वनाव्यस्याः परिपन्थिनं सदसस्पतये नम इति।
टीका
सूत्रोक्तक्रमेण67 होतृप्रथमाः प्रविश्य ततो नेष्टृपोतृब्राह्मणाच्छंसिहोतृमैत्रावरुणा इत्यनेनक्रमेणोत्तरेण सर्वान्धिष्ण्यान्गत्वा सन्नान्सन्नानपरेण गत्वा यो यो यस्य स्वो धिष्ण्यस्तस्यतस्य पश्चादुपविशेयुः। उपविश्य ‘यो अद्य’ इति जपेयुः। नेष्टुः सन्नानपरेण गमनं नास्त्यसंभवात्।
विश्वास-प्रस्तुतिः
एवमपरया ब्रह्मा प्रसृप्य दक्षिणपुरस्तान्मैत्रावरुणस्योपविशेत्।
मूलम्
एवमपरया ब्रह्मा प्रसृप्य दक्षिणपुरस्तान्मैत्रावरुणस्योपविशेत्।
टीका
एवमित्यपस्थानादि जपान्तमतिदिश्यते।
विश्वास-प्रस्तुतिः
तमन्वञ्च ऋत्विजः प्रसर्पकाः।
मूलम्
तमन्वञ्च ऋत्विजः प्रसर्पकाः।
टीका
ऋत्विग्ग्रहणं प्रसर्पकविशेषणम्। ये प्रसर्पका ऋत्विजश्च ते ब्रह्माणं प्रसर्पन्तमनुतेनैव द्वारेण प्रसर्पयेयुः68। ये दशपेये वक्ष्यन्ते त एवेत्यर्थः। तेनार्थितया दिदृक्षया चप्रसृप्तानामत्र प्रसङ्गो नास्तीति तेषामयं नियमो न भवति।
विश्वास-प्रस्तुतिः
पूर्वेणौदुम्बरीमपरेण धिष्ण्यान्यथान्तरमनूपविशन्ति।
मूलम्
पूर्वेणौदुम्बरीमपरेण धिष्ण्यान्यथान्तरमनूपविशन्ति।
टीका
इदमपि तेषां स्थानविधानम्। यथान्तरं यथासंनिकृष्टमित्यर्थः। यो यस्य चमसमक्षसंबन्धितया संनिकृष्टः स तस्य समीपमुपविशतीत्यर्थः।
विश्वास-प्रस्तुतिः
एतयाऽऽवृत्ताऽऽग्नीध्रआग्नीध्रीयमप्याकाशम्।
मूलम्
एतयाऽऽवृत्ताऽऽग्नीध्रआग्नीध्रीयमप्याकाशम्।
टीका
आग्नीध्रोऽप्यनेन प्रकारेणोपस्थानादि जपान्तं कुर्यात्। आग्नीध्री69यमनुप्रविशेत्।संछादितमसंछादितमपीत्येव-मर्थमप्याकाशमिति वचनम्।
विश्वास-प्रस्तुतिः
दक्षिणादयो धिष्ण्या उदक्संस्थाः प्रसर्पिणाम्।
मूलम्
दक्षिणादयो धिष्ण्या उदक्संस्थाः प्रसर्पिणाम्।
टीका
** ** स्वस्य धिष्ण्यस्य पश्चादुपवेशनमुक्तं तत्र को धिष्ण्यः कस्येत्येतन्निर्णयार्थमिदमुच्यते। प्रसर्पिणो होत्रादयस्तेष्वधि-कृतेषु तदधिकारार्थं पुनः प्रसर्पिग्रहणमनधिकृतस्यापि प्रसर्पिणोऽच्छावाकस्य ग्रहणार्थम्। दक्षिणादय इत्येतावतैवोदक्संस्थत्वे सिद्धे यदुदक्संस्थवचनंतज्ज्ञापयति70 सर्वत्र दक्षिणोत्तररूपेण व्यवस्थितेषूदक्संस्थैव क्रिया कर्तव्या नान्यथेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
आद्यौ तुविपरीतौ।
मूलम्
आद्यौ तुविपरीतौ।
टीका
मैत्रावरुणस्य दक्षिण71तस्तस्योत्तरतो होतुरिति।
विश्वास-प्रस्तुतिः
तेषां विसंस्थितसंचरा यथास्वं धिष्ण्यानुत्तरेण।
मूलम्
तेषां विसंस्थितसंचरा यथास्वं धिष्ण्यानुत्तरेण।
टीका
तेषां धिष्ण्यवतां स्वस्य धिष्ण्यस्योत्तरतो यो देशः स विसंस्थितसंचरो वेदितव्यः।विसंस्थितेऽसमाप्ते सवने संचर्यते ऽनेनेति विसंस्थितसंचरः।
विश्वास-प्रस्तुतिः
दक्षिणमधिष्ण्यानाम्॥ ३॥
मूलम्
दक्षिणमधिष्ण्यानाम्॥ ३॥
टीका
अधिष्ण्यानामृत्विजां दक्षिणधिष्ण्यमुत्तरेण विसंस्थितसंचरो भवतीत्यर्थः॥ ३॥
विश्वास-प्रस्तुतिः
अथैन्द्रैः पुरोलाशैरनुसवनं चरन्ति।
मूलम्
अथैन्द्रैः पुरोलाशैरनुसवनं चरन्ति।
टीका
याज्यानुवाक्यालिङ्गादेवैन्द्रत्वे सिद्धे सत्यैन्द्रैरितिवचनं धानादीनां निर्वापकाले यादेवताः संबध्यन्ते तासामपनयनार्थम्। पुरोलाशैर्न सोमैरित्यर्थः। किंच धानादीनांपुरोलाशशब्देनैव संव्यवहारार्थम्। अनुसवनं सवने सवन इत्यर्थः। पुरोलाशाद्युक्तमित्यतिदे72शादेवानुसवनत्वे73 सिद्धे यदनुसवनवचनं तज्ज्ञापयत्यनुप्तवनं चरन्त्येवनान्यदावाहनाद्यपीति।
विश्वास-प्रस्तुतिः
धानावन्तं करम्भिणमिति प्रातः सवनेऽनुवाक्या।
मूलम्
धानावन्तं करम्भिणमिति प्रातः सवनेऽनुवाक्या।
टीका
प्रातः सवनवचनं मध्याह्नसमये प्राप्तेऽप्यस्मिन्सवन इयमेवानुवाक्या स्यान्नान्याकल्प्येत्येवमर्थम्।
विश्वास-प्रस्तुतिः
माध्यंदिनस्य सवनस्य धाना इति माध्यंदिनेतृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने।होता यक्षदिन्द्रं हरिवाँ इन्द्रो धानाअत्त्विति प्रैषो लिङ्गैरनुसवनम्।
मूलम्
माध्यंदिनस्य सवनस्य धाना इति माध्यंदिनेतृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने।होता यक्षदिन्द्रं हरिवाँ इन्द्रो धानाअत्त्विति प्रैषो लिङ्गैरनुसवनम्।
टीका
प्रैष इत्येकवचनं जात्यभिप्रायं त्रयाणां पाठसिद्धत्वात्।
विश्वास-प्रस्तुतिः
उद्धृत्याऽऽदेशपदं तेनैवेज्या।
मूलम्
उद्धृत्याऽऽदेशपदं तेनैवेज्या।
टीका
** **अत्राप्येकवचनं पूर्ववत्। देवतादेशस्वरूपत्वादिन्द्रमितिशब्द आदेशपदमित्युच्यते।तदुद्धृत्य तैरेव प्रैषैर्यष्टव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
होता यक्षदसौ यजयोस्तु स्थानआगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत्।
मूलम्
होता यक्षदसौ यजयोस्तु स्थानआगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत्।
टीका
यत्र क्व चेतिवचनात्सार्वत्रिकोऽयं विधिः। यत्र क्वचित्कर्माण प्रैषेण यागे कर्तव्यएतावद्धृत्य तयोः स्थान एतौ74 च कृत्वा यष्टव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यंदिने सवने जातवेदोऽग्ने तृतीये सवनेहि कानिष इत्यनुसवनमनुवाक्याः।
मूलम्
अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यंदिने सवने जातवेदोऽग्ने तृतीये सवनेहि कानिष इत्यनुसवनमनुवाक्याः।
टीका
अनुसवनाधिकारे पुनरनुसवनवचनं माध्यंदिने सवने पशुपुरोलाशेन सह स्विष्टकृतिक्रियमाणे तस्य मुख्यत्वे सत्यप्येता एव याज्यानुवाक्या भवेयुरित्येवमर्थम्।
विश्वास-प्रस्तुतिः
होता यक्षदग्निं पुरोलाशानामिति प्रैषो हविरग्ने वीहीति याज्या। एतास्वनुवाक्यासु पुरोलाशशब्दं बहुवदेके।
मूलम्
होता यक्षदग्निं पुरोलाशानामिति प्रैषो हविरग्ने वीहीति याज्या। एतास्वनुवाक्यासु पुरोलाशशब्दं बहुवदेके।
टीका
एतास्वनुवाक्यासु ये पुरोलाशशब्दास्ते बहुवचनान्ताः कर्तव्या इत्येक आचार्यामन्यन्त इत्यर्थः। तत्सामानाधिकरण्यादेव75चरुशब्दादयोऽपीति। पुरोडाशशब्दस्यात्रच्छत्रिन्यायेन धानादिलक्षणार्थत्वाच्च76 बहुत्वसंबन्धः77।
विश्वास-प्रस्तुतिः
विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत्॥ ४॥
मूलम्
विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत्॥ ४॥
टीका
पूयति स्रवतीत्यर्थः। स्रवणं तावच्छन्दोवृत्तभङ्गादृक्त्वनाशः78। एतन्नाश ऋचा यष्टव्यमितिसाघनत्वनाशः। अनूहे तु पुनरनष्टे साधनत्वे कस्यचित्पदस्य लक्षणया गौण्याचाऽमिधानं संभवतीति नातीव दोषः। तस्मादिमौ विधिप्रतिषेधौ ब्राह्मणे संकीर्तितावपिन्यायमूलावेवेति मन्तव्यौ। तेनायमृक्षूहप्रतिषेधः सार्वत्रिक इति मत्वा सर्वेषु यजुर्निगदेष्विति यजुःष्वेवोहमुक्तवान्भगवानाश्वलायन आचार्यः॥ ४॥
विश्वास-प्रस्तुतिः
द्विदेवत्यैश्चरन्ति।
मूलम्
द्विदेवत्यैश्चरन्ति।
टीका
वक्ष्यमाणा ग्रहा द्विदेवत्यसंज्ञा भवन्ति। तेन वाय्विन्द्रवायुदेवत्योऽपि द्विदेवत्यसंज्ञोभवति। तैश्चरन्ति। तेषां याज्याप्रैषानुवाक्या वक्ष्यन्त इति संबन्धः।
विश्वास-प्रस्तुतिः
वायव इन्द्रवायुभ्यां वायवायाहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे।
मूलम्
वायव इन्द्रवायुभ्यां वायवायाहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे।
टीका
एते द्वे ऋचौ द्वे अनुवाक्ये भवतः। ते च सहानवानं वक्तव्ये पृथक्प्रणवे च।पृथक्प्रणववचनमनुवाक्याद्वित्वादेव प्रणद्वित्वे सिद्धेऽपि पित्र्यायामृग्द्वित्वेऽप्यनुवाक्याद्वित्वामावात्प्रणवद्वित्वं नास्तीत्येवमर्थम्।
विश्वास-प्रस्तुतिः
होता यक्षद्वायुमग्रेगां होता यक्षदिन्द्रवायूअर्हन्तेति प्रैषावनवानम्।
मूलम्
होता यक्षद्वायुमग्रेगां होता यक्षदिन्द्रवायूअर्हन्तेति प्रैषावनवानम्।
टीका
अत्राप्यनवानवचनं परस्परसंतानार्थम्।
विश्वास-प्रस्तुतिः
अग्रं पिबा मधूनामिति याज्ये अनवानमेकागुरे पृथग्वषट्कारे।
मूलम्
अग्रं पिबा मधूनामिति याज्ये अनवानमेकागुरे पृथग्वषट्कारे।
टीका
अस्मिन्नेव प्रतीके द्वे ऋचौ द्वे याज्ये भवतः। ते च सहानवानं भवतः। तत्रयाज्याद्वित्वादागुरणद्वित्वे प्राप्त एकागुरे79 एवेति नियम्यते। पृथग्वष कारवचनं80 घर्माश्विनयाज्यासु81ऋद्वित्वेऽपियाज्याद्वित्वाभावात्साधनद्वारेणै82कवषट्कारतां वक्तुम्। यत्रपुनर्द्वाभ्यामृग्भ्यामेकमेव83 याज्याकार्यमनुवाक्याकार्यं84 वा साध्यते तत्र पूर्वस्या अन्तेप्रणवो नकर्तव्यो वषट्कारश्च कार्यभेदाभावात्। सामिधेनीष्वपि प्रत्यृचं प्रणवसंबन्धःकार्यभेदनिमित्त एवेति मन्तव्यः।
विश्वास-प्रस्तुतिः
इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये।
मूलम्
इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये।
टीका
अयं विधिः प्रातःसवने प्रयुज्यमानानामपि भवति नोत्पन्नानामेव। तेन वाजिनामनुवाक्याऽप्यनवानं85 वक्तव्या। ‘प्रैषौ चोत्तरयोः’ इत्यस्मादेव चशब्दादुत्तरयोरपि ग्रहयोरनुवाक्ययोरप्यनवाने सिद्धेऽन्याऽनुवाक्योत्पन्नाऽत्र नास्तीति कृत्वा प्रयुज्यमानविषयत्वमस्य सूत्रस्थावगम्यते।
विश्वास-प्रस्तुतिः
प्रैषौ चोत्तरयोर्ग्रहयोः।
मूलम्
प्रैषौ चोत्तरयोर्ग्रहयोः।
टीका
प्रैषौच याज्यानुवाक्याश्चोत्तरयोर्ग्रहयोरनवानं भवन्तीत्यर्थः86।
विश्वास-प्रस्तुतिः
हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः।
मूलम्
हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः।
टीका
एतद्ग्रहपात्रमाहरतीति87। प्रकृतं वाय्विन्द्रवायुसंवन्धि यत्पात्रं तदित्यर्थः। गृह्यतइति ग्रहः सोमस्तस्य पात्रम्। एतदुक्तं भवति —यदेतद्वाय्विन्द्रवायुसंबन्धि ग्रहपात्रंहुत्वा तदेवाऽऽहरत्यध्वर्युरेवेति। तेनान्योऽप्यन्त्र ग्रहो हुयते पात्रमप्यन्यदस्तीति ज्ञायते।अध्वर्युराहरतीतिवचनात्प्रतिप्रस्थाताऽप्यन्त्र जुहोतीति गम्यते। तेनास्मिन्भक्ष्यमाणे प्रतिप्रस्थातर्युपहवयाचनं कर्तव्यमित्यवगन्तव्यम्।
विश्वास-प्रस्तुतिः
तद्गृह्णीयादैतुवसुः पुरूवसुरिति।
मूलम्
तद्गृह्णीयादैतुवसुः पुरूवसुरिति।
टीका
तदितिवचनमाहृतं गृह्णीयान्नाऽऽह्रियमाणमित्येवमर्थम्।
विश्वास-प्रस्तुतिः
प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन्सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात्।
मूलम्
प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन्सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात्।
टीका
प्रतिगृह्येतिवचनं ग्रहस्य हस्तान्तरसंक्रमणनिवृत्त्यर्थम्। दक्षिणवचनमपोच्छादनेसव्यस्य प्रापणार्थम्। तेन सव्योनापोच्छादनं भवति। तस्मिन्नितिवचनमूरोरपोच्छादितप्रदेशे88 सादनार्थम्। आकाशवतीभिरङ्गुलीभिरित्थंभृतेन पाणिनाऽपिदध्यात्। अङ्गुलीभिरेवाऽऽकाशवतीभिरपि-धातुमशक्यत्वात्।
विश्वास-प्रस्तुतिः
एवमुत्तरे।
मूलम्
एवमुत्तरे।
टीका
एवमुत्तरे अपि पात्रे प्रतिगृह्य सादनापिधाने कुर्यादित्यर्थः।
विश्वास-प्रस्तुतिः
सव्येन त्वपिधाय तयोः प्रतिग्रहो भक्षणं च।
मूलम्
सव्येन त्वपिधाय तयोः प्रतिग्रहो भक्षणं च।
टीका
प्रतिग्रहभक्षणकाले तु सव्येनापिधानं भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेति। ऐतु वसुर्विदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्रवायवं हृत्वाऽभ्यात्मं सादनम्। आश्विनस्यप्रातर्युजा विबोधय होतायक्षदश्विनानासत्या वावृधाना शुभस्पती इत्यैतु वसुःसंयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनम्।
मूलम्
मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेति। ऐतु वसुर्विदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्रवायवं हृत्वाऽभ्यात्मं सादनम्। आश्विनस्यप्रातर्युजा विबोधय होतायक्षदश्विनानासत्या वावृधाना शुभस्पती इत्यैतु वसुःसंयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनम्।
टीका
एषमेवेति। यथा मैत्रावरुणः पूर्वमासादितमैन्द्रवायवं दक्षिणेन हृत्वाऽभ्यात्ममासादितः, एवमाश्विनः पूर्वसादितावैन्द्रवायवमैत्रावरुणौ दक्षिणेन हर्तव्य इत्यर्थः। ततस्तमुत्तरेण शिरः पश्चान्नीत्वा पुनर्देक्षिणेन शिरः पुरस्तान्नीत्वा मैत्रावरुणादप्यभ्यात्मतरं सादयेत्।
विश्वास-प्रस्तुतिः
अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः।
मूलम्
अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः।
टीका
अनुवचनादिष्वध्वर्युसंप्रैष आकाङ्क्षणीयः। अध्वर्युग्रहणमध्वर्युपुरुषाणामपि प्रदर्शनार्थम्। अत एवाध्वर्युत इत्युक्तवान्नाध्वर्योरिति। नित्यवचनं नित्य89एव प्रैष आकाङ्क्षणीयो नानित्य इत्येवमर्थम्। तेन पशुसूक्तवाकप्रैषादौ न नियमेन प्रैष आकाङ्क्षणीयः।
विश्वास-प्रस्तुतिः
उन्नीयमानेभ्योऽन्वाहाऽऽत्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनम्।
मूलम्
उन्नीयमानेभ्योऽन्वाहाऽऽत्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनम्।
टीका
उन्नीयमानेभ्य इतिवचनं चमसेषून्नीयमानेभ्यः सोमेभ्य इत्यर्थः। अनुसवनं सवनेसवन एतेषामेकैकं सूक्तमनुब्रूयादित्यर्थः।
विश्वास-प्रस्तुतिः
होता यक्षदिन्द्रं प्रातः प्रातः सावस्य होता यक्षदिन्द्रं माध्यंदिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति।
मूलम्
होता यक्षदिन्द्रं प्रातः प्रातः सावस्य होता यक्षदिन्द्रं माध्यंदिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति।
टीका
एतैस्त्रिभिः प्रैषैर्यथालिङ्गमेव प्रेषितो होताऽनुसवनं स्वाभिः प्रस्थितयाज्याभिर्यजति। होतृग्रहणं होतुरेव प्रैषेण90प्रैषणं नान्येषामित्येवमर्थम्। अनुसवनं सवने सवने प्रैषेण प्रेषितोहोतैव यजेदित्यर्थः।
विश्वास-प्रस्तुतिः
नामादेशमितरे।
मूलम्
नामादेशमितरे।
टीका
इतरे प्रशास्त्रादयो नामादेशं प्रेषिता यजेयुर्न होता। तेन यद्यप्यध्वर्यवो होतर्यजेति प्रेष्यन्ति तथाऽप्यन्त्र प्रशास्तैव प्रेषितो यजेत्। नामादेशमिति। नामाऽऽदिश्याऽऽदिश्येत्यर्थः।
इतरेषा क्रमस्वरूपे आह—
विश्वास-प्रस्तुतिः
प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽग्नीध्रः। अच्छावाकश्च।
मूलम्
प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽग्नीध्रः। अच्छावाकश्च।
टीका
सूत्रभेदकरणं तस्यैवोत्तरसूत्रे विशेषविध्यर्थम्।
विश्वास-प्रस्तुतिः
उत्तरयोः सवनयोः पुराऽऽग्नीध्रादिदं ते सोम्यं मधु मित्रं वयंहवामह इन्द्र त्वा वृषभंवयं मरुतो यस्यहि क्षयेऽग्ने पत्नीरिहाऽऽवहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः।
मूलम्
उत्तरयोः सवनयोः पुराऽऽग्नीध्रादिदं ते सोम्यं मधु मित्रं वयंहवामह इन्द्र त्वा वृषभंवयं मरुतो यस्यहि क्षयेऽग्ने पत्नीरिहाऽऽवहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः।
टीका
पुनः प्रस्थितयाज्यावचनं प्रशास्त्रादिसंबन्धिनीनामपि तत्संज्ञाप्रापणार्थम्। अच्छावाकस्यात्र नोच्यते ‘प्रातर्यावभिरागतमिति यजति’ इति स्वावसरे वक्ष्यते।
विश्वास-प्रस्तुतिः
पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य कलशःस्वाहेति माध्यंदिन्यः। इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रावरुणा सुतपाविमं सुतमिन्द्रश्च सोमं पिबतं बृहस्पत आ वो वहन्तु सप्तयो रघुष्यदोऽमेव नः सुहवा आहिगन्तनेन्द्राविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः सोमस्याग्ने वीहीत्यनुवषट्कारः।
मूलम्
पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य कलशःस्वाहेति माध्यंदिन्यः। इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रावरुणा सुतपाविमं सुतमिन्द्रश्च सोमं पिबतं बृहस्पत आ वो वहन्तु सप्तयो रघुष्यदोऽमेव नः सुहवा आहिगन्तनेन्द्राविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः सोमस्याग्ने वीहीत्यनुवषट्कारः।
टीका
अयमनुवषट्कारः कर्तव्यः।
अनुवषट्कारस्य प्रवृत्तिविषयमाह—
विश्वास-प्रस्तुतिः
प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि। आश्विने चतैरो अह्नये।
मूलम्
प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि। आश्विने चतैरो अह्नये।
टीका
सूत्रभेदकरणं वैषम्यख्यापनार्थम्। वैषम्यं च शस्त्रान्ते क्रियमाणाऽपि शस्त्रयाज्या नभवतीत्येवमर्थम्। तेनायाज्यमाश्चिनमित्यवगतं भवति।
विश्वास-प्रस्तुतिः
तदेषाऽभि यज्ञगाथा गीयते। ऋतुयाजान्द्विदेवत्यान्यश्च पात्नीवतो ग्रहः। आदित्यग्रहसावित्रौ तान्स्म माऽनुवषट्कृथा इति।
मूलम्
तदेषाऽभि यज्ञगाथा गीयते। ऋतुयाजान्द्विदेवत्यान्यश्च पात्नीवतो ग्रहः। आदित्यग्रहसावित्रौ तान्स्म माऽनुवषट्कृथा इति।
टीका
एतद्यज्ञगाथात्मको वेदो यष्टारं शास्ति। गाथाशब्देन ब्राह्मणगता ऋच उच्यन्ते।यज्ञार्थागाथा यज्ञगाथा सैषा तदनुवषट्कारविधानं प्रत्युच्यत इत्यर्थः। कोटिद्वयसंकीर्तनंसानुवषट्कारा अननुवषट्काराश्चैतावन्त एवेति ज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
प्रतिवषट्कारं भक्षणम्।
मूलम्
प्रतिवषट्कारं भक्षणम्।
टीका
प्रतिवषट्कारं भक्षणे प्रयत्नं कुर्यात्। नात्र भक्षो विधीयतेऽन्यत्र विहितत्वात्। तेनवचनान्तरेण विहिते भक्षे तस्याऽऽवृत्तिमात्रमत्र गुणो विधीयते। यत्र द्विर्वषट्कारोऽस्तितत्र भक्षोऽपि द्विरावर्तते। यत्र तु सकृदेव वषट्करोति तत्र तु सकृदेवेति सिद्धम्।
विश्वास-प्रस्तुतिः
तूष्णीमुत्तरम्।
मूलम्
तूष्णीमुत्तरम्।
टीका
उत्तरं प्राशनं तूष्णीमेव कर्तव्यम्। वषट्कारद्वयप्रसङ्गादत्रैवेदमुक्तम्।
विश्वास-प्रस्तुतिः
एत्यध्वर्युः।
मूलम्
एत्यध्वर्युः।
टीका
आहवनीयप्रदेशात्सद आगच्छतीत्यर्थः।
विश्वास-प्रस्तुतिः
अपालग्नीदिति पृच्छति।
मूलम्
अपालग्नीदिति पृच्छति।
टीका
आगच्छन्तमध्वर्युं होता पृच्छतीत्यर्थः।
विश्वास-प्रस्तुतिः
अयालिति प्रत्याह।
मूलम्
अयालिति प्रत्याह।
टीका
प्रत्याहाध्वर्युरित्यर्थः।
विश्वास-प्रस्तुतिः
स भद्रमकर्यो नः सोमस्य पाययिष्यतीति होता जपति॥ ५॥
मूलम्
स भद्रमकर्यो नः सोमस्य पाययिष्यतीति होता जपति॥ ५॥
टीका
होतृग्रहणमध्वर्य्वधिकारात्॥ ५॥
विश्वास-प्रस्तुतिः
ऐन्द्रवायवमुत्तरेऽर्धे गृहीत्वाऽध्वर्यवे प्रणामयेदेष वसुः पुरूवसुरिह वसुः पुरूवसुर्मयि वसुः पुरूवसुर्वाक्पा वाचं मे पाह्युपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
मूलम्
ऐन्द्रवायवमुत्तरेऽर्धे गृहीत्वाऽध्वर्यवे प्रणामयेदेष वसुः पुरूवसुरिह वसुः पुरूवसुर्मयि वसुः पुरूवसुर्वाक्पा वाचं मे पाह्युपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
टीका
इतरे पात्रे सव्येनापिधायैन्द्रवायवं दक्षिणेन हस्तेनोत्तरे भागे गृहीत्वाऽध्वर्योरपि ग्रहणाय प्रणामयेदेष वसुरिति मन्त्रेण।
विश्वास-प्रस्तुतिः
अध्वर्य उपह्वयस्वेत्युक्त्वाऽवघ्राय नासिकाभ्यां वाग्देवी सोमस्य तृप्यत्विति भक्षयेत्सर्वत्र।
मूलम्
अध्वर्य उपह्वयस्वेत्युक्त्वाऽवघ्राय नासिकाभ्यां वाग्देवी सोमस्य तृप्यत्विति भक्षयेत्सर्वत्र।
टीका
अत्रोपहवविधानं क्रमार्थमुत्तरत्र विहितत्वात्। नासिकाभ्यामितिवचनं नासिकाद्वयेनावघ्राणं नियमेन कर्तव्य91ंतेनान्यत्रेन्द्रियकार्यमनियमेन कर्तव्यमेकेन द्वाभ्यां वेति92 सिद्धम्। सर्वत्रेतिवचनमन्यत्राप्ययमेव सोमभक्षणमन्त्रः स्यादित्येवमर्थम्।
विश्वास-प्रस्तुतिः
प्रतिभक्षितं होतृचमसे किंचिदवनीयानाचम्योपह्वानादि पुनःसंभक्षयित्वा न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्तिशेषं होतृचमसं आनीयोत्सृजेत्।
मूलम्
प्रतिभक्षितं होतृचमसे किंचिदवनीयानाचम्योपह्वानादि पुनःसंभक्षयित्वा न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्तिशेषं होतृचमसं आनीयोत्सृजेत्।
टीका
होत्रा भक्षितमध्वर्युणा च93भक्षितं होतृचमसे किंचिदासिच्यानाचम्यैवोपह्वानादि पुनः94सह भक्षयित्वा शेषं होतृचमस आनीय तत्पात्रमुत्सृजेत्। न प्रागुत्सृजेदित्यर्थः। पुनर्भक्षेप्रतिप्रस्थातर्युपहवयाचनं कर्तव्यम्। अस्य सूत्रस्य मध्ये भक्षणानिमित्ताशुचित्व95निबर्हणायप्रसक्तमाचमनमकृत्वोपहवादि कर्तव्यमित्युक्तम्। अनाचम्योपह्वानादीति। सोऽयमाचमनप्रतिषेधः सोमभक्षणेऽशुचित्वाभावादुक्त इति तदुपपादनार्थं96 तत्सूत्रमध्य एव ‘न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्ति’ इत्युक्तवानाचार्यः। उदाहरन्तीतिवचनादिदमपि स्मृतिवचनमिति* दर्शयति। सोमेनेति। सोमभक्षणेनेत्यर्थः। तेनान्यद्रव्यभक्षणेनाशुचित्वमेवेतिगम्यते। सोमाधिकारे पुनः सोमग्रहणं सर्वसोमभक्षणे प्रापणार्थम्।
विश्वास-प्रस्तुतिः
एवमुत्तरे।
मूलम्
एवमुत्तरे।
टीका
एवमुत्तरे अपि ग्रहपात्रे भक्षयेत्।
तत्र विशेषमाह -
विश्वास-प्रस्तुतिः
न त्वेनयोः पुनर्भक्षः।
मूलम्
न त्वेनयोः पुनर्भक्षः।
टीका
अनयोरपि प्रतिप्रस्थातर्युपहवयाचनमस्ति।
विश्वास-प्रस्तुतिः
न कंचन द्विदेवत्यानामनवनीतमवसृजेत्।
मूलम्
न कंचन द्विदेवत्यानामनवनीतमवसृजेत्।
टीका
द्विदेवत्यानां मध्ये कंचन ग्रहं होतृचमसेऽनवनीतं नोत्सृजेदित्यर्थः।
विश्वास-प्रस्तुतिः
मैत्रावरुणमेषवसुर्विदद्वसुरिहवसुर्विदद्वसुर्मयिवसुर्विवद्वसुश्चक्षुष्पाश्चक्षुर्मेपाह्युपहूतंचक्षुः सह मन-
मूलम्
मैत्रावरुणमेषवसुर्विदद्वसुरिहवसुर्विदद्वसुर्मयिवसुर्विवद्वसुश्चक्षुष्पाश्चक्षुर्मेपाह्युपहूतंचक्षुः सह मन-
टीका
————————————————————————————————————
* घ. – उशना —न सोमनोच्छिष्टा भवन्तीति श्रुतिः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
सोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
मूलम्
सोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
टीका
अध्वर्यवे प्रणामयेदिति शेषः।
विश्वास-प्रस्तुतिः
अक्षीभ्यां त्विहावेक्षणं दक्षिणेनाग्रे।
मूलम्
अक्षीभ्यां त्विहावेक्षणं दक्षिणेनाग्रे।
टीका
पश्चात्सव्येनेत्यर्थः।
विश्वास-प्रस्तुतिः
सव्येन पाणिना होतृचमसमाददीतैतु वसूनां पतिर्विश्वेषां देवानां समिदिति।
मूलम्
सव्येन पाणिना होतृचमसमाददीतैतु वसूनां पतिर्विश्वेषां देवानां समिदिति।
टीका
मैत्रावरुणपात्रोत्सर्गान्तं कर्म कृत्वा दक्षिणेनाऽऽश्विनमपिधाय सव्येन पाणिना होतृचमसमाददीत मन्त्रेण। पाणिग्रहणमपिधानमपि पाणिनैवाऽऽकाशवत्यङ्गुलियुक्तेन कुर्यान्नाङ्गुलीभिरेवेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
तस्यारत्निना तस्योरोर्वसनमपोच्छाद्य तस्मिन्सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिध्यात्।
मूलम्
तस्यारत्निना तस्योरोर्वसनमपोच्छाद्य तस्मिन्सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिध्यात्।
टीका
तस्येति। सव्यस्येत्यर्थः। ऊरोरितिवचनमूरोरेकदेशस्य यावत्प्रयोजनमपोच्छादनं नसर्वस्येत्येवमर्थम्। अपिधानमपि सव्येनाधिकृतत्वादन्यस्यान्यत्र व्यापृतत्वात्।
विश्वास-प्रस्तुतिः
आश्विनं यथाहृतं परिहृत्य पुनः सादयित्वाऽध्वर्यवे प्रणामयेदेषवसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहाऽऽत्मनोप मां श्रोत्रं सहाऽऽत्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
मूलम्
आश्विनं यथाहृतं परिहृत्य पुनः सादयित्वाऽध्वर्यवे प्रणामयेदेषवसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहाऽऽत्मनोप मां श्रोत्रं सहाऽऽत्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति।
टीका
होतृचमसं सव्येनापिधाय ततो दक्षिणेनाऽऽश्विनं गृहीत्वा शिरसो दक्षिणतः पश्चान्नीत्वा तस्यैवोत्तरतः पुरस्तादानीय स्वस्थान एवैनं सादयित्वा ततः प्रणामादि कुर्यात्।
विश्वास-प्रस्तुतिः
कर्णाभ्यां त्विहोपोद्यच्छेद्दक्षिणायाग्रे निधाय होतृचमसं स्पृष्ट्वोदकमिलामुपह्वयते।
मूलम्
कर्णाभ्यां त्विहोपोद्यच्छेद्दक्षिणायाग्रे निधाय होतृचमसं स्पृष्ट्वोदकमिलामुपह्वयते।
टीका
आश्विनमुत्सृज्य ततो दक्षिणेनैव पाणिना होतृचमसं निधाय स्पृष्ट्वोदकमिलामुपह्वयते।
विश्वास-प्रस्तुतिः
उपोद्यच्छन्ति चमसान्।
मूलम्
उपोद्यच्छन्ति चमसान्।
टीका
इलोपह्वानकाले चमसिनः स्वं स्वं चमसमिलासमीप उद्यच्छन्ति चमसाध्वर्यवो वा।
विश्वास-प्रस्तुतिः
अवान्तरेलां प्राश्याऽऽचम्य होतृचमसं भक्षयेदध्यर्य उपह्वयस्वेत्युक्त्वा।
मूलम्
अवान्तरेलां प्राश्याऽऽचम्य होतृचमसं भक्षयेदध्यर्य उपह्वयस्वेत्युक्त्वा।
टीका
अवान्तरेलाप्राशनविधानमत्र क्रमार्थम्। आचमनविधानं नियमार्थम्। इलोपह्वानानन्तरमवान्तरेलाप्राशनमेव कृत्वाऽऽचम्य चमसमेव भक्षयेदिति। तेनेदानीमिलाभक्षणंनास्तीति ज्ञायते। इदमप्यनेन ज्ञायते— प्रकृताववान्तरेलाप्राशनमिलाप्राशनं च कृत्वापश्चाच्छौचार्थमाचमनं भवति न तयोर्मध्येऽपीति। ‘अध्वर्य उपह्वयस्व’ इत्युक्त्वा ‘भक्षयेत्’इत्यनेन वचनेनात्र चत्वारोऽर्थाः सूचिता भगवता सूत्रकारेण। तत्रायमेकोऽर्थः—‘नानुपहूतेन सोमः पातव्यः97। न वै सोमपीथेन ह वार्धुको भवति’ इति श्रुतिवचनादुप98हूतेनैव सोमो भक्षयितव्य इति। अयमपरोऽर्थः99 - उपहवयाचनं कर्मनामधेयेन संबध्यते100‘नोपह्वयस्व’ इत्येव101मन्तेन वाक्येनेति। अयमप्यपरोऽर्थः – यत्रक्व च सोमे वषट्कारेण वा समाख्यया वा भक्ष्यमाणे होमाभिषवनिमित्तेन भक्षणेनैकस्मिन्पात्रे प्रतिभक्षितया102 सहभक्षो नास्ति तत्राध्व103र्यावेवोपहवयाचनामिति। अयं चापरः —भक्षणमपि कर्तव्यमिति।एतदुक्तं भवति – अवान्तरेलां प्राश्येलाभक्षणमकृत्वाऽऽचम्य होता स्वचमसं भक्षयेदध्वर्याउपहवमिष्ट्वा‘वाग्देवी’ इत्यनेन मन्त्रेणेति।
विश्वास-प्रस्तुतिः
दीक्षितो दीक्षिता उपह्वयध्वम्।
मूलम्
दीक्षितो दीक्षिता उपह्वयध्वम्।
टीका
दीक्षितश्चेद्धोता तदा दीक्षिता उपह्वयध्वमित्युक्त्वा स्वचमसं भक्षयेत्।
विश्वास-प्रस्तुतिः
यजमाना इति वा।
मूलम्
यजमाना इति वा।
टीका
दीक्षित इत्यनुवर्तते। यजमाना उपह्वयध्वमित्युक्त्वा वा भक्षयेत्।
विश्वास-प्रस्तुतिः
मुख्यान्वा पृथग्घोत्रका उपह्वयध्वमितीतरान्।
मूलम्
मुख्यान्वा पृथग्घोत्रका उपह्वयध्वमितीतरान्।
टीका
एवं104 वोपहवयाचनं दीक्षितस्य मुख्यानध्वर्य्वादीन्। ‘अध्वर्य उपह्वयस्व, ब्रह्मन्नुपह्वयस्व, उद्गातरुपह्वयस्व’ इति पृथगुक्त्वाऽमुख्यान्सर्वान्त्सकृदेव ‘होत्रका उपहवयध्वम्’इत्येवमर्थः।
विश्वास-प्रस्तुतिः
एवमितरे।
मूलम्
एवमितरे।
टीका
अदीक्षितो दीक्षितश्च होता यथोक्तमुपहवयाचनं कृत्वा स्वं चमसंभक्षयेदित्युक्तम्।एवं दीक्षिता अदीक्षिताश्च मैत्रावरुणादयः स्वं स्वं चमसं भक्षयेयुः। तेनैवोपहवयाचनप्रकारेण दीक्षितानामयमेवोपहवयाचनप्रकारः।
२ ख. ग. हव्यवार्धु°।
सर्वत्र प्रतिभक्षिणि105 सत्यसतिवाऽदीक्षितानां क्वचिद्विशेषोऽस्तीत्याह—
विश्वास-प्रस्तुतिः
यथासमक्षं त्वदीक्षिताः।
मूलम्
यथासमक्षं त्वदीक्षिताः।
टीका
यो यस्यसभक्षः स यथासभक्षः। सभक्षो नाम समानभक्षः। एतदुक्तं भवति —एकस्मिन्काल एकस्मिन्पात्रे ययोर्भक्ष उत्पद्यते तयोरन्यतरोऽन्यतरं प्रति सभक्ष इत्युच्यते।स एव होमाभिषवकर्ता बषट्कर्तारं प्रति सभक्ष इत्यर्थः106। यत्रैवं भवति107 तत्र तमेवोपहूयभक्षयेन्नाध्वर्युमिति। अदीक्षितानमेवायमपवादः। दीक्षितानां तु ग्रहेषु चमसेषु च दीक्षिताउपह्वयध्वमित्यादयस्त्रय एव प्रकाराः, नान्यः108क्वचिदपीति।
विश्वास-प्रस्तुतिः
मुख्यचमसादचमसाः।
मूलम्
मुख्यचमसादचमसाः।
टीका
होता स्वं चमसं भक्षयेदित्युक्त्वा ‘एवमितरे’ इत्युक्तं तेन होतुरन्येषां सर्वेषां भक्षणंविहितमिति मन्यमानाश्चमसिनश्चमसेभ्यो भक्षयन्ति। अचमसाः पुनः प्रत्यासत्त्या109स्ववर्ग्यस्य मुख्यस्य110द्वितीयस्य तृतीयस्य111वाऽऽत्मनो112ऽनन्तरतमस्य चमसवतश्चमसान्भक्षयेयुः। यस्य पुनर्होमाभिषवनिमित्तं भक्षणमस्ति तस्य तदेव भवति। इतरेषां मुख्यस्यचमसादिति ये भ्रमन्ति तेषां भ्रान्तिमपनुनुत्सुरपि पूर्वपक्षेऽनुष्ठान निर्वाहं वर्णितवानाचार्यः।एवंप्रकारेष्वेवं न्यायोऽनुसर्तव्य इति प्रदर्शयितुं मुख्यशब्दो113ऽप्यत्रापेक्षितो गृह्यते।
प्रत्यासत्त्यानुगुण्यादेनं पक्षं दूषयति—
विश्वास-प्रस्तुतिः
द्रोणकलशाद्वा।
मूलम्
द्रोणकलशाद्वा।
टीका
वाशब्दः पक्षं व्यावर्तयति। नात्राचमसानां सोममक्षणमस्ति विधानाभावात्। सोमभक्षणस्य हि निमित्तं वषट्कारो होमाभिषवौ चमसिता च। अचमसानां114 तु तेषां निमित्तानामन्यतममपि115 नास्ति। अतस्तेषामत्र भक्षो नास्तीति सिद्धम्। द्रोणकलशात्तु भक्षणमस्ति वचनात्। ‘यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अयैतस्य हारियोजनस्यसर्ष एव लिप्सन्तः ’ इति श्रुतिवचनम्। तेन द्रोणकलशे हारियोजनशेषस्य116 चमसिभिरचमसैश्च भक्षणं विहितम्। तदनेन प्राप्तं भक्षणमयं सूत्रकारोऽवघ्राणस्वरूपेण विधास्यति। तदेवंरूपमेवानेनोच्यते न भक्षणान्तरमित्यवगन्तव्यम्।
विश्वास-प्रस्तुतिः
उक्तः सोमभक्षजपः सर्वत्र।
मूलम्
उक्तः सोमभक्षजपः सर्वत्र।
टीका
य उक्तः सोमभक्षणमन्त्रो वाग्देवीति स सर्वत्र सोमभक्षे भवति न द्रव्यान्तरभक्षे। पूर्वंसर्वत्रग्रहणं द्विदेवत्येष्वेव चरितार्थमिति पुनस्तद्विधीयते।चमसानां भक्षणमुक्त्वा तत्प्रसङ्गेन सर्वत्र सोमभक्षस्य निमित्तमुद्गात्रादिचमसभक्षयितृविचार-व्याजेनदर्शयितुमाचार्यान्तरमतान्युपन्यस्यति स्म—
विश्वास-प्रस्तुतिः
होतुर्वषट्कारे चमसा हूयन्त उद्गातुर्ब्रह्मणो यजमानस्य तेषां होताऽग्रे भक्षयेदिति गौतमो भक्षस्य वषट्कारान्वयत्वात्।
मूलम्
होतुर्वषट्कारे चमसा हूयन्त उद्गातुर्ब्रह्मणो यजमानस्य तेषां होताऽग्रे भक्षयेदिति गौतमो भक्षस्य वषट्कारान्वयत्वात्।
टीका
सोमभक्षणे त्रीणि निमित्तानि श्रुतौ निर्दिष्टानि। वषट्कर्तुः प्रथमभक्ष इति प्राथम्यविशिष्टं भक्षणं वषट्कारनिमित्तं विदधाति। अभिषुत्य हुत्वा भक्षयतीति होमाभिषवनिमित्तं विदधाति। होतृचमस इत्यादिसमाख्याबलात्साऽपि समाख्या भक्षणे निमित्तमितिगम्यते। तत्र होमाभिषवावस्मदीयेषु न स्त इति तन्निमित्तस्य भक्षस्यात्र विचारो नकृतः117। तत्र वषट्कारनिमित्तं समाख्यानिमित्तं च भक्षणं विहितमेवास्तीति मन्यमानोगौतमस्तेषां होताऽग्रे भक्षयेदित्युक्तवान्। अग्रवचनसामर्थ्यादुगात्रादयोऽपि पश्चाद्भक्षयेयुरित्यस्याभिप्रायोऽवगम्यत एव। होतृग्रहणं शस्त्रिणां चतुर्णामपि प्रदर्शनार्थम्। उद्गात्रादिचमसग्रहणं च सर्वचमसानां प्रदर्शनार्थम्। तथा हि सर्वे चमसाः शस्त्रिणां वषट्कारेषुहूयमाना दृश्यन्ते। किं त्वेषां त्रयाणां विशेषोऽस्ति — सर्वदाऽपरवषट्कारेषु हूयन्त इति।भक्षस्य वषट्कारान्वयत्वादिति। वषट्कारनिमित्तत्वादित्यर्थः।
एवं गौतमेनोक्ते समाख्यया भक्षो न विधातुं शक्यत इति मन्यमानस्तौल्वलिराह-
विश्वास-प्रस्तुतिः
अभक्षणमितरेषामिति तौल्वलिः कृतार्थत्वात्।
मूलम्
अभक्षणमितरेषामिति तौल्वलिः कृतार्थत्वात्।
टीका
वषट्कर्तृभक्षणेनैव शेषस्य प्रतिपत्यन्तरान्वेषणे नैरपेक्ष्यं भवतीति कृतार्थत्वादित्युक्तम्।यदि परं समाख्याऽपि भक्षस्य विधायिका स्यात्तदा तस्मिन्कृतेऽप्यकृतार्थमेवावतिष्ठते।सा च न विधायिका नामधेयतयाऽपि तादृशानामेव पदानां समन्त्रयदर्शनादिति।
एवमुक्ते गाणगारिर्गौतमपक्षमेव समर्थयितुमाह –
विश्वास-प्रस्तुतिः
भक्षयेयुरिति गाणगारिरतः संस्कारत्वात्का च तच्चमसता स्यान्न चान्यः संबन्धः।
मूलम्
भक्षयेयुरिति गाणगारिरतः संस्कारत्वात्का च तच्चमसता स्यान्न चान्यः संबन्धः।
टीका
उद्गात्रादयोऽपि भक्षयेषुः। वषट्निमित्तभक्षणेन संस्कृतानामपि शेषाणामस्मात्समाख्याभक्षणादपि संस्कारत्वात्। वचने सति संस्कृतानामपि संस्कारस्य संभवो118ऽपीत्यर्थः। येऽतत्संस्कारत्वादिति पठन्ति तेषामयमर्थः — योऽयं समाख्याभक्षात्संस्कारः स वषट्कारभक्षसंस्कारो न भवति ततोऽन्यत्वादित्यर्थः। अन्यत्वे119 चाविरोधात्समुच्चय एवेत्यर्थः। ननुसमाख्याभक्षणं न विदघातीत्युक्तम्। सत्यम्। स्वरूपेण न विदधाति कार्यतस्तु विदधात्येव। कथम्। ज्योतिष्टोमाधिकारनियोगः स्वप्रकरण120धीतसकल-पदोद्बोधितपदार्थाषच्छितःप्रतीयमानः कार्यात्मकत्वादात्मनः स्वावच्छेदकभूतानपि कार्यतयाऽवग+मयन्होतृचमसपदाद121प्याभिहितान्संबन्धविशेषान्स्वावच्छेदभूतान्प्रमाणान्तरसिद्धानलभमानः स्वयमेव तान्संबन्धविशेषान्कार्यतयाऽवगमयतीत्येवम्। स च संबन्धविशेषो होताऽस्मिंश्चम122तीति होतृचमस इति एतं123 मुक्त्वाऽन्य स्वस्वाम्यादिलक्षणसंबन्धोऽत्र न संभवति। एवमप्यर्थंसूत्रकारः सूचितवान् ‘का च तच्चमसता स्यान्न चान्यः संवन्धः’ इति वदन्।यदा चमसिनां चमसेषु वषट्कारनिमित्तं समाख्यानिमित्तं च भक्षद्वयमागच्छति तदा पूर्वं वषट्काराद्भक्षयित्वा होमाभिषवभक्षणे च कृते ततः समाख्यातो भक्षयेत्। यत्र पुनःप्रतिभक्ष124यिता नास्ति तत्रोभौ भक्षौ तन्त्रेण सिध्यत125ः। समाख्यानिमित्तं वषट्कारनिमित्तंच भक्षयेयुः सानुवषट्कारेषु सर्वत्र द्विरावृत्तिरस्त्येव।
विश्वास-प्रस्तुतिः
भक्षयित्वाऽपाम सोमममृता अभूम शं नो भव हृद आपीत इन्दविति मुखहृदये अभिमृशेरन्।
मूलम्
भक्षयित्वाऽपाम सोमममृता अभूम शं नो भव हृद आपीत इन्दविति मुखहृदये अभिमृशेरन्।
टीका
भक्षणानन्तरमेताभ्यामृग्भ्यां मुखहृदये अभिमृशेरन्नद्भिर्यथासंख्येन। अनयोराप्यायनत्वं दर्शयिष्यति‘प्रतिप्रदाय द्रोणकलशमात्मानमाप्याय्यं’ इति। आप्यायनत्वेचाद्भिः संमर्शनं भवत्येवेति।
विश्वास-प्रस्तुतिः
आप्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसानाद्योपाद्यान्पूर्वयोः सवनयोः।
मूलम्
आप्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसानाद्योपाद्यान्पूर्वयोः सवनयोः।
टीका
स्वं स्वं चमसं द्वाभ्यामृग्भ्यामद्भिरमिमृशेरन्पूर्वयोः सवनयोराद्यान्द्वितीयांश्चचमसान्।
विश्वास-प्रस्तुतिः
आद्यांस्तृतीयसवने।
मूलम्
आद्यांस्तृतीयसवने।
टीका
तृतीयसवन आद्यानेत्र चमसानभिमृशेरन्। एतदप्याप्यायनं चमसमाप्याययत्याभिरूपाभ्याम् ’ इति फलचमसे श्रुतौ दर्शनात्।
विश्वास-प्रस्तुतिः
सर्वत्राऽऽत्मानमन्यत्रैकपात्रेभ्यः।
मूलम्
सर्वत्राऽऽत्मानमन्यत्रैकपात्रेभ्यः।
टीका
एकपात्राण्यूर्ध्वपात्राणि। तानि वर्जयित्वा सर्वत्राऽऽत्मानमाप्याययेयुः। आत्मशब्देनात्र मुखहृदये उच्येते।
विश्वास-प्रस्तुतिः
आप्यायितांश्चमसान्सादयन्ति ते नाराशंसा भवन्ति॥ ६॥
मूलम्
आप्यायितांश्चमसान्सादयन्ति ते नाराशंसा भवन्ति॥ ६॥
टीका
नाराशंससंज्ञा भवन्तीत्यर्थः। अन्वर्थसंज्ञेयम्। नाराशंसा126 नाम त्रयः पितृगणा ऊमा
————————————————————————————————————
- क्त. –ज्ञापयन्।
————————————————————————————————————
और्वाः काव्याश्चेति। ते चानुसवनं यथासंख्येनाऽऽप्यायितानां चमसानां देवता भवन्तीतिनाराशंसाश्चमसा भवन्तीति॥ ६॥
विश्वास-प्रस्तुतिः
एतस्मिन्काले प्रपद्याच्छावाक उत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यदेश उपविशेत्।
मूलम्
एतस्मिन्काले प्रपद्याच्छावाक उत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यदेश उपविशेत्।
टीका
अच्छावाकस्य कर्मकालत्वादेवास्मिन्कर्मकाले प्रपदने सिद्धे कालोपदेशो127ऽच्छावाकःकर्मकाल एवप्रपद्येतेत्येवमर्थम्। तेनान्ये कर्मकालात्प्रागेव प्रातरनुवाककाले प्रपद्येरन्नितिसिद्धं भवति। प्रपद्येतिवचनं यजमानत्वेनान्यथा वा प्रपन्नोऽप्यच्छावाकीयत्वायास्मिन्कालेनियमेन प्रपद्येतेत्येवमर्थम्। स्वस्य धिष्ण्यस्य पुरस्ताददूरे सदसो बहिरुपविशेत्।
विश्वास-प्रस्तुतिः
पुरोलाशदृगलं प्रत्तमिलामिवोद्यम्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह।
मूलम्
पुरोलाशदृगलं प्रत्तमिलामिवोद्यम्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह।
टीका
दृगलं शकलमित्यर्थः, प्रत्तमध्वर्युणा। इलामिवोद्यम्याऽऽस्यसंमितं प्राणसंमितं वेत्यर्थः।संप्रैषपाठः स्वशास्त्रचोदनया संप्रैषस्यासंवादे सत्यप्यनुवचनत्वसिद्ध्यर्थम्।
विश्वास-प्रस्तुतिः
अन्त्येनप्रणवेनोपसंतनुयाद्यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन्पोतर्नेष्टरुतोपवक्तरिषेष-यध्वमूर्जोऽर्जयध्वंनि वोजामयोजिहतान्यजाम योनिः सपत्नायामनिबाधितासो जयता भीत्वरीं जयता भीप्त्वर्या128श्रवद्व इन्द्रः शृणवो अग्निः प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति।
मूलम्
अन्त्येनप्रणवेनोपसंतनुयाद्यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन्पोतर्नेष्टरुतोपवक्तरिषेष-यध्वमूर्जोऽर्जयध्वंनि वोजामयोजिहतान्यजाम योनिः सपत्नायामनिबाधितासो जयता भीत्वरीं जयता भीप्त्वर्या128श्रवद्व इन्द्रः शृणवो अग्निः प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति।
टीका
‘अन्त्येन प्रणवेन’ इत्येतावतैव प्रणवेन निगदस्य संताने सिद्धे ‘उपसंतनुयात्’इतिवचनं कृत्स्नस्यास्यनिगदस्यानवानत्वसिद्ध्यर्थम्।
विश्वास-प्रस्तुतिः
समाप्तेऽस्मिन्निगदेऽध्वर्युर्होतर्युपहवं काङ्क्षते।
मूलम्
समाप्तेऽस्मिन्निगदेऽध्वर्युर्होतर्युपहवं काङ्क्षते।
टीका
एतदध्वर्योरुपहवयाचनमच्छावाकार्थम्। समाप्त इतिवचनमुपहवयाचनकालविधानार्थम्।अस्मिन्नितिवचनमुत्तरोऽपि निगद एव न कृत्स्न उपहवमन्त्र इत्येतद्दर्शयितुम्। तेन‘प्रत्येता ’ इत्यादिः ‘ उपहूताः’ इत्यन्तो निगद एव। उपहूतइत्येतावानेवोपहवमन्त्रइति वेदितव्यः।
विश्वास-प्रस्तुतिः
प्रत्येता सुन्वन्यजमानः सूक्ता वामाग्रमीत्। उत प्रतिष्ठोतोपवक्तरुत नो गाव उपहूता उपहूत इत्युपह्वयते।
मूलम्
प्रत्येता सुन्वन्यजमानः सूक्ता वामाग्रमीत्। उत प्रतिष्ठोतोपवक्तरुत नो गाव उपहूता उपहूत इत्युपह्वयते।
टीका
उपहूता इत्युक्त्वोपहूत इत्युपह्वयत इति मध्येऽध्याहारः कर्तव्यः। उपहूत इत्येषप्रत्युपहवमन्त्रः। सर्वत्रायमेव प्रत्युपहवमन्त्रोऽपेक्षितत्वादन्यस्य चानाम्नानात्।
विश्वास-प्रस्तुतिः
उपहूतः प्रत्यस्मा इत्युन्नीयमानायानूच्य प्रातर्यावभिरागतमिति यजति।
मूलम्
उपहूतः प्रत्यस्मा इत्युन्नीयमानायानूच्य प्रातर्यावभिरागतमिति यजति।
टीका
उपहूत इतिवचनमच्छावाकस्य ग्रहणार्थम्। तेनोन्नीयमानाय चमसाय प्रत्यस्मा इत्येतत्सूक्तमच्छावाक एवानुब्रूयात्। ततः प्रातर्यावभिरित्यनया यजति। एषाऽस्य प्रस्थितयाज्या।
विश्वास-प्रस्तुतिः
निधाय पुरोलाशदृगलं स्पृष्ट्वोदकं चमसं भक्षयेत्।
मूलम्
निधाय पुरोलाशदृगलं स्पृष्ट्वोदकं चमसं भक्षयेत्।
टीका
निधायेतिवचनादेतावन्तं कालं दृगलमुद्यम्यैवाऽऽसीत।
विश्वास-प्रस्तुतिः
नास्पृष्ट्वोदकाः सोमेनेतराणि हवींष्यालभेरन्।
मूलम्
नास्पृष्ट्वोदकाः सोमेनेतराणि हवींष्यालभेरन्।
टीका
सोमेनेति। सोमेन संपृक्ता इत्यर्थः। तेनसोमं स्पृष्टवन्त उदकोपस्पर्शनमकृत्वेतराणिपुरोलाशादीनि हवींषि नाऽऽलभेरन्। पुरोलाशं स्पृष्टवतः129 सोमस्पर्शन उदकोपस्पर्शनं विधायतदुपपादनाय वक्तव्ये सति [ यत् ] विपरीतमुक्तं तस्यायमभिप्रायः – यथा स्पृष्टसोमस्यहविरन्तरालम्भन उदकोपस्पर्शनं तथा स्पृष्टपुरोडाशादिकस्य च सोमस्पर्शन इत्युभयथाऽपिभवतीति। न केवलमिदं तत्स्पर्शन एव तद्वत्पात्र130स्पर्शनेऽपि भवति। ‘निधाय होतृचमसं स्पृष्ट्वोदकम्’ इति चमसस्पर्शनेऽपि विधानात्।
विश्वास-प्रस्तुतिः
आदायैनदादित्यप्रभृतीन्धिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्चात्स्वस्य धिष्ण्यस्योपविश्य प्राश्नीयात्।
मूलम्
आदायैनदादित्यप्रभृतीन्धिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्चात्स्वस्य धिष्ण्यस्योपविश्य प्राश्नीयात्।
टीका
एतदृगलमादाय तद्धस्त एव धिष्ण्योपस्थानादि यो अद्येत्येवमन्तं कृत्वा तत्रस्थएव तत्प्राश्नीयात्। उपविश्य प्राश्नीयादिति। उपविश्य जपित्वा प्राश्नीयादित्यर्थः। अपरया द्वारा प्रसर्पणविधानाद्द्वार्याभिमर्शनं च तस्यामेव सदःप्रसर्पणेकृते स्वस्यैव, धिष्ण्यस्य पश्चादुपवेशने सिद्धे यत्पश्चात्स्वस्य धिष्ण्यस्योपदेशनं विदघाति तत्तत्रैव दृगलप्राशनार्थम्। तत्रैवोपविश्य दृगलं प्राश्नीयात्, न बहिर्निष्कम्येति।इममेवार्थंशाखान्तरे चोद्योत्तरभङ्ग्या श्रुतिरेव साधयति — ‘तदाहुर्यदन्य ऋत्विजोऽन्तः-सदसि सोमं प्राश्नन्ति। अथ कस्मादच्छावाको बहिःसदसि प्राश्नातीति। यदैवैतदन्तः—सदसि पुरोलाशदृगलं प्राश्नाति तेनास्यान्तःसदसि सोमः प्राशितो भवति’ इति।
विश्वास-प्रस्तुतिः
उपविष्टे ब्रह्माऽऽग्नीधीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्रागेवेतरे गता भवन्ति।
मूलम्
उपविष्टे ब्रह्माऽऽग्नीधीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्रागेवेतरे गता भवन्ति।
टीका
यदाऽच्छावाक उपविष्टस्तदा ब्रह्मा तीर्थेन निष्क्रम्य बहिर्वेद्याग्नीध्रीयं प्राप्नोति।अच्छावाकश्च दृगलं प्राश्य तीर्थेन निष्क्रम्याऽऽचम्य तं देशं प्राप्नुयात्। इतरे होत्रादयोऽप्यनुपविष्ट एवाच्छावाके तं देशं प्राप्ता भवेयुः। एते सर्वे संहतास्तस्मिन्देशे हविःशेषंप्राश्नीयुः। सर्वग्रहणं पौर्णमासिककर्तृनिवृत्त्यर्थम्। आग्नीध्रीयं प्राप्येतिवचनं प्राशनस्यबहिर्वेदिदेशे सिद्धेऽष्याग्नीध्रीयमण्डपबहिर्वेदिदेशप्रापणार्थम्। तच्चार्धमन्तर्वेद्यर्धंबहिर्वेदिभवति। हविरुच्छिष्टशब्देन चात्र धानादीनां शेषमिलापात्रस्थमन्यदप्युच्यते।
विश्वास-प्रस्तुतिः
प्राश्य प्रतिप्रसृप्य॥ ७॥
ऋतुयाजैश्चरन्ति।
मूलम्
प्राश्य प्रतिप्रसृप्य॥ ७॥
ऋतुयाजैश्चरन्ति।
टीका
प्राशने प्रकृते प्राश्यवचनमन्यदप्यस्मिन्नेव काले क्षुन्निवृत्त्यर्थं भोजनादि कुर्यान्न प्रागित्येवमर्थम्। प्रतिप्रसृप्यवचनं सर्वेषु प्रतिप्रसृप्तेष्वृतुयाजचरणार्थम्।
विश्वास-प्रस्तुतिः
तेषां प्रैषाः।
मूलम्
तेषां प्रैषाः।
टीका
तेषामृतुयाजसंज्ञानां यागानां प्रैषा अपि भवन्ति।
विश्वास-प्रस्तुतिः
पञ्चमं प्रैषसूक्तम्।
मूलम्
पञ्चमं प्रैषसूक्तम्।
टीका
प्रैषसमाग्नये यत्पञ्चमं प्रैषसूक्तं तदेषां प्रैषा भवन्ति।
विश्वास-प्रस्तुतिः
तेन तेनैव प्रेषितः प्रेषितः स स यथाप्रैषं यजति।
मूलम्
तेन तेनैव प्रेषितः प्रेषितः स स यथाप्रैषं यजति।
टीका
प्रैषास्तावत्सर्वे मैत्रावरुणेन वक्तव्याः। अस्मिन्सूत्र ऋतुयाजानां याज्या यष्टारश्च विधीयन्ते। येन येन प्रैषेण यथाप्रैषं यो यः प्रेषितस्तेन तेनैव प्रैषेण स स एवं यजतिनान्यः। तेनैतत्साधितं भवति मैत्रावरुणस्य यष्टृत्वमपीति131।
विश्वास-प्रस्तुतिः
होताऽध्वर्युगृहपतिभ्यां होतरेतद्यजेत्युक्तः।
मूलम्
होताऽध्वर्युगृहपतिभ्यां होतरेतद्यजेत्युक्तः।
टीका
यजेदिति शेषः। होतरेतद्यजेत्येताभ्यामुक्तो होता यजेत्।
विश्वास-प्रस्तुतिः
स्वयं षष्ठे पृष्ठ्या132हनि।
मूलम्
स्वयं षष्ठे पृष्ठ्या132हनि।
टीका
पार्ष्ठिक133पृष्ठेऽहनि स्वयमेवाध्वर्युगृहपती यजतः।
विश्वास-प्रस्तुतिः
पश्चादुत्तरवेदेरुपविश्याध्वर्युः पश्चाद्गार्हपत्यस्य गृहपतिः।
मूलम्
पश्चादुत्तरवेदेरुपविश्याध्वर्युः पश्चाद्गार्हपत्यस्य गृहपतिः।
टीका
अध्वर्युर्यजमानश्च निरसनं कृत्वा मन्त्रवदेव134 तयोः पश्चादुपविश्य यजतः। पश्चादितिप्रकृते पुनः पश्चादितिवचनमन्येषामुपवेशनकालात्पश्चाद्यागकालः, काल एवोपवेशनं गृहपतेरित्येवमर्थम्। अध्वर्यू यजतमिति द्वित्वयुक्तेऽपि संप्रैषे मुख्य एवाध्वर्युर्यजति नान्यः।
विश्वास-प्रस्तुतिः
अथैतदृतुपात्रमानन्तर्येण वषट्कर्तारो भक्षयन्ति।
मूलम्
अथैतदृतुपात्रमानन्तर्येण वषट्कर्तारो भक्षयन्ति।
टीका
अथेति। सर्वेष्वेवेष्टेष्वनन्तरमित्यर्थः। अत्र होता चतुर्वषट्कारः। पोतृनेष्टारौ द्विवषट्कारौ। एकवषट्कारा अन्ये। तत्र सर्वेष्विष्टेषु भक्ष्यमाणेऽनेकवषट्काराणामपि135 शेषाविभागात्कर्तृकाक्याच्च सकृदेव भक्षणं प्राप्नोतीति तन्निवृत्यर्थमानन्तर्येणत्युक्तम्।
विश्वास-प्रस्तुतिः
पृथगध्वर्युः प्रतिभक्षयेत्।
मूलम्
पृथगध्वर्युः प्रतिभक्षयेत्।
टीका
अध्वर्युग्रहणं प्रतिप्रस्थातुरपि प्रदर्शनार्थम्। अत्रापि तन्त्रशङ्कानिवृत्त्यर्थम्। पृथक्त्वमेव तत्र विधीयत इतरत्त्वनूद्यते।
विश्वास-प्रस्तुतिः
तस्मिंश्चैवोपहवः॥ ८॥
मूलम्
तस्मिंश्चैवोपहवः॥ ८॥
टीका
तस्मिन्नेव प्रतिभक्षयितर्युपहवश्च भवति। अवधारणं दीक्षिता अप्यत्र प्रतिभक्षयितारमेवोपहवं याचेरन्न दीक्षतान्सर्वानिति। अन्यत्र दीक्षितादीक्षितान्सर्वानेव॥ ८॥
विश्वास-प्रस्तुतिः
पराङध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वा छिद्रापदाधादच्छिद्रोक्था कवयः शंसन्। सोमो विश्वविन्नीथानिनेपद्बृहस्पतिरुक्थामदानिशंसिषद्वागायुर्विश्वायुर्विश्वमायुः कइदं शंसिष्यति स इदं शंसिष्यतीति जपित्वाऽनभिहिंकृत्यशोंसावोमित्युच्चैराहूय तूष्णींशंसं शंसेदुपांशु सप्रणवमसंतन्वन्।
मूलम्
पराङध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वा छिद्रापदाधादच्छिद्रोक्था कवयः शंसन्। सोमो विश्वविन्नीथानिनेपद्बृहस्पतिरुक्थामदानिशंसिषद्वागायुर्विश्वायुर्विश्वमायुः कइदं शंसिष्यति स इदं शंसिष्यतीति जपित्वाऽनभिहिंकृत्यशोंसावोमित्युच्चैराहूय तूष्णींशंसं शंसेदुपांशु सप्रणवमसंतन्वन्।
टीका
पराङितिसप्तम्यर्थे प्रथमा प्रयुक्ता, छन्दोवत्सूत्राणि भवन्तीति। ऋतुपात्रभक्षणानन्तरमध्वर्युर्होतुर्मुखत आसीनः पराङावर्तते पृष्ठतः करोतीत्यर्थः। तस्मिन्पराञ्च्या136वृत्ते होतासुमदिति जर्पित्वाऽभिहिंकारमकृत्वा शोसावोमित्युच्चैराहूय तूष्णींशंसं शंसेदुपांशु सप्रणवमसंतन्वन्। अध्वर्यावावृत्त इति137 शस्त्रकालोपदेशार्थम्। शस्त्राङ्गमयं जपः, जपित्वेति शस्त्रेणसंबन्धदर्शनात्। अनभिहिंकृत्येति प्राप्तो निषिध्यते। शोंसावेति138। शंसावेत्यर्थः।स एव प्रणवान्तः शोसावोमिति पठ्यते139। अनेन शब्देनाध्वर्युमाहूयाभिमुखीकृत्येत्यर्थः।अनेनाऽऽहूयेतिवचनादस्य शब्दस्याऽऽहाव इति संज्ञा भवति। उच्चैर्वचनं मन्द्रस्वरप्राप्त्यर्थम्। शस्त्राङ्गत्वादाहावस्य शस्त्रस्य च मन्द्रस्वरत्वादाहावानन्तरवर्तिनः शस्त्रैकदेशस्योपांशुत्वान्मुख्यानु-ग्रहन्यायेनोपांशुत्वाशङ्कायां भूयसामनुग्रह एवात्राऽऽश्रयितुं युक्त इतिमन्द्रस्वरसिद्धयर्थ-मुच्चैरित्युक्तवानाचार्यः। यः पुनराहावः शस्त्रावयवभूतस्य स्तोत्रियादेरेवाङ्गंस तस्यैव स्वरं भजते तेन निष्केवल्येऽनुब्राह्मणस्वरपक्ष आहावस्यापि140 स्वरविशेषः सिद्धोभवति। तृष्णींशंस इति नामधेयम्। सप्रणवं समानप्रणवम्। तूष्णींशंसे ये प्रणवास्ते पठिताअपि संतानार्थिकैलक्षिणिकैः समानास्त्रिमात्रा इत्यर्थः। असंतन्वन्नित्ययमप्राप्तप्रतिषेधःअनृगन्तत्वात्परस्य चानृक्त्वात्। तेन ज्ञायते पठितोऽपि प्रणवः संतानायेति141। तेनशस्त्रादिनाऽऽहावेनोत्तरः संततो142 वक्तव्यः। अत्र तूष्णींशंसस्याऽऽहावस्य च स्वरस्थानभेदात्प्राणसंततं भवति।
विश्वास-प्रस्तुतिः
एषआहावः प्रातःसवने शस्त्रादिषु। पर्यायप्रभृतीनां च। सर्वत्र चान्तःशस्त्रम्।
मूलम्
एषआहावः प्रातःसवने शस्त्रादिषु। पर्यायप्रभृतीनां च। सर्वत्र चान्तःशस्त्रम्।
टीका
एषु स्थानेषु वचनान्तरेणाऽऽह्वाने विहिते शोसावोमित्यनेनैव शब्देनाऽऽह्वानं कुर्यान्नान्येनेति नियम्यते। सूत्रत्रयेण शस्त्रादिषुप्राप्तिरेवमाहूयेतिवचनात्पुरोरुकत्वात्स्तोत्रियत्वात्प्रतिपत्त्वादाश्विनेऽन्तः शस्त्रेऽपिस्तोत्रियानुरूपानुचरप्रगाथघाय्यातदनन्तरवर्तिपरिधानीयात्वाद्व143चनाच्चेति। माध्यंदिने तृतीयसवने च पर्यायेभ्यः प्राक्शस्त्रादिषु वचनादध्वर्थ्वादिशब्दो विधीयते। तेषु शस्त्रादिषु तयोर्विहितत्वात्तदादिभूतानां प्रतिपदादीनां तावेव भवतइति नाऽऽह्वानान्तरं कल्प्यम्144।
विश्वास-प्रस्तुतिः
तेन चोपसंतानः।
मूलम्
तेन चोपसंतानः।
टीका
तेनाऽऽह्वानेनोत्तरस्योपसंतानः कर्तव्यः। चशब्दात्तस्य च पूर्वेणेति गम्यते।इदमन्तःशस्त्रे विधानमसंतन्वन्नित्यप्राप्ते संताने प्राप्तवत्प्रतिषेधात्। शस्त्रादिभूतेनाऽऽह्वानेनोत्तरस्य संतान उक्तः।
विश्वास-प्रस्तुतिः
शस्त्रस्वरः प्रतिगर ओथामो दैवेति।
मूलम्
शस्त्रस्वरः प्रतिगर ओथामो दैवेति।
टीका
शस्त्रस्य स्वर इव स्वरो यस्य स शस्त्रस्वरः। उत्तरपदलोपोऽत्र द्रष्टव्यः। शस्त्रस्वरइत्यर्थः। सवन145स्वरस्याविधेयत्वादन्योऽपि यो विशिष्ट स्वरो विहितः शस्त्रस्य तस्यप्रापणार्थं वचनम्।‘ओथामोदैव’ इत्ययं प्रतिगरसंज्ञो भवति। शस्त्रस्वरश्च भवति।प्रतिगीर्यते प्रत्युच्चार्यत इति प्रतिगरः। वक्ष्यमाणविशेषविशिष्टतया सकृदेव विधातुंशक्येऽपि सामान्यस्य पृथग्विधानं प्रतिगरशब्दव्यवहारेऽपि सामान्येनास्य ग्रहणार्थम्।
विश्वास-प्रस्तुतिः
शोंसामो दैवेत्याहावे।
मूलम्
शोंसामो दैवेत्याहावे।
टीका
प्रतिगरो भवतीति शेषः। यत्पुन146रयं प्रतिगरान्तर147विधिर्मध्ये विधीयते तज्ज्ञापयतिप्रतिगरान्तरमप्य148स्तीति मध्यवर्तिन्याहावेऽयं नियम्यते। तेन शस्त्रमध्येऽयमेव स्यात्।शस्त्रादावयं ब्राह्मणोक्तः शंसामो दैवोमिति वा।
विश्वास-प्रस्तुतिः
प्लुतादिः प्रणवेऽप्लुतादिवसाने।
मूलम्
प्लुतादिः प्रणवेऽप्लुतादिवसाने।
टीका
व्यवहितस्येमौ विशेषविधी, अनन्तरस्य प्रणवावसानरूपेण विषयभेदासंभवात्।
विश्वास-प्रस्तुतिः
प्रणवे प्रणव आहावोत्तरे।
मूलम्
प्रणवे प्रणव आहावोत्तरे।
टीका
प्लुतादेरयमपवादः। आहावोत्तरे प्रणवे प्रणव एवं प्रतिगरो भवति।
विश्वास-प्रस्तुतिः
अवसाने च।
मूलम्
अवसाने च।
टीका
प्रणवः प्रतिगरो भवतीति शेषः। शस्त्रान्ते149 शस्त्रमध्ये150 वाऽवसानेऽप्ययं विधिर्भवति।
१ ख. ग. घ. °नीयत्वा°।
विश्वास-प्रस्तुतिः
प्रणवान्तो वा।
मूलम्
प्रणवान्तो वा।
टीका
विषयद्वयेऽयं विकल्पः।
विश्वास-प्रस्तुतिः
यत्र यत्र चान्तःशस्त्रं प्रणवेनावस्यति प्रणवान्त एवं तत्र प्रतिगरः शस्त्रान्ते तु प्रणवः।
मूलम्
यत्र यत्र चान्तःशस्त्रं प्रणवेनावस्यति प्रणवान्त एवं तत्र प्रतिगरः शस्त्रान्ते तु प्रणवः।
टीका
पूर्वोक्तस्य प्रतिगरद्वयस्य विषयव्यवस्थापनमात्रमत्र क्रियते। ननु यद्ययमर्थो विवक्षितः स्यात्तदैवं प्रणेतव्यं स्यात्। अवसाने चेत्यादि सर्वमकृत्वा शस्त्रान्ते चान्तःशस्त्रंप्रणवान्त इति प्रणेतुं युक्तम्। सत्यमेवं प्रणेतुं युक्तं तथा च न प्रणीतवानाचार्यः। किंकुर्मः। एवं सति प्रणीतमनुसरामः। तत्र यदि पूर्वसूत्रेऽवसानशब्दं समाप्तिवचनमभ्युपगम्यद्वाभ्यां सूत्राभ्यां शस्त्रान्ते विकल्प उक्तः, उत्तरसूत्रेणान्तःशस्त्रे प्रणवान्तविधिरिति कल्प्यतेतदा शस्त्रान्ते तु प्रणव इत्यतिरिच्यते। अथ मतं यत्रेत्यादिसूत्रेऽवस्यतिशब्दसंबन्धात्कर्मचोदनायां होतारमिति होतृविषयमिदं सूत्रं पारिशेष्यात्पूर्वोक्तविकल्पो होत्रकविषय इति।तदपि नोपपद्यते। अवस्यतीत्यत्र विधानामावात्कर्मविधौ सा परिभाषा न कर्मानुवाद इति।अतः पूर्वोक्त एवार्थः। यत्रयत्रेत्यादिप्रपञ्चोक्तिश्चैवमेवेति सूचयति। अत्र संक्षेपविस्तररूपेण प्रपञ्चोक्तिरेवाऽऽश्रिता सूत्रकारेणेति। प्रतिगरस्य शस्त्रसमकालत्वादाहावस्य च द्विवचनयुक्तत्वात्प्रतिगरशब्दवाच्यत्वाच्च कर्त्रन्तरमस्यान्वेषणीयम्151। अत्राध्वर्युरेव भवति।पराङघ्वर्यावित्येवा152धिकारात्सर्वत्र चाध्वर्युरेव भवति ‘शंसामो दैवोमित्यध्वर्युः प्रतिगृणाति’इतिदर्शनात्। ‘शंसावाध्वर्यो प्रति मे गृणीहि’ इति च दर्शनात्। सवनान्तरे च‘अध्वर्यो शोंसावोम्’ इत्याहावादिदर्शनात्। अत्राध्वर्युशब्दः प्रतिप्रस्थातुरपि प्रदर्शनार्थः। गृह्णीम एतत्किमित्याध्वर्यवमत्र विधीयते शस्त्राङ्गत्वाच्छस्त्रस्य चर्ग्वेदविहितत्वात्तस्याप्यार्ग्वेदिकत्वमेवेति अध्वर्युकर्तृकत्वं तु वचनान्न समाख्यात इति सिद्धम्।
प्रतिगरस्वरूपमुक्त्वा शस्त्रमेवानुसरति—
विश्वास-प्रस्तुतिः
भूरग्निर्ज्योतिर्ज्योतिरग्नो३म्। इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रो३म्। सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३मिति त्रिपदस्तूष्णोशंसः। यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत्।
मूलम्
भूरग्निर्ज्योतिर्ज्योतिरग्नो३म्। इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रो३म्। सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३मिति त्रिपदस्तूष्णोशंसः। यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत्।
टीका
त्रिपदः षट्पदो वाऽयं शंस्तव्यः। त्रिपदपक्षे यथापठितमेव। षट्पदपक्षे त्रीणि153चाक्यानि द्विधा कृत्वा शंसेत्। तत्र द्विधाकरणेऽवसानस्थानं पूर्वैर्ज्योतिःशब्दैरग्रेऽव*स्येदिति।
————————————————————————————————————
* क. —आदौ।
————————————————————————————————————
विश्वास-प्रस्तुतिः
उच्चैर्निविदं यथानिशान्तमग्निर्देवेद्ध इति।
मूलम्
उच्चैर्निविदं यथानिशान्तमग्निर्देवेद्ध इति।
टीका
उच्चैर्वचनमुपांश्वधिकारनिवृत्त्यर्थम्। निविदिति निविदां नामधेयम्। यथानिशान्तंयथापठितम्। पदे पदेऽवसायेत्यर्थः। ऐकश्रुत्यं तु शस्त्रत्वादेव प्राप्तम्।
विश्वास-प्रस्तुतिः
नास्या आह्वानम्।
मूलम्
नास्या आह्वानम्।
टीका
‘आह्वानं च निविदाम्’ इत्यत्र पदसमाम्नायनिवृत्त्यर्थं निविद्ग्रहणं कृतम्। उत्तराधिकारश्च तत्रास्ति। तच्च निविद्ग्रहणं *पदसमाम्नायनिवृत्त्यर्थं क्रियमाणमुत्तराधिकारं चनिवर्तयितुं शक्नोतीति प्राप्तस्यायमपवादः।
विश्वास-प्रस्तुतिः
न चोपसंतानः।
मूलम्
न चोपसंतानः।
टीका
अस्या निविदस्तूष्णींशंसेन सहोपसंतानश्च न कर्तव्यः। तेनासंतन्वन्नितिप्रतिवेधस्तूष्णींशंसेषु परस्परमेव154 न पूर्वापरयोरिति +। अत आहावेन तूष्णींशंसस्य संतानः सिद्धोभवति। स तु स्वरविरोधात्प्राणसंतान इत्युक्तः।
विश्वास-प्रस्तुतिः
उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसंतनुयात्।
मूलम्
उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसंतनुयात्।
टीका
निविद उत्तमेन पदेन सूक्तमुपसंतनुयात्। अनृक्त्वादिदं विधीयते। आज्यमिति सूक्तस्यैतत्स्थानापन्नस्य नाम क्रियते।
विश्वास-प्रस्तुतिः
एतेन निविद उत्तराः।
मूलम्
एतेन निविद उत्तराः।
टीका
अस्या निविदः शंसनप्रकारो यो विहितस्तेन सर्वा निविदः शंस्तव्या इत्यर्थः। उत्तरवचनं पूर्वा अपि निविदः सन्तीति ज्ञापनार्थम्। तेन देवेद्धो मन्विद्ध155इत्यादीनां चतुर्दशानांपदानां निवित्त्वं सिद्धं भवति।
विश्वास-प्रस्तुतिः
सर्वे च पदसमाम्नायाः।
मूलम्
सर्वे च पदसमाम्नायाः।
टीका
अन्ये चैतशप्रलापादयो ये पदश आम्नाता मन्त्रास्ते निविद्वदेव शंस्तव्याः। निविदामपि पदश आम्नाने सत्यपि निविदां पृथग्ग्रहणं निवित्सु क्वचित्पदसमासोऽस्तीति ज्ञापनार्थम्, ‘प्रेदं ब्रह्म प्रेदं क्षत्रम्’ इत्यादौ×।
विश्वास-प्रस्तुतिः
उपसंतानस्त्वन्यत्र।
मूलम्
उपसंतानस्त्वन्यत्र।
टीका
अस्या निविदोऽन्यासु निवित्सु पदसमाम्नायेषु च पूर्वेणोपसंतानश्च कर्तव्यः।
विश्वास-प्रस्तुतिः
आह्वानं च निविदाम्।
मूलम्
आह्वानं च निविदाम्।
टीका
निविद्ग्रहणं पदसमाम्नायनिवृत्त्यर्थम्। आह्वानं चान्यासु निवित्सु भवति।
———————————————————————————————————————————
* क. – पदसमाम्नाय ऐतशप्रलापः। + क. – आहावशस्त्रैकदेशयोः। × क. - प्रेदं ब्रह्म प्रेदं क्षत्रमित्येते एव समस्येदिति ब्राह्मणानुरोधात्।
३ ख. ग. च. दं निर्व°।
————————————————————————————————————
विश्वास-प्रस्तुतिः
आज्यायां त्रिः शंसेदर्घर्चशो विग्राहम्।
मूलम्
आज्यायां त्रिः शंसेदर्घर्चशो विग्राहम्।
टीका
इदं156 त्रिर्वचनं शस्त्रादौ प्राप्तं सूक्तादौ नियम्यते। आज्यग्रहणं सूक्ताद्या157निवृत्त्यर्थम्।तेन यत्र158द्वे सूक्ते त्रीणि वाऽऽज्यकार्ये विहितानि तत्राऽऽद्यस्यैवाऽऽद्यां त्रिः शंसेन्नोत्तरस्येत्येवमर्थम्। अर्धर्चश इत्यृगावान पक्षेऽप्यर्धर्चसंताननिवृत्त्यर्थम्। विग्राहं विगृह्यविगृह्येत्यर्थः।
क्व विग्राहः कथं षा विग्राह159 इत्येवं निदर्शनेन दर्शयितुमाह—
विश्वास-प्रस्तुतिः
तन्निदर्शयिष्यामः। प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै। गमद्देवेभिरासनो यजिष्ठो बर्हिरासदो ३ मिति।
मूलम्
तन्निदर्शयिष्यामः। प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै। गमद्देवेभिरासनो यजिष्ठो बर्हिरासदो ३ मिति।
टीका
विग्रहे प्राणसंतानः कार्यः। पूर्वस्मिन्नेवार्धर्चे स विग्रहो भवति।
विश्वास-प्रस्तुतिः
ऋगावानं वैवमेव। एतेनाऽऽद्याः प्रतिपदामनृगावानम्।
मूलम्
ऋगावानं वैवमेव। एतेनाऽऽद्याः प्रतिपदामनृगावानम्।
टीका
प्रतिपदां या आद्या ऋचस्ता एतेन प्रकारेण शंस्तव्याः। प्रतिपद्द्वित्वे प्रतिपदामितिबहुवचनं ज्योतिष्टोमाभ्याससूचनार्थम्। तथा ‘प्रथमयज्ञेनैके घर्मम्’ इत्यत्र प्रथमशब्दस्तमेवार्थं सूचयति। तथा शाखान्तरे स्पष्टं वचनमस्ति ‘वसन्ते वसन्ते ज्योतिष्टोमेन यजेत’ इति। तत्र वीप्सयाऽभ्यासोऽवगतस्तदाश्रयोऽयं बहुवचनप्रयोगः। अन्यत्र ऋगावानवर्जनमिति160। प्रतिपच्छब्दोऽयं प्रतिपत्संज्ञितं तृचमेव गृह्णाति न यौ*गिकम्। तेनाऽऽश्विनप्रतिपद्ययं धर्मो न भवति।
विश्वास-प्रस्तुतिः
अनुब्राह्मणं वाऽऽनुपूर्व्यम्।
मूलम्
अनुब्राह्मणं वाऽऽनुपूर्व्यम्।
टीका
ब्राह्मणोक्तस्य क्रमस्य क्रत्वर्थत्वात्समाम्नायसिद्धस्याक्रत्वर्थत्वात्समाम्नायसिद्धस्यप्रयोगो न प्राप्नोतीति तस्यापि विकल्पेन प्रयोगसिध्द्यर्थमिदं सूत्रम्।
विश्वास-प्रस्तुतिः
आहूयोत्तमया परिदधाति।
मूलम्
आहूयोत्तमया परिदधाति।
टीका
उत्तमायाः परिधानीयात्वे सिद्धे सत्युत्तमावचनं याज्यान्तानि शस्त्राणीत्यन्यार्थमप्युच्यमानं याज्याया उत्तमत्वभ्रान्तिं जनयतीति तद्भ्रान्तिनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
सर्वशस्त्रपरिधानीयास्वेवम्।
मूलम्
सर्वशस्त्रपरिधानीयास्वेवम्।
टीका
सर्वासु शस्त्रपरिघानीयास्वाहूय परिदध्यात्। परिघानीयास्वितिबहुवचनेनैव सर्वत्वेसिद्धे सर्वग्रहणं होत्रकपरिग्रहार्थम्।
—————————————————————————————————————————————
* क. – प्रतिपद्यतेऽसौ प्रतिपदित्येवं रूपम्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
उक्थं वाचि घोषाय त्वेति शस्त्वा जपेदग्न इन्द्रश्च दाशुषो दुरोण इति याज्योक्थपात्रमग्रे भक्षयेत्।
मूलम्
उक्थं वाचि घोषाय त्वेति शस्त्वा जपेदग्न इन्द्रश्च दाशुषो दुरोण इति याज्योक्थपात्रमग्रे भक्षयेत्।
टीका
उक्थं शस्त्रं शस्त्रसंबन्धितया कश्चिद्ग्रहो गृह्यते शस्त्रयाज्यायां हूयते च तच्छेषवद्यत्पात्रं तदुक्थपात्रमित्युच्यते। तस्य भक्षणं वषट्कारनिमित्तत्वादविधेयम्। तदत्र क्रमार्थं निधीयतेऽग्र इति।
विश्वास-प्रस्तुतिः
ततश्चमसांश्चमसिनः सर्वशस्त्रयाज्यान्तेषु।
मूलम्
ततश्चमसांश्चमसिनः सर्वशस्त्रयाज्यान्तेषु।
टीका
ततश्चमसांश्चमसिनो भक्षयेयुः सर्वत्र शस्त्रयाज्यान्तेषु। भक्षणं च क्रमश्चात्र विधीयते।भक्षणेन सकृत्कृतेनैव समाख्यायाः प्रवृत्तिनि161वृत्तिसंभवा162द्वचनादृतेऽभ्यासो नास्तीति भक्षविधानम्। सर्वशस्त्रयाज्यास्विति वक्तव्ये सत्यन्तवचनमाश्विनस्य शस्त्रस्य याज्याभावात्तदन्ते चमसभक्षणं न प्राप्नोतीति तत्संग्रहर्थम्। तेनायमर्थः —सर्वशस्त्रयाज्यासु भक्षयेयुःसर्वशस्त्राणामन्ते चेति। सर्वशस्त्राणां याज्यानां चान्ताः सर्वशस्त्रयाज्यान्ता इति विग्रहः।नन्वप्तो163र्याम आश्विनशस्त्रमन्तो न भवति। सत्यं नान्तः। तथाऽप्यतिरात्रस्त्विहेत्यतिरात्रातिदेशात्तत्र चमसभक्षणं भवत्येव। सर्वग्रहणं होत्रकशस्त्रपरिग्रहार्थम्। एवं सर्वत्र चमसभक्षणविधानाद्यत्रोक्थपात्रमस्ति तत्र तद्भक्षायेत्वा चमसानां भक्षणम्, अन्यत्र चमसानामेवेति गम्यते।
विश्वास-प्रस्तुतिः
वषट्कर्तैकपात्राण्यादित्यग्रहसावित्रवर्जम्॥ ९॥
मूलम्
वषट्कर्तैकपात्राण्यादित्यग्रहसावित्रवर्जम्॥ ९॥
टीका
आदित्यग्रहसावित्रग्रहयोर्वषट्कर्तुर्भक्षो नास्तीत्येतावदत्र विधीयते, अन्यदनूद्यते प्राप्तत्वात्। प्रासङ्गिकं चेदं सूत्रम्॥ ९॥
विश्वास-प्रस्तुतिः
स्तोत्रमग्रे शस्त्रात्।
मूलम्
स्तोत्रमग्रे शस्त्रात्।
टीका
भवतीति शेषः। शस्त्रकालपरिज्ञानमनेन क्रियते।
विश्वास-प्रस्तुतिः
एषेति प्रोक्त उद्गातुर्हिंकारे प्रातःसवन आह्वयीरन्।
मूलम्
एषेति प्रोक्त उद्गातुर्हिंकारे प्रातःसवन आह्वयीरन्।
टीका
एषेति प्रोक्ते प्रस्तोत्रा य उद्गातुर्हिकारस्तस्मिन्काले प्रातः सवने शस्त्रायाऽऽह्वयरिन्। बहुवचनं होत्रकशस्त्रसंग्रहार्थम्। प्रातः सवनग्रहणं होत्रकपरिग्रहार्थम्।
विश्वास-प्रस्तुतिः
प्रतिहार उत्तरयोः सवनयोः।
मूलम्
प्रतिहार उत्तरयोः सवनयोः।
टीका
एषेतिप्रोक्ते यः प्रतिहारस्तस्मिन्नुत्तरयोः सवनयोराह्वयीरन्।
विश्वास-प्रस्तुतिः
वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात्तृचं तृचं शंसेत्।
मूलम्
वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात्तृचं तृचं शंसेत्।
टीका
एताः सप्त पुरोरुचो नामर्चः। तासामेकैकस्या उपरिष्टादेकैकं तृचं शंसेत्। सप्तवचनंषष्ठ्याः सप्तपदत्वसिध्द्यर्थम्।
विश्वास-प्रस्तुतिः
वायवायाहि दर्शतेति सप्त तृचाः।
मूलम्
वायवायाहि दर्शतेति सप्त तृचाः।
टीका
सप्तवचनं सप्तानां तृचानां ग्रहणार्थम्। इतरथा पादग्रहणादेकैवर्ग्यथा सप्ततृचा भवेयुस्तथाऽभ्यासितव्याः स्युस्तस्मात्तवचनम्।
विश्वास-प्रस्तुतिः
द्वितीयां प्रउगे त्रिः।
मूलम्
द्वितीयां प्रउगे त्रिः।
टीका
प्रउगमिति शस्त्रस्य संज्ञा। अस्मिञ्शास्त्रे प्रकृतिप्राप्तं यदाद्यायास्त्रिर्वचनं तद्द्वितीयायांनियम्यते नत्रिर्वचनान्तरमपूर्वं विधीयते।
विश्वास-प्रस्तुतिः
पुरोरुग्भ्य आह्वयीत षष्ठ्यां त्रिरवस्येदर्धर्चेऽर्धर्चे।
मूलम्
पुरोरुग्भ्य आह्वयीत षष्ठ्यां त्रिरवस्येदर्धर्चेऽर्धर्चे।
टीका
विश्वान्देवानित्येषा षष्ठी। सा सप्तभिः पादैरेका, न तैः सप्तभिः पादै अनुष्टुव्गायत्र्याविति सप्तानां पुरोरुचामित्यत्र सप्तग्रहणेनोक्तम्। आतोऽर्धर्चमित्यनेनार्धर्चशंसनमित्युक्तम्। अर्धर्चाश्च द्विप्रकाराः समाम्नायसिद्धा लाक्षणिकाश्च। समाम्नायसिद्धाः प्रसिद्धाः। ऋचोऽर्धमर्धर्चमिति लाक्षणिकाः। तत्र कथमर्धर्चशः शंसनमिति संशये तन्निर्णयार्थं षष्ठ्यां त्रिरवस्थेदर्घर्चेऽर्धर्च इत्युक्तम्। तेनास्यामृच्यवसानत्रयविधानात्समाम्नायसिद्धाएवार्धर्चाः सूत्रकारेणार्धर्चशंसने परिगृहीता इति ज्ञायते। एतत्सर्वासां विषमपदावसानानांप्रदर्शनार्थमुक्तम्।
विश्वास-प्रस्तुतिः
उत्तमां न शंसेच्छंसन्त्येके तृच आह्वानमशंसने।
मूलम्
उत्तमां न शंसेच्छंसन्त्येके तृच आह्वानमशंसने।
टीका
उत्तमायाः पुरोरुच164आशंसनेऽप्युत्तमे तृच आह्वानं कर्तव्यम्।
विश्वास-प्रस्तुतिः
माधुच्छन्दसंप्रउगमित्येतदाचक्षते।
मूलम्
माधुच्छन्दसंप्रउगमित्येतदाचक्षते।
टीका
अत्रायं प्रउगशब्दःकृत्स्नवाच्यपि तृचापेक्षया प्रयुक्तः। एवमन्यत्रापि यत्र यत्रर्षिच्छन्दोभ्यां प्रउगं विशेष्यते तत्र तत्र तृचापेक्षमेव न पुरोरुङ्निवृत्त्यर्थमिति द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
उक्थं वाचि श्लोकाय त्वेति शस्त्वा जपेद्विश्वेभिःसोऽयं मध्विति याज्या प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः।
मूलम्
उक्थं वाचि श्लोकाय त्वेति शस्त्वा जपेद्विश्वेभिःसोऽयं मध्विति याज्या प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः।
टीका
होत्रकाणां मध्य एते शस्त्रवन्तः। एतेषां शस्त्राणि भवन्तीत्यर्थः।एते शस्त्रिण इत्युक्तं तेषां शस्त्राणि भवन्ति किंरूपाणि च तेषां शस्त्राणीत्येतदुभयं वक्तुमाह——
विश्वास-प्रस्तुतिः
तेषां चतुराहावानि शस्त्राणि प्रातःसवने तृतीयसवने पर्यायेष्वतिरिक्तेषु च।
मूलम्
तेषां चतुराहावानि शस्त्राणि प्रातःसवने तृतीयसवने पर्यायेष्वतिरिक्तेषु च।
टीका
एषु स्थानेष्वेतेषां शस्त्राणि भवन्ति तानि चतुराहावानीत्येतदुभयं विधीयते। पर्यायातिरिक्तानां तृतीयसवनत्वे सत्यपि पृथग्ग्रहणमुक्थ्यशस्त्रेभ्यो यान्यन्यानि तेष्वपि शस्त्राणिभवेयुरित्येवमर्थम्। अतिरिक्तेष्वितिबहुवचननिर्देशादप्तोर्यामातिरिक्तेष्वेव भवन्ति न बाजपेयातिरिक्ते तत्रैकत्वादति-रिक्तस्येति।
विश्वास-प्रस्तुतिः
पञ्चाऽऽहावानि माध्यंदिने।
मूलम्
पञ्चाऽऽहावानि माध्यंदिने।
टीका
अत्रापि पूर्ववदुभयं विधीयते। आहावपरिमाणवचनं निमित्ताधिक्येऽप्येतेषामेतावत्त्वसिद्धयर्थम्।
इदानीमाहावस्य निमित्तानि प्रसङ्गादुच्यन्ते –
विश्वास-प्रस्तुतिः
स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्योधाय्याभ्य इति पृथगाह्वानम्।
मूलम्
स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्योधाय्याभ्य इति पृथगाह्वानम्।
टीका
एतेभ्यः सर्वेभ्य आहावः कर्तव्यः, एतेषां बहूनां संनिपाते पृथक्पृथक्कर्तव्य इत्येतदुभयमत्र विधीयते। सर्वत्र यदर्थतयाऽऽहावो विधीयते तस्याऽऽदौ स कर्तव्यः।
विश्वास-प्रस्तुतिः
होतुरपि।
मूलम्
होतुरपि।
टीका
होत्रकाणामधिकाराद्धोतृग्रहणम्। होतुरप्ये165तेभ्य आहावः कर्तव्यः।
विश्वास-प्रस्तुतिः
तेभ्यश्चान्यदनन्तरम्।
मूलम्
तेभ्यश्चान्यदनन्तरम्।
टीका
होतुरपीत्यत्राप्यनुवर्तते। स्तोत्रियादिभ्यो166ऽनन्तरं यत्प्रतीकं167 तत्रापि होतुहर्होत्रकाणाचाऽऽहावः कर्तव्यः।
विश्वास-प्रस्तुतिः
आदौ निविद्धानीयानां सूक्तानामनेकं चेत्प्रथमेष्वाहावः।
मूलम्
आदौ निविद्धानीयानां सूक्तानामनेकं चेत्प्रथमेष्वाहावः।
टीका
निविद्धानीयसूक्तस्य चाऽऽदौ भवति। तस्यानेकत्वे प्रथम एवाऽऽहावः। निविद्धानीयकार्यमाहावस्य निमित्तं न सूक्तस्य स्वरूपम्।
विश्वास-प्रस्तुतिः
आपोदेवते च तृचे।
मूलम्
आपोदेवते च तृचे।
टीका
आपोदेवतमब्दोवतमित्यर्थः। स चाऽऽग्निमास्ते ‘आपो हि ष्ठा’ इति तृच उच्यते।तत्र चाऽऽहावः कर्तव्यः।
विश्वास-प्रस्तुतिः
तेषां तृचाः स्तोत्रियानुरूपाः शस्त्रादिषु सर्वत्र।
मूलम्
तेषां तृचाः स्तोत्रियानुरूपाः शस्त्रादिषु सर्वत्र।
टीका
तेषामधिकारे पुनस्तेषाभितिवचनमस्मिन्सूत्रे सर्वार्थोऽपि कश्चिद्विधिरस्तीति प्रदर्शनार्थम्। तेन तृचाः स्तोत्रियानुरूपाः सर्वत्रेत्येकोऽर्थः सर्वार्थः168। अपरश्च तेषां शस्त्रादिषु यआदेशाः स्तोत्रियानुरूपास्तेष्वाहावः कर्तव्य इति व्यवहितयोजनया भवेत्यर्थः169।
विश्वास-प्रस्तुतिः
माध्यंदिने प्रगाथास्तृतीयाः।
मूलम्
माध्यंदिने प्रगाथास्तृतीयाः।
टीका
माध्यंदिने तेषामेव शस्त्रेषु तृतीया आदेशास्ते प्रगाथा वेदितव्याः।
विश्वास-प्रस्तुतिः
यथाग्रहणमन्यत्।
मूलम्
यथाग्रहणमन्यत्।
टीका
अतोऽन्यत्सर्वं यथाग्रहणमेव वेदितव्यम्। प्रगाथ इत्युक्ते प्रगाथः प्रगाथस्तोत्रियइत्युक्ते स्तोत्रियो भवति नान्यथेति।
विश्वास-प्रस्तुतिः
याज्यान्तानि शस्त्राणि।
मूलम्
याज्यान्तानि शस्त्राणि।
टीका
यत्र बहूनां शस्त्राणामृच आम्नायन्ते याज्याश्च विधीयन्ते तत्र कियदेकं शस्त्रमित्येतत्संशय- निवृत्त्यर्थमेतद्वचनम्। अन्यदपि प्रयोजनमस्ति, यच्छस्त्रार्थं वाग्यमनं विहितंतद्याज्यापर्यन्तमनुवर्तत इति।
विश्वास-प्रस्तुतिः
उक्थं वाचीत्येषां शस्त्वा जपः प्रातःसवने।
मूलम्
उक्थं वाचीत्येषां शस्त्वा जपः प्रातःसवने।
टीका
प्रातः सवनवचनं स्पष्टार्थम्।
विश्वास-प्रस्तुतिः
ऊर्ध्वं च पोलशिनः सर्वेषाम्।
मूलम्
ऊर्ध्वं च पोलशिनः सर्वेषाम्।
टीका
षोलशिन ऊर्ध्वं यानि शस्त्राणि तेष्वयमेव शस्त्वा जपः सर्वेषां भवति। सर्ववचनंहोतुरपि प्रापणार्थम्।
विश्वास-प्रस्तुतिः
उक्थं वाचीन्द्रायेति माध्यंदिन उक्थं वाचीन्द्राय देवेभ्य इत्युक्थ्येषु सपोलशिकेषु।
मूलम्
उक्थं वाचीन्द्रायेति माध्यंदिन उक्थं वाचीन्द्राय देवेभ्य इत्युक्थ्येषु सपोलशिकेषु।
टीका
उक्थ्येषु षोलशिनि चायं भवतीत्यर्थः। उक्थ्यानीति तृतीयसवने होत्रकशस्त्राण्युच्यन्ते।
विश्वास-प्रस्तुतिः
अनन्तरस्य पूर्वेण।
मूलम्
अनन्तरस्य पूर्वेण।
टीका
यत्रानेकपदार्थाः क्रमवर्तिनः स्युरेकरूपास्तत्र यदि तेषां कस्यचिद्धर्माकाङ्क्षा स्यात्तदातेषामेवानन्तरेण पूर्वेण धर्मविधिर्वेदितव्यः। किमुदाहरणम्। तृतीयसवने पुरोलाशायुक्तमित्युक्तम्। तत्र माध्यंदिनेन विधिर्भवति। तथा सोमातिरेकशस्त्रे170रनन्तरस्य शस्त्रस्य यःशस्त्वा जपः स भवतीत्येवमादि द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
स्तोत्रियेणानुरूपस्य च्छन्दःप्रमाणलिङ्गदैवतानि।
मूलम्
स्तोत्रियेणानुरूपस्य च्छन्दःप्रमाणलिङ्गदैवतानि।
टीका
छन्दो गायत्र्यादि। प्रमाणमेकस्मिन्नपि च्छन्दस्यूनाधिकाक्षरता। लिङ्गम् ‘आवतीप्रवती’ इत्येवमादि। दैवतं प्रसिद्धम्। स्तोत्रियस्य यान्येतानि तान्येवानुरूपस्येत्यर्थः।
विश्वास-प्रस्तुतिः
आर्षंचैके।
मूलम्
आर्षंचैके।
टीका
एक आचार्या आर्षंच तदेवेच्छन्ति।
विश्वास-प्रस्तुतिः
आ नो मित्रावरुणाऽऽनो गन्तं रिशादसा प्रवो मित्राय प्रमित्रयोर्वरुणयोरिति न वाऽऽयातं मित्रावरुणेति याज्याऽऽयाहि सुषुमा हित इति षट्स्तोत्रियानुरूपावनन्तराः सप्तेन्द्र त्वा वृषभमुद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्येन्द्राग्नी आगतं सुतमिन्द्रामी अपसस्परि तोशा वृत्रहणा हुव इति तिस्र इहेन्द्राग्नी उपेयं वामस्य मन्मन इति नवेन्द्राग्नी आगतं सुतमिति याज्या॥ १०॥
मूलम्
आ नो मित्रावरुणाऽऽनो गन्तं रिशादसा प्रवो मित्राय प्रमित्रयोर्वरुणयोरिति न वाऽऽयातं मित्रावरुणेति याज्याऽऽयाहि सुषुमा हित इति षट्स्तोत्रियानुरूपावनन्तराः सप्तेन्द्र त्वा वृषभमुद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्येन्द्राग्नी आगतं सुतमिन्द्रामी अपसस्परि तोशा वृत्रहणा हुव इति तिस्र इहेन्द्राग्नी उपेयं वामस्य मन्मन इति नवेन्द्राग्नी आगतं सुतमिति याज्या॥ १०॥
टीका
अत्र मध्ये ‘आयाहि सुषुमा हि त इति षट्स्तोत्रियानुरूपौ’ इत्यत्र पड्ग्रहणमासामृचांयासु कासुचिद्यदि च्छन्दोगाः स्तुवीरंस्तदा तत्तिसृभिरेव स्तोत्रियं कृत्वा शिष्टाभिरनुरूपःकर्तव्य इत्येवमर्थम्॥ १०॥
विश्वास-प्रस्तुतिः
संस्थितेषु सवनेषु पोलाशनि चातिरात्रेप्रशास्तः प्रसुहीत्युक्तः सर्पतेतिप्रशास्ताऽतिसृजेद्धोता दक्षिणेनौदुम्बरीमञ्जसेतरेऽपरया द्वारोत्तरां वेदिश्रोणीमभिनिःसर्पन्ति।
मूलम्
संस्थितेषु सवनेषु पोलाशनि चातिरात्रेप्रशास्तः प्रसुहीत्युक्तः सर्पतेतिप्रशास्ताऽतिसृजेद्धोता दक्षिणेनौदुम्बरीमञ्जसेतरेऽपरया द्वारोत्तरां वेदिश्रोणीमभिनिःसर्पन्ति।
टीका
सवनेषु संस्थितेषु मध्ये चातिरात्रे षोलाशनि समाप्ते। अतिरात्रविशेषणमतिरात्रे यःषोलशी तस्मिन्नेव समाप्ते न वाजपेयषोडशिनीत्येवमर्थम्। एतेषु चतुर्षु कालेषु होतादक्षिणेनौदुम्बरीं गत्वेतरे च स्वस्य धिष्ण्यस्याञ्जसाऽऽर्जवेन गत्वा सर्वेऽपरया द्वारा निष्क्रम्योत्तरां वेदिश्रोणीमभिनिःसर्पन्ति। तया श्रोण्या बहिर्वेदि प्राप्नुयुरित्यर्थः। यत्र171 यस्मिन्कालेऽध्वर्युः ‘ प्रशास्तः प्रसुहि ’ इति ब्रूयात्तदा प्रशास्ता ’ सर्पत ’ इति ब्रूयात्। ततो निःसर्पणं कुर्युरेतेष्वेव कालेषु। यद्यन्यस्मिन्काले ब्रूयात्तदा प्रत्यतिसर्जनमेव न निःसर्पणमस्मदीयानामिति। यद्यध्वर्युर्न ब्रूयात्प्रशास्ताऽपि नातिसृजेत्तेष्वपि कालेषु ततोऽनतिसृष्टा एव निःसर्पयेयुः। सर्वथा तावदेतेषु कालेष्वतिसृष्टा अनतिसृष्टा वाऽस्मदीया निःसर्पेयुरेव नान्यस्मिन्काल इति स्थितम्। तृतीयसवनसमाप्तिरपि शस्त्रसमाप्तावेवास्माकं नहारियोजनान्ते पत्नीसंयाजान्त इति स्थितम्। पुनः सदसः प्रवेशप्रयोजनाभावात्सवनसंस्थासु निःसपर्णस्य सदःप्रवेशपर्यन्तत्वादिति।
विश्वास-प्रस्तुतिः
मृगतीर्थमित्येतदाचक्षते।
मूलम्
मृगतीर्थमित्येतदाचक्षते।
टीका
संव्यवहाराभावेऽपि संज्ञायां172 नित्यत्वात्परिज्ञानार्थमुपदेशः।
विश्वास-प्रस्तुतिः
एतेन निष्क्रम्य यथार्थं न त्वेवान्यन्मूत्रेभ्यः।
मूलम्
एतेन निष्क्रम्य यथार्थं न त्वेवान्यन्मूत्रेभ्यः।
टीका
अतीर्थेन निष्क्रान्तानां बहिस्था (ष्ठा ) नामपि प्राकुचेष्टतादयोनियमा यथासंभवमनुवर्तन्त इत्युक्तं प्राक्, तदनेन निष्क्रान्तानां नास्तीत्येवमर्थं यथार्थवचनम् \। यथार्थवचनात्स्वैरकर्माण्यपि प्रसज्येरन्निति तन्निवृत्त्यर्थं न त्वेवान्यन्मूत्रेभ्य इत्युक्तम्। तेन यदावश्यकंतावन्मात्रमेव भवति, अतो नान्यदिति। आवश्यकमपि यच्छम्याप्रासादूर्ध्वं कर्तुं173 शक्यतेतदनेन निष्क्रम्य न कर्तव्यम्174। अतीर्थेनैव निष्क्रम्य तादृशं कुर्यात्, ‘अनेन निष्क्रम्यशम्याप्रासात्परस्तान्न गच्छेयु’इतिवचनात्।
विश्वास-प्रस्तुतिः
एतेन निष्क्रम्य कृत्वोदकार्थं वेद्यां समस्तानुपस्थायावरया द्वारा नित्ययाऽऽवृत्ता सदोद्वार्ये चाभिमृश्य तूष्णीं प्रतिप्रसर्पन्ति।
मूलम्
एतेन निष्क्रम्य कृत्वोदकार्थं वेद्यां समस्तानुपस्थायावरया द्वारा नित्ययाऽऽवृत्ता सदोद्वार्ये चाभिमृश्य तूष्णीं प्रतिप्रसर्पन्ति।
टीका
एत इति निष्क्रान्ता निर्देिश्यन्ते। एते175 निष्क्रमणानन्तरं यत्किंचिदुदककार्यमस्ति चेत्तत्कृत्वा नास्ति चेदकृत्वा वेदिं प्रविश्य वेद्यां ये धिष्ण्यास्तेषां समस्तोपस्थानं कृत्वा, उपस्थितांश्चानुपस्थितांश्चेत्येतत्कृत्वेत्यर्थः। अपरया द्वारा नित्ययाऽऽवृता मन्त्रेण सदोद्वार्येचाभिमृश्य तूष्णीं प्रतिसर्पन्ति। कृत्वोदकार्थमित्यत्र न विधीयते यथाप्राप्तमनूद्यते।
विश्वास-प्रस्तुतिः
एषाऽऽवृत्सर्पतेतिवचने।
मूलम्
एषाऽऽवृत्सर्पतेतिवचने।
टीका
‘सर्पतेतिवचने’ इत्यनेन पूर्वोक्ताश्चत्वारः काला उच्यन्ते, तेषु176 तस्य वचनस्य संभवात्। अतस्तेषु सर्वेषु य एष उक्तः प्रयोगो निःसर्पणादिः प्रतिसर्पणान्तः स कर्तव्यः, न केवलं प्रातःसवनान्त एवेति।
विश्वास-प्रस्तुतिः
पूर्वयैव गृहपतिः॥ ११॥
मूलम्
पूर्वयैव गृहपतिः॥ ११॥
टीका
यजमानस्तु पूर्वयैव द्वारा प्रतिसर्पणं कुर्यादेकाहाहीनेषु सर्वेषु गृहपतिरेवेति॥ ११॥
विश्वास-प्रस्तुतिः
एतस्मिन्काले ग्रावस्तुत्प्रपद्यते।
मूलम्
एतस्मिन्काले ग्रावस्तुत्प्रपद्यते।
टीका
अस्याप्यस्मिन्नेव काले प्रपदनंन प्रातरनुवाककाल इत्यच्छावाकेन तुल्यम्।
विश्वास-प्रस्तुतिः
तस्योक्तमुपस्थानम्।
मूलम्
तस्योक्तमुपस्थानम्।
टीका
अस्यापि पूर्वोक्तमुपस्थानं प्रसर्पणं च भवति।
तत्र विशेषमाह -
विश्वास-प्रस्तुतिः
पूर्वया द्वारा हविर्धाने प्रपद्य दक्षिणस्य हविर्धानस्य प्रागुदगुत्तरस्याक्षशिरसस्तृणं निरस्य राजानमभिमुखोऽवतिष्ठते।
मूलम्
पूर्वया द्वारा हविर्धाने प्रपद्य दक्षिणस्य हविर्धानस्य प्रागुदगुत्तरस्याक्षशिरसस्तृणं निरस्य राजानमभिमुखोऽवतिष्ठते।
टीका
प्रसर्पणमेवात्र प्रपदनमित्युच्यते। असौ तु हविर्धानं पूर्वया द्वाराप्रपद्यते पूर्ववदेवहविर्धाने इति द्विवचनं शालायामेवोप+चारात्। शकटद्वयसंबन्धादुपचारः। हविर्धनशब्दः शालायामपि मुख्य एव योगस्या विशिष्टत्वात्। उभयो177स्तत्प्रपद्य178दक्षिणस्य शकटस्य यदुत्तरमक्षशिरस्तस्य प्रागुदग्यो देशस्तस्मिन्मन्त्रेण निरसनं कृत्वा तत्र राजानमभिमुखस्तिष्ठेत्। दक्षिणामुखः प्रत्यग्दक्षिणामुखो वा।
विश्वास-प्रस्तुतिः
नात्रोपवेशनः।
मूलम्
नात्रोपवेशनः।
टीका
निरसनोपवेशनयोः साहचर्यप्रदर्शनार्थमप्राप्त एवोपवेशनमन्त्रः प्रतिषिध्यते।
विश्वास-प्रस्तुतिः
यो अद्य सौम्य इति तु।
मूलम्
यो अद्य सौम्य इति तु।
टीका
उपविष्टस्य विहितत्त्वात्तिष्ठतो न प्राप्नोतीति विधीयते।
विश्वास-प्रस्तुतिः
अथास्मा अध्वर्युरुष्णीषं प्रयच्छति।
मूलम्
अथास्मा अध्वर्युरुष्णीषं प्रयच्छति।
टीका
उष्णीषं शिरसो वेष्टनं वासः।
विश्वास-प्रस्तुतिः
तद्ञ्जलिना प्रतिगृह्य त्रिः प्रदक्षिणं शिरःसंमुखं वेष्टयित्वा यदा सोमांशूनभिषवाय व्यपोहन्त्यथ ग्राव्णोऽभिष्टुयात्।
मूलम्
तद्ञ्जलिना प्रतिगृह्य त्रिः प्रदक्षिणं शिरःसंमुखं वेष्टयित्वा यदा सोमांशूनभिषवाय व्यपोहन्त्यथ ग्राव्णोऽभिष्टुयात्।
टीका
यदा सोमलता अभिषवार्थमध्यर्यवो व्यपोहन्ति विक्षिपन्ति तदा ग्राव्णामभिष्टवनंकुर्यात्।
विश्वास-प्रस्तुतिः
मध्यमस्वरेणेदं सवनम्।
मूलम्
मध्यमस्वरेणेदं सवनम्।
टीका
इदमादीदं179 माध्यंदिनं सवनं मध्यमस्वरेण प्रयोक्तव्यम्। इदं ग्रावस्तोत्रमारभ्य माध्यंदिनं सवनं वर्तते। तत्र स्वरग्रहणं बाधकबाधार्थम्। बार्हस्पत्येष्टौ सौमिक्य इतिप्रधानोरांशुत्वं प्राप्तं तस्य बाधनार्थम्। तेन तस्यामिष्टौ प्रधानमपि मध्यमस्वरेण भवति।
————————————————————————————————————
- क. झ. गौणत्वात्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
अभि त्वा देव सवितर्युञ्जते मन उत युञ्जते धिय आतून इन्द्र क्षुमन्तं मा चिदन्यद्विशंसत प्रैते वदन्त्वित्यर्बुदम्।
मूलम्
अभि त्वा देव सवितर्युञ्जते मन उत युञ्जते धिय आतून इन्द्र क्षुमन्तं मा चिदन्यद्विशंसत प्रैते वदन्त्वित्यर्बुदम्।
टीका
एतत्सूक्तमर्बुदनामधेयं भवति।
विश्वास-प्रस्तुतिः
प्रागुत्तमाया आ वक्रञ्जसे प्र वो ग्रावाण इति।
मूलम्
प्रागुत्तमाया आ वक्रञ्जसे प्र वो ग्रावाण इति।
टीका
सूक्तेआवषेतेति180 शेषः। अर्बुदस्य प्रागुत्तमाया इत्यर्थः।
विश्वास-प्रस्तुतिः
सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा पावमानी रोप्य यथार्थमा वाऽऽग्रहग्रहणाच्छिष्टया परिधाय वेद्यं यजमानस्योष्णीषम्।
मूलम्
सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा पावमानी रोप्य यथार्थमा वाऽऽग्रहग्रहणाच्छिष्टया परिधाय वेद्यं यजमानस्योष्णीषम्।
टीका
सूक्तयोरुपरिष्टात्पुरस्ताद्वेति संबन्धः। सूक्ते इत्यध्याहृत्यान्तरशब्देन संबन्धः। त्रयाणामन्यत181मस्मिन्स्था (मे स्था) ने पावमानीरावपेत यथार्थं यावत्प्रयोजनमित्यर्थः। यावदभिषवमिति तदारम्भ आरम्भविधानात्तत्रैव ग्राव्णां व्यापारसंभवादस्य च ग्रावस्तोत्रत्वादिति। आग्रहग्रहणाद्वा182 ग्रावस्तोत्रान्तर्भावेऽपि पावमानीनां पूर्यमानसोमाभिधानात्संपूयमानः सोमस्तावन्तं कालमनुवर्तत इति कृत्वेदमुच्यते। शिष्टयाऽर्बुदस्योत्तमया परिधायवेद्यं यजमानस्योष्णीषं यजमानाय दातव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
आदाय यथार्थमन्त्येष्वहःसु।
मूलम्
आदाय यथार्थमन्त्येष्वहःसु।
टीका
यजमानाय दत्ते तस्यार्थप्राप्तमुच्यते नाप्राप्तं विधीयतेऽनेन सूत्रेण। दानमप्यत्र हस्ताद्धस्तान्तरसंक्रमणमात्रं यजमानस्यैव तत्स्वमिति।
विश्वास-प्रस्तुतिः
प्रतिप्रयच्छेदितरेषु।
मूलम्
प्रतिप्रयच्छेदितरेषु।
टीका
अनन्त्येष्वहःसु येनेदं दत्तं तस्मा एव पुनः प्रयच्छेदिति प्रतिशब्दसंबन्धादवगम्यते।
विश्वास-प्रस्तुतिः
अथापरमभिरूपं कुर्यादिति गाणगारिः।
मूलम्
अथापरमभिरूपं कुर्यादिति गाणगारिः।
टीका
अपरमिति। अपरमिदं ग्रावस्तोत्रं न पूर्वमित्यर्थः। प्रकृताविदं न प्रवर्तत इतिभिन्न विषयत्वादपरशब्दप्रयोगो युक्तः। कार्यविशेषे तल्लिङ्गस्य विधानादेवाभिरूपत्वे सिद्धेऽभिरूवचनं कार्यव्यत्यासे तृचव्यत्याससिद्ध्यर्थम्। गाणगारिववचनं पूजार्थम्।
विश्वास-प्रस्तुतिः
आप्यायस्व समेतु त इति तिस्रो सृजन्ति त्वा दशक्षिप एतमुत्यं दशक्षिपो मृज्यमानः सुहस्त्या दशभिर्विवस्वतो दुहन्ति सप्तैकामधुक्षत्पिप्युषीमिषमा कलशेषु धावति पवित्रेपरिषिच्यत इत्येका कलशेषु धावति श्येनो वर्म विगाहत द्वे एतासामर्बुदस्य चतुर्थीमुद्धृत्य तृचान्तेषु तृचानवदध्यात्।
मूलम्
आप्यायस्व समेतु त इति तिस्रो सृजन्ति त्वा दशक्षिप एतमुत्यं दशक्षिपो मृज्यमानः सुहस्त्या दशभिर्विवस्वतो दुहन्ति सप्तैकामधुक्षत्पिप्युषीमिषमा कलशेषु धावति पवित्रेपरिषिच्यत इत्येका कलशेषु धावति श्येनो वर्म विगाहत द्वे एतासामर्बुदस्य चतुर्थीमुद्धृत्य तृचान्तेषु तृचानवदध्यात्।
टीका
एता द्वादश ऋचोऽनुक्रान्तास्ताश्चत्वारस्तृचा भवन्ति। अर्बुदस्य चतुर्थ्युद्धर्तव्या।उत्तमा परिघानीया। शिष्टा द्वादश। ता अपि चत्वारस्तृचा भवन्ति। एतासां पावमानीनां तृचान्ते183ष्वर्बुदस्य तृचानवदध्यात्। विपरीतं वा। अत्र विशेषो न शक्यते वक्तुंदुरवगमत्वात्।
विश्वास-प्रस्तुतिः
आप्याय्यमाने प्रथमम्।
मूलम्
आप्याय्यमाने प्रथमम्।
टीका
आप्यायनमुदकसेकः।
विश्वास-प्रस्तुतिः
मृज्यमाने द्वितीयम्।
मूलम्
मृज्यमाने द्वितीयम्।
टीका
मार्जनं चूर्णमादाय हस्ताभ्यां पेषणम्।
विश्वास-प्रस्तुतिः
दुह्यमाने तृतीयम्।
मूलम्
दुह्यमाने तृतीयम्।
टीका
दोहनं प्रसिद्धम्।
विश्वास-प्रस्तुतिः
आसिच्यमाने चतुर्थम्।
मूलम्
आसिच्यमाने चतुर्थम्।
टीका
आसेचनमभिषवेण द्रवीकृतस्याऽऽधवनीये संभरणम्।
विश्वास-प्रस्तुतिः
बृहच्छब्दे बृहच्छब्दे चतुर्थीम्।
मूलम्
बृहच्छब्दे बृहच्छब्दे चतुर्थीम्।
टीका
निमित्तावृत्तावावृत्त्यर्थं वीप्सावचनम्।
विश्वास-प्रस्तुतिः
मा चिदन्यद्विशंसतेति यदि ग्रावाणः संह्रादेरन्।
मूलम्
मा चिदन्यद्विशंसतेति यदि ग्रावाणः संह्रादेरन्।
टीका
संह्रादनं शब्दनम्। अत्रापि निमित्तावृत्तावावृत्तिरस्ति। अस्या ऋचो निमित्ताभावेऽपि प्रयोगः स्वस्थाने चतुर्थ्या उद्धारवचनादिदमवगम्यते।
विश्वास-प्रस्तुतिः
समानमन्यत्।
मूलम्
समानमन्यत्।
टीका
अर्बुदपावमानीभ्योऽन्यत्सर्वं समानं भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
अर्बुदमेवेत्येके।
मूलम्
अर्बुदमेवेत्येके।
टीका
अवधारणादिदमेव सूक्तं नान्यत्किंचित्।
विश्वास-प्रस्तुतिः
प्र वो ग्रावाण इत्येके।
मूलम्
प्र वो ग्रावाण इत्येके।
टीका
अत्राप्यवधारणं द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
उक्तं सर्पणम्।
मूलम्
उक्तं सर्पणम्।
टीका
प्रसर्पणमत्र कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
स्तुते माध्यंदिने पवमाने विहृत्याङ्गारान्॥ १२॥
दधिधर्मेण चरन्ति प्रवर्ग्यवांश्चेत्।
मूलम्
स्तुते माध्यंदिने पवमाने विहृत्याङ्गारान्॥ १२॥
दधिधर्मेण चरन्ति प्रवर्ग्यवांश्चेत्।
टीका
अङ्गारविहरणवचनं तत्कालपरिज्ञाने तद्व्यवायपरिहारे यत्नकरणार्थम्। दधिधर्मो नामकर्मविशेषः। तेन चरन्ति प्रवर्ग्यवांश्चेदयं ऋतुः। न चेन्न कर्तव्यो दधिधर्मः।
विश्वास-प्रस्तुतिः
तस्योक्तमृगावानं घर्मेण।
मूलम्
तस्योक्तमृगावानं घर्मेण।
टीका
तस्येतिवचनं योगविभागार्थम्। योगविभागप्रयोजनमप्रवर्ग्येऽपि दधिघर्मस्य विधःप्रापणमिति। घर्मेणेतिवचनमृगावानादन्यस्य घर्मेण संबद्धस्यैकश्रुत्यस्यापि प्रापणार्थम्। तेनोत्तिष्ठतावपश्यतेत्यस्याः शंसत्यादिचोदनाभावेऽप्यैकश्रुत्यं भवति।
विश्वास-प्रस्तुतिः
इज्याभक्षिणश्च।
मूलम्
इज्याभक्षिणश्च।
टीका
इज्या184च घर्मेण व्याख्याता। भक्षिणश्च घर्मेणैव व्याख्याताः। भक्षिशब्दो185 न कर्त्रुपलक्षणार्थं186 प्रयुज्यते कथं तर्हि *स्वात्मनोऽपि विधेयत्वाय। तेन भक्षस्य भक्षकर्तॄणां चघर्मवत्ता विधीयते।
विश्वास-प्रस्तुतिः
होतर्वदस्वेत्युक्त उत्तिष्ठतावपश्यतेत्याह।
मूलम्
होतर्वदस्वेत्युक्त उत्तिष्ठतावपश्यतेत्याह।
टीका
अस्यां लिङ्गजनितमेव कार्यम्। आहेतिवचनमस्या अनुवाक्यात्वं मा भूदित्येवमर्थम्।तेनोत्तरैवानुवाक्या भवति +। अनयाऽध्वर्युप्रैषरूपमभिधानं क्रियते।
विश्वास-प्रस्तुतिः
श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह।
मूलम्
श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह।
टीका
इयमनुवाक्या।
विश्वास-प्रस्तुतिः
श्रातं मन्य ऊधनि श्रातमग्नाविति यजति। अग्ने वीहीत्यनुवषट्कारो दधिधर्मस्याग्ने वीहीति वामयित्यदिन्द्रियं बृहन्मयि द्युम्नमुत क्रतुः। त्रिश्रुद्घर्मो विभातु म आकूत्या मनसा सह विराजा ज्योतिषा सह तस्य दोहमशीय ते तस्य त इन्द्रपीतस्य त्रिष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपो यं धिष्ण्यवतां प्राञ्च-
मूलम्
श्रातं मन्य ऊधनि श्रातमग्नाविति यजति। अग्ने वीहीत्यनुवषट्कारो दधिधर्मस्याग्ने वीहीति वामयित्यदिन्द्रियं बृहन्मयि द्युम्नमुत क्रतुः। त्रिश्रुद्घर्मो विभातु म आकूत्या मनसा सह विराजा ज्योतिषा सह तस्य दोहमशीय ते तस्य त इन्द्रपीतस्य त्रिष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपो यं धिष्ण्यवतां प्राञ्च-
टीका
————————————————————————————————————————————
* क. – भक्षस्यापि। +घ — अस्या अन्ते प्रणवकरणे विचार ऋगावानलक्षणे लिखितः।अध्वर्यूणामपि बचनम्। यद्यश्रातो ममत्तनेत्युच्यमान इति।
————————————————————————————————————
विश्वास-प्रस्तुतिः
मङ्गारैरभिविहरेयुः।पश्चात्स्वस्य धिष्ण्यस्योपविश्योपहवमिष्ट्वापरि त्वाऽग्ने पुरं वयमिति जपेत्।
मूलम्
मङ्गारैरभिविहरेयुः।पश्चात्स्वस्य धिष्ण्यस्योपविश्योपहवमिष्ट्वापरि त्वाऽग्ने पुरं वयमिति जपेत्।
टीका
धिष्ण्यवतां मध्ये यं कंचिद्धिष्ण्यवन्तं धिष्ण्येभ्यः प्राञ्चं सन्तं यद्यङ्गारैरभिविहरेयुस्तस्यनैमित्तिकमिदं, पश्चात्स्क्स्य धिष्ण्यस्योपविश्योपहवं187यजमानादिष्ट्वा परि त्वाऽग्ने पुरं वयमिति जपेत्।
विश्वास-प्रस्तुतिः
अनिष्ट्वा दीक्षितः।
मूलम्
अनिष्ट्वा दीक्षितः।
टीका
दीक्षितस्योपहवयाचनप्रतिषेधाददीक्षितस्योपहवयाचनं यजमानादिति गम्यते। अस्यैवनैमित्तिकस्य निमित्तापत्तिकालादन्यत्राऽऽम्नानं तृतीयसवनेऽप्यस्य नैमित्तिकस्य प्रापणार्थम्।
विश्वास-प्रस्तुतिः
सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोलाशेन चरन्ति।
मूलम्
सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोलाशेन चरन्ति।
टीका
प्रकृतिप्राप्तस्य पशुपुरोलाशस्य कालविधिरयम्।
विश्वास-प्रस्तुतिः
अक्रियामेकेऽन्यत्र तदर्थवादवदनात्।
मूलम्
अक्रियामेकेऽन्यत्र तदर्थवादवदनात्।
टीका
तस्य पुरोलाशस्याक्रियामेक आचार्या मन्यन्ते हेतुबलात्। सोऽयं हेतुः ‘अन्यत्रतदर्थवादवदनात्’इति। तत् प्रयोजनो वादस्तदर्थवादः। तस्य वदनं तदर्थवादवदनम्। तत्प्रयोजनवादस्यान्यत्र वदनादित्यर्थः। अन्यत्रेति सूक्तवाकप्रैष उ*च्यते। तत्रावीवृधतःपुरोलाशैरित्याम्नातम्। पुरोडाशैरितिबहुवचनदर्शनात्सवनीयदेवताऽत्राभिधीयते न पशुपुरोडाशदेवतेति गम्यते। तेनात्र प्रकृतिप्राप्तमभिधानमपश्यन्तोऽकरणनिमित्तमेवेदमन188भिधानमिति मन्यमाना अक्रियामुक्तवन्तः।
विश्वास-प्रस्तुतिः
क्रियामाश्मरथ्योऽन्विताप्रतिषेधात्।
मूलम्
क्रियामाश्मरथ्योऽन्विताप्रतिषेधात्।
टीका
अतिदेशप्राप्तस्य प्रतिषेधाभावादाश्मरथ्यः पशुपुरोडाशस्य क्रियामेव मन्यते। आश्परथ्यग्रहणं तस्य पूजनार्थी न विकल्पार्थम्। तस्मात्पशुपुरोडाशः कर्तव्य एव। यत्पुनरिदम्—‘अन्यत्र तदर्थवादवदनात्’ इत्यनभिधानादकरणमुक्तं तदयुक्तं प्राप्तस्य प्रतिषेधाभावात्करणमेवेति। अनभिधानं पुनर्यत्सूक्तवाकप्रैष उक्तं तदहेतुरेव। प्रत्यक्षपठिते मन्त्रेऽभिधानशक्तिर्बास्ति चेदनभिधानमस्तु किं कुर्मः। यथाकथंचिदभिधानं वा कल्पनीयम्।
विश्वास-प्रस्तुतिः
पुरोलाशाद्युक्तमा नाराशंससादनात्। न त्विह द्विदेबत्या एतस्मिन्काले दक्षिणा नीयन्तेऽहीनैकाहेषु।
मूलम्
पुरोलाशाद्युक्तमा नाराशंससादनात्। न त्विह द्विदेबत्या एतस्मिन्काले दक्षिणा नीयन्तेऽहीनैकाहेषु।
टीका
अधिकृते काले पुनः कालविधानं यत्रानुसवनं दक्षिणानयनं विहितं तत्र त्रिष्वपि सव-
————————————————————————————————————
* घ.. - अत्र प्राणभक्षः साधिनः सप्तमे षोलशिपात्रेण भक्षिण इत्यत्र।
————————————————————————————————————
नेषु नाराशंससादनोत्तरकालमेव दक्षिणानयनमित्येवमर्थम्। अहीनैकाहग्रहणं सत्रेष्वात्सदक्षिणाऽपि नास्तीति सूचनार्थम्।
विश्वास-प्रस्तुतिः
कृष्णाजिनानि धून्वन्तः स्वयमेव दक्षिणापथं यन्ति दीक्षिताः सत्रेष्विदमहं मां कल्याण्यै कीर्त्यै तेजसे यशसेऽमृतत्वायाऽऽत्मानं दक्षिणां नयानीति जपन्तः।
मूलम्
कृष्णाजिनानि धून्वन्तः स्वयमेव दक्षिणापथं यन्ति दीक्षिताः सत्रेष्विदमहं मां कल्याण्यै कीर्त्यै तेजसे यशसेऽमृतत्वायाऽऽत्मानं दक्षिणां नयानीति जपन्तः।
टीका
दीक्षितवचनं पत्नीनिवृत्त्यर्थम्। सत्रवचनमसत्रेष्वस्य समुच्चर्यस्य189 निवृत्त्यर्थम्।आत्मानं दक्षिणां नयानीति मन्त्रवादः सत्राणामदक्षिणत्वस्तुतिपरत्वान्नांऽऽत्मदक्षिणत्वं190विधातुं शक्नोति।
विश्वास-प्रस्तुतिः
उन्नेष्यमाणास्वाग्नीधीय आहुती जुह्वति।
मूलम्
उन्नेष्यमाणास्वाग्नीधीय आहुती जुह्वति।
टीका
उन्नेष्यमाणासु दक्षिणासु दक्षिणाद्रव्येष्वित्यर्थः। केनचिन्मानविशेषेण दक्षिणाद्रव्याणि दक्षिणकाले191 नेतव्यानि। तत्क्षणात्पूर्वक्षणे सर्व ऋत्विज आहुती जुह्वति।
विश्वास-प्रस्तुतिः
ददानीत्यग्निर्वदति वायुराह तथेति तत्। हन्तेति चन्द्रमाः सत्यमादित्यः सत्यमोमापस्तत्सत्यमामरन्। दिशो यज्ञस्य दक्षिणा दक्षिणानां प्रियो भूयासं स्वाहा। प्राचि ह्येधि
प्राचि जुषाणा प्राच्याज्यस्य वेतु स्वाहेति द्वितीयाम्।
मूलम्
ददानीत्यग्निर्वदति वायुराह तथेति तत्। हन्तेति चन्द्रमाः सत्यमादित्यः सत्यमोमापस्तत्सत्यमामरन्। दिशो यज्ञस्य दक्षिणा दक्षिणानां प्रियो भूयासं स्वाहा। प्राचि ह्येधि
प्राचि जुषाणा प्राच्याज्यस्य वेतु स्वाहेति द्वितीयाम्।
टीका
द्वितीयाग्रहणं मन्त्रभेदप्रदर्शनार्थं न द्वयोराहत्योरेतावानेको मन्त्र आवर्तयितव्य इति।
विश्वास-प्रस्तुतिः
क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते वृष्टिरसिद्यौस्त्वा ददातु पृथिवी प्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत प्राणि।
मूलम्
क इदं कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते वृष्टिरसिद्यौस्त्वा ददातु पृथिवी प्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत प्राणि।
टीका
विहारदेशमतीत्य नीतेषु दक्षिणाद्रव्येषु तन्मध्ये यत्प्राणि द्रव्यं तदेतेनानुमन्त्रयते।
विश्वास-प्रस्तुतिः
अभिमृशेदप्राणि।
मूलम्
अभिमृशेदप्राणि।
टीका
तन्मध्ये यद्प्राणि तदभिमृशेत्।
विश्वास-प्रस्तुतिः
कन्यां च।
मूलम्
कन्यां च।
टीका
अभिमृशेदिति शेषः। दैवेन विवाहप्रकारेण तदा यदि कन्या दीयते तामप्यभिमृशेत्, अनेनैव मन्त्रेण। न ब्राह्मादिष्विदमभिमर्शनमस्ति, क्रतुसंबन्धाभावात्।
विश्वास-प्रस्तुतिः
सर्वत्र चैवम्।
मूलम्
सर्वत्र चैवम्।
टीका
सर्वत्र वैतानिक इष्टिपश्चादावेवं प्रतिगृह्णीयात्। न त्विहैवेति न192 बहिर्वेदि प्रसङ्गाभावात्।
विश्वास-प्रस्तुतिः
प्रतिगृह्याऽऽग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुःप्राश्य प्रतिसृप्य॥ १३॥
मूलम्
प्रतिगृह्याऽऽग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुःप्राश्य प्रतिसृप्य॥ १३॥
टीका
** ** ॥ १३॥
विश्वास-प्रस्तुतिः
मरुत्वतीयेन ग्रहेण चरन्ति।
मूलम्
मरुत्वतीयेन ग्रहेण चरन्ति।
टीका
मरुत्वद्देवत्यो मरुत्वतीयः। गतार्थं सूत्रद्वयम्।
विश्वास-प्रस्तुतिः
इन्द्र मरुत्व इह पाहि सोमं होता यक्षदिन्द्रं मरुत्वन्तं सजोषाइन्द्र सगणोमरुद्भिरिति मक्षयित्वैतत्पात्रं मरुत्वतीयं शस्त्रं शंसेत्।
मूलम्
इन्द्र मरुत्व इह पाहि सोमं होता यक्षदिन्द्रं मरुत्वन्तं सजोषाइन्द्र सगणोमरुद्भिरिति मक्षयित्वैतत्पात्रं मरुत्वतीयं शस्त्रं शंसेत्।
टीका
भक्षयित्वेतिवचनं शस्त्रकालोपदेशार्थम्। मरुत्वतीयमिति शस्त्रनाम।
विश्वास-प्रस्तुतिः
अध्वर्यो शोंसावोमिति माध्यंदिने शस्त्रादिष्वाहावः।
मूलम्
अध्वर्यो शोंसावोमिति माध्यंदिने शस्त्रादिष्वाहावः।
टीका
माध्यंदिने सवने यानि शस्त्राणि होतुर्होत्रकाणां च तेषामेवंरूप193 आहावो विधीयते।बहुवचनं होत्रकशस्त्रपरिग्रहार्थम्।
विश्वास-प्रस्तुतिः
आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ।
मूलम्
आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ।
टीका
पुनर्मरुत्वतीयवचनं सर्वशस्त्राधिकारात्। प्रतिपदनुचराविति संज्ञे यथासंख्येन द्वयोस्तृचयोः।
विश्वास-प्रस्तुतिः
इन्द्र नेदीय एदितीन्द्रनिहवः प्रगाथः।
मूलम्
इन्द्र नेदीय एदितीन्द्रनिहवः प्रगाथः।
टीका
इयमपि संज्ञा।
विश्वास-प्रस्तुतिः
प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः।
मूलम्
प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः।
टीका
प्रगाथ इति शेषः। इयमपि संज्ञैव।
विश्वास-प्रस्तुतिः
तृचाः प्रतिपदनुचराद्वृचाः प्रगाथा आऽतोऽर्धर्चं सर्वम्।
मूलम्
तृचाः प्रतिपदनुचराद्वृचाः प्रगाथा आऽतोऽर्धर्चं सर्वम्।
टीका
**
**शस्त्राणामादिभूतमाज्यमारभ्यास्माद्ब्राह्मणस्पत्यात्सर्वमर्धर्चंभवति। आज्यमारभ्यब्राह्मणस्पत्यपर्यन्तं सर्वमर्धर्चशस्यं भवतीत्यर्थः।
सर्ववचनात्प्रकृतौ विकृतौ च त्रिष्टुबादीनि पङ्क्तिर्वाविच्छन्दो वाऽस्मिन्नवधौ यदागच्छति तत्सर्वमर्धर्चामिति गम्यते।
विश्वास-प्रस्तुतिः
स्तोत्रियानुरूपाः प्रतिपदनुचराः प्रगाथाः सर्वत्र।
मूलम्
स्तोत्रियानुरूपाः प्रतिपदनुचराः प्रगाथाः सर्वत्र।
टीका
एते च सर्वत्रार्धर्चशः शस्याः। प्रगाथस्यार्धर्चशंसनविधानं बृहतीकारपक्षे चतुर्थषष्ठयोःपादयोः पुनर्द्विरभ्यस्तयोरवसानविध्यभावात्समाम्नायप्रसिद्धा194र्धर्चाविसा195नं न प्राप्नोतीति196तत्रावसानप्राप्त्यर्थम्। सर्वत्रवचनं छन्दोगप्रत्ययप्राप्तस्यापि प्रगाथस्यास्मिञ्शंस्यमानस्यैतदवसानं भवतीत्येवमर्थम्।
विश्वास-प्रस्तुतिः
प्राक्च च्छन्दांसि त्रैष्टुभात्।
मूलम्
प्राक्च च्छन्दांसि त्रैष्टुभात्।
टीका
गायत्र्यादीनि पङ्क्त्वान्तान्यर्धर्चशः शंस्यानीत्यर्थः।
विश्वास-प्रस्तुतिः
सर्वाश्चैवाचतुष्पदाः।
मूलम्
सर्वाश्चैवाचतुष्पदाः।
टीका
गायत्र्यादीनां च सप्तानामक्षरपरिमाणमेव प्रवृत्तिनिमित्तं न पादविन्यासः। तत्रबृहत्त्यन्तानां पादविन्यासानपेक्षया। सर्वप्रकाराणामर्धर्चशंसनमुक्तम्पङ्क्त्याअप्यपञ्चपदाथा अर्धर्चशंसनमे197व। पञ्चपदायास्तु वक्ष्यति। तत्र पङ्क्त्या उत्तरेषु त्रिषु च्छन्दःसुया अचतुष्पदास्तासामर्धर्चशंसनमनेन विधीयते। सर्वग्रहणं वृषाकप्यतिदिष्टेऽप्येव198 यामरूर्त्य199धर्चशंसनमेवेत्येषमर्थम्।
विश्वास-प्रस्तुतिः
पङ्क्तिषु द्विरवस्येद्द्वयोर्द्वयोः पादयोः।
मूलम्
पङ्क्तिषु द्विरवस्येद्द्वयोर्द्वयोः पादयोः।
टीका
अयं विधिः पञ्चपदास्वेव। पङ्क्तिषु द्विरवस्येदित्यस्य विधेः पञ्चपदास्तेव संभवात्।
विश्वास-प्रस्तुतिः
अर्धर्चशो वाऽऽश्विने।
मूलम्
अर्धर्चशो वाऽऽश्विने।
टीका
आश्विने शस्त्रे याः पङ्क्त्यस्तासामर्धर्चशंसनं पङ्किशंसन वा भवतीति विकल्पोऽयं विधीयते। तत्रार्धर्चशस्यान्तर्गतानामर्धर्चशंसनं स्वतन्त्राणां पडिशंसनमेवेतिविनिवेशो युक्तः।
विश्वास-प्रस्तुतिः
पच्छः शस्यगतां तु पच्छः।
मूलम्
पच्छः शस्यगतां तु पच्छः।
टीका
शंसने क्रियमाणेऽयं विशेषः। सर्वत्र विषये पच्छःशस्य200सूक्तगताया एकस्याः पङ्क्तेःपच्छः शस्यतैव201, तत्र सूक्तमुखीयोदाहरणम् –‘अर्वाग्रथम्’ इति चैवमादि। ‘नमोवाकः’इत्यर्धर्चशः शस्या202। स्वाहाकृतस्येत्यस्याः पङ्क्तिशंसनम्।
विश्वास-प्रस्तुतिः
समासमुत्तमे पदे।
मूलम्
समासमुत्तमे पदे।
टीका
पङ्क्त्याः पच्छःशंसने क्रियमाणे ये उत्तमे पदे अतिरिच्येते तयोः समासं कृत्वाशंसेत्। उत्तमे पदे समस्य शंसेदिति वा योजना।
विश्वास-प्रस्तुतिः
पच्छोऽन्पत्।
मूलम्
पच्छोऽन्पत्।
टीका
उक्तादन्यत्पच्छः शंसेत्। यदिदमर्धर्चशंसनविधानं सामिधेन्यतिदेशप्राप्तमप्युद्दिश्यतेतत्पच्छःशस्यविषयनियमार्थं203 न स्वरूपविधानपरम्।
विश्वास-प्रस्तुतिः
पादैरवसायार्थर्चान्तैः संतानः।
मूलम्
पादैरवसायार्थर्चान्तैः संतानः।
टीका
इदं पच्छःशस्यप्रकारप्रदर्शनार्थम्। ‘अर्धर्वान्तैः संतानः’ इत्यर्धर्चान्ते प्रणवं कृत्वातैः संतानः कर्तव्यः।
विश्वास-प्रस्तुतिः
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः।
मूलम्
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः।
टीका
धाय्या इति नाम।
विश्वास-प्रस्तुतिः
प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः।
मूलम्
प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः।
टीका
इदमपि नाम।
विश्वास-प्रस्तुतिः
जनिष्ठा उग्र इति।
मूलम्
जनिष्ठा उग्र इति।
टीका
इदं सूक्तम्।
विश्वास-प्रस्तुतिः
एकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात्सर्वत्र।
मूलम्
एकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात्सर्वत्र।
टीका
एतस्य204 सूक्तस्यार्धा एकाधिकाः शस्त्वा तदन्तराले ‘इन्द्रो मरुत्वान्’ इत्येतां निविदंदध्यात्। अर्धा इति ब्राह्मणाल्लभ्यते ‘तस्यार्धाःशस्त्वाऽर्धाः परिशिष्व मध्ये निविदंदधाति’ इति। सर्वत्रग्रहणं सूक्तमुखीयायां सत्यामपि205 तां मुक्त्वा सूक्तस्यैवैकभूयसीर्ऋचःशस्त्वा निविद्धेयेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
एवमयुजासु माध्यंदिने।
मूलम्
एवमयुजासु माध्यंदिने।
टीका
सवनवचनं विस्पष्टार्थम्।
विश्वास-प्रस्तुतिः
एकां तृचे। अर्धा युग्मासु।
मूलम्
एकां तृचे। अर्धा युग्मासु।
टीका
शस्त्वेत्यनुवर्तते।
विश्वास-प्रस्तुतिः
एकां शिष्ट्वा तृतीयसवने।
मूलम्
एकां शिष्ट्वा तृतीयसवने।
टीका
निविदं दध्यादित्यनुवर्तते।
विश्वास-प्रस्तुतिः
अक्षिणी मृजानः परिदध्याध्द्यायन्नेन आत्मनः।
मूलम्
अक्षिणी मृजानः परिदध्याध्द्यायन्नेन आत्मनः।
टीका
उभयं कुर्वन्परिदध्यात्206। एतत्त्रिष्वपि वचनेषु कर्तव्यम्। एनः पापम्, आत्मन इतिवचनान्न यजमानस्येति गम्यते।
विश्वास-प्रस्तुतिः
अन्यत्राप्येतया परिदधदेवम्।
मूलम्
अन्यत्राप्येतया परिदधदेवम्।
टीका
अतिदेशप्राप्तायां वचनादृतेऽपि भवति। इदं तु वचनं ‘जनिष्ठा उग्र उग्रोजज्ञ इतिमाध्यंदिने’ इत्युपदेशप्राप्तायां प्रापणार्थम्।
विश्वास-प्रस्तुतिः
उक्थं वाचीन्द्राय शृण्वते त्वेति शस्त्वा जपेद्ये त्वा हि हत्ये मघवन्नवर्धन्निति याज्या॥ १४॥
मूलम्
उक्थं वाचीन्द्राय शृण्वते त्वेति शस्त्वा जपेद्ये त्वा हि हत्ये मघवन्नवर्धन्निति याज्या॥ १४॥
टीका
॥ १४॥
विश्वास-प्रस्तुतिः
निष्केवल्यस्य।
मूलम्
निष्केवल्यस्य।
टीका
अधिकारोऽयम्। निष्केवल्यमिति शस्त्रनाम।
विश्वास-प्रस्तुतिः
अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ यदि रथंतरं पृष्ठम्।
मूलम्
अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ यदि रथंतरं पृष्ठम्।
टीका
रथंतरमिति सामविशेषः। पृष्ठमित्यस्मिन्स्थाने ज्योतिष्टोमाङ्गभूतं *सामाभिव्यक्त ऋगक्षरसंपाद्यस्तुतिजन्यं शास्त्रैकसमधिगम्यं कार्यमुच्यते207। तत्र यदि रथंतरं पृष्ठं208 पृष्ठमित्ययमर्थः—यदि पृष्ठकार्ये रथंतरं साम कुर्युश्छन्दोगा इति। एवं बृहत्पृष्ठं वैरूपं पृष्ठमित्येवमादिषु वेदितव्यम्। सामानाधिकरण्यं त्वौपचारिकमिति मन्तव्यम्। प्रगाथवचनंद्वृचग्रहणार्थम्। स्तोत्रियानुरूपवचनं तृचत्वादिसिद्धयर्थम्।
विश्वास-प्रस्तुतिः
यद्यु वै बृहत्त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति।
मूलम्
यद्यु वै बृहत्त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति।
टीका
प्रगाथौ स्तोत्रियानुरूपावित्यनुवर्तते।
विश्वास-प्रस्तुतिः
प्रगाथा एते भवन्ति।
मूलम्
प्रगाथा एते भवन्ति।
टीका
सिद्धे सत्यारम्भो नियमार्थः। यद्येतेषु द्वृचेषु च्छन्दोगा द्विपदोत्तराकारं तृचं कृत्वास्तुवन्ति तथाऽप्यस्माभिद् र्वृचा एव कृत्वा शंस्तव्याः, न यथास्तुतं तृषाकारं शंस्तव्याइत्यर्थः।
विश्वास-प्रस्तुतिः
तां द्वे तिस्रस्कारं शंसेत्।
मूलम्
तां द्वे तिस्रस्कारं शंसेत्।
टीका
अनभ्यासेन तृचाकारस्तवने द्वृचा एव न तृचाः कर्तव्या इत्युक्तम्। इदानीमभ्यासेनतृचाकारस्तवने तान्प्रगाथान्द्वे ऋचौ सत्यावभ्यासेन तिस्र ऋचः कृत्वा शंसेदिति सूत्रार्थः।
तदेवंप्रकारमित्याह—
विश्वास-प्रस्तुतिः
चतुर्थषष्ठौ पादौ बार्हते प्रगाथे पुनरभ्यसित्वोत्तरयोरवस्येत्।
मूलम्
चतुर्थषष्ठौ पादौ बार्हते प्रगाथे पुनरभ्यसित्वोत्तरयोरवस्येत्।
टीका
बृहतीसतो+बृहत्योर्यो द्वृचः स बार्हतः प्रगाथ इत्युच्यते। ककुप्सतोबृहत्योः काकुमइति बार्हताधिकारे पुनवर्हतवचनमधिकृतानामप्यस्य विधेः प्रापणार्थम्। तस्मिंश्चतुर्थषष्ठौपादौ पुनरभ्यस्य209 सप्तमपञ्चमयोः पादयोरवस्येत्। अत्रावसानाभ्यासौ210 विधीयते211। एवंकृतेपूर्वी बृहत्युत्तरे ककुभौ भवतः।
—————————————————————————————————————————————
* क.—स्पष्टीभूतानि। + ङ. – अयुजौ जागतौ सतो बृहती।
————————————————————————————————————
विश्वास-प्रस्तुतिः
बृहतीकारं चेत्तावेव द्विः।
मूलम्
बृहतीकारं चेत्तावेव द्विः।
टीका
बृहतीं कृत्वा शंसनं बृहतीकारमित्यर्थः। यदि तिस्रो बृहत्य एवं चिकीर्ष्यन्ते तदातावेव पादौ पुनर्द्विरभ्यस्य तत्रैवावस्येत्। तत्रैवावसानलाभार्थं प्रगाथस्यार्ध212र्चशंसनविधानमित्युक्तम्।
विश्वास-प्रस्तुतिः
तृतीयपञ्चमौ तु काकुभेषु।
मूलम्
तृतीयपञ्चमौ तु काकुभेषु।
टीका
एतेष्वेतावभ्यस्योत्तरयोरवस्येत्। उत्तरयोरवस्येदित्यत्रानुवर्तते। तदनुवर्तनमपि प्रगाथरयार्धर्चशंसनविधिबलात्पूर्वत्र निष्प्रयोजनमेवावतिष्ठते। अत्र तु प्रयोजनमस्तीत्युक्तम्।
विश्वास-प्रस्तुतिः
प्रत्यादानाद्युत्तरा।
मूलम्
प्रत्यादानाद्युत्तरा।
टीका
ऋग्भवतीति शेषः।
विश्वास-प्रस्तुतिः
एवमेतत्पृष्ठेष्वहःस्विन्द्रनिहवब्राह्मणस्पत्यान्।
मूलम्
एवमेतत्पृष्ठेष्वहःस्विन्द्रनिहवब्राह्मणस्पत्यान्।
टीका
*एतत्पृष्ठेष्विति समासानेर्देशादेतदेवेत्यवधार्यते। एतच्छब्देनप्रकृतत्वाबृहद्रथंतरेउच्येते। एतदुक्तं भवति – येष्वहःसु बृहद्रथंतरं वा तयोः संहतिर्वा पृष्ठकार्ये भवति तत्रयथा बृहद्रथंतरस्तोत्रियानुरूपयोः शंसनं भवति तद्वदिन्द्रनिहवब्राह्मणस्पत्याञ्शंसेत्।तयोस्तु शंसनं यथास्तुतमिति वक्ष्यति।
विश्वास-प्रस्तुतिः
बृहतीकारमितरेषु पृष्ठेषु।
मूलम्
बृहतीकारमितरेषु पृष्ठेषु।
टीका
बृहद्रथंतराभ्यामितरेषु पृष्ठेषु तान्बृहतीकारं शंसेत्। इतरेष्वित्यसमासनिर्देशादितरसत्तामात्रेऽपि बृहतीकारमेव भवति। तेन ‘अप्तोर्यामेरथंतरेणाग्रे213 ततो वैराजेन’ इत्यत्रयद्यपि बृहद्रयंतरे पृष्ठेतथाऽपि वैराजसंबन्धाद्बृहतीकारमेव भवतीति।
विश्वास-प्रस्तुतिः
बृहद्रथंतरयोश्च वृचस्थयोः।
मूलम्
बृहद्रथंतरयोश्च वृचस्थयोः।
टीका
यदा बृहद्रथंतरे गायत्रीषु वाऽन्यासु वाऽनभ्यस्तासु तिसृण्वृक्षु स्तुवते स्वयोनिषुवा द्विपदोत्तराकारं तदाऽपीन्द्रनिहवब्राह्मणस्पत्यान्बृहतीकारं शंसेत्।
विश्वास-प्रस्तुतिः
होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः।
मूलम्
होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः।
टीका
येषां होत्रकाणां प्रगाथाः स्तोत्रियानुरूपा भवन्ति तेऽपीन्द्रनिहवब्राह्मणस्पत्यवत्ताञ्शंसेयुः।
विश्वास-प्रस्तुतिः
सर्वमन्यद्यथास्तुतम्।
मूलम्
सर्वमन्यद्यथास्तुतम्।
टीका
उक्तादन्यत्सर्वं यथास्तुतं शंसेत्। सर्वग्रहणं बृहद्रथंतरयोः स्तोत्रियानुरूपसंग्रहार्थम्।
———————————————————————————————————
* क. – एते पृष्टे येष्वहःसु।
————————————————————————————————————
विश्वास-प्रस्तुतिः
परिभितशस्य एकाहः।
मूलम्
परिभितशस्य एकाहः।
टीका
परितः214 सर्वतो मितं शस्यं यस्याह्नःस परिमितशस्यः। एतदुक्तं भवति – यः स्वकीयैर्धर्मजातैरुपदेशत एव परिपूर्ण इति। स चैकेनाह्नासमाप्यत इत्येकाहः। अनेन प्रकारेणपरिभितशस्यशब्देन प्रकृतिभूतोऽग्निष्टोम उच्यते। योऽयमधिकृत एकाहः स सर्वतऔपदेशिकशस्य इत्यर्थः। एवं चेच्छस्य215विशेषणं किमर्थम्, अन्यदपि धर्मजातं तस्योपदेशादवगतमेव। अत्रोच्यते। सत्यमेवं, किंत्वत्र विशेषोऽस्ति। सोमद्रव्यसंवन्धिनो येधर्मा उत्पत्तिविध्यनुप्रवेशिनस्ते चतुःसंस्थस्य ज्योतिष्टोमस्य साधारणाः। ये पुनरधिकारविध्यनुप्रवेशिनो दीक्षणीयादयः स्तुतशस्त्रादयश्च त उपदेशतोऽग्निष्टोमस्यैवातिदेशत एवोक्थ्यादीनामपि संस्थानामित्यनेन विशेषेण शस्यविशेषणं कृतवानाचार्यः। तस्य चैकाहत्वंप्रसिद्धमेवोच्यते तेन शब्देनास्य संव्यवहारार्थम्।
विश्वास-प्रस्तुतिः
स यद्युभयसामा यत्पवमाने तस्य योनिरनुरूपः।
मूलम्
स यद्युभयसामा यत्पवमाने तस्य योनिरनुरूपः।
टीका
स प्रकृत एकाहो यद्युभयसामा स्यात्। बृहद्रथंतरसामा स्यादित्यर्थः। उभयसामत्वंनामैवं भवति — बृहद्रथंतरं वा पृष्ठस्थाने भवतीतरत्पवमान इति। तत्र यत्पवमाने216 भवतितस्य योनिं निष्केवल्यस्यानुरूपं कुर्यात्। क्षत्रियस्यायमर्थः प्रत्यक्षाम्नात एव, इदं तुसूत्रवचनं सर्वार्थत्वायोच्यते।
विश्वास-प्रस्तुतिः
योनिस्थान एवैनामन्यत्र शंसेत्।
मूलम्
योनिस्थान एवैनामन्यत्र शंसेत्।
टीका
अन्यत्रेत्युक्थ्यादीन्यपि गृह्यन्ते। अग्निष्टोमादन्यो यः कश्चिदुभयसामैकाहः संस्थावा बृहद्रथंतरसामा217 स्यादित्यर्थः। तत्र यत्पवमाने कृतं तस्य योनिं योनिस्थान एवशंसेत्।
योनिस्थानमाह –
विश्वास-प्रस्तुतिः
ऊर्ध्वं धाय्याया योनिस्थानम्।
मूलम्
ऊर्ध्वं धाय्याया योनिस्थानम्।
टीका
निष्केवल्ये धाय्याया ऊर्ध्वं यत्स्थानं तद्योनीनां स्थानं शंसनस्थानमित्यर्थः।
विश्वास-प्रस्तुतिः
अनेकानन्तर्ये सकृत्पृथग्वाऽऽह्वानम्।
मूलम्
अनेकानन्तर्ये सकृत्पृथग्वाऽऽह्वानम्।
टीका
अनेकासां सामयोनीनां सहशंसने प्राप्त आदावेव सर्वासामाहावः सकृत्कर्तव्यः, प्रतियोनि वेति218 विकल्पः। ‘तेभ्यश्चान्यदनन्तरम्’ इत्यनेनाऽऽदौ सकृदाहावः प्राप्त एवोत्तरत्र219 विकल्पेन विधीयते।
विश्वास-प्रस्तुतिः
एवमूर्ध्वमिन्द्रनिहवात्प्रगाथानाम्।
मूलम्
एवमूर्ध्वमिन्द्रनिहवात्प्रगाथानाम्।
टीका
ब्राह्मणस्पत्यमरुत्वतीयसामप्रगाथा यदाऽनेके सह संगच्छेयुस्तदा तेष्वपि सकृत्पृथग्वाऽऽहावः कर्तव्यः। अत्र सर्वत्राऽऽहावे प्राप्तेऽनेना220ऽऽद्येषु विकल्पो विधीयते।
यद्वा वानेति धाय्या पिबा सुतस्य रसिन इति सामप्र*गाथः।
संज्ञाशब्दावेतौ।
विश्वास-प्रस्तुतिः
इन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं दध्यात्।
मूलम्
इन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं दध्यात्।
टीका
इन्द्रो देवता यस्याः सैन्द्री निवित्।
विश्वास-प्रस्तुतिः
अनुब्राह्मणं वा स्वर उक्थं वाचीन्द्रायोपशृण्वते त्वेति शस्त्वा जपेत्पिबा सोममिन्द्र मन्दतु त्वेति याज्या॥ १५॥
मूलम्
अनुब्राह्मणं वा स्वर उक्थं वाचीन्द्रायोपशृण्वते त्वेति शस्त्वा जपेत्पिबा सोममिन्द्र मन्दतु त्वेति याज्या॥ १५॥
टीका
होत्रकाणां माध्यंदिनेऽपि शस्त्राणि भवन्तीत्युक्तम्। तान्येतानीत्याह—
** होत्रकाणां कया नश्चित्र आ भुवत्कया त्वं न ऊत्या कस्तमिन्द्र त्वावसुं सद्यो ह जात एवा त्वामिन्द्रो शं नु षु णः सुमना उ पाक इतियाज्या तं वो दस्ममृतीषहं तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपा उदुत्ये मधुमत्तमा इन्द्रः पूर्भिदुदु ब्रह्माण्यृजीषी वज्री वृषमस्तुराषालिति याज्या। तरोभिर्वो विदद्वसुं तरणिरित्सिषासतीतिप्रगाथौ स्तोत्रियानुरूपा उदिन्वस्य रिच्यते भूय इदिमामूष्वित्युषोत्तमामुद्धरेत्सर्वत्र पिचा वर्धस्व तव वा सुतास इति याज्या॥ १६॥**
अत्रोपोत्तमामुद्धरेत्सर्वत्रेत्युक्तम्। तस्य सर्वत्रग्रहणस्य प्रयोजनमन्यत्राप्येति221 येत्यनेनान्यत्रग्रहणेन तुल्यम्222। अस्मिन्नवसरे सवनसंस्थानिमित्तं कर्म कर्तव्यम्॥ १६॥
विश्वास-प्रस्तुतिः
अथ तृतीयसवनमुत्तमस्वरेण।
मूलम्
अथ तृतीयसवनमुत्तमस्वरेण।
टीका
स्वरग्रहणं पूर्ववद्बाधकबाधनार्थम्। तेन पाशुके हविःसंप्रचारेऽत्युत्तमः स्वरः सिद्धोभवति।
विश्वास-प्रस्तुतिः
आदित्यग्रहेण चरन्ति।
मूलम्
आदित्यग्रहेण चरन्ति।
टीका
आदित्यो देवता यस्य ग्रहस्य स आदित्यग्रहस्तेन चरन्ति।
———————————————————————————————————
* घ. अयं सामप्रगाथो रथंतरे पृष्ठ एव। बृहती तूभयं शृणवच्च न इति सामप्रगाथ इति -सप्तमे तृतीयखण्डान्ते वक्ष्यते। वैरूपादिष्वपि सामप्रगाथविशेषास्तत्रैव द्रष्टव्याः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
आदित्यानामवसा नूतनेन होता यक्षदादित्यान्प्रियान्प्रियधाम्न आदित्यासो अदितिर्मादयन्तामिति नैतं ग्रहमीक्षेत हूयमानम्।
मूलम्
आदित्यानामवसा नूतनेन होता यक्षदादित्यान्प्रियान्प्रियधाम्न आदित्यासो अदितिर्मादयन्तामिति नैतं ग्रहमीक्षेत हूयमानम्।
टीका
अत्र प्रतिषेधान्नियमेन नेक्षेत। तेनान्यत्रानियमः।
विश्वास-प्रस्तुतिः
स्तुत आर्भवे पवमाने विहृत्याङ्गारान्मनोतादि पश्चिलान्तं पशुकर्म कृत्वा पुरोलाशाद्युक्तमा नाराशंससादनात्।
मूलम्
स्तुत आर्भवे पवमाने विहृत्याङ्गारान्मनोतादि पश्चिलान्तं पशुकर्म कृत्वा पुरोलाशाद्युक्तमा नाराशंससादनात्।
टीका
कर्तव्यमिति शेषः। विहरणोपदेशस्तत्कालपरिज्ञानात्तद्व्यवायपरिहारार्थः। अत्रापिद्विदेवत्या न सन्ति। पश्चिलान्तं कर्मेत्येतावतैव सिद्धे पशुग्रहणं ब्रह्मणः पशुवदासनप्राप्त्यर्थम्। तेनैतस्मिन्नवसर आहवनीयस्य दक्षिणत आसनं भवति।
विश्वास-प्रस्तुतिः
सन्नेषु म्रदिष्ठात्पुरोलाशस्य तिस्रस्तिस्रः पिण्ड्यो दक्षिणतः प्रतिस्वं चमसेभ्यः स्वेभ्यः पितृभ्य उपास्येयुरत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति।
मूलम्
सन्नेषु म्रदिष्ठात्पुरोलाशस्य तिस्रस्तिस्रः पिण्ड्यो दक्षिणतः प्रतिस्वं चमसेभ्यः स्वेभ्यः पितृभ्य उपास्येयुरत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति।
टीका
नाराशंसेषु सादितेषु पुरोलाशस्य मृदुतमात्प्रदेशाद्गृहीत्वा सर्वे चमसिनः पुरोलाशंतिस्रस्तिस्रः पिण्डीः कृत्वा स्वात्स्वाच्चमसाद्दक्षिणतः स्वान्स्वान्पितृृनुद्दिश्य चमससमीपआस्येयुः। ताः पिण्डीः प्रतिस्वमिति चमसेभ्य इत्यस्य विशेषणम्। पितृशब्दस्य संबन्धिशब्दतथैव स्वत्वे सिद्धे यत्स्वशब्दग्रहणं करोति तज्ज्ञापयति संबन्धिपदार्था अपियत्नादृते यजमानस्यैवेति। तेन ’ यस्यां द्वेश्यो न ताम्’ इत्यत्र यजमानद्वेष्य एव परिगृह्यते।
विश्वास-प्रस्तुतिः
सव्यावृत आग्रीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्राश्य प्रतिप्रसृषप्य॥ १७॥
सावित्रेण ग्रहेण चरन्ति।
मूलम्
सव्यावृत आग्रीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्राश्य प्रतिप्रसृषप्य॥ १७॥
सावित्रेण ग्रहेण चरन्ति।
टीका
एतदुभयं गतार्थम्। सवितृदेवत्यो ग्रहः सावित्रग्रहः।
विश्वास-प्रस्तुतिः
अभूद्देवः सविता वन्द्यो नु नो होता यक्षद्देवं सवितारं दमूना देवः सविता वरेण्यो दधद्रत्नादक्ष पितृभ्य आयुनि। पिबात्सोमं ममदं नेनमिष्टयः परिज्माचिद्रमते अस्य धर्मणीति वषट्कृते होता वैश्वदेवं शस्त्रं शंसेत्।
मूलम्
अभूद्देवः सविता वन्द्यो नु नो होता यक्षद्देवं सवितारं दमूना देवः सविता वरेण्यो दधद्रत्नादक्ष पितृभ्य आयुनि। पिबात्सोमं ममदं नेनमिष्टयः परिज्माचिद्रमते अस्य धर्मणीति वषट्कृते होता वैश्वदेवं शस्त्रं शंसेत्।
टीका
वषट्कृतवचनमत्रापि शस्त्रकालज्ञानार्थम्223। होतृग्रहणमृत्विक्कर्मव्यतिरेक224विषयेऽपि होतैववैश्वदेवं शंसेदित्येवमर्थम्। वैश्वदेवमिति शस्त्रनाम।
विश्वास-प्रस्तुतिः
सर्वा दिशो ध्यायेच्छंसिष्यन्। यस्यां द्वेष्यो न ताम्।
मूलम्
सर्वा दिशो ध्यायेच्छंसिष्यन्। यस्यां द्वेष्यो न ताम्।
टीका
** **यस्यां द्वेष्यो न तां दिशं ध्यायेदितिवचनान्मुख्यं ध्यानमत्र न संभवतीति प्राच्यादिशब्दैरेव ध्यानं कर्तव्यम्।
विश्वास-प्रस्तुतिः
अध्वर्यो शो शोंसावोमिति तृतीयसवने शस्त्रादिष्वाहावः।
मूलम्
अध्वर्यो शो शोंसावोमिति तृतीयसवने शस्त्रादिष्वाहावः।
टीका
उक्तार्थमेतन्माध्यंदिने।
विश्वास-प्रस्तुतिः
तत्सवितुर्वृणीमहेऽद्यानो देव सवितरिति वैश्वदेवस्यप्रतिपदनुचरावभूद्देव एकया च दशभिश्चस्वभूतेद्वाभ्यामिष्टये विंशत्या चतिसृभिश्च वहसेत्रिंशता चनियुद्भिर्वायविहता विमुञ्च प्रद्यावेति दैर्घतमसंसुरूपकृत्नुमूर्तये तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भायेभ्यो माता मधुमत्पिन्वते पय एवा पित्रे विश्वदेवाय वृष्ण आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम्।
मूलम्
तत्सवितुर्वृणीमहेऽद्यानो देव सवितरिति वैश्वदेवस्यप्रतिपदनुचरावभूद्देव एकया च दशभिश्चस्वभूतेद्वाभ्यामिष्टये विंशत्या चतिसृभिश्च वहसेत्रिंशता चनियुद्भिर्वायविहता विमुञ्च प्रद्यावेति दैर्घतमसंसुरूपकृत्नुमूर्तये तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भायेभ्यो माता मधुमत्पिन्वते पय एवा पित्रे विश्वदेवाय वृष्ण आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम्।
टीका
पुनर्वैश्वदेवग्रहणं शस्त्रादिष्विति व्यवायादेकया चेति कल्प225जाद्दै226र्घतमसमिति227 वासिष्ठनिवृत्त्यर्थम्। नवग्रहणमस्य सूक्तस्योत्तमावर्जस्यैव वैश्वदेवसूक्तत्वसिद्ध्यर्थम्। एतत्सार्वत्रिकमुत्तमायाः परिधानीयात्वेन सर्वत्र विनिवेशात्।
विश्वास-प्रस्तुतिः
वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदो दध्यात्।
मूलम्
वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदो दध्यात्।
टीका
सप्त सूक्तानि सप्तैव च निविदो228ऽवशिष्यन्ते, उत्तमायाः पोलशिनि229 विनियोगात्।अतो यथासंख्येन विनिवेशः सिद्धो भवति।
तदेव स्पष्टयति —
विश्वास-प्रस्तुतिः
चतस्रो वैश्वदेवे।
मूलम्
चतस्रो वैश्वदेवे।
टीका
शस्त्र इत्यर्थः।
विश्वास-प्रस्तुतिः
उत्तरास्तिस्र उत्तरे।
मूलम्
उत्तरास्तिस्र उत्तरे।
टीका
आग्निमारुत इत्यर्थः।
विश्वास-प्रस्तुतिः
सूक्तानां तद्धि दैवतम्।
मूलम्
सूक्तानां तद्धि दैवतम्।
टीका
सूक्तानां यद्दैवतं भवति तदेव निविदो दैवतमित्यर्थः। हिशब्दो हेत्वर्थसूचकः प्रसिद्ध230द्वारेण। तेनायमर्थः—यस्मादनयोरेकदैवतत्वं प्रसिद्धं तस्मादग्निष्टुदादौ सूक्तानां देवताभेदे सति निविद ऊहेन तद्देवत्याः कर्तव्याः। तासु देवतापदानामूहः कर्तव्य इत्यर्थः।
विश्वास-प्रस्तुतिः
दैवतेन सूक्तान्तः।
मूलम्
दैवतेन सूक्तान्तः।
टीका
यदैतयोः शस्त्रयोः सप्तैव सूक्तानि तदा निविद्भिर्यथासंख्यमुपपद्यते। यदा पुनर्विकृतिषु सप्तभ्योऽधिकानि सूक्तानि तदा कथं यथासंख्यमिति तदुपपादनार्थमिदं सूत्रम्—‘दैवतेन सूक्तान्तः’ इति। दैवतेनैव सूक्तानां नानात्वमवगन्तव्यं न समाम्नायप्रसिद्ध्या।एतदुक्तं भवति – एतयोः शस्त्रयोः सप्तैव कार्याणि प्रकृतौ परिच्छिन्नानि तत्रैकं कार्यमेकं वा सूक्तं कुर्यात्, द्वे बहूनिवा। सर्वथा तावदेकसूक्तकार्यानुप्रविष्टमेकमेवेति कृत्वायावतां सूक्तानामेकं दैवतं तावदेकमेवेति मन्यमानः ‘दैवतेन सूक्तान्तः’ इत्युक्तवानाचार्यः।
विश्वास-प्रस्तुतिः
धाय्याश्चात्रैकपातिनीः।
मूलम्
धाय्याश्चात्रैकपातिनीः।
टीका
विद्यादिति शेषः। अत्रेति। वैश्वदेवाग्निमारुतयोरित्यर्थः। अस्य विधेरुभयार्थत्वायोत्तरसूत्रे वैश्वदेवशब्दं प्रयुक्तवानाचार्यः।
विश्वास-प्रस्तुतिः
अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे द्विः पच्छोऽर्धर्चशः सकृद्भूमिमुपस्पृशन्।
मूलम्
अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे द्विः पच्छोऽर्धर्चशः सकृद्भूमिमुपस्पृशन्।
टीका
सर्वत्र प्रकृतौ विकृतौ च वैश्वदेवशस्त्रेऽनयैव परिदध्यात्। इत्थं च परिध्यादिदंचकुर्वन्परिदध्यादित्यर्थः।
** उक्थं वाचीन्द्राय देवेभ्य आ श्रुत्यै त्वेति शस्त्वा जपेद्विश्वे देवाः शृणुतेमं हवं म इति याज्या॥ १८॥**
॥ १८॥
विश्वास-प्रस्तुतिः
त्वं सोम पितृभिः संविदान इति सौम्यस्य याज्या।
मूलम्
त्वं सोम पितृभिः संविदान इति सौम्यस्य याज्या।
टीका
सौम्यो नाम कर्मविशेषश्च231रुहविष्कः सोमदेवत्यः।
विश्वास-प्रस्तुतिः
तं घृतयाज्याभ्यामुपांशूभयतः परियजन्ति।
मूलम्
तं घृतयाज्याभ्यामुपांशूभयतः परियजन्ति।
टीका
तं सौम्यमभितो घृतयाज्याभ्यामुपांशु परियजन्ति।
तत्रैव विशेषमाह —
विश्वास-प्रस्तुतिः
घृताहवनो घृतपृष्ठो अग्निर्घृते श्रितो घृतम्बस्य धाम। घृतप्रुषस्त्वा हरितो वहन्तु घृतं पिबन्यजसि देव देवानिति पुरस्तात्। उरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिरेत्युपरिष्टात्। अन्यतरत232श्चेदग्नाविष्णूमहि धाम प्रियं वामित्युपांश्वेव।
मूलम्
घृताहवनो घृतपृष्ठो अग्निर्घृते श्रितो घृतम्बस्य धाम। घृतप्रुषस्त्वा हरितो वहन्तु घृतं पिबन्यजसि देव देवानिति पुरस्तात्। उरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिरेत्युपरिष्टात्। अन्यतरत232श्चेदग्नाविष्णूमहि धाम प्रियं वामित्युपांश्वेव।
टीका
यद्यन्यतरतो[^1002] यजन्ति तदाऽनया यजेत्तदाऽप्युपांश्वेव। एवकारः पौनर्वचनिकः[^1003]।
विश्वास-प्रस्तुतिः
आहृतं सौम्यं पूर्वमुद्गातृभ्यो गृहीत्वाऽवेक्षेत यत्ते चक्षुर्दिवि यत्सुपर्णे येनैकराज्यमजयो हि ना। दीर्घं यच्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद्दधात्विति।
मूलम्
आहृतं सौम्यं पूर्वमुद्गातृभ्यो गृहीत्वाऽवेक्षेत यत्ते चक्षुर्दिवि यत्सुपर्णे येनैकराज्यमजयो हि ना। दीर्घं यच्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद्दधात्विति।
टीका
अध्वर्युणाऽऽहृतमुद्गातृभ्यः पूर्वं गृहीत्वा सौम्यमवेक्षेत मन्त्रेण।
विश्वास-प्रस्तुतिः
अपश्यन्हृदिस्पृक्क्रतुस्पृग्वर्चोधावर्चोअस्मासु धेहि। यन्मे मनो यमं गतं यद्वा मे अपरागतम्।राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च।
मूलम्
अपश्यन्हृदिस्पृक्क्रतुस्पृग्वर्चोधावर्चोअस्मासु धेहि। यन्मे मनो यमं गतं यद्वा मे अपरागतम्।राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च।
टीका
तस्मिंश्चरौ घृतप्लुत ईक्षमाणः स्वच्छायां यदि न पश्येत्तस्यापश्यतो नैमित्तिकमिदं‘हृदिस्पृक्’ इत्यादियजुश्च ‘भद्रं कर्णेभिः’ इत्यूचं ब्रूयात्।
विश्वास-प्रस्तुतिः
अङ्गुष्ठोपकनिष्ठिकाभ्यामाज्येनाक्षिणी अज्य च्छन्दोगेभ्यः प्रयच्छेत्।
मूलम्
अङ्गुष्ठोपकनिष्ठिकाभ्यामाज्येनाक्षिणी अज्य च्छन्दोगेभ्यः प्रयच्छेत्।
टीका
अङ्गुष्ठोपकनिष्ठिकाभ्यां चरुस्थेनाऽऽज्येनाक्षिणी अङ्क्त्वा छन्दोगेभ्यः प्रदानार्थमध्वर्यवेप्रयच्छेदित्यर्थः। अञ्जनादि नित्यमेव।
विश्वास-प्रस्तुतिः
विहृतेषु शालाकेष्वाग्नीध्रःपात्नीवतस्य यजत्येभिरग्ने सरथं याह्यर्वाङित्युपांश्वेव।
मूलम्
विहृतेषु शालाकेष्वाग्नीध्रःपात्नीवतस्य यजत्येभिरग्ने सरथं याह्यर्वाङित्युपांश्वेव।
टीका
शलाका दर्भेषीकास्तेषु भवा अग्नयः शालाकास्तेषु। विहृतेष्वितिविहरणकालोपदेशस्तस्य व्यवायपरिहारार्थः। शालाका धैष्ण्या अग्नयः। उपांश्वेवेत्यवधारणं तेषामुच्चैःसंप्रैषेऽप्युपांश्वेव यष्टव्यमित्येवमर्थम्।
विश्वास-प्रस्तुतिः
नेष्टारं विसंस्थितसंचरेणानुप्रपद्य तस्योपस्थ उपविश्य भक्षयेत्।
मूलम्
नेष्टारं विसंस्थितसंचरेणानुप्रपद्य तस्योपस्थ उपविश्य भक्षयेत्।
टीका
नेष्टुर्विसंस्थितसंचरेण नेष्टारमनुप्रपद्य तस्योपस्थ उपविश्य भक्षयेत्पात्नवितम्। नेष्टर्यधिकृतउपस्थइतिवचनात्तस्यैवेत्यवगतौ सत्यां तस्येतिवचनं शास्त्रान्तरे ‘नोपस्थ आसीत’ इतिप्रतिषेधे सत्यप्युपस्थ एवोपविशेदित्येवमर्थम्। अस्य सूत्रकारस्यान्या श्रुतिमूलमस्तीत्यनु233मिमीमहे॥ १९॥
विश्वास-प्रस्तुतिः
अथ यथतम्।
मूलम्
अथ यथतम्।
टीका
अथानन्तरमेव यथेतं निष्क्रामेत्, सदस आग्नीध्रंप्रति गच्छेत्। तास्मन्नान्नीध्रीये यथेतं निष्क्रान्त एवाऽऽग्निमारुतमारभेतेति वचनप्रयोजनम्। यथेतमिति। येनैव मार्गेणाऽऽगतस्तेनैवेति।
विश्वास-प्रस्तुतिः
स्वभ्यग्रमाग्निमारुतम्।
मूलम्
स्वभ्यग्रमाग्निमारुतम्।
टीका
स्वभ्यमं द्रुतवृत्त्येत्यर्थः। वाचस्तिस्त्रो वृत्तयो विलम्बिता मध्यमा द्रुता चेति। तत्रंविलम्बितायां य एकमात्रः स मध्यमायां द्विमात्रः, एवं द्रुतायांत्रिमात्र इत्यासु विशेषः।एवं श्रूयते – ‘तेनासंत्वरमाणाश्चरेयुः’ इत्यारभ्य‘त्रिषु सवनेष्वसंत्वरमाणाधरेयुः’ इतिस्थितेऽसंत्वरमाणा इति संत्वराप्रतिषेधात्तदनन्तरा मध्यमा वृत्तिर्विहिता भवति। तत्राऽऽग्निमारुते मध्यमामपोद्य द्रुता विधीयते। उच्चनीचभावेनैवं234 शंस्तव्यम्। त्रिषुसवनेषु मन्द्रादयो यमा आरोहक्रमेणैव प्रयोक्तव्याः। आग्निमारुतमिति शस्त्रनाम।
विश्वास-प्रस्तुतिः
तस्याऽऽद्यां पच्छ ऋगावानं पच्छः शस्या चेत्।
मूलम्
तस्याऽऽद्यां पच्छ ऋगावानं पच्छः शस्या चेत्।
टीका
तस्याऽऽग्निमारुतस्याऽऽद्यामृच235मृगावानं शंसेत्। यदि सा पच्छः शस्या भवेत्तदा पादेपादेऽवसायानुच्छ्वसन्नेव शंसेत्।
विश्वास-प्रस्तुतिः
अर्धर्चश इतराम्।
मूलम्
अर्धर्चश इतराम्।
टीका
यदि सार्धर्चशस्या236 स्यात्तदाऽर्धेर्चेऽवसायानवानमित्यर्थः।
विश्वास-प्रस्तुतिः
संतानमुत्तमेन वचनेन।
मूलम्
संतानमुत्तमेन वचनेन।
टीका
ऋगावानवचनात्त्रिषु वचनेष्वसंताने प्राप्त उत्तमेन वचनेन द्वितीयायाः संतानं विधीयते।
विश्वास-प्रस्तुतिः
वैश्वानराय पृथुपाजसे शं नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञायज्ञा वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीं नव्यसीमापो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रतिप्रतीकमाह्वानमुत नोऽहिर्बुध्न्यःशृणोतुदेवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्याचित्रायुरिमं यम प्रस्तरमाहि सीद मातलीकव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परास आहं पितॄन्त्सुवित्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्यस्वादुष्किलायमिति चतस्रो मध्ये चाऽऽह्वानं मदामो दैव मोदामोदैवमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा। यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणापूर्वहूतौ। विष्णोर्नुकं वीर्याणि प्रवोचं तन्तुं तन्वन्रजसो भानुमन्विह्येवा न इन्द्रो मघवा विरप्शीति परिदध्यात्। भूमिमुपस्पृशन्।
मूलम्
वैश्वानराय पृथुपाजसे शं नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञायज्ञा वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीं नव्यसीमापो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रतिप्रतीकमाह्वानमुत नोऽहिर्बुध्न्यःशृणोतुदेवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्याचित्रायुरिमं यम प्रस्तरमाहि सीद मातलीकव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परास आहं पितॄन्त्सुवित्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्यस्वादुष्किलायमिति चतस्रो मध्ये चाऽऽह्वानं मदामो दैव मोदामोदैवमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा। यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणापूर्वहूतौ। विष्णोर्नुकं वीर्याणि प्रवोचं तन्तुं तन्वन्रजसो भानुमन्विह्येवा न इन्द्रो मघवा विरप्शीति परिदध्यात्। भूमिमुपस्पृशन्।
टीका
अत्र वियतमप उपस्पृशन्नित्यापोहिष्ठीय237 उक्तम्। वियतमिति। व्युपरतं स्थित्वास्थित्वा शंसेदित्यर्थः। अपश्चोपस्पृशञ्शंसेत्। अन्वारब्धेष्वपावृतशिरस्कः। उद्गात्रादिष्वात्मानमन्वारब्धेषु शिरसः प्रावरणमपोहेत्। अनेनैव ज्ञायते स्तोत्रोपाकरणकाल एव सर्वेप्रावृतशिरस्का भवेयुरिति। इदमादि प्रतिप्रतीकमा- ह्वानमित्यत्रेदमादीत्यापोहिष्ठीयादीत्यर्थः। अस्य विधेर्विषये धाय्यात्वादनन्तरत्वा238द्विशेष-वचनाच्चाकाराद्वृचवर्जमन्येषु सर्वेष्वाहावः प्राप्त एव किमर्थोऽयं महान्प्रयास इति न विद्मः। राकाद्द्वृचार्थमिति चेत्तदैवं239वक्तव्यम् — आपो देवते तृचे राकाद्गृचे चेति तत्रैव वक्तव्यम्, अत्रैव वैतयोराहावसिद्ध्यर्थम्। इदमादीत्येतन्न वक्तव्यं स्यात्। एवं लघूपायेनोभयोराहावे विधातुं शक्येऽप्यब्देवतस्य यत्पुरस्तादाहावं विदधाति तज्ज्ञापयत्याचार्योऽस्य विधेरनित्यत्वम्। तेन राकाद्वृच आहावविकल्पः सिद्धो भवति। ‘मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ’इति। अत्रेदं प्रतिगरद्वयम् – ‘ओथामो दैव’ इत्यस्य प्लुतादिरूपद्वयविशिष्टस्यापवादः। प्रणवे प्रणव आहावोत्तर इत्ययं प्रणवः प्लुतादेरपवादः, न मोदामो दैवोमित्यस्य। अतःस्वादुष्किलीयास्वाहावोत्तरेऽपि न प्रणवः प्रतिगरो भवतीति सिद्धम्। एवमादिप्रयोजनार्थंप्रसङ्गादपवादो बलीयानित्युक्तम्। भूमिमुपस्पृशन्परिदध्यात्।
विश्वास-प्रस्तुतिः
उत्तमेन वचनेन ध्रुवावनयनं काङ्क्षेत्।
मूलम्
उत्तमेन वचनेन ध्रुवावनयनं काङ्क्षेत्।
टीका
परिधानीयाया240 उत्तमेन वचनेन ध्रुवावनयनं प्रतीक्षेत। ध्रुवो नाम ग्रहस्तस्यायनयनमवसेचनम्। होतृचमसे तदस्मिन्शस्त्रेऽसमाप्त एव कर्तव्यम्। तत्पू241र्वमन242वनीतं चेत्परिधानीयाया मध्यमे वचन उत्तमं पादमवशिष्य स्थित्वा तस्मिन्नवनीते शेषं समापयेत्।
विश्वास-प्रस्तुतिः
उक्थं वाचीन्द्राय देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत्। अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरिति याज्येत्यन्तोऽग्निष्टोमोऽग्निष्टोमः॥ २०॥
मूलम्
उक्थं वाचीन्द्राय देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत्। अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरिति याज्येत्यन्तोऽग्निष्टोमोऽग्निष्टोमः॥ २०॥
विश्वास-प्रस्तुतिः
इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के पञ्चमोऽध्यायः॥ ५॥
मूलम्
इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के पञ्चमोऽध्यायः॥ ५॥
विश्वास-प्रस्तुतिः
————
मूलम्
————
टीका
इतिशब्देन प्रकृतमाग्निमारुतमुच्यते। एतदन्तः सोमयागोऽग्निष्टोमसंज्ञो भवतीत्यर्थः। यद्यन्तशब्दो नोच्येत यदिदमाग्निमारुतं तदग्नेःस्तोत्रमित्येवोक्तं स्यात्तच्च न वक्तव्यम्। स्वरूपत एव तदग्नेरन्येषां च स्तोत्रमेव। अन्यनिवृत्त्यर्थमिति चेत्तदपि243 वक्तुं न शक्यतेलिङ्गविरोधादैन्द्रीवद्वचनाभावाच्च। तेनेत्यन्त इत्युक्तमेतदन्तस्य नामधेयमेष शब्द इतिसाधयितुम्।
इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायां पञ्चमोऽध्यायः॥ ५॥
अथ षष्ठोऽध्यायः।
———
-
“ङ. झ. °तव° ।” ↩︎
-
“झ.°नानुसि° ।” ↩︎
-
" ङ. झ. °स्थापरिग्र° ।" ↩︎
-
“ख. ग. घ. ड॰ च. झ. °या अपि° ।” ↩︎
-
“ख. ग.°यामित्ये° ।” ↩︎
-
“ख. ग. °रोहितक्र° । ङ. च. रोहिक्र° ।” ↩︎
-
“च. °म्भनोक्ते° ।” ↩︎
-
“ख. ग. °न्तरा य° ।” ↩︎
-
“च, °वात्स्वरान्तरादयो ये ।” ↩︎
-
“ङ. च. झ. प्त्रीयाणां त° ।” ↩︎
-
“ख.ग. अतो ।” ↩︎
-
“ख. म. प्रत्युत्तिष्ठति।” ↩︎
-
“क.झ.नार्थः । प्र ।” ↩︎
-
“ख. ग. °चनस्थे° ।” ↩︎
-
“ख.ग. °क्षे. वाने° ।” ↩︎
-
“क. पाठःसा° ।” ↩︎
-
“ङ. झ. °सनेऽम° । " ↩︎
-
“क. ख. ग. °ख्येन बं° । " ↩︎
-
" क. हिर्वायुं ।” ↩︎
-
" क. ख. ग. °मन्त्रयेत । त° ।” ↩︎
-
“ख.ग.°पान्यादि° ।” ↩︎
-
“घ. °यतवा° ।” ↩︎
-
“क ख ग घ. °वस्थ एव स्थितः ता° । " ↩︎
-
“ख. ग. घ.°वन्ननु° ।” ↩︎
-
“ङ. च. झ. °सृज्या भ° ।” ↩︎
-
“ङ. च. °वेत्सैवात्रानाहु° ।” ↩︎
-
“झ. °त्र नाहु° ।” ↩︎
-
“ख. ग. °न्नाहूयेत° ।” ↩︎
-
“क. °नं सत्रा° ।” ↩︎
-
“क. ख. गः °वर्गयोः पु° ।” ↩︎
-
“घ. ङ.च. झ. °ध्यत इ° ।” ↩︎
-
“ङ. च. झ. °ति ना° ।” ↩︎
-
“क. °नामानौ हु° ।” ↩︎
-
“ख. ग. °नत्वात्तीर्थ ।” ↩︎
-
“झ.°नादिः स्वा° ।” ↩︎
-
“झ. °धीन ए° ।” ↩︎
-
“ख. ग. °र्पेत वा ’ इ° ।” ↩︎
-
“ख. ग. °पि ग° ।” ↩︎
-
“ङ. च. झ॰ मानसादिस्तो° ।” ↩︎
-
“घ. ङ. झ. पूर्वे त्र° ।” ↩︎
-
“घ. ङ. झ.स्यैवे भ° ।” ↩︎
-
“ख. ग. °णोऽप्यत्रा° ।” ↩︎
-
" ख. म. °ष्टः । य ए° ।” ↩︎
-
“ख. ग. °नस्य प्रसिद्धः प्रतिप्र° ।” ↩︎
-
“ङ. न्न. °स्य तस्य स° ।” ↩︎
-
“ख. ग. °वाद्वा प्र° ।” ↩︎
-
" ख. ग. घ. °मन्त्रः प्र°।" ↩︎
-
“ख. घ.°नात्र तमे° ।” ↩︎
-
“क. ङ, झ. °द्धार्योज° ।” ↩︎
-
“ख. ग. विशेषयो° ।” ↩︎
-
“ख. ग. °प्रकरणे पा° ।” ↩︎
-
“ख. ग. °नस्तस्मिन्का° ।” ↩︎
-
“ख. ग. °त्वाले मा° ।” ↩︎
-
“ख. ग. च. °स्थिताश्चै° ।” ↩︎
-
“ख. ग. °ति । दक्षिणामिति । आ° ।” ↩︎
-
“ख. ग. षोऽयमुत्त° ।” ↩︎
-
“च. एवोच्य° ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. °दुस्या हो° ।” ↩︎
-
“ख. ग. °श्यतोऽपी° ।” ↩︎
-
“घ. ङ. च. झ. देशगतत्वात्तथैव ।” ↩︎
-
“च. °राऽभिमर्शे स° । ङ. °रा निर्वेशे ।” ↩︎
-
" ङ.°सर्पेयु° ।" ↩︎
-
“ख. ग. °त्रोक्ताश्चात्रोक्त° ।” ↩︎
-
" ङ. च. °सर्पेयुः ।" ↩︎
-
“ख. ग. व. ङ. च. झ.°धीयं तु म° ।” ↩︎
-
“क. °ति यद्दक्षि° । ख. ग. °ति यो द° ।” ↩︎
-
“ख. ग. °क्षिणा तस्यो° ।” ↩︎
-
“ख.ग. ॰मित्युपदे॰” ↩︎
-
“ख.ग. नुवादते ।” ↩︎
-
“ङ. च. झ. तौ ।” ↩︎
-
“झ. °व चारु° ।” ↩︎
-
“झ. °त्वाद्वहु° ।” ↩︎
-
“झ. °न्धः । पू° ।” ↩︎
-
" ङ.च. झ. °शः । त° ।" ↩︎
-
“ख. ग. °गुरिति ।” ↩︎
-
“ख. ग. क. °नं धर्मा° ।” ↩︎
-
“ख. ग. °ज्यानुवाक्यासु ।” ↩︎
-
“ख. ग.°रेण पृथग्वष° ।” ↩︎
-
“ख. ग. °कसवनया° ।” ↩︎
-
“ख. ग. °कार्यंच सा° । च. °कार्येण सा° ।” ↩︎
-
“ख॰ ग॰ °नंकर्तव्या ।” ↩︎
-
“ख. ग. घ. च. °वतीत्य° ।” ↩︎
-
“घ. ङ. च. झ. °तदिति ।” ↩︎
-
“ख. ग. °शे छाद° ।” ↩︎
-
“क. ड. झ. °त्यवचन ए° ।” ↩︎
-
“ङ. च °ण प्रेष° ।” ↩︎
-
“ख. ग. घ. °व्यं ना° ।” ↩︎
-
“ङ. झ. चेति ।” ↩︎
-
" च. °च प्रति भ° ।" ↩︎
-
" ख. ग. °नःसंभ° ।" ↩︎
-
“ख. ग. घ. ङ. च. झ. °निर्हरणा° ।” ↩︎
-
“ख ग घ. °दुपादाना° ।” ↩︎
-
“ख. ग. °व्यः । तेन ।” ↩︎
-
“ख. ग. °पह्वयते नैवं सो° ।” ↩︎
-
“ङ. च. झ. °र्थः । क° ।” ↩︎
-
“घ. झ. संबुध्यन्ते नो° ।” ↩︎
-
“ख. ग. व. ङ. च. झ. °वमेतेन ।” ↩︎
-
“च.°तयोः स° ।” ↩︎
-
“झ. °ध्वर्योरेवो° ।” ↩︎
-
“ख ग घ ङ. °वंचोप° ।” ↩︎
-
“च. °भक्षणे स° ।” ↩︎
-
“ङ. च. झ. °र्थः । तत्रै° ।” ↩︎
-
“ङ. झ. भक्षयति ।” ↩︎
-
“ख. ग.°न्यः कश्चिद° ।” ↩︎
-
“घ. °त्याऽऽसन्मस्य स्व° ।” ↩︎
-
“घ. °स्य वा द्वि° ।” ↩︎
-
“क. ख. ग. °स्यचाऽऽ° ।” ↩︎
-
" ङ. च. झ. °नोऽन्त° । ख. ग. °नोरन्त° ।" ↩︎
-
“ङ. च. झ. °ब्दोऽत्राऽऽपेक्षिकोगू° ।” ↩︎
-
" ख. ग. °मसिनां ।" ↩︎
-
“क. घ. ङ. च. झ. °मदपि ।” ↩︎
-
“ख. ग. °नस्य शेषे च° ।” ↩︎
-
" ख. ग. घ. °तः । स त° । " ↩︎
-
" ख. ग. घ. संबन्धोऽस्ती° ।" ↩︎
-
" ख. ग. घ. °त्वेनावि° ।" ↩︎
-
“ङ. °णादधी ।” ↩︎
-
“ङ. च. °दाद्यभि° ।” ↩︎
-
" घ. °श्चमसे चम° ।" ↩︎
-
“ख. ग. ङ. च. एतमु° ।” ↩︎
-
“क. ख•ग. घ. झ. °भक्षिता । " ↩︎
-
“ङ. च. झ. °तः । वषट्कारनिमित्ते भक्षे सा° ।” ↩︎
-
" घ. ङ. च. झ.°सानां प्र° ।” ↩︎
-
“ख. ग. °देशादच्छा° ।” ↩︎
-
“ख. ग. च. °वन्तः सो° ।” ↩︎
-
“क. ख. ग. झ. तद्वृत्याऽत्र° ।” ↩︎
-
“क. ख. ग. घ. झ. °त्वमिति ।” ↩︎
-
" च णार्ष्णिके ष° ।" ↩︎
-
“घ. ङ.°देत° ।” ↩︎
-
“च. °मविशे°” ↩︎
-
“ख. ग. ङ. °राच्यावृ° । " ↩︎
-
“ख. ग. °ति शास्त्रकारोप° । " ↩︎
-
“क. °सावोमिति° ।” ↩︎
-
" ङ.च. °ते । तेन । " ↩︎
-
“ख. ग. °वस्वरस्या° ।” ↩︎
-
“ख. ग. °नाय नेति । ङ.°नार्थीये° ।” ↩︎
-
“ख. ग.संतानो व° ।” ↩︎
-
“च. °यात्वाद्विवच° ।” ↩︎
-
“ख ग घ. ङ. °ल्प्यते ते° ।” ↩︎
-
“ख. ग. ङ. समानस्व°” ↩︎
-
" घ ङ च यः पुन°” ↩︎
-
" च °न्तरो वि° ।” ↩︎
-
" ङ. च. °मध्य° " ↩︎
-
“ख. च. °स्रान्तरे श° ।” ↩︎
-
“च. झ. °ध्ये चाव° ।” ↩︎
-
“ङ. च. °म् । तत्रा° । " ↩︎
-
“ङ च झ. °त्यस्यैवा° ।” ↩︎
-
“ङ च झ. °णि त्रीणि वा° ।” ↩︎
-
“ख. ग. ङ. झ. °व पू° । " ↩︎
-
" घ. °द्ध इन्द्रत्वादी° । " ↩︎
-
“ख॰ गं. च. °दं निर्व° ।” ↩︎
-
“ख. ग. °क्ताद्यृङ्नि° । घ. °क्ताद्यनि° । " ↩︎
-
" ख. ग. °वपादे सू° ।” ↩︎
-
“ङ. विग्रह ।” ↩︎
-
“ख ग घ. °र्जमि° ।” ↩︎
-
“ङ॰ झ॰ °निमित्तसं° । ख. ग. घ. °निवृत्तप्तं° ।” ↩︎
-
“ख. ग. °वार्धर्चवच° ।” ↩︎
-
“घ.झ॰ न्वप्तौर्या° ।” ↩︎
-
“ङ. च. झ. °च अशं° ।” ↩︎
-
" च. °प्येतान्याहावस्य निमित्तानि । ते° ।” ↩︎
-
“च. °भ्योऽन्यत्तदन° । " ↩︎
-
“च. °कं विधीयते तत्राप्याहा° ।” ↩︎
-
“ख. ग. °र्थः । समर्थः । झ. °र्थः । अ° ।” ↩︎
-
“च. °वतीत्य° ।” ↩︎
-
“.ड. न्न. झ.°स्त्रेऽन° ।” ↩︎
-
“ख. ग. घ. ङ. झ.. यद्यस्मि ।” ↩︎
-
“ख. ग. °या अनि° ।” ↩︎
-
“च. °र्तुंन श° । " ↩︎
-
" ख. ग. व. ङ. च. झ. °म् । ती° ।” ↩︎
-
“च. °तेन नि° ।” ↩︎
-
“ख. ग. तेष्वेत° ।” ↩︎
-
" ख. ग. योर्यत्प्र° ।” ↩︎
-
“ख. ग. घ. °यते द° ।” ↩︎
-
" ङ. °दीनं मा° ।” ↩︎
-
“घ. ङ. °वपते° " ↩︎
-
" ख. ग. °तमम° ।” ↩︎
-
" ख. ग. °णाय स्तो° । घ. °णाग्रा° । च.°णादाग्रा° ।" ↩︎
-
“१ घ. तूचां तूचा° ।” ↩︎
-
“घ. °ज्याश्च घ° ।” ↩︎
-
“ख.ग. °ब्दोऽत्र क° ।” ↩︎
-
" ख. ग. र्थम् । आहेति वचनमस्याअनुवाक्ये प्र° ।" ↩︎
-
“घ. °वं याज° ।” ↩︎
-
" क. ख. ग. व. ङ.च. °मभि° ।" ↩︎
-
“ख. ग. घ. ङ. च. झ. °यनि° ।” ↩︎
-
“ख. ग. °क्षिणात्वं ।” ↩︎
-
" ख. ग. ङ. च. झ.°क्षिणाका° ।" ↩︎
-
“ङ. च. °ति प्र° ।” ↩︎
-
“ख. ग. तेष्वाहा° ।” ↩︎
-
“क. °द्धा अर्धर्चभा° ।” ↩︎
-
“ख. ग. °र्धर्चशोभा° । घ. °र्धर्चशाभा° ।” ↩︎
-
“घ. °ति तत्तत्रा° ।” ↩︎
-
" घ. °नम् । एवं प° । " ↩︎
-
“च. °प्येतया ।” ↩︎
-
" च. °रुत्वत्य° ।" ↩︎
-
" च. शस्यः, सूक्तं ग° ।" ↩︎
-
“घ. °तैवं त° ।” ↩︎
-
“झ शस्पः । स्वा° ।” ↩︎
-
“च °र्थ तत्स्वरू° ।” ↩︎
-
“ख. ग. एकस्य ।” ↩︎
-
" क. °पि तामु° ।" ↩︎
-
“ख. ग. °त् । पुनस्त्रिप्प° ।” ↩︎
-
" ख. ग. व. झ. °ते । य° ।" ↩︎
-
“ङ च पृष्ठ° ।” ↩︎
-
“ख ग घ.°नर्द्विर°।” ↩︎
-
“ख.ग. घ. भ्यासो वि° ।” ↩︎
-
“ख. ग. घ. °धीयते ।” ↩︎
-
" क. ख. ग. °र्धर्चे शं° ।" ↩︎
-
" ख. ग. °रे प्राप्ते त° ।" ↩︎
-
“क. ख. ग. घ. ङ. झ. °रिमितः ।” ↩︎
-
“ख. ग. चेत्तस्य वि° ।” ↩︎
-
" क. °ने कृतं त° । च.°ने कृतं तस्य योमिर्योनिस्थाने भवति । त° ।" ↩︎
-
“क. °साम स्या° । " ↩︎
-
“व. °ति क° ।” ↩︎
-
" घ. °रवि° ।” ↩︎
-
" ङ. च.झ.°नेनानाये° । " ↩︎
-
“ख. ग. घ. ङ. च. झ. °प्येतये° । " ↩︎
-
“७ ख. म. °म् ।तस्मि° ।” ↩︎
-
“ख. ग. °लत्वज्ञापना° ।” ↩︎
-
“ख. ग. घ. °तिकारवि । ङ. च. झ. °तिकरवि° ।” ↩︎
-
“झ . °ल्पजम् । दैर्घतमसग्रहणं वा° ।” ↩︎
-
“क. ख. ग. ध. ङ. °जा दैर्घ° ।” ↩︎
-
“ख. ग. घ. °मसेति ।” ↩︎
-
“ख. ग. ङ. च. °दो विशि° ।” ↩︎
-
" घ. °शिवयो° ।” ↩︎
-
“ङ. च. °स्निद्धिद्वा।” ↩︎
-
" ङ. °श्चतुर्हवि° ।" ↩︎
- ↩︎ ↩︎
-
“घ.°नुमी° ।” ↩︎
-
“क. ख. ग. °नैव शं° ।” ↩︎
-
“ख. ग. °चमनवा° ।” ↩︎
-
“च. °र्चशः श° ।” ↩︎
-
“घ. झ. °ष्ठीये तृचे । वि° । ख. ग. °ष्ठीयं सूक्त° । " ↩︎
-
“ख. ग. °न्तरेत्यादिविशे° ।” ↩︎
-
“क. °तदेवं । ख. ग. °तदेव व ° ।” ↩︎
-
" ख ग घ. °या उ° ।” ↩︎
-
“ख. ग. °त्पूर्वंन नी° ।” ↩︎
-
“घ.°मनी° । च. मघनी° ।” ↩︎
-
" ख. ग. °पि युक्तं न शस्यते ।" ↩︎