०४

विश्वास-प्रस्तुतिः

दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन।

मूलम्

दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन।

टीका

उक्ता हविर्यज्ञास्तेषु च प्रायश्चित्तमुक्तम्। इदानीं सर्वसोमानां प्रकृतिभूतं ज्योतिष्टोमं वक्तुकामस्तदधि-कारिविशेषणार्थंकेषांचित्कर्मणामनुष्ठानक्रममुक्तवानाचार्यः। इष्टिराग्रयणेष्टिःपशुर्निरूढः। आधानानन्तरं दर्शपूर्णमासयोरारम्भ उक्तः। तदारम्भोत्तरकालइष्टिपशुचातुर्मास्यैरिष्वा सोमेन यष्टव्यम्। अथशब्दः सोमेन संवध्यते। स चाधिकारार्थः।सोमगुणकं कर्म सोम इत्युच्यते। तच्च ज्योतिष्टोमाख्यम्। एतदुक्तं भवति - अग्न्याधेयानन्तरमनेन क्रमेण दर्शपूर्णमासादिभिरिष्ट्वा ज्योतिष्टोमाख्येन सोमेन यष्टव्यम्। इतउत्तरमा षष्ठाघ्यायपरिसमाप्तेस्तमेवाधिकृत्य सर्वमुच्यत इति।

विश्वास-प्रस्तुतिः

ऊर्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्येके प्रागपि सोमेनैके।

मूलम्

ऊर्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्येके प्रागपि सोमेनैके।

टीका

‘सोमेन यक्ष्यमाणः’ इत्यस्मिन्त्सूत्रे वसन्तादिकालेभ्यः कालान्तर विशिष्टाधानविघिपरे वाक्ये सोमाधानयोरानन्तर्यम-प्युक्तं भवति। अतस्तस्यार्थस्यावक्तव्यत्वादिदमन्यदानन्तर्यमित्यवगम्यते। तत्राऽऽधानं1 कृत्वाऽग्निहोत्रहोमं कुर्वतः प्रागेव दर्शपूर्णमासयोरारम्भात्सोमेन यष्टुं यद्युपपद्यते तथा2 तस्मिन्नपि काले यष्टव्यमिति सूत्रार्थः।

विश्वास-प्रस्तुतिः

तस्यर्त्विजः।

मूलम्

तस्यर्त्विजः।

टीका

वक्ष्यन्त इति शेषः। ऋत्विजः कर्तार इत्यर्थः।
त एवंरूपा इत्याह-

विश्वास-प्रस्तुतिः

चत्वारस्त्रिपुरुषाः।

मूलम्

चत्वारस्त्रिपुरुषाः।

टीका

त्रयः पुरुषा येषां ते त्रिपुरुषाः। तेष्वृत्विक्षु वक्ष्यमाणेषु चत्वारः पुरुषवन्तः। तेभ्यःश्चतुर्भ्योऽन्ये3 तेषां चतुर्णामेव पुरुषा इति वेदितव्याः। अनेन प्रकारेण चतुर्णांमुख्यत्वम्,इतरेषाममुख्यत्वमित्यवगतं भवति। एते मुख्या एतेषां पुरुषाइत्याह -

विश्वास-प्रस्तुतिः

तस्य तस्योत्तरे त्रयः।

मूलम्

तस्य तस्योत्तरे त्रयः।

टीका

अस्मिन्नृत्विजामनुक्रमणे4 यस्य यस्योत्तरे त्रयस्त्रयः संभवन्ति स मुख्यः। उत्तरे चये त्रयस्त्रयस्ते तस्य तस्य पुरुषा इति प्रतिपत्तव्याः।

विश्वास-प्रस्तुतिः

होता मैत्रावरुणोऽच्छावाको ग्रावस्तुदध्वर्युः प्रति-
प्रस्थाता नेष्टोन्नेता ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः
पोतोद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इति।

मूलम्

होता मैत्रावरुणोऽच्छावाको ग्रावस्तुदध्वर्युः प्रति-
प्रस्थाता नेष्टोन्नेता ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः
पोतोद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इति।

टीका

परकर्तृनिर्देशः सर्वपुरुषव्यापिपदार्थानुष्ठानेऽयमेव क्रम इति ज्ञापनार्थम्। ( र्थः )

विश्वास-प्रस्तुतिः

एतेऽहीनैकाहैर्याजयन्ति।

मूलम्

एतेऽहीनैकाहैर्याजयन्ति।

टीका

एते याजयन्तीति वचनादहीनैकाहैः5 षोडशैव पुरुषा याजयन्ति न सदस्यशमितृत्रमासाध्वर्यव इति ज्ञापितं भवति। अतः सत्यपि वरणे तेषामृत्विक्त्वं न भवति। अहीनैकाहैरितिवचनं सत्रेष्वेतेषामपि वरणानिवृत्यर्थम्। याजयन्तीतिवचनं स्वद्रव्यत्यागात्मकत्वाद्यागपदार्थस्यविंग्भिः सकर्तुं6 न शक्यत इति ज्ञापनार्थम्। अतः स्वामिकर्तृक एवःयागपदार्थो भवतीति सिद्धम्।

विश्वास-प्रस्तुतिः

एत एवाऽऽहिताग्नय इष्टप्रथमयज्ञा गृहपतिप्तदशा
दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते।

मूलम्

एत एवाऽऽहिताग्नय इष्टप्रथमयज्ञा गृहपतिप्तदशा
दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते।

टीका

एतएवेत्यवधारणात्सदस्यादिवर्जिताः पूर्वोक्ता एव षोडशपदार्थसंबन्धिनः पुरुषाअग्नीनाधाय प्रथमयज्ञेनेष्वा गृहपतिसंज्ञकेन केवलयजमानपदार्थकारिणा सप्तदशेन पुरुषेणसहिताः सन्तः स्वान्स्वानग्नीन्सवान्मिश्रयित्वा सर्वे च दीक्षित्वा गृहपतिमुखाः सत्राण्यासते सत्रैर्यजन्त इत्यर्थः। इष्टप्रथमयज्ञा इत्याहिताग्निविशेषगम्। यद्याहिताग्नयस्तदेष्टप्रथमयज्ञा भवेयुरिति। तेनानःहिताग्नीनामपि सत्रासनमस्तीति गम्यते। तन्मुखा गृहपतिप्रधानागृहपत्यभिप्रेतवैकल्पिकपदार्थकारिणस्तथा विरुद्धधर्मसमवाये च गृहपतेरविरोधेन7 कर्तव्यमित्यर्थः।

विश्वास-प्रस्तुतिः

तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे।

मूलम्

तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे।

टीका

तेषामिति सत्रिणः पुरुषा उच्यन्ते। समावाप इति। यस्मिन्कर्मण्यग्नयः समोप्यन्तेःतत्कर्म समावापशब्देनोच्यते। साग्निनामनग्नीनां च सत्रासनमुक्तम्। तत्र साग्नीनां सत्रिणांसमावापादि यथार्थमूहः कर्तव्य ऐष्टिके तन्त्रे। नानैष्टिकेन8वनस्पतियागे सूक्तवाकादौच पाशुक इत्यर्थः। तन्त्रग्रहणमौष्टिकसंबन्धेऽपि9 तन्त्रशब्दवाच्य एव भवति नान्यत्रेत्येवमर्थम्। तेन प्रथमाध्यायविहिते प्रायश्चित्तेऽपि10 भवति तस्मिन्नध्याये तन्त्राधिकारान्न तृतीयाध्यायविहित इति तन्त्रवचनम्।

विश्वास-प्रस्तुतिः

दीक्षणाद्यनग्नीनाम्।

मूलम्

दीक्षणाद्यनग्नीनाम्।

टीका

साग्नीनां समावायप्रभृति यथार्थमभिधानमुक्तम्। इदानीमनग्नीनां दीक्षणीया प्रभृत्येवयथार्थमभिधानमैष्टिके तन्त्र इत्युच्यते। सत्राणामग्निसाध्यत्वादनम्नीनां साग्निभिः सहैवसत्रासनं भवति। तत्र दीक्षणात्प्राक्तनेष्वेकश्चेत्साग्निरेकवचनेन द्वौ चेद्विवचनेन बहवश्चेद्बहुवचनेनेत्येवं भवति। सत्रेष्वग्निबहुत्वे यजमानबहुत्वेच सति सर्वेषु यजुर्निगदेष्विति यथार्थमूहे प्राप्ते तेषां ‘समावापादि’ इत्यनेन सूत्रेण यजमानाभिधायिनामेवेति नियम्यते।ऐष्टिके तन्त्र इत्यपि च। तत उत्तरसूत्रेण तावेव नियमावनग्नीनां दीक्षणीयाद्येव नप्राग्भाविन्युखासंभरण्या11दाविति विधीयते।

विश्वास-प्रस्तुतिः

अग्निर्मुखमिति च याज्यानुवाक्ययोः।

मूलम्

अग्निर्मुखमिति च याज्यानुवाक्ययोः।

टीका

ऋक्ःबादप्राप्त12 ऊहो विधीयते।

विश्वास-प्रस्तुतिः

दण्डप्रदाने।

मूलम्

दण्डप्रदाने।

टीका

अनैष्टिकत्वादस्य मन्त्रस्योहविधानम्। अस्मिन्मन्त्रे यजमानविषयस्य पदस्याभावेऽप्यूहविधानसामर्थ्याद्दण्ड-विषयस्यैवायमूहविधिरिति कल्पनयिम्। अत्र बहवो दण्डाः सन्तीति13 दीक्षितबहुत्वादीक्षितदण्डस्य च प्रकृतौ मैत्रावरुणदण्डत्वमवगतम्। अत्र च ते बहवःसंनिहिताः सन्ति। तेषां च सर्वेषां14सहप्रदानं प्राप्तम्। एवं प्राप्त ऊहो विधीयते। मैत्रावरुणश्च सर्वान्दण्डान्गृहीत्वैकेन दण्डेन दण्डित्वसिद्धेः। तेषामेकेनाभिमतेन15सहितः स्वपदार्थान्कुर्यादित्येवमत्र कल्पयितव्यम्।

विश्वास-प्रस्तुतिः

प्रैषेपु निवित्सु।

मूलम्

प्रैषेपु निवित्सु।

टीका

अप्राप्तौ16विधीयते।

विश्वास-प्रस्तुतिः

घृतयाज्यायाम्।

मूलम्

घृतयाज्यायाम्।

टीका

अनैष्टिकत्वादृक्त्वाच्चाप्राप्तविधिः।

विश्वास-प्रस्तुतिः

कुह्वां च।

मूलम्

कुह्वां च।

टीका

ऋक्त्वादप्राप्तिः।

विश्वास-प्रस्तुतिः

अच्छावाकनिगदोपहवप्रत्युपहवे च।

मूलम्

अच्छावाकनिगदोपहवप्रत्युपहवे च।

टीका

निगदश्चोपहवश्च प्रत्युपहवश्च निगदोपहवप्रत्युपहवमिति द्वंद्वैकवद्भावः। पुनश्चाच्छावाकशब्देन षष्ठीसमासः। अच्छावाकस्य निगदे यजमानहोतरध्वर्यवित्यत्र उपहवप्रत्युपहवेप्रत्येता सुन्वन्नित्यत्र।

विश्वास-प्रस्तुतिः

आर्षेयाणि गृहपतेः प्रवरित्वाऽऽत्प्रादीनां मुख्यानाम्।

मूलम्

आर्षेयाणि गृहपतेः प्रवरित्वाऽऽत्प्रादीनां मुख्यानाम्।

टीका

आर्षेयवरणे गृहपतेः प्रथमं वरित्वाऽऽत्मादीनां मुख्यानां प्रवृ*णीते। गृहपतेः पृथग्न-

————————————————————————————————————

*क.–संस्कर्ता होता संस्कार्या आहवनीयः। आहवनयस्य यजमानेनोत्पादितत्वाद्यजनस्य पुत्रवदुपचर्यते। तस्माद्यजमानस्य गोत्रमाहवनीयस्यापि भवातिनं तस्मात्संस्कार्यभेदासंस्कार्यभूतस्य प्रवरणस्याप्यावृत्तिर्भवति। अग्नीनां तु गृहपतेराहवनीय एवाऽऽहवनीयो भवति। तस्मादनग्नीनामपि प्रवरणं कर्तव्यमेव। अनेनैव प्रकारेण सूक्तवाके नामादेशश्च कर्तव्य इति सिद्धान्तभाष्ये।
————————————————————————————————————

वचनं ‘याषन्तोऽनन्तर्हिताः’ इत्यत्रापि पृथग्वरणार्थम्। आत्मादिवचनं दीक्षाक्रमनिवृत्त्यर्थम्। तेन सूक्तवाकादौ नामादेशे दीक्षाक्रमस्यास्य च विकल्पः सर्वत्र सिद्धो भवति।

विश्वास-प्रस्तुतिः

एवं द्वितीयतृतीयचतुर्थानाम्।

मूलम्

एवं द्वितीयतृतीयचतुर्थानाम्।

टीका

सर्वत्राऽऽत्मवर्गाद्द्वित्व17द्द्वित्वमस्मत्सूत्रोक्त एवं क्रमश्च।

विश्वास-प्रस्तुतिः

यावन्तोऽनन्तर्हिताः समानगोत्रास्तावतां सकृत्।

मूलम्

यावन्तोऽनन्तर्हिताः समानगोत्रास्तावतां सकृत्।

टीका

समानगोत्राः समानार्षेया इत्यर्थः। सगोत्राणामपि मिन्नार्पेयत्वसंभवात्समानार्पेयत्वमेवतन्त्रसिद्धौ निमित्तमिति लक्षणार्थत्वमत्राऽऽश्रितं समानगोत्रशब्दस्य। आर्षेयवरणस्याऽऽहवनीसंस्कारत्वें सत्याहवनीयभेदे चसत्यार्पेयस्यैक्या-द्वरणकालैक्याच्च वरणोच्चारणे विशेषाग्रहणातन्त्रानुष्ठानमुक्तवानाचार्यः।

विश्वास-प्रस्तुतिः

आवर्तयेद्वाद्रव्यान्वयाः संस्काराः।

मूलम्

आवर्तयेद्वाद्रव्यान्वयाः संस्काराः।

टीका

वाशब्दः पक्षं व्यावर्तयति आवृत्तिरेवात्र कर्तव्या। द्रव्यान्वयाः संस्काराः, यतोद्रव्येऽन्वयो येषां ते द्रव्यान्वयाः। संस्काराणां द्रव्यवशवर्तित्वादित्यर्थः। प्रतिप्रधानंगुणा आवर्तन्त इति प्रसिद्धो न्यायः। यत्पुनर्विशेषाग्रहणादनावृत्तिरिति तदपि न।एकवचनान्तस्याऽऽर्षेयस्य बहुष्वनभिधानादिति। एवं चेद्वचनोहः किमिति न क्रियते।‘तेषां समावापादि’ इत्यत्र यजमानवाचिनामेवोहनियमात्। अत आवृत्तिरेवात्रयुक्ता।

साग्निचित्येषु ऋतुषूखासंभरणीयामिष्टिमेके*।

अग्निचयनमग्निचित्या। तया सह वर्तन्त इति साग्निचित्याःऋतवः। तेषूखासंभरणीयं नामैष्टिकमेके शाखिन आमनन्ति। उखासंभरणप्रयोजना उखासंभरणीया।

विश्वास-प्रस्तुतिः

अग्निर्ब्रह्मण्वानग्निः क्षत्रवानग्निः क्षत्रभृत्।

मूलम्

अग्निर्ब्रह्मण्वानग्निः क्षत्रवानग्निः क्षत्रभृत्।

टीका

ब्रह्मण्वान्क्षत्रवान्क्षत्रभृच्छब्दा अग्नेर्गुणास्तिस्रो देवताः।

विश्वास-प्रस्तुतिः

एतेनाग्ने ब्रह्मणा वावृधस्वब्रह्म च ते जातवेदो नमश्च
पुरुण्यग्ने पुरुधात्वायासचित्रचित्रं चितयन्तमस्मे अग्निरीशे
बृहतः क्षत्रियस्यार्चामि ते सुमतिंघोष्यर्वागितीदंप्रभृति-
कर्मणां शनैस्तरामुत्तरोत्तरम्।

मूलम्

एतेनाग्ने ब्रह्मणा वावृधस्वब्रह्म च ते जातवेदो नमश्च
पुरुण्यग्ने पुरुधात्वायासचित्रचित्रं चितयन्तमस्मे अग्निरीशे
बृहतः क्षत्रियस्यार्चामि ते सुमतिंघोष्यर्वागितीदंप्रभृति-
कर्मणां शनैस्तरामुत्तरोत्तरम्।

टीका

इदं प्रभृतिर्येषान्तानीदंप्रभृतीनि इदंप्रभृतीनि च तानि कर्माणि चेदंप्रभृतिकर्माणि।तेषामुत्तरोत्तरं शनैस्तरां भवति।

————————————————————————————————————
* घ. अस्यामुपांशुत्वं न भवतीति सुत्यमहरुत्तममित्यत्र वक्ष्यते।
————————————————————————————————————

विश्वास-प्रस्तुतिः

एतत्त्वपि पौर्णमासात्।

मूलम्

एतत्त्वपि पौर्णमासात्।

टीका

एतदप्युखासंभरणीयं पौर्णमासाच्छनैस्तरां भवति। अत एतत्सिद्धं भवति - मन्द्रादिषु त्रिषु स्थानेषु षष्ठेन यमेन दर्शपूर्णमासयोर्मन्त्राणां प्रयोगः सप्तमेन वषट्कारइति। एवं पञ्चमचतुर्थतृतीयद्वितीयप्रथमैरुखा संभरणीयाप्राजापत्यादीक्षणयाप्रायणीयातिथ्याः प्रयोक्तव्याः। तस्मात्तस्मादुत्तरोत्तरेण च वषट्कारः।

विश्वास-प्रस्तुतिः

प्रायणीयावत्सोमप्रवहणम्।

मूलम्

प्रायणीयावत्सोमप्रवहणम्।

टीका

मन्द्रस्य द्वितीयेन यमेनेत्यर्थः।

विश्वास-प्रस्तुतिः

ऊर्ध्वं प्रथमाया अग्निप्रणयनीयाया औपवसथ्येऽनियमः।

मूलम्

ऊर्ध्वं प्रथमाया अग्निप्रणयनीयाया औपवसथ्येऽनियमः।

टीका

औपवसथ्ये यदग्निप्रणयनं तस्य प्रथमाया ऊर्ध्व स्वरेष्वनियमो भवति मन्द्रो वामध्यमो वोत्तमो वा सर्वो वा। सर्वप्रयोगपक्षे मन्द्रादीनुत्तमपर्यन्तानारोहणैरेव18प्रयुञ्जीत। एकस्वरप्रयोगेऽपि यमानेवाऽऽरोहयेत्।

विश्वास-प्रस्तुतिः

मध्यमादि धर्मे॥ १॥

मूलम्

मध्यमादि धर्मे॥ १॥

टीका

धर्मे मध्यमोत्तमयोरेवा19नियमः। न मन्द्रस्य तत्र प्रवेश इत्यर्थः। अत्रापि स्वरयोर्यमानां20 चाऽऽरोहितत्वमेव स्यात्॥ १॥

विश्वास-प्रस्तुतिः

दीक्षणीयायां धाय्ये विराजौ।

मूलम्

दीक्षणीयायां धाय्ये विराजौ।

टीका

दीक्षाप्रयोजनेष्टिर्दीक्षणीया सा कर्तव्या। तस्यां धाय्ये विराजौ भवतः।

विश्वास-प्रस्तुतिः

अग्नाविष्णू।

मूलम्

अग्नाविष्णू।

टीका

अस्यामियं देवता।

विश्वास-प्रस्तुतिः

अग्निर्मुखं प्रथमो देवतानां संगतानामुत्तमो विष्णुरासीत्। यजमानाय परिगृह्य देवान्दीक्षयेदं हविरागच्छतं नः। अग्निश्च विष्णो तपउत्तभं महो दीक्षापालाय वनतं हि शक्रा। विश्वैर्देवैर्यज्ञियैः संविदानौदीक्षामस्मै यजमानाय धत्तमिति साग्निचित्ये त्रीण्यन्यानि।

मूलम्

अग्निर्मुखं प्रथमो देवतानां संगतानामुत्तमो विष्णुरासीत्। यजमानाय परिगृह्य देवान्दीक्षयेदं हविरागच्छतं नः। अग्निश्च विष्णो तपउत्तभं महो दीक्षापालाय वनतं हि शक्रा। विश्वैर्देवैर्यज्ञियैः संविदानौदीक्षामस्मै यजमानाय धत्तमिति साग्निचित्ये त्रीण्यन्यानि।

टीका

हवींषी21ति शेषः।

विश्वास-प्रस्तुतिः

वैश्वानर आदित्याः सरस्वत्यदितिर्वा।

मूलम्

वैश्वानर आदित्याः सरस्वत्यदितिर्वा।

टीका

अन्त्ययोर्विकल्पः। त्रीण्यन्यानीत्युभयविशेषणादानावैष्णवाधिकानि त्रीणीतिगम्यते।

विश्वास-प्रस्तुतिः

धारयन्त आदित्यासो जगत्स्था इति द्वे
एते एव भुवद्वद्भ्यो भुवनपतिभ्यो वा।

मूलम्

धारयन्त आदित्यासो जगत्स्था इति द्वे
एते एव भुवद्वद्भ्यो भुवनपतिभ्यो वा।

टीका

एते एवर्चावादित्येभ्यो भुवद्वभ्द्यआदित्येभ्यो भुवनपतिभ्यश्च याज्यानुवाक्ये भवतः। भुवनपतिलिङ्गयोरेव भुवनपतीनां विधानादेतद्गम्यते - सगुणे अपि निर्गुणाय22 विहितेवचनादृते सगुणायास्ते न भवत इति।

विश्वास-प्रस्तुतिः

नेदमादिषु मार्जनमर्वागुदयनीयायाः।

मूलम्

नेदमादिषु मार्जनमर्वागुदयनीयायाः।

टीका

इदमादिषु कर्मसु प्रागुदयनीयाया न मार्जनं भवति। द्विविधं चेह मार्जनं गृह्यतेचोदितं लैङ्गिकं च। ‘परिस्तरणैरञ्जलिमन्तर्धायापआसेचयते सब्रह्मकाश्चात्वाले मार्जयन्ते ’ इति चोदितम्। ‘प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्’ इति लैङ्गिकम्।तदुभयं प्रतिषिध्यते। शास्त्रान्तरे च स्पष्टं वचनमस्ति दीक्षणीयादिषु योक्त्रविमोकादिन भवतीति। तेनोमयप्रतिषेधोऽवगम्यते। एवं सति दर्शनादग्नीषोमीयसवनीययोश्चात्वालमार्जनं न प्रतिषिध्यते। कुतः। चात्वाले मार्जयित्वाऽध्वर्युपथ उपतिष्ठन्त इति सवनीयेदर्शनम्। अग्नीषोमीयेणाऽऽचात्वालमार्ज-नादितिसिद्धवदनुवादादग्नीषोमीयेऽप्यस्तीतिगम्यते एवं सत्यनयोर्न प्रतिषेध इति सिद्धम्।

इदमादीलायां सूक्तवाके चाऽऽगूरा*शीः स्थाने।

इलायां सूक्तवाके च या आशिपस्तासां स्थान आगूर्नाम मन्त्रः प्रयोक्तव्यः। आगुरं प्रक्षिप्याऽऽशिष उद्धृत्य यथा तौ प्रयुज्यते इलासूक्तवाकौ तथा पाठेनैवदर्शयति —

विश्वास-प्रस्तुतिः

उपहूतोऽयं यजमानोऽस्य यज्ञस्याऽऽ-
गुर उदृचमशीयेति तस्मिन्नुपहूतः।

मूलम्

उपहूतोऽयं यजमानोऽस्य यज्ञस्याऽऽ-
गुर उदृचमशीयेति तस्मिन्नुपहूतः।

टीका

एवमिलानिगदइत्यर्थः। उपहूतोऽयं यजमान इत्यस्मादुपरिष्टात्तस्मिन्नुपहूत इत्यस्मात्पुरस्ताद्यः पदसमुदायस्ता आशिप इत्युच्यन्ते। तत्स्थाने यः पदसमुदाय इदानीं पठ्यतेऽसावागूरित्युच्यते। एवमिलानिगदः।

विश्वास-प्रस्तुतिः

आशास्तेऽयं यजमानोऽस्य यज्ञस्याऽऽगुर उदृचमशीयेत्याशास्ते।

मूलम्

आशास्तेऽयं यजमानोऽस्य यज्ञस्याऽऽगुर उदृचमशीयेत्याशास्ते।

टीका

इत्येवं सूक्तवाक इत्यर्थः। आशास्तेऽयं यजमान इत्यस्मादुपरिष्टादाशास्ते यदनेनहविषेत्यस्मात्पुरस्ताद्यः पदसमुदायस्ता आशिष इत्युच्यन्ते। तत्स्थाने यः पदसमुदाय

———————————————————————————————————

* च. संज्ञकमुद्रित पुस्तके – °राशि स्था° इति पाठः। स च. योग्योऽपि वैदिकसंप्रदायविरोधीति मूले न निवेशितः।
————————————————————————————————————

इदानीं पठ्यते सा23चाऽऽगूः। एवं सृक्तवाकनिगदः। अस्य यज्ञस्याऽऽगुर उदृचमशीयेत्युभयत्राऽऽगूः। अस्यायमर्थः - अस्य यज्ञस्य प्रारब्धस्य समाप्तिं प्राप्नुयामिति तस्मिन्नुपहूत इतीलायां प्राप्नुयामित्याशास्त इति सूक्तवाके। अत इयमप्यांशीरेव। आगूरित्थस्योदृगाशासनरूत्वादागूरित्युच्यते।

विश्वास-प्रस्तुतिः

न चात्र नामादेशः24

मूलम्

न चात्र नामादेशः24

टीका

पाठादेव नामादेशाभावे सिद्धे पुनः प्रतिषेधवचनमन्यत्सर्वंप्रकृतिवदेवेति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

प्रकृत्याऽन्त्य ऊर्ध्वं पश्विलायाः।

मूलम्

प्रकृत्याऽन्त्य ऊर्ध्वं पश्विलायाः।

टीका

सवनीयपश्विलाऽत्र गृह्यते। तच्छब्दचोदितत्वात्। अन्त्य इतिवचनादहर्गणेष्वन्त्येऽहनिपश्विला गृह्यते। एकाहेषु तदेवाऽऽद्यप्रन्त्यं च भवति।

विश्वास-प्रस्तुतिः

दीक्षितानां संचरो गार्हपत्याहवनीयावन्तराग्नेः प्रणयनात्।

मूलम्

दीक्षितानां संचरो गार्हपत्याहवनीयावन्तराग्नेः प्रणयनात्।

टीका

संचरशब्द आसनशयनादीनां प्रदर्शनार्थः। तेनास्मिन्नवधौ तयोरेवाग्न्योर्मध्ये समीपेयजमाना25वर्तेरन्।अग्निप्रणयनोत्तरकालं संचरदेशः शास्त्रान्तरादगन्तव्यः।

विश्वास-प्रस्तुतिः

दीक्षणादिरात्रिसंख्यानेन दीक्षा अपरिमिताः।

मूलम्

दीक्षणादिरात्रिसंख्यानेन दीक्षा अपरिमिताः।

टीका

प्रकृतेरिदं दीक्षाविधानम्। यस्मिन्नहोरात्रे दक्षिणं क्रियते तदेवाऽऽरम्प रात्रीरेवसंख्यायापरिमिता दीक्षाः कर्तव्याः। ‘तस्माद्दीक्षितो द्वादशाहं भृतिंतन्वीत’ इतिप्रकृतौ नित्यवदाम्नातम्। तथा मासं संवत्सरं यदा वा26 कृशः स्यादिति27 परिमिताः28।येऽपरिमिताश्च दीक्षाकल्पाःशास्त्रान्तर आम्नातास्तेषां प्रदर्शनार्थमपरिमितवचनम्। अध्वर्युप्रत्ययत्वाद्दीक्षानियतेः, तत्सूचनमात्रमत्रोक्तवानाचार्यः। सत्राणां दीक्षाविधानमत्रोच्यते।

विश्वास-प्रस्तुतिः

एकाहप्रभृत्यासंवत्सरात्संवत्सरं त्वेव सव्रते।

मूलम्

एकाहप्रभृत्यासंवत्सरात्संवत्सरं त्वेव सव्रते।

टीका

महाव्रतसहिते सत्रेऽयं विशेषः संवत्सरमेवेति।

विश्वास-प्रस्तुतिः

द्वादशाहतापश्चितेषु यथा सुत्योपसदः।

मूलम्

द्वादशाहतापश्चितेषु यथा सुत्योपसदः।

टीका

तेषु सत्रेषु यथा सुत्योपसदस्तथा दीक्षा अपि कर्तव्याः। उपसत्संख्याया अप्यन्य29त्राविहितत्वादत्रैव विधिः कल्प्यते। यत्संख्याः सुत्या उपसदश्च तत्संख्या दीक्षा एवेति। एतदुक्तं भवति—द्वादशाहतापश्चितेषु यत्संख्याः सुत्यास्तत्संख्या एवोपसदश्च दीक्षाश्चभवन्तीति।

विश्वास-प्रस्तुतिः

कर्माचारस्त्वेकाहानाम्।

मूलम्

कर्माचारस्त्वेकाहानाम्।

टीका

आचीर्यते30ऽस्मिन्नित्याचारः कालः। कर्मण आचारः कर्माचारः। एकाहानां प्रयोगकालो वक्ष्यत इत्यर्थः। एकाहशब्देनात्र विकृत्येकाहा उच्यन्ते। बहुवचनसंबन्धात्प्रकृतौदीक्षाणां विहितत्वाच्च। तुशब्दो विशेषविध्यर्थः। अस्मिन्प्रकरणे दीक्षाकाल एव विधातव्ये दीक्षोपसत्सहितानामेकाहानां प्रयोगकालो विधीयत इति विशेषः।

विश्वास-प्रस्तुतिः

एका तिस्रो वा दीक्षास्तिस्र उपसदः सुत्यमहरुत्तमम्।

मूलम्

एका तिस्रो वा दीक्षास्तिस्र उपसदः सुत्यमहरुत्तमम्।

टीका

उत्तमग्रहणं प्रातरनुवाकाद्युदवसानीयान्तमेकमेवाहः स्यात्तच्च सुत्यशब्देनोच्यत इत्येवमर्थम्। दीक्षाकाले विधातव्य उपसत्सुत्यानामपि विधानं त्रिप्रकाराणामेव सौमिकत्वसिद्ध्यर्थम्। तेन दक्षिणीयायाः प्राग्भाविन उखासंभरणीय/देः सौमिकधर्म उपांशुत्वादिनभवतीति सिद्धम्।

विश्वास-प्रस्तुतिः

दीक्षान्ते राजक्रयः॥ २॥

मूलम्

दीक्षान्ते राजक्रयः॥ २॥

टीका

दीक्षाहःसु परिसमाप्तेष्वनन्तरं यदहस्तस्मिन्नहनिराजक्रयः कर्तव्यः। सोमः क्रेतव्यइत्यर्थः॥ २॥

विश्वास-प्रस्तुतिः

तदहःप्रायणीयेष्टिः।

मूलम्

तदहःप्रायणीयेष्टिः।

टीका

यस्मिन्नहनि सोम31ःक्रेष्यते तदहः प्रायणीयानामेष्टिः कार्या। ‘दीक्षान्ते राजक्रयः’इत्युक्त्वा तदहरिति वचनाद्दीक्षान्ते यदहस्तस्य राजक्रय इति संज्ञाऽर्थात्कृता भवतीतिगम्यते। तेनायमर्थः। तदहरिति। यद्राजक्रयसंज्ञम-हस्तस्मिन्नित्यर्थः।

विश्वास-प्रस्तुतिः

पथ्या स्वस्तिरग्निः सोमः सविताऽदितिः स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म त्वंसोम प्रचिकितो मनीषा या ते धामानि दिवि या पृथिव्यामा विश्वदेवंसत्पतिं य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानां सेदग्निरग्नीरत्यस्त्वन्यानिति द्वे संयाज्ये शंय्वन्तेयम्।

मूलम्

पथ्या स्वस्तिरग्निः सोमः सविताऽदितिः स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म त्वंसोम प्रचिकितो मनीषा या ते धामानि दिवि या पृथिव्यामा विश्वदेवंसत्पतिं य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानां सेदग्निरग्नीरत्यस्त्वन्यानिति द्वे संयाज्ये शंय्वन्तेयम्।

टीका

इयमितिवचनादियमेव शंय्वन्ता नोदयनीयेत्यर्थः।

विश्वास-प्रस्तुतिः

अनाज्यभागा।

मूलम्

अनाज्यभागा।

टीका

चशब्दोऽध्याहर्तव्यः। अनाज्यभागा चेयमेव भवति नोदयनीया।

विश्वास-प्रस्तुतिः

संस्थितायाम्॥ ३॥

मूलम्

संस्थितायाम्॥ ३॥

टीका

संस्थितायामिति वचनं प्रायणीयया राजक्रयस्यासंबन्धार्थम्32। तेनाहर्गणेषु प्रायणीयाबद्राजक्रयो नाभ्यावर्तयितव्यः। सकृदेव कर्तव्य इत्यर्थः॥ ३॥

विश्वास-प्रस्तुतिः

राजानं क्रीणन्ति।

मूलम्

राजानं क्रीणन्ति।

टीका

क्रीणन्तीतिवचनं सोमप्रवहणे यदस्माकं कर्म विहितं तत्क्रयोत्तरकालवर्तिन्येव प्रवहणेभवति नान्यकालीन इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थायप्रेषितोऽग्रेऽमिहिंकारात्त्वंविप्रस्त्वं कविस्त्वं विश्वानि धारयन्।अप जन्यं मयं नुदेत्यस्पन्दयन्पार्ष्णींप्रपदेन दक्षिणापांसूंस्त्रिरुदुप्यानुब्रूयाद्भद्रादभिश्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु। अथेमवस्यवर आपृथिव्या आ रे शत्रून्कृणुहि सर्ववीर इति तिष्ठन्।

मूलम्

तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थायप्रेषितोऽग्रेऽमिहिंकारात्त्वंविप्रस्त्वं कविस्त्वं विश्वानि धारयन्।अप जन्यं मयं नुदेत्यस्पन्दयन्पार्ष्णींप्रपदेन दक्षिणापांसूंस्त्रिरुदुप्यानुब्रूयाद्भद्रादभिश्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु। अथेमवस्यवर आपृथिव्या आ रे शत्रून्कृणुहि सर्ववीर इति तिष्ठन्।

टीका

तं क्रीतं सोमं राजानं प्राग्वंशसमीपं नेष्यत्स्वध्वर्युषु पश्चादनसस्त्रिपदमात्रेऽतीते चक्रयोर्ये वर्त्मनी तयोश्च मध्यदेशस्याऽऽर्जवेन यो देशस्त33स्मिन्नवस्थाय प्रेषितः सन्नभिहिंकारात्प्राक्पार्ष्णमचालयन्प्रदिन दक्षिणस्यां दिशि पांसूंस्त्रिरूद्ध34पेत्।‘त्वं विप्रः’ इतिमन्त्रेण। ततस्तस्मिन्नेव साम्येन स्थित्वाऽभिहिकृत्यानुब्रूयात्। तिष्ठन्नितिवचनं प्रव्रजत्स्वप्यध्वर्युषु प्रथमामसमाप्य न व्रजेदित्येवमर्थम्।

विश्वास-प्रस्तुतिः

अनुवजन्नुत्तरा अन्तरेणैव वर्त्मनी।

मूलम्

अनुवजन्नुत्तरा अन्तरेणैव वर्त्मनी।

टीका

अन्तरेणैव वर्त्मनी अनेन पथाऽनुव्रजन्नुत्तरा अनुब्रूयादित्यर्थः। ब्रजन्नेवानुब्रूयान्न व्रजनविशेष इत्येवमर्थ व्रजति35ग्रहणम्।

विश्वास-प्रस्तुतिः

सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव ऋतुभिर्वर्धतुक्षयमित्यर्धर्च आरमेत्। अवस्थितेऽनसि दक्षिणात्पक्षादभिक्रम्य राजानमभिमुखोऽवतिष्ठते।

मूलम्

सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव ऋतुभिर्वर्धतुक्षयमित्यर्धर्च आरमेत्। अवस्थितेऽनसि दक्षिणात्पक्षादभिक्रम्य राजानमभिमुखोऽवतिष्ठते।

टीका

अनस्यवस्थिते तस्य दक्षिणपार्श्वेन राजसमीपं गत्वा तमीक्षमाणस्तत्रैव तिष्ठेत्।

विश्वास-प्रस्तुतिः

प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत्।

मूलम्

प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत्।

टीका

अनुव्रजन्नुत्तरा इति सर्वास्वृक्ष्वनुव्रजतोऽनुवचनसिद्धौ सत्यामनुसंव्रजेदिति’ वचनं सम्यग्राज्ञोऽनन्तरमेवानुव्रजेन्न व्यवायभ्रेषं कुर्यादित्यवर्मथम्। अतोऽग्रेणाऽऽहवनीयं36 गतस्यानुव्रजनंकृतं भवति।

विश्वास-प्रस्तुतिः

या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्राजानमुपस्पृशन्।

मूलम्

या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्राजानमुपस्पृशन्।

टीका

निहित इति व्रजनसमाप्तिदर्शनात्तिष्ठन्नेव परिदध्यात्।

विश्वास-प्रस्तुतिः

वसनेंऽशुषु वा॥ ४॥

मूलम्

वसनेंऽशुषु वा॥ ४॥

टीका

उपस्पर्शनविषयस्य विकल्पोऽयम्। मन्त्रेण बद्धस्य विस्रंसने बन्धनशास्त्रविरोधः।वसनोपस्पर्शने चराजोप-स्पर्शनशास्त्रस्य विरोधः। तत्रान्यतरस्य37 लक्षणाश्रयणे सत्युपस्पर्शनस्यैव लक्षणाश्रयणं युक्तम्। बन्धनोत्तरकाले विहितत्वादिति वसन इत्युक्तम्।वचनाद्वद्धस्य वचनादेव विस्रंसनेन दोष इति मत्वांऽशुषु वेत्युक्तम्। वाशब्दः पक्षव्यावृत्यर्थः। बद्धो वसतीति वचनात्पुनरपि बन्धनं कर्तव्यम्॥ ४॥

विश्वास-प्रस्तुतिः

अथाऽऽतिथ्येलान्ता।

मूलम्

अथाऽऽतिथ्येलान्ता।

टीका

आतिथ्यानामेष्टिरनन्तरं कर्तव्या।

विश्वास-प्रस्तुतिः

तस्या अग्निमन्थनम्।

मूलम्

तस्या अग्निमन्थनम्।

टीका

तस्या इतिवचनं तदङ्गतासिद्धयर्थम्। तेनास्मिन्ननिमन्थने, मन्द्रस्य प्रथमयमः साधितोभवति।

धाय्ये अतिथिमन्तौ समिधाऽग्निं दुवस्यताऽऽप्यायस्व समेतु त इतिविष्णुरिदं विष्णुर्विचक्रमे तदस्य प्रियमभिपाथो अश्यां होतारं चित्ररथमध्वरस्य प्र प्रायमग्निर्भरतस्य शृण्व इति संयाज्ये। संस्थिताया-माज्यंतानूनप्त्रं करिष्यन्तोऽभिमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजो अभिशस्तिपाः। अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते मा धा इति।

संस्थित इति वचनमहर्गणेषु तानूनप्त्रस्यानावृत्त्यर्थम्। तानूनप्त्रमित्याज्यविशेषस्यनाम। करिष्यन्त इत्यार्विज्यं करिष्यन्तः। करिष्यद्ग्रहणं सर्वे स्वयमेवाभिमृशेरन्नान्योन्यस्य प्रातिनिध्येनेत्येवमर्थम्।

विश्वास-प्रस्तुतिः

स्पृष्ट्वोदकं राजानमाध्याययन्ति।

मूलम्

स्पृष्ट्वोदकं राजानमाध्याययन्ति।

टीका

आप्यायनस्वरूपमुक्तम्, अद्भिः संस्पर्शनाधिक्यादिति।

विश्वास-प्रस्तुतिः

इदमादि मदन्तीरबर्थ उपसत्सु।

मूलम्

इदमादि मदन्तीरबर्थ उपसत्सु।

टीका

इतःप्रभृत्युपसत्सु यदुदकोपस्पर्शनं क्रियते तत्र मदन्तीरेव गृह्णीयात्। मदन्त्यो नामतप्ता आपः। उपस्पर्शन-संनिधाबुक्तत्वादुपस्पर्शन एवायं नियमो नाऽऽचमनादावपीतिगम्यते। अर्थग्रहणमर्थप्राप्तेऽप्युपस्पर्शने भवतीत्येव-मर्थम्।

विश्वास-प्रस्तुतिः

अंशुरंशुष्टे देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रायप्यायस्वाऽऽप्याययास्मान्सखीन्। सन्या मेधयास्वस्ति ते देव सोम सुत्यामुदृचमशीयेति।

मूलम्

अंशुरंशुष्टे देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रायप्यायस्वाऽऽप्याययास्मान्सखीन्। सन्या मेधयास्वस्ति ते देव सोम सुत्यामुदृचमशीयेति।

टीका

आप्यायनमन्त्रोऽयम्।

विश्वास-प्रस्तुतिः

स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान्दक्षिणान्त्सव्यान्नीचएष्टा राय एष्टा वामानि प्रेषे भगाय।ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति॥ ५॥

मूलम्

स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान्दक्षिणान्त्सव्यान्नीचएष्टा राय एष्टा वामानि प्रेषे भगाय।ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति॥ ५॥

टीका

न्ह्निवो नाम नमस्कारः। ‘द्यावापृथिवीभ्यामेव तं नमस्कुर्वन्ति’ इति दर्शनात्। तेनपाणिनिधानं नमस्काराञ्जलिहण कर्तव्यम्॥ ५॥

विश्वास-प्रस्तुतिः

स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानम्।

मूलम्

स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानम्।

टीका

एतान्युद्कोपस्पर्शनान्युत्तराङ्गाणि। आप्यायननिह्नवप्रवर्ग्याणामङ्गानीत्यर्थः। प्रवर्ग्यशब्दः कर्मविशेषवचनः। तेन चरिष्यस्विति वचनं होतुरभिष्टवनकालविधानार्थम्। तेनकालान्तरे यद्यध्वर्यवश्चरन्ति तदाऽप्यभिष्टुयादेव। खरो नाम यत्र महावीरः संसाद्यतेस देशः। एतदुक्तं भवति – अध्वर्य्वादिषु प्रवर्येण चरिष्यत्सु होता तीर्थेन प्रपद्यखरमुत्तरेण38परिव्रज्य तस्य पश्चादुपविश्य ततः प्रेषितः सन्नभिष्टुयादृगावानम्।

ऋगावानलक्षणमाह -

ऋचमृचन्मनवानमुक्त्वा प्रणुत्यावस्ये*त्।

अस्य विधानस्य ऋगावानमिति संज्ञेति प्रदर्शनार्थी पूर्वसूत्र ऋगावानशब्दप्रयोगः।अवसानमुच्छ्वासार्थमित्युक्तम्। देनार्वर्चाः संहितया वक्तव्याः। तत्रार्धचन्तसंघाने भाषिकैव संहिता स्यान्न च्छान्दसीतिमन्तव्यम्।

————————————————————————————————————

* घ – अत्र प्रणुत्येत्यनेन प्रणवो न विधीयते, एतेन शस्त्रयाज्येत्यनेन प्राप्तत्वात। तथाच ऋगावानलक्षणे प्रणवस्याविधानम्। तत्फलं त्वेतदतिदिष्टे दधिवर्मऋगावान उत्तिष्ठतेत्यस्याऋचोऽनुवचनचोदनारहिताया अन्ते प्रणवो न कार्य इति कोचत्। अपरे तूत्तरसंतानानिमित्तःप्रणवः। इह तूत्तरसंतानाभावात्मणवो न प्राप्नोति। तस्म त्वणुत्येत्युच्यते। प्रणुत्येत्युक्त उत्तरेणसंतानं प्राप्तं तस्मादवसानं विधीयत इति देवत्रातभाष्योक्त्या प्रणवस्य विधेयताप्रतीतेधिधर्म ऋगावानेऽपि प्रणवः प्राप्नोत्येवेति वदन्ति। वस्तुतस्तु प्रणवस्योत्तरसंताननिमित्तत्वेऽनुवाक्यायां तत्प्राप्तेरनुपपत्तेः प्रणवस्य विधेयता नास्तीति पूर्वनेव युक्तम्।
————————————————————————————————————

** ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः। सबुध्न्याउप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः। इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूमनेष्ठाः। तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः। महान्मही अस्तमायद्विजातो द्यां पितासद्म पार्थिवं च रजः। सबुध्नादाष्ट जनुपाऽ*भ्युग्रं बृहस्पतिर्देवतात+स्य सम्राट्। अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिं कविम्। ऊर्ध्वा यस्या मतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा संसीदस्व महां असीति संसाद्यमानेऽञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः। कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरधा उक्थ्यं वचः शुक्रं तेअन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानं स्रक्के द्रप्सस्यायं वेनश्वोदयत्पृश्निगर्भाः पवित्रं ते विततं ब्रह्मणस्पत इति द्वे वियत्पवित्रं धिषणाअतन्वत घर्मं शोचन्तं39 प्रणवेषु बिभ्रतः। समुद्रे अन्तराय वो विचक्षणंत्रिरह्नो नाम सूर्यस्य मन्वत। गणानां त्वा प्रथश्च यस्यापश्यं त्वेत्येतस्याऽऽया यजमानमीक्षते द्वितीया पत्नी तृतीययाऽऽत्मानं काराधद्धोत्राऽश्विना वामितिनवाऽऽभात्याग्निग्रवाणेवेले द्यावापृथिवी इतिप्रागुत्तमाया अरुरुचदुषसः पृश्निरग्निप इत्यावपेतोत्तरेणार्धचन पत्नीमीक्षेतोत्तमया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति नु पूर्वं पटलम्॥ ६॥**

एतावत्पूर्वमभिष्टवनम्। अत्र मध्ये यद्व्याख्येयं वचनं तदेव व्याख्यायते। कृपा स्वस्तृपास्वरिति वा। ऋगवयव-भूतयोः कृपःतृपाशब्दयोः प्रयोगविकल्पोऽयम्। संसदस्व० साद्यमाने। सम्यक्साद्यमान इत्यर्थः। अञ्जन्ति० ×आज्यमाने। अभिपूर्यमाणे। उत्तरास्वप्याऽऽभिरूप्यं यथाशक्ति संपाद्य पठनीयम्। अपश्यं वे० यजमानमीक्षते। द्वितीपत्नीम्। तृती० त्मानम्। प्रागु० वपेत। उत्तरे० मीक्षेत। अत्र क्रियान्तरसंबद्धा याऋचस्ता सामप्यभिष्टवनमेव कार्यम्। अभिष्टवनं नाम धर्मस्य संस्कारोऽभिधानरूपः।

————————————————————————————————————

* यद्यप्यत्र सर्वेषु पुस्तकेषु - ‘षाभ्युग्रमिति पाठो दृश्यते तथाऽपि मन्त्रे षाभ्यग्रमितिपाठः। +तस्थेत्यत्र यस्येतिमन्त्रपाठः। × घ. साद्नाअनयोर्वपर्यास ऋग्विपर्यास इति देवत्रातः।
————————————————————————————————————

एतच्च ‘धर्ममभिष्टुहि’ इति संप्रैषादवगतम्। तत्र यत्क्रियान्तरमीक्षणादि40 तदानुषङ्गिकंतदपि वचनात्कर्तव्यमेव। तत्क्रियमाणमेवं क्रियते यजमानादीनीक्षमाण41 एताभिरभिष्टुयादिति। अरूरुचदित्यस्यामृच्युत्तरमेवार्धर्चमीक्षमाणो ब्रूयात् उत्तरेतिवचनात्। अस्मादेववचनात्पूर्वास्व42प्यारम्भो43ऽवगतः। उत्तमया वाचयन्ति। परिघानीयानन्तरमध्वर्युभिर्यदुक्तंतदस्मदीयैरपि कर्तव्यमित्यर्थः। उत्थाप्य वाचयन्तीत्यध्वर्युशास्त्रोक्तस्य होत्रादिभिरनुष्ठेयत्वंसूचयति। इति नु44० पटलम्। ब्रह्म जज्ञानमित्यादि यदिदमुक्तं तत्पूर्वमभिष्टवनमित्यर्थः।इतिकारः समाप्तिसूचकः45। नुशब्दउत्तरविवक्षा सूचनार्थः॥ ६॥

विश्वास-प्रस्तुतिः

अथोत्तरम्।

मूलम्

अथोत्तरम्।

टीका

अथशब्दः संबन्धार्थः। पूर्वोत्तरयोः पटलयोः संबन्धप्रयोजनमुत्तरेऽपि पटल ऋगा(ग)वानादिधर्मप्रापणार्थम्। उत्तरमिति वचनं याज्याव्यवधाने सत्यप्येकाभिष्टवनत्वसूचनार्थम्।

विश्वास-प्रस्तुतिः

उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स संप्रैष उत्तरस्य।

मूलम्

उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स संप्रैष उत्तरस्य।

टीका

उपविष्टेषु होत्रादिषु यदध्वर्युर्घर्मदुघामाह्वयति ‘असावेह्यसावेहि’ इति तदेवोत्तरस्थाऽऽरम्भे निमित्तमित्यर्थः। उपविष्टेष्विति वचनं यद्यध्वर्यवो46 नोत्थापयन्ति तदाऽप्युत्थायस्वयमेव कुर्युरित्यस्यार्थस्य सूचनार्थम्।

विश्वास-प्रस्तुतिः

अनभिहिंकृत्य।

मूलम्

अनभिहिंकृत्य।

टीका

उत्तरमभिष्टुयादिति शेषः।

उपह्वये सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीवत्संन मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सं मिषन्तं नमसेदुपसीदत संजानाना उपसदिन्नभिज्ञ्वा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतम्। दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः। समिद्धो अग्निर्वृपणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु। वयं हि वां पुरुतमासोअश्विना हवामहे सधमादेषु कारवः। तदु प्रयक्षतममस्य कर्माऽऽत्मन्वन्नमो दुह्यते घृतं पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षल्पिप्युषीमिषमित्याह्रियमाण उपद्रव पयसा गोधुगोषमा घर्मेसिञ्च पय उस्रियायाः। वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवीसुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोर्ऋषिरिति गव्य आ सुतेसिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदुष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत्प्रैतु ब्रह्मणस्पतिरित्यनुव्रजेद्गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितोयजति तप्तो वां घर्मो नक्षति स्वहोता प्रवामध्वर्युश्चरति प्रयस्वान्।मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायांः। उभापिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीतिवा ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयालिह। स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवाऽऽपराह्निके यदुत्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतम्।माध्वी धर्तारा विदधस्य सत्पती तप्तं धर्मंपिबतं सोम्यं मधु। अस्यपिबतमश्विनेति चाप्रेषितो होताऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषुघर्मो यो अश्विनोश्चमसो देवपानः। तमीं विश्वे अमृतासो जुषाणागन्धर्वस्य प्रत्यास्ना रिहन्ति। समुद्रादूर्मिमुदियर्ति वेनो द्रप्सः समुद्रमभि यज्जिगाति। सखे सखायमभ्याववृत्स्वोर्ध्व ऊषुण ऊतय इति द्वेतं घेमित्था नमस्विन इति प्रागार्थी पूर्वाह्ने काण्वीमपराह्णेऽन्यतरांवाऽत्यन्तं काण्वीं त्वेवोत्तमे पावक शोचे तब हि क्षयं परीत्युक्वा भक्षमाकाङ्क्षेद्वाजिनेन भक्षोपायो हुतं हविर्मधु हविरिन्द्रतमेऽग्नावश्यामते देव घर्म। मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मामा हिंसीरिति भक्षजपः कर्मिणो घर्मं भक्षयेयुः सर्वे तु दीक्षिताः सर्वेषुदीक्षितेषु गृहपतेस्तृतीयोत्तमौ भक्षौ संप्रेषितः श्येनो न योनिं सदनंधिया कृतमा यस्मिन्त्सप्त वासवा रोहन्तु पूर्व्या रुहः। ऋषिर्हदीर्घश्रुत्तमइन्द्रस्य घर्मो अतिथिः। सूयवसाद्भगवती हि भूया इति परिदध्यात्।

एतावदुत्तरं पटलम्। तन्मध्यगतानि व्याख्येयानि व्याख्यायन्ते। उत्तिष्ठ०तिष्ठते। दुग्धायामित्युत्तरादान47निमित्त-दर्शनादेवावस्थाने सिद्धेऽवतिष्ठत इति वचनमत्रैवावतिष्ठते नपूर्वीसु लिङ्गापेक्षा कर्तव्येत्येवमर्थम्। दुग्धाया०मिति। आह्रियमाणे०णीतिरिति। आसि० आनून० गव्ये। आ सुते० आजे। आसिच्यमान इत्यनुषज्यते। गव्य आज48 इतिवचनात्। पयोविपर्यास ऋग्विपर्यासः। आसिक्तयो० रप इति द्वयोः पयसोरासेचनपर्यवसाने सति ‘समुत्ये महतीरपः’ इति ब्रूयात्। ‘महावीर० नूत्तिष्ठेत्। एतयाऽभिष्टवनं कृत्वाऽनन्तरमनूत्तिष्ठत्। प्रैतु० नुव्रजेत्। तिष्ठन्नेवोक्त्वाऽनुव्रजेत्। गन्धर्व० तृणम्। खरावेक्षणं तस्य पश्चात्प्राङ्मुखस्य तिष्ठतः पुनस्तमतिक्रम्यानुव्रजेत्। व्रजित्वा श्रोणिदेशंप्राप्य ‘नाके सुपर्णम्’ इत्यस्या ऋचः प्रणवोच्चारणेन सह तत्रैवोपविशेत्। वाचोऽन्यत्र व्यापृतत्वान्निरसनो49पवेशन50मन्त्रोच्चारणं न संभवति। प्रतिषेधस्तु निरसनक्रियायाःप्रतिषेधार्थः। प्रेषितो० भ्यामनवानम्। अत्रैवावसरे यजेति प्रेषित एताभ्यामृग्भ्यां यजतिऋचोरेवात्र द्वित्वं न याज्यायाः। तेन सकृदागूर्वषट्कारौ कर्तव्यौ। अग्ने वीही कारः।घर्म०ति वा। ब्रह्मा०श्विनेति। प्रतिवषट्कारं जपावृत्तिः। ‘एवमे हणिके’। आपराहिकप्रवर्ग्य एवमेव सर्वं भवति। तत्र विशेषमाह - यदुखिया ० पिवतमश्विनेति च। एतेऋचौ याज्या भवति। अप्रेषि० कृते। उत्तरां ब्रूयादिति शेषः। अपितवचनं पूर्वसूत्रे‘प्रेषितो यजति’ इत्यस्यानुवृत्तिसूचनार्थम्। तेन ‘यदुखियास्वाहुतम्’ इति ‘अस्यपिबतम्’इत्येताभ्यामापराह्निके प्रेषितो यजतीति गम्यते। होतृग्रहणं ब्रह्माधिकारनिंवृत्त्यर्थम्। तेनाऽऽपराह्णिकेऽपि प्रवर्ये वषट्कारानुवषट्कास्योर्ब्रह्मजपोऽस्तीति गम्यते। तंघे० थीं* पूर्वाह्णे। काण्वी०पराह्णे। अन्य० त्यन्तम्। अन्योरन्यतरामेव वा सर्वेषु प्रवर्येषुब्रूयादित्यर्थः। काण्वीं त्वे०त्तमे। अन्यतरपक्षेऽप्ययं विशेषः— उत्तमे प्रवर्म्ये काण्वीमेव ब्रूयादिति। अन्योर्ऋचोर्विशिष्टकालनिर्देशाद्न्यत्सर्वे साधारणमिति गम्यते। पावक० क्षैत्।एतामृचमुक्त्वा मक्षार्थमाकाङ्क्षेत्। अत्रावसाय51भक्षणं कर्तव्यमित्यर्थः। वाजि० पायः।उक्त इति शेषः। उपायवचनमिलामिव प्रतिगृह्यत्येवमादेर्धर्मस्य प्रापणार्थम्। हुतं ०क्षजपः। ‘यन्मे रेतः’ इत्यस्यापवादः। अत्रापि प्राणभक्ष एव यजमानं वर्जयित्वा।कर्मि॰येयुः। वाजिनस्य वैश्वदेव्यामुत्पन्नत्वात्तत्र च प्रतिप्रस्थातुरभावादत्र प्रतिप्रस्थानुरुपहवलाभार्थं कर्मिणां ÷भक्षणविधानम्। क्रमस्तु वारुणप्रवासिक एव तस्य न्यायलभ्यत्वात्।सर्वे तु दीक्षिताः। भक्षयेयुरिति शेषः52। यजमानत्वादेव सर्वेषां भक्षणे प्राप्ते वचनमिदंमैत्रावरुणादीनामस्म53दीयानाम-स्मच्छास्त्रविहितोपायेनैव भक्षणं भवतीत्येवमर्थम्। सर्वेषु०————————————————————————————————————
* घ.—अष्टममण्डलद्रष्टारो मुनयः प्रगाथसंज्ञाः। रहस्यब्राह्मणसूत्रयोस्तथादर्शनात्।तैर्दृष्टं मण्डलं प्रागाथं तत्र दृष्टा प्रगाथसंज्ञेन मुनिना प्रियमेधेन दृष्टा वा प्रागार्थाति देवत्रातभाष्ये।÷घ. — अत्र कर्मिण इति सामान्योक्तवापि न प्रस्तोतृग्रहणं षोलशीनवि विशेषवचनाभावात्।
————————————————————————————————————

मौ भक्षौ। सर्वाधिकारे पुनः सर्वग्रहणं54 सर्वसंग्रहार्थम्। सर्वेषु दीक्षितेष्वितिवचनमसत्रेष्वपिचजमानो गृहपतिशब्देनोच्यत इति ज्ञापनार्थम्। तेन होताऽध्वर्युगृहपतिभ्यामित्यादौयजमानसंप्रत्ययः सिद्धो भवति। गृहपतेस्तृतीयोत्तमभक्षविधानमुपहवे क्रमविधानार्थम्।तेन होत्रादिशब्दैरेवेतरेषामुपहवयाचनं भवति गृहपतिशब्देन यजमानशब्देन वा गृहफ्तेः।एवं सत्यस्य सूत्रस्यार्थवत्ता भवतीति। संप्रेषितः। उत्तरां55 यादिति शेषः। सूयवसा°दध्यात्। परिदध्यादितिवचनं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

उत्तमे प्रागुत्तमाया हविर्हविष्मो
महि सद्मदैवमित्यावपेत॥ ७॥

मूलम्

उत्तमे प्रागुत्तमाया हविर्हविष्मो
महि सद्मदैवमित्यावपेत॥ ७॥

टीका

* उत्तमे प्रवर्ग्यइत्यर्थः॥ ७॥

विश्वास-प्रस्तुतिः

अथोपसत्।

मूलम्

अथोपसत्।

टीका

अथशब्दः संबन्धार्थः प्रवर्ग्यपसदोः। तेन सप्रवर्ग्यायामुपसदि स्थानाचमनप्रपदनानि नभवन्ति। प्रवर्ग्यार्थं प्रपन्न एवोपसदमपि कुर्यात्। अतोऽप्रवर्ग्यायामुपसदि स्थानाचमनादीनिभवन्त्येव।

विश्वास-प्रस्तुतिः

तस्यां पित्र्यया जपाः।

मूलम्

तस्यां पित्र्यया जपाः।

टीका

उक्ता इति शेषः। लुप्यन्त इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रादेशोपवेशने च।

मूलम्

प्रादेशोपवेशने च।

टीका

पित्र्ययैव56 व्याख्याते नेह प्रादेश ईक्षितः सीद होतरिति वोक्त उपविशेदित्येवंब्याख्याते इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रकृत्येहोपस्थः।

मूलम्

प्रकृत्येहोपस्थः।

टीका

पित्र्ययोपवेशना57तिदेशात्सव्योत्तर्युपस्थताप्रसक्तौ दक्षिणोत्तर्युपस्थताऽत्र विधीयते।

विश्वास-प्रस्तुतिः

उपसद्याय मीह्लुषइति तिस्र एकैकां त्रिरनवानन्ताः सामिधेन्यः।

मूलम्

उपसद्याय मीह्लुषइति तिस्र एकैकां त्रिरनवानन्ताः सामिधेन्यः।

टीका

‘उपसद्याय मीहलुषे’इत्येतासां तिसृणामृचां मध्य एकैकामेवर्चं त्रिरनवानमनुब्रूयात्।ता एव नवर्चः सामिधेन्यो भवन्ति। एकैकामिति वचनात्तिसृणां न परस्परं संतानःकार्यः। स्वावृत्तौ तु परस्परं संतानोऽस्त्येव। आसु सर्वे प्रणवास्त्रिमात्रा एव, अवसानविध्यभावात्। यदत्रावसानद्वयमस्ति तच्चार्थप्राप्तम्। सर्वार्थ एकैकामिति पृथक्करणम्।

————————————————————————————————————
* घ. उत्तमश्चाऽऽपराह्णिक इत्येकाहानां तिस्र इति सूत्रे ध्वनयिष्यति।

५ ख. ग. छ. सप्तति°।
————————————————————————————————————

तस्मादत्र चतुर्मात्रताऽवसाने नास्तीति सिद्धम्। नवस्वृक्षु प्रणवोऽस्ति ‘नव सामिधेनीरन्वाह’ इति सर्वासां सामिधेनीत्वात्।

विश्वास-प्रस्तुतिः

तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत्।

मूलम्

तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत्।

टीका

प्रकृतावुत्तमेन प्रणवेन निगदसंधानमुक्तम्। अत्र तु तेनाग्न्यादिदेवतावाहनस्य संधानविधानात् ‘अग्ने महान्’ इत्यादेराज्यभागदेवतावाहनपर्यन्तस्य मन्त्रस्य लोपो भवति।ता देवता आवाह्योपविशेदेव न निगदशेषं ब्रूयादित्येवमर्थमावाह्योपविशेदित्युक्तम्। आज्यपस्विष्टकृदावाहनमर्थ लुप्तमेवेति।

विश्वास-प्रस्तुतिः

नाऽऽवाहयेदित्येके। अनावाहनेऽप्येता एव देवताः।

मूलम्

नाऽऽवाहयेदित्येके। अनावाहनेऽप्येता एव देवताः।

टीका

आवाहनं नाम यष्टव्यानां देवतानां संग्रहणरूपः संस्कारः। तत्राऽऽवाहनप्रतिषेधेसति देवताभावोऽप्याशङ्क्येत तदाशङ्कानिवृत्त्यर्थं वचनम्।

विश्वास-प्रस्तुतिः

अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहात्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदंविष्णुर्विचक्रमे त्रीणि पदा विचक्रम इतिस्विष्टकृदादि लुप्यते प्रयाजा आज्यभागौ च।

मूलम्

अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहात्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदंविष्णुर्विचक्रमे त्रीणि पदा विचक्रम इतिस्विष्टकृदादि लुप्यते प्रयाजा आज्यभागौ च।

टीका

लुप्यन्त इत्यर्थः।

विश्वास-प्रस्तुतिः

नित्यमाध्यायनं निह्नवश्च।

मूलम्

नित्यमाध्यायनं निह्नवश्च।

टीका

उक्त इत्यर्थः।

विश्वास-प्रस्तुतिः

एषैवापराह्णे।

मूलम्

एषैवापराह्णे।

टीका

एषोपसदपराह्णेऽपि कर्तव्या।
तस्यां विशेषानाह-

विश्वास-प्रस्तुतिः

इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः।विपर्यासो याज्यानुवाक्यानां पाण्योश्च निह्नव इत्युपसदः।

मूलम्

इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः।विपर्यासो याज्यानुवाक्यानां पाण्योश्च निह्नव इत्युपसदः।

टीका

इत्थमुपसदः पौर्वाह्णिक्य आपराह्निक्यश्च कर्तव्याः। बहुवचनं वक्ष्यमाणबहुत्वापेक्षम्।

विश्वास-प्रस्तुतिः

सुपूर्वाह्ने स्वपराह्णेच।

मूलम्

सुपूर्वाह्ने स्वपराह्णेच।

टीका

याः पौर्वाह्निक्यस्ताः सुपूर्वाह्णे कर्तव्याः। या आपराह्निक्यस्ताः स्वपराह्ण इति।

विश्वास-प्रस्तुतिः

राजक्रयाद्यहःसंख्यानेनैकाहानां तिस्रः।

मूलम्

राजक्रयाद्यहःसंख्यानेनैकाहानां तिस्रः।

टीका

यस्मिन्नहनि राजक्रयः कृतस्तदाद्यहान्येव संख्यायैकाहानां तित्र उपसदो भवन्ति। पौर्वाह्णिक्यापराह्णिक्या-वकीकृत्यैकोपसद्व्यवहारः। सैबंविधोपसन्त्रिप्वहःसु कर्तव्येत्यर्थः। तान्यहान्युपसद इत्युच्यन्त इत्यर्थः। अत्रैकाहशब्दः प्रकृतिविकृत्योः साधारणः, बहुवचनसंबन्धात्प्रकृत्यर्थत्वेन विध्यन्तराभावाच्च। विकृत्येकाहार्थत्वेन चात्रैव विहितानां प्रयोगकाले परिज्ञानार्थं ‘कर्माचारस्त्वेकाहानाम्’ इत्यत्र संकीर्तनम्।

विश्वास-प्रस्तुतिः

षड्वा।

मूलम्

षड्वा।

टीका

अध्वर्युवशाद्व्यवस्थानिश्चयः।

विश्वास-प्रस्तुतिः

अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम्।

मूलम्

अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम्।

टीका

इतिकारः प्रदर्शनार्थः। तेनाध्वर्युप्रत्ययादुपसन्निश्चय इत्युक्तं भवति।

विश्वास-प्रस्तुतिः

प्रथमयज्ञेनैके घर्मम्।

मूलम्

प्रथमयज्ञेनैके घर्मम्।

टीका

ज्योतिष्टोमस्य प्रथमप्रयोगे धर्ममेके शाखिनो नेच्छन्ति। द्वितीयादावभ्यास58मिच्छन्त्येव। अभ्यासस्तु ‘वसन्ते वसन्ते ज्योतिष्टोमः’ इत्यतो वचनाल्लभ्यते। अभ्यासतएव प्रथमयज्ञत्वं न स्वरूपत इति न्यायसिद्धोऽयमर्थः।

विश्वास-प्रस्तुतिः

औपवसथ्य उभे पूर्वाह्णे।

मूलम्

औपवसथ्य उभे पूर्वाह्णे।

टीका

औपवसथ्येऽहनि ये उपसंदौ ते पूर्वाह्णएव कर्तव्ये। उपसदोऽपकर्षेप्रवर्ग्यो59ऽप्यपकृष्यते।

विश्वास-प्रस्तुतिः

प्रथमस्यामुपसदि वृत्तायां प्रेषितः
पुरीष्यचितयेऽन्वाह होता दीक्षितश्चेत्60

मूलम्

प्रथमस्यामुपसदि वृत्तायां प्रेषितः
पुरीष्यचितयेऽन्वाह होता दीक्षितश्चेत्60

टीका

औपवसथ्ये61ऽहनि या प्रथमोपसत्तस्यां समाप्तायां प्रेषितः पुरीष्य62चित्यर्थमन्वाह होतादीक्षितश्चेत्।

विश्वास-प्रस्तुतिः

यजमानोऽदीक्षिते।

मूलम्

यजमानोऽदीक्षिते।

टीका

अदीक्षित होतरि यजमान एवा63नुब्रूयात्। यजमानोऽदीक्षित इत्येताक्तैव सिद्धेयद्धोता दीक्षितश्चेदिति वचनं तज्ज्ञापयति, अन्यदपि दीक्षितस्य होतुर्विहितमदीक्षितेहोतरि यजमानेन64 कर्तव्यमिति।

विश्वास-प्रस्तुतिः

पश्चात्पदमात्रेऽवस्थायाभिहिंकृत्य
पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवाम्।

मूलम्

पश्चात्पदमात्रेऽवस्थायाभिहिंकृत्य
पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवाम्।

टीका

सप्रणवां समानप्रणवाम्। सर्वे त्रिमात्राः प्रणवा इत्यर्थः।

विश्वास-प्रस्तुतिः

अपि वा सुमन्द्रम्।

मूलम्

अपि वा सुमन्द्रम्।

टीका

सुमन्द्रशब्देन मन्द्रस्याऽऽद्यो द्वितीयो वा यम उच्यते। तेनैवान्वाह नोपांश्चिति।

विश्वास-प्रस्तुतिः

व्रजत्स्वनुव्रजेत्।

मूलम्

व्रजत्स्वनुव्रजेत्।

टीका

व्रजत्स्वध्वर्युष्वनुब्रुवन्ननुव्रजेत्।

विश्वास-प्रस्तुतिः

तिष्ठत्सु विसृष्टवाक्प्रणयतेति ब्रूयात्।

मूलम्

तिष्ठत्सु विसृष्टवाक्प्रणयतेति ब्रूयात्।

टीका

तेषु तिष्ठत्स्वनुवचनारम्भस्थाने स्थित्वा भूर्भुवः स्वरिति वाचं विसृज्य ततः प्रणयतेतिसंप्रैषं ब्रूयात्।

विश्वास-प्रस्तुतिः

अथाग्निं संचितमनुगीतमनुशंसेत्।

मूलम्

अथाग्निं संचितमनुगीतमनुशंसेत्।

टीका

अथेतिपूर्वेणास्य संबन्धार्थः। तेन पूर्वस्मिन्होता दीक्षितश्चेदित्येष धर्मोऽत्रापि भवति।संचितमाग्निंप्रस्तोत्रा65ऽनुगीत-मनुशंसेत्। शंसतिरप्य+यं संस्कारकर्मैवाग्निमिति द्वितीया66निर्देशात्।

विश्वास-प्रस्तुतिः

पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्याग्निरस्मि
जन्मना जातवेदा इति त्रिर्मध्यमया वाचा।

मूलम्

पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्याग्निरस्मि
जन्मना जातवेदा इति त्रिर्मध्यमया वाचा।

टीका

वाग्ग्रहणं स्वरस्य वृत्तेश्च मध्यमत्वसिद्ध्यर्थम्।

विश्वास-प्रस्तुतिः

एतस्मिन्नेवाऽऽसने वैश्वानरीयस्य यजति।

मूलम्

एतस्मिन्नेवाऽऽसने वैश्वानरीयस्य यजति।

टीका

पश्चादग्निपुच्छस्येत्यर्थः।

विश्वास-प्रस्तुतिः

त्रयमेतत्साग्निचित्ये।

मूलम्

त्रयमेतत्साग्निचित्ये।

टीका

** **पुरीष्यचितिरनुशंसनं वैश्वानरीयमित्येतन्त्रयं साग्निचित्येषु क्रतुषु भवति। पुरीष्यचितिरिति67 नामधेयात्पूर्वस्याग्नि-मनुशंसतीति वचनान्मध्यमस्योत्तमस्य चैतस्मिन्नेवाऽऽसन इतिपुच्छसंबन्धादेवास्यार्थस्य सिद्धौ सत्यां सूत्रप्रयोजनमपुच्छा अप्यग्नयः सन्ति तेष्वप्येतत्रयंकर्तव्यमिति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

ब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्ने-
र्बहिर्वेद्यास्त औदुम्बर्याभिहवनात्।

मूलम्

ब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्ने-
र्बहिर्वेद्यास्त औदुम्बर्याभिहवनात्।

टीका

ब्रह्मणोऽयं नियम उच्यते। य उक्त्तोऽग्निप्रणयनेऽप्रतिरथनपस्तं समाप्योपविशेत्। चित्यस्याग्निर्दक्षिणतो बहिर्वैद्यास्त आ औदुम्बर्यामिहवनात्। औदुम्बर्या68आऽभिहवनम्69। आ, अभीत्यत्रोपसर्गौ।

विश्वास-प्रस्तुतिः

उक्तमग्निप्रणयनम्।

मूलम्

उक्तमग्निप्रणयनम्।

टीका

यदुक्तमग्निप्रणयनं तदिदानीं कर्तव्यम्।.

विश्वास-प्रस्तुतिः

दीक्षितस्तु वसोर्धारामुपसर्पेत्॥ ८॥

मूलम्

दीक्षितस्तु वसोर्धारामुपसर्पेत्॥ ८॥

टीका

यदि दीक्षितो ब्रह्मा तदा वसोर्धाराहोमकाले तां प्रतिगच्छेत्। तुशब्दो दीक्षितस्यब्रह्मणोऽयं विशेष इति दर्शयति। तेनेदं सूत्रं ‘ब्रह्माऽप्रतिरथम्’ इत्यस्मात्सूत्रादर्थतोऽन-

———————————————————————————————————

  • क. —अयमिति शंसतिधातुः संस्कारकर्मा।
    ————————————————————————————————————

न्तरं द्रष्टव्यम्। ब्रह्माऽप्रतिरथमित्यस्य सूत्रस्य त्रयमित्यस्मादनन्तरं वचनं साग्निचित्यएव बहिर्वेद्यास70नमिति ज्ञापनार्थम्। तेनान्यत्र वेद्यां बहिर्वेदि वा नात्र नियमः। एतदुक्तंभवति – सर्वत्र सौमिकेऽग्निप्रणयनेऽप्रतिरथं समाप्य दक्षिणत उपविश्याऽऽस्त औदुम्बर्याभिहवनात्। साग्निचित्ये तु वहिर्वेद्युपविश्याऽऽस्ते वसोर्धारां चोपगच्छेदिति॥ ८॥

विश्वास-प्रस्तुतिः

हविर्धाने प्रवर्तयन्ति।

मूलम्

हविर्धाने प्रवर्तयन्ति।

टीका

हविर्धाने शकटे। ते अस्मिन्काले प्रवर्तयन्त्यध्वर्यवः।

विश्वास-प्रस्तुतिः

तदुक्तं सोमप्रवहणेन।

मूलम्

तदुक्तं सोमप्रवहणेन।

टीका

तत्र यत्कर्तव्यं तत्सोमप्रवहणेनोक्तम्।

विश्वास-प्रस्तुतिः

दक्षिणस्य तु हविर्धानस्योत्तरस्य
चक्रस्यान्तरा वर्त्म पादयोः।

मूलम्

दक्षिणस्य तु हविर्धानस्योत्तरस्य
चक्रस्यान्तरा वर्त्म पादयोः।

टीका

तत्रैकं शकटमंत्र तु द्वे अत्र विशेषविध्यर्थस्तुशब्दः। अयमत्र विशेषः- दक्षिणस्यशकटस्य यदुत्तरं चक्रं तस्य यद्वर्त्म तत्पादयोर्मध्ये यथा भवति तथा पश्चादनसस्त्रिपदमात्रेऽतीते यो देशस्तत्र स्थित्वा पूर्वषत्कृत्वाऽनुब्रूयादित्यर्थः।

विश्वास-प्रस्तुतिः

युजे वां ब्रह्म पूर्व्यंनमोभिः प्रेतां यज्ञस्य शंभुवायुवां यमे इव यतमाने यदैतमधिद्वयोरदधाउक्थ्यं वच इत्यर्धर्च आरमेदव्यवस्ता चेद्रराटी।

मूलम्

युजे वां ब्रह्म पूर्व्यंनमोभिः प्रेतां यज्ञस्य शंभुवायुवां यमे इव यतमाने यदैतमधिद्वयोरदधाउक्थ्यं वच इत्यर्धर्च आरमेदव्यवस्ता चेद्रराटी।

टीका

यदि रराट्यव्यवस्ताऽबद्धा भवेत्तदाऽधिद्वयोरदधा उक्थ्यं वच इत्यस्या अर्धर्चआरमेत्।

विश्वास-प्रस्तुतिः

विश्वा रूपाणि प्रतिमुञ्च ते कविरिति व्यवस्तायाम्।

मूलम्

विश्वा रूपाणि प्रतिमुञ्च ते कविरिति व्यवस्तायाम्।

टीका

व्यवस्तायां तस्यां तामीक्षमाणो विश्वा रूपाणीत्यनुब्रूयात्। तस्या अर्धर्च आरमेत्।यदि मेथ्यौ न निहते स्याताम्।

विश्वास-प्रस्तुतिः

मेथ्योरुपनिहतयोः परि त्वा गिर्वणो गिर इति परिदध्यात्॥ ९॥

मूलम्

मेथ्योरुपनिहतयोः परि त्वा गिर्वणो गिर इति परिदध्यात्॥ ९॥

टीका

मेथ्योरुपनिहतयोरेतया परिदध्यात्। अत्र केचिदध्वर्यवः पूर्वंमेथीनिहननं कृत्वा ततोरराटीबन्धनं ततः परिश्रयणं कुर्वन्ति। तत्रापि मेथ्योरुपनिहतयोरितिभूतकालवि71शिष्टत्वेनतयोः श्रवणान्न कश्चिद्दोषः। ऋग्विपर्याशङ्का न कर्तव्या। यथासूत्रमेवेदमनुवचनं72वक्तव्यमिति सिद्धम्॥ ९॥

विश्वास-प्रस्तुतिः

अग्नीषोमौ प्रणेष्यत्सु तीर्थेन प्रपद्योत्तरेणाऽऽग्नीध्रीयायतमंसदश्व पूर्वया द्वारा पत्नीशालां प्रपद्योत्तरेण शालामुस्वीयमतिव्रज्य पश्चादस्योपविश्य प्रेषितोऽनुब्रूयात्सावीर्हिदेव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यंसवितः सर्वताता दिवे दिव आसु वा भूरिपश्व इत्यासीनः।

मूलम्

अग्नीषोमौ प्रणेष्यत्सु तीर्थेन प्रपद्योत्तरेणाऽऽग्नीध्रीयायतमंसदश्व पूर्वया द्वारा पत्नीशालां प्रपद्योत्तरेण शालामुस्वीयमतिव्रज्य पश्चादस्योपविश्य प्रेषितोऽनुब्रूयात्सावीर्हिदेव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यंसवितः सर्वताता दिवे दिव आसु वा भूरिपश्व इत्यासीनः।

टीका

तीर्थेन प्रपदनवचनं प्रपन्नस्याप्यत्र नियमेन प्रपदनार्थम्। पश्चादस्योपविश्येति। शालामुखीयस्येत्यर्थः। उपविष्टस्यै-वाऽऽसीन इति वचनं व्रजत्स्वध्वर्युषु73 प्रथमामसमाप्य नव्रजनायोत्तिष्ठेदित्येवमर्थम्।

विश्वास-प्रस्तुतिः

अनुव्रजन्नुत्तराः।

मूलम्

अनुव्रजन्नुत्तराः।

टीका

अनुब्रूयादिति शेषः।

विश्वास-प्रस्तुतिः

प्रैतु ब्रह्मणस्पतिर्होता देवो अमर्त्यः पुरस्तादुप त्वाऽग्ने दिवे दिवे दोषावस्तरुपप्रियंपनिप्नतमित्यर्धर्च आरमेदाग्नीध्रीये निहितेऽभिहूयमानेऽग्ने जुषस्व प्रतिहर्यतद्वच इति समाप्य प्रणवेनोपरमेत्।

मूलम्

प्रैतु ब्रह्मणस्पतिर्होता देवो अमर्त्यः पुरस्तादुप त्वाऽग्ने दिवे दिवे दोषावस्तरुपप्रियंपनिप्नतमित्यर्धर्च आरमेदाग्नीध्रीये निहितेऽभिहूयमानेऽग्ने जुषस्व प्रतिहर्यतद्वच इति समाप्य प्रणवेनोपरमेत्।

टीका

प्रणवेनोपरमेदित्युक्तेऽधिकेन प्रणवेनेत्याशङ्क्येत। अथ समाप्योपरमेदित्युच्यते तदाप्रणवनिषेधाशङ्का स्यात्। तस्मादुमयविशेषणं कृतम्।

विश्वास-प्रस्तुतिः

उत्तरेणाऽऽग्नीध्नीयमतिव्रजत्स्वतिव्रज्य सोमो जिगाति गातुविद्देवानांतमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत्।

मूलम्

उत्तरेणाऽऽग्नीध्नीयमतिव्रजत्स्वतिव्रज्य सोमो जिगाति गातुविद्देवानांतमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत्।

टीका

आग्नीध्रीयमतिव्रजत्स्वध्वर्युपूत्तरेण तमतिव्रज्य ‘सोमो जिगाति’ इत्येता अनुब्रूयात्।‘तमस्य राजा’ इत्यस्या अर्धर्च आरमेत्।

विश्वास-प्रस्तुतिः

प्रपाद्यमानं राजानमनुप्रपद्येत अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतमस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा क्षेमाचारे।

मूलम्

प्रपाद्यमानं राजानमनुप्रपद्येत अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतमस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा क्षेमाचारे।

टीका

क्षेमायाऽऽचारः क्षेमाचारः। आचरणमाचारः। वाशब्दोऽवधारणार्थः। अस्यामवस्थायां क्षेमार्थं भयप्रतीकारे कर्तव्ये सत्युत्तरयैव परिध्यात्। एवं व्याख्यायमाने प्रत्यक्षश्रुतिरनुसृता भवति।

विश्वास-प्रस्तुतिः

ब्रह्मैवमेव प्रपद्यापरेण वेदिमतिव्रज्य
दक्षिणतः शालामुखीयस्योपविशेत्।

मूलम्

ब्रह्मैवमेव प्रपद्यापरेण वेदिमतिव्रज्य
दक्षिणतः शालामुखीयस्योपविशेत्।

टीका

उत्तरेण शालामुखीयम74तिव्रज्येत्येवमन्तं समानम्। ततोऽपरेण वेदिदेशमतिव्रज्य दक्षिणतः शालामुखीयस्यो-पविशेत्।

विश्वास-प्रस्तुतिः

स होतारमनुत्थाय यथेतमग्रतो व्रजेद्यदि राजानं प्रणयेत्।

मूलम्

स होतारमनुत्थाय यथेतमग्रतो व्रजेद्यदि राजानं प्रणयेत्।

टीका

स ब्रह्मा होतारमुत्थितमनूत्थाय यथेतं प्रत्येत्याग्रतो गच्छेद्यदि ब्रह्मा राजानं प्रणयेत्।यदिशब्दसंबन्धाद्ब्रह्मणः सोमप्रणयनं पाक्षिकमिति गम्यते। प्रणयन एवं भवति।

विश्वास-प्रस्तुतिः

उक्तमप्रणयतः।

मूलम्

उक्तमप्रणयतः।

टीका

यदुक्तं दक्षिणतो व्रजन् ‘आशुः शिशान’ इति सूक्तं जपित्वा ततोऽग्रेणाऽऽहवनीयंपरीत्य तस्य दक्षिणतो निरसनोपवेशने कृत्वा तत्रैवाऽऽसीतेति तदप्रणयतो ब्रह्मणो भवति। प्रणयतस्त्विदानीमुच्यमानं भवति। तच्च प्रणयनमग्रे गमनं (*गृहपतये प्रदाय ततोहविर्धानेऽग्रेणापरेण वाऽतिव्रज्य दक्षिणत आहवनीय75स्य निरस्योपविशेत्। यद्यग्रेण प्रपन्नःस्यात्तदा प्रपाद्यमाने राजनि प्रत्येत्य पुनरपरेणैवातिव्रज्य पूर्वासन एवोपविशेदित्येव-मुमयोःपक्षयोरनुष्ठानविशेषः। )

विश्वास-प्रस्तुतिः

प्राप्य हविर्धाने गृहपतये राजानं प्रदायहविर्धाने अग्रेणापरेण वाऽतिव्रज्यदक्षिणत आहवनीयस्योपविशेत्।

मूलम्

प्राप्य हविर्धाने गृहपतये राजानं प्रदायहविर्धाने अग्रेणापरेण वाऽतिव्रज्यदक्षिणत आहवनीयस्योपविशेत्।

टीका

हविर्धानेप्राप्य गृहपतये राजानं प्रदाय हविर्धाने सोमं चाग्रेणापरेण वाऽतेव्रज्यदक्षिणत आहवनीयस्योपविशेत्। असति द्वितीयहविर्धानग्रहणे राज्ञ एवाग्रेणापरेणवाऽतिव्रजेत्, सति तु तस्मिंस्तयोरप्यग्रेणापरेण वा गमनं भवतीति पुनस्तद्वचनम् \।

विश्वास-प्रस्तुतिः

अग्निपुच्छस्य साग्निचित्यायाम्।

मूलम्

अग्निपुच्छस्य साग्निचित्यायाम्।

टीका

साग्निचित्यायां सोमयागक्रियायामग्निपुच्छस्य दक्षिणत उपविशेत्। एतत्प्रणयतोऽप्रणयतश्च साधारणमुपवेशन स्थानम्।

विश्वास-प्रस्तुतिः

एतद्ब्रह्मासनं पशौ।

मूलम्

एतद्ब्रह्मासनं पशौ।

टीका

एतदासनं ब्रह्मणोऽग्नीषोमीये पशौ भवति। इष्टिषु त्वैष्टिकमेव। इष्टिपशुभ्यामन्यद्यधर्मादि तत्र तस्यैव दक्षिणत आसनं नाऽऽहवनीयस्येति सिद्धम्।

विश्वास-प्रस्तुतिः

प्रातचाऽऽवपाहोमात्।

मूलम्

प्रातचाऽऽवपाहोमात्।

टीका

सौत्ये चाहनि वपाहोमपर्यन्तमाहवनीयस्य दक्षिणत आसीत \। सदःप्रवेशोत्तरकालंसदस्येवाऽऽसीत वचनादन्यत्रेति।
————————————————————————————————————

* धनुश्चिह्नान्तर्गतोऽयं ग्रन्थो घ. झ. पुस्तकयोरावृत्तिभयाद्धनुश्चिह्नान्तर्गतत्वेनदर्शितः।
————————————————————————————————————

विश्वास-प्रस्तुतिः

यदि त्वग्रेण प्रत्येयात्प्रपाद्यमाने॥ १०॥

मूलम्

यदि त्वग्रेण प्रत्येयात्प्रपाद्यमाने॥ १०॥

टीका

गृहपतये राजानं प्रदाय यदि राजानं हविर्धाने चाग्रेण गतः स्यात्तदा प्रपाद्यमानेराजन्या76सनार्थं पुनः प्रत्येयात्। व्यवायपरिहारार्थं तत्र तदानीमेव प्रत्येतव्ये सति किमित्यग्रेण वाऽपरेण वा पूर्वमतिव्रज्य गच्छेत्। तत्र गमने प्रयोजनमस्ति। वैसर्जनहोमोनाम त्रिष्वग्निषु क्रियते। तत्रा77ऽऽहवनीये हूयमाने तस्य दक्षिणत आसनार्थं तदा दक्षिणतो गतः स्यात्। तत्र यदाऽपरेण राजानं हविर्धाने78 च गतः स्यात्तदा तत्रैवाऽऽसीतन प्रत्येयात्। व्यवायाभावात्॥ १०॥

विश्वास-प्रस्तुतिः

अथाग्नीषोमीयेण चरन्ति।

मूलम्

अथाग्नीषोमीयेण चरन्ति।

टीका

पशुनेति शेषः।

विश्वास-प्रस्तुतिः

उत्तरवेद्यामा दण्डप्रदानात्।

मूलम्

उत्तरवेद्यामा दण्डप्रदानात्।

टीका

दण्डं प्रदायेत्युत्तरसूत्रे दण्डप्रदानोत्तरकालमेव सदःप्रवेश विधानादेतावन्तः पदार्था उत्तरवेदिसमीपे कर्तव्या इति प्राप्ते वचनमिदमनीपोप्रीयातिदिष्टधर्मिकायाम नूत्रन्ध्यायां सदसिकर्तव्यायामप्येतावन्तः पदार्था उत्तरखेदिसमीपे कर्तव्या इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धानेअतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वंधिष्ण्यावतिव्रज्य पश्चात्स्वस्य धिष्ण्यस्योपविशति होता।

मूलम्

दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धानेअतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वंधिष्ण्यावतिव्रज्य पश्चात्स्वस्य धिष्ण्यस्योपविशति होता।

टीका

उत्तरेण धिष्ण्यावतिव्रज्येत्युच्यमाने द्वावुत्तरेणेत्याशङ्का स्यात्। तन्निवृत्त्यर्थं यथा-स्वमित्युच्यते। यो यस्य स्वः स्वः यथास्वम्। स्वं स्वं धिष्ण्यमुत्तरेणातिव्रज्य न द्वावुत्तरेणेत्यर्थः। पश्चात्स्वस्येत्येतावता सिद्धेधिष्ण्यस्येतिवचनमागन्तुका अपीष्टयोऽस्मिन्नवसरेऽत्रैवोपविशता कर्तव्या न वेदिश्रोण्यामित्येवमर्थम्।

विश्वास-प्रस्तुतिः

अवतिष्ठत इतरः।

मूलम्

अवतिष्ठत इतरः।

टीका

स्वस्य धिष्ण्यस्य पश्चादवतिष्ठते मैत्रावरुण इत्यर्थः।

विश्वास-प्रस्तुतिः

यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमोवनस्पतिः सविता सत्यप्रसवो बृहस्पतिर्वाचस्पतिरिन्द्रो ज्येष्ठोमित्रः सत्यो वरुणो धर्मपती रुद्रः पशुमान्पशुपतिर्वा।

मूलम्

यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमोवनस्पतिः सविता सत्यप्रसवो बृहस्पतिर्वाचस्पतिरिन्द्रो ज्येष्ठोमित्रः सत्यो वरुणो धर्मपती रुद्रः पशुमान्पशुपतिर्वा।

टीका

यदिशब्दसंयोगादनित्यत्वमेषामवगम्यते। तत्राध्वर्युवशाद्विशेषज्ञानम्। देवसूनां हवींषीत्येषा संज्ञा। अष्टावत्र देवताः सर्वाः सगुणा एव। पशुमान्पशुपतिरिति रुद्रस्य गुणविकल्पः।

विश्वास-प्रस्तुतिः

त्वमग्ने बृहद्वयो हव्यवालग्निरजरः पिता नस्त्वं च सोम नो वशोब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिःप्रससाहिषे पुरुहूत शत्रून्भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इलयामदन्तः प्रसमित्र मर्तो अस्तु प्रयस्वांस्त्वां नष्टवान्महिमाय पृच्छते त्वयाबद्धो मुमुक्षते। त्वं विश्वस्माद्भुवनात्पासि धर्मणा सुर्यात्पासि धर्मणा।यत्किंचेदं वरुण दृष्ये जन उप ते स्तोमान्पशुपा इवाकरमिति द्वे॥ ११॥
यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्वायंतरी वासन्तिक इन्द्रस्त्रैष्टुभःपञ्चदशो बार्हतो ग्रैष्मो विश्वे देवा जागताः सप्तदशा वैरूपा वार्षिकामित्रावरुणावानुष्टुभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पाङ्क्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्यनुमतिः।

मूलम्

त्वमग्ने बृहद्वयो हव्यवालग्निरजरः पिता नस्त्वं च सोम नो वशोब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिःप्रससाहिषे पुरुहूत शत्रून्भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इलयामदन्तः प्रसमित्र मर्तो अस्तु प्रयस्वांस्त्वां नष्टवान्महिमाय पृच्छते त्वयाबद्धो मुमुक्षते। त्वं विश्वस्माद्भुवनात्पासि धर्मणा सुर्यात्पासि धर्मणा।यत्किंचेदं वरुण दृष्ये जन उप ते स्तोमान्पशुपा इवाकरमिति द्वे॥ ११॥
यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्वायंतरी वासन्तिक इन्द्रस्त्रैष्टुभःपञ्चदशो बार्हतो ग्रैष्मो विश्वे देवा जागताः सप्तदशा वैरूपा वार्षिकामित्रावरुणावानुष्टुभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पाङ्क्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्यनुमतिः।

टीका

उ वै इति निपातौ पक्षान्तर विवक्षायां भवतः। सर्वपृष्ठानीति वक्ष्यमाणानां हविषांसंज्ञा। एतानि चान्वायात्यानि। अन्वायात्यानां देवतोपदेशो ध्यानार्थः। अष्टावत्रदेवताः। तत्राऽऽदितः षण्णामग्न्यादीनामेकैकस्या एव चत्वारश्चत्वारो गुणशव्दाः। ततोऽदितिर्विष्णुपत्नीत्येकः79। ततश्चानुमतिः।

समिद्दिशामाशयानः स्वर्विन्मधुरेतो माधवः पात्वस्मान्। अग्निदेवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान्। रथंतरं सामभिःपात्वस्मान्गायत्री छन्दसां विश्वरूपा। त्रिवृन्नो विष्टया स्तोमो अह्नांसमुद्रो वात इदमोजः पिपर्तु। उग्रा दिशामभिभूतिर्वयोधाः शुचिःशुक्रे अहन्योजसीनाम्। इन्द्राधिपतिः पितादतो नो महि क्षत्रं विश्वतोधारयेदम्। बृहत्साम क्षत्रमृवृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरम्।इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष। प्राची दिशां सहयशा यशस्वती विश्वे देवाः प्रावृषाऽह्नां स्वर्वती। इदं क्षत्रं दुष्टरमस्त्वोजोऽनावृष्यं सहस्यं सहस्वत्। वैरूपे सामन्निह तच्छकेयं जगत्येनं80 विक्ष्वावे शयानि। विश्वे देवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रम्।धर्त्रीदिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः। मित्रावरुणा शरदाह्नांचिकित्वमस्मै राष्ट्राय महि शर्म यच्छतम्। वैराजेसामन्नधि मे मनीषाऽनुष्टुभा संभृतं वीर्यं सहः। इदं क्षत्रं मित्रवदार्द्रदानुं मित्रावरुणा रक्षतमाधिपत्ये। सम्राड्दिशांसहसाम्नी सहस्वत्यृतर्हेमन्तो विष्टया नः पिपर्तु। अवस्यु वाता बृहती नु शक्वरीमं यज्ञमवतु नो घृताची। स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची। त्वं गोपाः पुर एतोत पश्चाद्बृहस्पते याभ्यां युङ्धि वाचम्। ऊर्ध्वां दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नाम्। रैवत्सामातिच्छन्दा उच्छन्दोऽजातशत्रुः स्योना नो अस्तु। स्तोमत्रयस्त्रिंशे भुवनस्य पत्नी विवस्वद्वाते अभि नो गृणीहि। घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु। ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता। बृहस्पतिर्मातरिश्वोत वायुः संध्वाना वाता अभि नो गृणन्तु। विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी। व्यचस्वतीषयन्ती सुभूतिः शिवा नो अस्त्वदितेरुपस्थे। अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम्। अनिश्च हव्यवाहनो भवतं दाशुषे मयः। अन्विदनुमते त्वं मन्यासै शं च नस्कृधि। क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषदिति वैश्वानरीयं नवमं * कायं दशमम्।

नवमदशमशब्दावेतयोरपि सर्वपृष्ठान्तर्भावार्थौ।

विश्वास-प्रस्तुतिः

को अद्य युङ्क्तेधुरि गा ऋतस्येति द्वे
औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन्।

मूलम्

को अद्य युङ्क्तेधुरि गा ऋतस्येति द्वे
औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन्।

टीका

उपयड्ढोमार्था औपयजाः। तैरङ्गारैर्व्यवायपरिहारे यत्नः कर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

आग्नीध्रीयाच्चेदुत्तरेण होतारम्।

मूलम्

आग्नीध्रीयाच्चेदुत्तरेण होतारम्।

टीका

तेषामाग्नीध्रीयादाहरणे81 क्रियामाण उत्तरेण होतारं पश्चान्नीत्वा तमेव दक्षिणेन हृत्वा होत्रीये निधानं कर्तव्यम्।

विश्वास-प्रस्तुतिः

शामित्राच्चेद्दक्षिणेन मैत्रावरुणम्।

मूलम्

शामित्राच्चेद्दक्षिणेन मैत्रावरुणम्।

टीका

शामित्रादाहरणेऽन्तरा यूपमाहवनीयं चदक्षिणाऽतिहृत्य दक्षिणेन विहारं पश्चान्नीत्वा मैत्रावरुणं च तस्योत्तरतो हृत्वा होत्रीय एवं निधानं भवति। उपायोपदेशादेवा स्मिन्नर्थे

————————————————————————————————————

* क. वैश्वानरीयं नवममित्यत्र नवममितिवचनमदितिर्विष्णुपत्नीत्येव देवतेति ज्ञापनार्थम्। कायं दशममिति वचनं नवममित्युक्तत्वात्। अथ वा कायं नवमं दशमं वा भवतीति ज्ञापनार्थम्। अथवा संबन्धकरणार्थम्। अथवाऽन्यत्रापि यत्र वैश्वानरीयं नवमं दशमं कायं भवति तत्र कायस्थेहोक्ते एव याज्यानुवाक्ये कथं स्यातां न वरुण प्रघासेषूक्ते इति सिद्धान्तभाष्ये।
————————————————————————————————————

पूर्वसूत्रं व्यवायपरिहारार्थमेवायमुपाय उपदिश्यते नादृष्टार्थमिति ज्ञापनार्थम्। तेन यत्रैवंकृते व्यवायो नास्ति तत्रैवं82 कर्तव्यम्। यत्र पुनरेवं कृते व्यवाय एव स्यात्तत्रैव न कर्तव्यंयथा सवनीयादौ। तत्र ह्युत्तरेणाऽऽग्नीध्रीयं परिव्रज्य सदः प्रसृप्तमिति।

विश्वास-प्रस्तुतिः

उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात्।

मूलम्

उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात्।

टीका

निष्क्रम्य वेदं गृह्णीयादित्येतावता सिद्ध उपोत्थानवचनं पदार्थव्यत्यासेऽपि प्राकृतमेवेदमुपोत्थानमिति ज्ञापनार्थम्। तेनास्य समन्त्रत्वं साधितं भवति। अग्र इतिवचनमन्यत्रापिपूर्वकाले क्रियमाणेनोपोत्थानेन पत्नीसंयाजार्थं गमनसिद्धौ तस्मिन्नेवोपोस्थाने मन्त्रप्रापणार्थम्। तेन यथा प्रसप्तमित्यत्र च ‘उदायुषा’ इत्युत्तिष्ठेत्। वेदग्रहणं तु सख्यवितर्जनोत्तरकालमेवेति सिद्धम्।

विश्वास-प्रस्तुतिः

नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः।

मूलम्

नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः।

टीका

हृदयशूलोद्वासनमित्यर्थः।

विश्वास-प्रस्तुतिः

संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन्॥ १२॥

मूलम्

संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन्॥ १२॥

टीका

वसतीवरीणां परिहारे क्रियमाणे दीक्षिता अन्तर्भवेयुः। अदीक्षिता बहिः स्युरित्ययेवमर्थे वचनम्॥ १२॥

विश्वास-प्रस्तुतिः

अथैतस्या रात्रेर्विवासकाले प्राग्वयसां प्रवादात्मातरनुवाकायाऽऽमन्त्रितो वाग्यतस्तीर्थेन प्रपद्याऽऽग्नीध्रीये जान्वाच्याऽऽहुतिं जुहुयात्। आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्यै स्वाहेति।

मूलम्

अथैतस्या रात्रेर्विवासकाले प्राग्वयसां प्रवादात्मातरनुवाकायाऽऽमन्त्रितो वाग्यतस्तीर्थेन प्रपद्याऽऽग्नीध्रीये जान्वाच्याऽऽहुतिं जुहुयात्। आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्यै स्वाहेति।

टीका

एतस्या रात्रेरितिवचनाद्वात्रावेवायं पशुः समापनीय इति गम्यते। यस्यां रात्रौ पशोः समाप्तिस्तस्या एतस्या विवासकालेऽन्त्ये चतुर्थमागे प्राक्पक्षिणां प्रवदना83त्प्रातरनुवाकायाऽऽमन्त्रितो वाग्यतस्तीर्थेन प्रपद्याऽऽग्नीधीये जान्वाच्याऽऽहुतिं जुहुयादासन्यान्मा मन्त्रादित्यनेन। वाग्यतस्तीर्थेनेतिवचनं प्रपदनकालादारम्य वाग्यमनसिद्ध्यर्थम्। आहुतिमितिवचनमाग्नीधीये जान्वाच्यैकामाज्याहुर्ति जुहुयादाहवनीयेऽन्ये द्वे इति ज्ञापनार्थम्। तेनोत्तरयोरप्याहुत्योर्जान्वाच्येति सिद्धं भवति। प्रातरनुवाकायाऽऽमन्त्रितस्य विधानादस्य सर्वस्यविधेः प्रातरनुवाकाङ्गत्वं भवति। अतस्तस्याऽऽवृत्तावावृत्तिर्भवति।

विश्वास-प्रस्तुतिः

आहवनीये वागग्रेगा अग्र एतु सरस्वत्यै वाचे स्वाहा। वाचं देवींमनोनेत्रां विराजमुग्रां जैत्रीमुत्तमामेह भक्षाम्। तामादित्यानावमिवाऽऽरुहेमानुमतां पथिभिःपारयन्तीं स्वाहेति द्वितीयाम्।

मूलम्

आहवनीये वागग्रेगा अग्र एतु सरस्वत्यै वाचे स्वाहा। वाचं देवींमनोनेत्रां विराजमुग्रां जैत्रीमुत्तमामेह भक्षाम्। तामादित्यानावमिवाऽऽरुहेमानुमतां पथिभिःपारयन्तीं स्वाहेति द्वितीयाम्।

टीका

द्वितीयाग्रहणमाद्दुतिमित्येकवचनस्य प्रकृतत्वादत्राप्येकैवाऽऽहुतिर्मा भूदित्येवमर्थम्।

विश्वास-प्रस्तुतिः

आऽतः समानं ब्रह्मणश्च।

मूलम्

आऽतः समानं ब्रह्मणश्च।

टीका

** **चशब्दो होतुरनुकर्षणार्थः। ब्रह्मणश्च होतुश्चायं विधिः समान इत्यर्थः। होतुरर्थतयाविहितस्यानुकर्षणात्प्रापणस्येदं प्रयोजनं ब्रह्मणः प्रथमं प्रपदनं पश्चाद्धोतुरिति।

विश्वास-प्रस्तुतिः

प्राप्य हविर्धाने रराटीमाभिमृशत्युर्वन्तरिक्षंवीहीति।

मूलम्

प्राप्य हविर्धाने रराटीमाभिमृशत्युर्वन्तरिक्षंवीहीति।

टीका

हविर्धानशब्देन हविर्धानसमीपमुच्यते। यस्यां शालायां हविर्धाने तिष्ठतस्तस्याःशालायाः पूर्वस्मिन्द्वारे रराटीनामरज्जुर्बद्धातामभिमृशति। प्राप्य हविर्धाने। हविर्धानयोःसमीपवर्तिशालायाः पूर्वद्वारं प्राप्येत्यर्थः।

विश्वास-प्रस्तुतिः

द्वार्येस्थूणे देवी द्वारौ मा मा संताप्तंलोकं मेलोककृतौ कृणुतमिति।

मूलम्

द्वार्येस्थूणे देवी द्वारौ मा मा संताप्तंलोकं मेलोककृतौ कृणुतमिति।

टीका

द्वारिभवे द्वार्ये। दक्षिणेन पाणिना पर्यायेणाभिमर्शनम्। मन्त्रस्तु सकृदेव द्विवचनलिङ्गत्वात्।

विश्वास-प्रस्तुतिः

प्रपद्यान्तरेण युगधुरा उपविश्यप्रेषितः प्रातरनुवाकमनुब्रूयान्मन्द्रेण।

मूलम्

प्रपद्यान्तरेण युगधुरा उपविश्यप्रेषितः प्रातरनुवाकमनुब्रूयान्मन्द्रेण।

टीका

हविर्धानयोर्मध्यदेशं प्रपद्य युगधुरावन्तरेणोपविशेत्। तत्रोपविश्य प्रेषितः सन्प्रातरनुवाकमनुब्रूयान्मन्द्रेण स्वरेण। प्रेषितवचनमन्यत्र व्यापृते सति होतर्यन्योऽपि प्रेषितोऽनुब्रूयात्प्रातरनुवाकामित्येवमर्थम्। अप्राप्तोऽयं मन्द्रस्वरो विधीयते। तेन ज्ञायते कार्यसंबद्धाना84मेवातिदेशेन प्राप्तिर्न85 विधिसं8684द्धा86नामिति।

विश्वास-प्रस्तुतिः

आपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इतिसूक्ते अवा नो अग्नइति षलग्निमीलेऽग्निं दूतं वसिष्वाहीति सूक्तयोरुत्तमामुद्धरेत्त्वमग्ने व्रतपाइत्युत्तमामुद्धरेत्त्वं नो अग्ने महोभिरिति नवेमे विप्रस्येतिसूक्ते युक्ष्वा हिश्रेष्ठं वस्त्वमग्ने बृहद्वय इत्यष्टादशाचन्तस्त्वेतिसूक्ते अग्ने पावक दूतं वइति सूक्ते अग्निर्होता नो अध्वर इति तिस्रोऽग्निर्होताऽग्न इलति चैतस्रः87प्र वो वाजा उपसद्याय त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेदनेहंस्यग्निं हिन्वन्तु नः प्राग्नये वाचमितिसूक्त इमाँ मे अग्ने समिधमिमामिति त्रयाणामुत्तम मुद्धरेदिति गायत्रं त्वमग्ने वसूस्त्वं हि क्षैतवदनायोहोताऽजनिष्ट प्र वो देवायाग्ने कदा त इति पञ्च सखायः सं वस्त्वामनेहविष्मन्त इतिसूक्त बृहद्वय इति दशानां चतुर्थनवमे उद्धरेदुत्तमामुत्तमांचाऽऽदितस्त्रयाणामित्यानुष्टुममबोध्यग्निः समिधेति चत्वारि प्राग्नये बृहतेप्रवेधसे कवये त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वार्यूर्ध्व ऊषुणः ससस्य यद्वियुतेति पञ्च भद्रं ते अग्न इति सूक्तेसोमस्य मा तवसंप्रत्यग्निरुषस इति त्रीण्याहोतेति दशानां तृतीयाष्टमेउद्धरेद्दिवस्परीतिसूक्तयोः पूर्वस्योत्तमामुद्धरेत्त्वं ह्यग्ने प्रथम इति षण्णां द्वितीयमुद्धरेपुरो वो मन्द्रमिति चत्वारि तं सुप्रतीकमिति पडतुवे वः सुद्योत्मानंनि होता हो तृषदन इति सूक्ते त्रिमूर्धानमिति त्रीणि वह्निं यशसमुपत्रजिन्वन्निति त्रीणि का त उपेतिरितिसूक्ते हिरण्यकेश इति तिस्रोपश्यमस्य महत इति सूक्ते द्वे विरूपे इतिसूक्ते अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत्त्वमग्ने सुहवो रण्व संहगिति पञ्चाग्निं वोदेवमिति दशानां तृतीयचतुर्थे उद्धरेदिति त्रैष्टुभमेना वो अग्निं प्र वोयह्वमग्नेविवस्वत्सखायस्त्वाऽयमग्निरग्न आयाह्यच्छा नः शीरशोचिषमिति पलदर्शि गातुवित्तम इति सप्तेति बार्हतमग्नेवाजस्येति तिस्रः पुरुत्वा त्वाम्ग्नईलिष्वाहीत्यौष्णिहं जनस्य गोपास्त्वामग्नऋतायव इममूषु वो अतिथिमुपर्बुधमिति नव त्वमग्ने द्युमिरितिसूक्ते त्वमग्ने प्रथमोअङ्गिरा नूचित्सहोजा अमृतो नितुन्दत इति पञ्च वेदिषद इति षण्णांतृतीयमुद्धरेदिमं स्तोममर्हते संजागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतमग्निं तं मन्य इति पाङ्क्तम्।

मूलम्

आपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इतिसूक्ते अवा नो अग्नइति षलग्निमीलेऽग्निं दूतं वसिष्वाहीति सूक्तयोरुत्तमामुद्धरेत्त्वमग्ने व्रतपाइत्युत्तमामुद्धरेत्त्वं नो अग्ने महोभिरिति नवेमे विप्रस्येतिसूक्ते युक्ष्वा हिश्रेष्ठं वस्त्वमग्ने बृहद्वय इत्यष्टादशाचन्तस्त्वेतिसूक्ते अग्ने पावक दूतं वइति सूक्ते अग्निर्होता नो अध्वर इति तिस्रोऽग्निर्होताऽग्न इलति चैतस्रः87प्र वो वाजा उपसद्याय त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेदनेहंस्यग्निं हिन्वन्तु नः प्राग्नये वाचमितिसूक्त इमाँ मे अग्ने समिधमिमामिति त्रयाणामुत्तम मुद्धरेदिति गायत्रं त्वमग्ने वसूस्त्वं हि क्षैतवदनायोहोताऽजनिष्ट प्र वो देवायाग्ने कदा त इति पञ्च सखायः सं वस्त्वामनेहविष्मन्त इतिसूक्त बृहद्वय इति दशानां चतुर्थनवमे उद्धरेदुत्तमामुत्तमांचाऽऽदितस्त्रयाणामित्यानुष्टुममबोध्यग्निः समिधेति चत्वारि प्राग्नये बृहतेप्रवेधसे कवये त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वार्यूर्ध्व ऊषुणः ससस्य यद्वियुतेति पञ्च भद्रं ते अग्न इति सूक्तेसोमस्य मा तवसंप्रत्यग्निरुषस इति त्रीण्याहोतेति दशानां तृतीयाष्टमेउद्धरेद्दिवस्परीतिसूक्तयोः पूर्वस्योत्तमामुद्धरेत्त्वं ह्यग्ने प्रथम इति षण्णां द्वितीयमुद्धरेपुरो वो मन्द्रमिति चत्वारि तं सुप्रतीकमिति पडतुवे वः सुद्योत्मानंनि होता हो तृषदन इति सूक्ते त्रिमूर्धानमिति त्रीणि वह्निं यशसमुपत्रजिन्वन्निति त्रीणि का त उपेतिरितिसूक्ते हिरण्यकेश इति तिस्रोपश्यमस्य महत इति सूक्ते द्वे विरूपे इतिसूक्ते अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत्त्वमग्ने सुहवो रण्व संहगिति पञ्चाग्निं वोदेवमिति दशानां तृतीयचतुर्थे उद्धरेदिति त्रैष्टुभमेना वो अग्निं प्र वोयह्वमग्नेविवस्वत्सखायस्त्वाऽयमग्निरग्न आयाह्यच्छा नः शीरशोचिषमिति पलदर्शि गातुवित्तम इति सप्तेति बार्हतमग्नेवाजस्येति तिस्रः पुरुत्वा त्वाम्ग्नईलिष्वाहीत्यौष्णिहं जनस्य गोपास्त्वामग्नऋतायव इममूषु वो अतिथिमुपर्बुधमिति नव त्वमग्ने द्युमिरितिसूक्ते त्वमग्ने प्रथमोअङ्गिरा नूचित्सहोजा अमृतो नितुन्दत इति पञ्च वेदिषद इति षण्णांतृतीयमुद्धरेदिमं स्तोममर्हते संजागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतमग्निं तं मन्य इति पाङ्क्तम्।

टीका

एतदाम्नानं88 प्रातरनुवाकार्थम्। अत्र विच्छन्दसां विदेवतानां चोद्धारो विधीयते।अनुष्टुप्सु पङ्क्तीनां विच्छन्दस्त्वादुद्धारो89 नामीष्टः। अत उत्तमामुत्तमां चाऽऽदित इत्यत्रछन्दस एवाऽऽदित इत्यवगन्तव्यम्।

विश्वास-प्रस्तुतिः

इत्याग्नेयः क्रतुः॥ १३॥

मूलम्

इत्याग्नेयः क्रतुः॥ १३॥

टीका

एतावान्समाम्नायोऽग्निदेवस्य इत्यर्थः। तेन ‘ऊर्ध्व ऊषुण ऊतये’ इत्यस्य प्रागुक्तस्य प्रगाथस्य यूपाभिधाने विनियुक्तस्याप्याग्नेयमध्यवर्तित्वालिङ्गाविरोधाच्चाऽऽग्नेयत्वंसाधितं भवति। अस्य क्रतुरिति संज्ञा भवति॥ १३॥

विश्वास-प्रस्तुतिः

अथोषस्यः।

मूलम्

अथोषस्यः।

टीका

क्रतुरिति शेषः। आग्नेयः क्रतुरुक्तः। अथेदानीमुषस्यः क्रतुरुच्यत इत्यर्थः।

** प्रतिष्या सूनरी कस्त उप इति तिस्र इति गायत्रमुषोभद्रेभिरित्यानुष्टुभमिदं श्रेष्ठं पृथूरथ इतिसूक्ते प्रत्यर्चिरित्यष्टौ द्युतद्यामानमुषो वाजेनेदमुत्यदुदु श्रिय इतिसूक्ते व्युषाआ वो दिविजा इति षलिति त्रैष्टुभंप्रत्यु अदर्शि सह वामेनेति बार्हतमुषस्तच्चित्रमामरेति तिस्र औष्णिहमेता उत्या इति चतस्रो जागतं महे नो अद्येति पाङ्क्तमित्युषस्यः क्रतुः॥ १४॥**

उभयत्रोषस्यवचनम्, अयं क्रतुः कृत्स्नः प्रयोक्तव्य इत्येवमर्थम्॥ १४॥

विश्वास-प्रस्तुतिः

अथाऽऽश्विनः।

मूलम्

अथाऽऽश्विनः।

टीका

** ** क्रतुरिति शेषः।

एषो उषाःप्रातर्युजेति चतस्रोऽश्विना यज्वरीरिष आश्विनावश्वावत्यागोमदूषु नासत्येति तृच दूरादिहेवेति तिस्र उत्तमा उद्धरेद्वाहिष्ठो वां हवानामिति चतस्र उदीराथा मा मे हवमिति गायत्रं यदद्यस्थइतिसूक्ते आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभमामात्यग्निरितिसूक्ते ग्रावाणेव नासत्याभ्यामिति त्रीणि धेनुः प्रत्नस्य क उ श्रवदितिसूक्ते स्तुपे नरेतिसूक्ते युवो रजांसीति पञ्चानां तृतीयमुद्धरेत्प्रति वांस्थमिति सप्तानां द्वितीयमुद्धरेदिति त्रैष्टुभमिमा उ वामयं वामोत्यमह्वआरथमिति सप्त द्युम्नीवां यत्स्थ इति बार्हतमश्विनावर्तिरस्मदाश्विनावेह गच्छतमिति तृचौ युवोरुपूरथं हुव इति पञ्चदशेत्यौष्णिहमबोध्यग्निज्र्म एषस्य भानुरावां रथमभूदिदं यो वां परिज्मेति त्रीणित्रिश्चिन्नो अद्येले द्यावापृथिवी इति जागतं प्रति प्रियतममिति पाङ्क्तम्। इत्येतेषां छन्दसां पृथक्सूक्तानि प्रातरनुवाकः।

कर्तव्य इति शेषः। यान्येतानि त्रिषु क्रतुषु सप्त सप्त च्छन्दांस्यनुक्रान्तानि तेषांसर्वेषां पृथक्सूक्तानि गृह्णीयात्। न किंचिदपि च्छन्दः परिवर्जयेत्। सर्वेषां छन्दसामेकैकं सूक्तं गृह्णीयादित्यर्थः। सूक्तग्रहणं सूक्तानामखण्डनार्थम्। एवं क्रियमाणे यावानृक्समूहःसंपद्यते स प्रातरनुवाको भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

शतप्रभृत्यपरिमितः।

मूलम्

शतप्रभृत्यपरिमितः।

टीका

पूर्वोक्तादन्योऽयं प्रातरनुवाकः शतप्रभृत्यपरिमित इति। शताधिको द्विशतादर्वागनियतसंख्य इत्यर्थः। अत एवास्मिन्प्रातरनुवाकेऽर्थात्सूक्तखण्डनं90 भवति। एवमादीनांलघूनां साद्यस्क्रे संसवे च प्रयोगो भवति। तत्र त्वरायाश्चिकीर्षितत्वादिति।

विश्वास-प्रस्तुतिः

नान्यैराग्नेयंगायत्रमत्यावपेद्ब्राह्मणस्य।

मूलम्

नान्यैराग्नेयंगायत्रमत्यावपेद्ब्राह्मणस्य।

टीका

अन्यैश्छन्दोभिराग्नेयं गायत्रं छन्दो नात्यावपेत्। अन्यैरिति बहुवचनस्य त्रिप्वेष चरितार्थत्वात्रिभिरत्यावापो न कर्तव्यः। त्रिभिरधिकैरत्यावापे न दोषः। एष नियमो ब्राह्मणस्य।

विश्वास-प्रस्तुतिः

न त्रैष्टुभं राजन्यस्य न जागतं वैश्मस्य।

मूलम्

न त्रैष्टुभं राजन्यस्य न जागतं वैश्मस्य।

टीका

आग्नेयामित्यनुवर्तते, अस्थावपेदिति च।

विश्वास-प्रस्तुतिः

अध्यासवदेकपदद्विपदाः।

मूलम्

अध्यासवदेकपदद्विपदाः।

टीका

उपसमस्य प्रणुयादित्यर्थः। उपसमासो नाम पूर्वस्या ऋचोऽन्ते प्रणवमकृत्वा ऋगक्षरवशेनैकपदद्विपदाः संधाय तासामन्ते प्रणवं कुर्यात्। अत्र तासां बहुत्वासंभवाद्बहुवचनोपदेशसामर्थ्यादन्यस्याप्ययं विधिर्भवतिग्रावस्तोत्रे। अयमुपसमास एकपातिन्या एवद्विपदायाः। अनेकद्विपदासंहतौ पच्छ एष वक्तव्याः। पच्छो द्विपदां त्रिरनुवचनेऽपितथादर्शनात्।

विश्वास-प्रस्तुतिः

यथास्थानं ध्रुवाणि माङ्गलान्यगन्म
महाऽतारिष्मेले द्यावापृथिवी इति।

मूलम्

यथास्थानं ध्रुवाणि माङ्गलान्यगन्म
महाऽतारिष्मेले द्यावापृथिवी इति।

टीका

यथास्थानमिति। यस्मिन्क्रम एतानि विहितानि तस्मिन्नेवक्रमे91ऽनुवक्तव्यानीत्यर्थः। ध्रुवाणीतिवचनाच्छत-कल्पेऽप्येषां खण्डनं मा भूदति गम्यते। माङ्गलानीति चैषां संज्ञाभवति। विध्यन्तरविहितत्वात्स्वस्य च्छन्दसोऽधिकान्येतानीति गम्यते।

विश्वास-प्रस्तुतिः

संजागृवद्भिरिति च यः प्रेष्यन्स्वर्गकामः।

मूलम्

संजागृवद्भिरिति च यः प्रेष्यन्स्वर्गकामः।

टीका

यः पुनर्यजमानो मरिष्यदवस्थो वर्तते स यद्येवं कामयेत यदि मरिष्यामि स्वर्गमाप्नुयामिति तस्यैतदपि माङ्गलं भवतीत्यर्थः।

विश्वास-प्रस्तुतिः

ईलेद्यावीयमावर्तयेदा तमसोऽपघातात्।

मूलम्

ईलेद्यावीयमावर्तयेदा तमसोऽपघातात्।

टीका

यदेलेद्यावीयपर्यन्ते सूक्ते तमसोऽपघातो न जायते तदा तदेव सूक्तमावर्तयेद्यावत्तमोऽपगच्छेत्।

विश्वास-प्रस्तुतिः

काल उत्तमयोत्सृप्याऽऽसनान्मध्यमस्थानेन
प्रतिप्रियतमभित्युपसंतनुयात्।

मूलम्

काल उत्तमयोत्सृप्याऽऽसनान्मध्यमस्थानेन
प्रतिप्रियतमभित्युपसंतनुयात्।

टीका

काले तमस्यपहत इत्यर्थः। ईलेद्यावीयस्योत्तमयर्चा प्रतिप्रियतममितिसूक्तमुपसंतनुयात्। पूर्वासनादुत्सृप्यैतत्कर्तव्यम्। एतदुक्तं भवति92 – प्रातरनुवाकस्याऽऽदित आरम्बेलेद्यावीयपर्यन्तं मन्द्रस्वर आरोहक्रमेण सर्वः प्रयोक्तव्यः। ईलेद्यावीयस्योत्तमर्गन्तेनमन्द्रस्योत्तमेन यमेन प्रतिप्रियतममित्येतद्विषयं मध्यमस्य प्रथमं यममारभते93। अस्मिन्सूक्त उत्तमायाः प्रागेवाऽऽरोहिक्र94मेणैव मध्यमस्वरं सर्वं प्रयुञ्जीत। ततो मध्यमस्योत्तमेन यमेनोत्तमर्गन्तमुत्तमस्य प्रथमं यममाददीत। आदायाऽऽरोहिक्र95मेणैवोत्तमं स्वरं तस्यामेवर्चिसर्वं

_____________________________________________________________

२ ङ झ. °मो ग°।
————————————————————————————————————

प्रयुञ्जीत। एवं स्वरसंक्रमणेनानभ्याहतं भवति। उत्सर्पणं च पूर्वत्रोत्तमायाः समाप्तिक्षणउत्तरत्रोपोत्तमायाः समाप्तिक्षण इत्यर्थः।

विश्वास-प्रस्तुतिः

पुनरुत्सृप्योत्तमयोत्तमस्थानेन परिदध्यादन्तरेण द्वार्येस्थूणे अनभ्याहतमाश्रावयन्नित्वाऽऽश्रावयन्निव॥ १५॥

मूलम्

पुनरुत्सृप्योत्तमयोत्तमस्थानेन परिदध्यादन्तरेण द्वार्येस्थूणे अनभ्याहतमाश्रावयन्नित्वाऽऽश्रावयन्निव॥ १५॥

विश्वास-प्रस्तुतिः

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के चतुर्थोऽध्यायः॥ ४॥

मूलम्

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के चतुर्थोऽध्यायः॥ ४॥

टीका

———

उत्सर्पणस्वरूपमत्रैवं भवति बद्धासन एवं पूर्वस्थानात्स्थानान्तर उत्पतनम्। युगधुरावन्तरेणोपविष्टः सन्प्रथममुत्सृप्य पूर्वासनात्पुरतः96 सन्प्रतिप्रियतममित्यष्टावन्वाह। ततः पुनरुत्सर्पणे द्वार्येस्थूणे अन्तरेण सन्नुत्तमया परिदध्यात्। आश्रावणस्य सिद्धवदुपदेशात्तस्यैवंस्वरो भवतीति निश्चीयते। एतदुक्तं भवति - मन्द्रादीनां मध्ये यस्मिन्ना श्रावणं प्रयुज्यतेतस्य स्वरस्य सर्वे यमा आश्रावणे प्रयोक्तव्याः। प्रत्याश्रावणेऽप्येवं प्रयोगसिध्यर्थमाश्रावणदृष्टान्तः कृतः। इदमनुक्चनं प्रधानकर्म शंसतिवत्। ननु सर्वाण्यनुवचनान्यग्निमन्थनादीनि संस्कारकर्माणीति प्रसिद्धम्। सत्यं प्रसिद्धम्। तत्र संस्कार्यस्य समन्वयो97ऽस्त्वग्न्यादेः। नन्वत्रापि प्रातर्याव्णामग्न्युषोऽश्विनां समन्वयो दृश्यते संप्रैषतो98 मन्त्रलिङ्गाच्चेति। सत्यं समन्वयोऽस्ति। तस्य संस्कार्यत्वे प्रमाणं नास्ति स्तौति शंसत्यादावप्य*भिधेयतया समन्वयस्य इष्टत्वात्। यत्तु संप्रैषत99 इति तच्च प्रातर्यावदेवतासंबन्धिगुणसंकीर्तनार्थमनुब्रूहीत्येवमपि भविष्यति। एषां कार्या100न्तरार्थानामन्त्राभिधान101मित्यनवगमात्। उषःसंबन्धि तु कर्म ज्योतिष्टोमे क्वचिदपि न दृश्यते। अग्न्यश्विसंवन्धि त्वरत्येव। तथाऽपितत्कर्मसंबन्धितारूपमत्र चिकीर्षितमित्यन102वगमात्प्रधानकर्मैवैतदिति निश्चिनुमः। यदि पुनःकर्मान्तर103संवन्धिद्रव्यसंवन्ध104मात्रादेव संस्कारत्वमभ्युपगतं स्यात्तत्र105 सर्वेषां स्तौतिशंसतीनांसंस्कारकर्मत्वमेव स्यात्। अत्र चानुवचनवैधर्म्ये लिङ्गमस्ति। मनसा ते वाचं प्रतिगृह्णामि’ इति प्रातरनुवाकमनुब्रुवन्तं होतारमध्वर्युराहेत्यत्र प्रतिगरः संस्तुतिलिङ्गम्।तथा106 चास्य संनिधौ107 विश्वरूपा नाम स्तुतिर्वाग्देवत्यायामृचि क्रियते। तस्याश्च प्रधानकर्मत्वमवगतम्। तत्साहचर्याच्च प्रधानकर्मेति सिद्धम्। चिन्ताप्रयोजनं108 स्वावसरे तदक्रि-109
————————————————————————————————————

* क. - वाच्यतया।
————————————————————————————————————

यायामा110 सोमप्रयोगपरिसमाप्तेर्विपर्यासप्रायश्चित्तं कृत्वा पुनस्तदपि कर्तव्यमेव प्रधानकर्मत्वे। संस्कारकर्मत्वे111 सति संस्कार्ये प्रायश्चित्तमेव112न पुनः प्रयोग इति॥ १५॥

इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायां चतुर्थोऽध्यायः॥ ४॥
——
अथ पञ्चमोऽध्यायः।
——


  1. " घ. ङ. झ. तच्चाऽऽघा° ।" ↩︎

  2. " ङ. झ. तदा ।" ↩︎

  3. “क. °न्येषां ।” ↩︎

  4. “ख. ग. °क्रमेण य° ।” ↩︎

  5. “झ. °काहेषु षो° ।” ↩︎

  6. “ख. ग. सह कृ° ।” ↩︎

  7. " क. °धे क° ।" ↩︎

  8. “ख. ग. य. ङ. च.झ. न पा° ।” ↩︎

  9. “झ. °कत्वसंभवेऽपि ।” ↩︎

  10. “ख ग °श्चित्तमपि ।” ↩︎

  11. “ख. ग. °रणीयादा° । ङ. झ. °रणादा° ।” ↩︎

  12. “ख. ग. °वत्वादिप्रा° " ↩︎

  13. “ङ. झ. सन्ति दी° ।” ↩︎

  14. “ङ. झ. °षां प्र° ।” ↩︎

  15. “ख ग °न हि° ।” ↩︎

  16. “ङ. °प्राप्ते वि° ।” ↩︎

  17. “घ. ङ. झ. °र्गादित्व° ।” ↩︎

  18. “घ. च. °नामारो° । झ. °नारोहिण एव ।” ↩︎

  19. “ङ. झ. °रेव नि° ।” ↩︎

  20. “ख.ग. °नां वाराहित्यमे°।” ↩︎

  21. “क. हविषी° ।” ↩︎

  22. “घ. ङ. झ. °णाया वि° ।” ↩︎

  23. “व. ङ. झ. स ।” ↩︎

  24. “क. ख. ग. नामदे° ।” ↩︎ ↩︎

  25. “ख. ग. च. °ना आव° । " ↩︎

  26. “झ. वै ।” ↩︎

  27. “घ. °दित्यपरामिति । येऽ° ।” ↩︎

  28. “ख ङ. ताः । अप° ।” ↩︎

  29. “ख. ग. च. °प्यत्र वि° ।” ↩︎

  30. “झ. आचर्य° ।” ↩︎

  31. “ख. ग. °मः क्रय्यते " ↩︎

  32. “घ. ङ. झ.°यस्य सं° ।” ↩︎

  33. “क. °शस्तिष्ठन्न° ।” ↩︎

  34. “ख. ग. °रुत्क्षिपेत् ।” ↩︎

  35. “झ. °जन्निति ।” ↩︎

  36. “ख, ग. ङ. °यं त° ।” ↩︎

  37. “क. °रल° ।” ↩︎

  38. “ङ. झ. ‘ण प्रव्र’ ।” ↩︎

  39. “ज. °चतं प्र° ।” ↩︎

  40. “क. ख. ग. च. °क्षमाणा° ।” ↩︎

  41. “ख. ग. °नादिनिरीक्ष° ।” ↩︎

  42. “झ. °सप्यगाद्यार° ।” ↩︎

  43. “घ. ङ. °प्याद्यार°” ↩︎

  44. " च. तु ।” ↩︎

  45. “च. कः । तुश° ।” ↩︎

  46. “ख. ग. °र्यव एतानुत्था° ।” ↩︎

  47. “ख. ग. °नमितिद°।” ↩︎

  48. “ख. ग. °ज आ सुतेसिंचेति° ।” ↩︎

  49. “ङ. झ. °सन उप° ।” ↩︎

  50. " ङ. झ. °शने म° ।” ↩︎

  51. “ङ. °वस्थाय ।” ↩︎

  52. “ख. ग. °पःयाज° ।” ↩︎

  53. “ङ॰ झ. °स्मच्छा° ।” ↩︎

  54. “क. घ. ङ. च. °र्वसं° ।” ↩︎

  55. “झ °त्तरा ब्रू° ।” ↩︎

  56. “क. ख. ग. घ. ङ. पित्र्यैव ।” ↩︎

  57. “ख.ग. °नादति° ।” ↩︎

  58. “ङ. झ. °स इच्छ° ।” ↩︎

  59. “ङ. च. °बर्ग्यावपकृष्येते ।” ↩︎

  60. “झ. °त् । राजक्रयेऽह° ।” ↩︎ ↩︎

  61. “घ.°थ्ये राजक्रयेऽह°” ↩︎

  62. “क॰ °रीष्यं चि° ।” ↩︎

  63. “झ. एव ब्रू ।” ↩︎

  64. “क. °मानक° ।” ↩︎

  65. “च. °स्तोताऽनु°।” ↩︎

  66. “ख. ग. °यादिनि° ।” ↩︎

  67. “ख. ग. झ. °तिना° ।” ↩︎

  68. “ङ. °र्या अभि°।” ↩︎

  69. “ङ. °नम्, औदुम्बर्याभिहवनम् ।” ↩︎

  70. “ङ. झ. °द्यामेवाऽऽस° ।” ↩︎

  71. “क. ग. °कालावि° । " ↩︎

  72. “ख. ग. °नं कर्तव्य° ।” ↩︎

  73. “झ. °त्स्वप्यध्व°।” ↩︎

  74. “ङ च °यस्येत्ये° ।” ↩︎

  75. “घ. °यस्योप° ।” ↩︎

  76. “घ. च. झ. °न्यासाद्ना° ।” ↩︎

  77. “घ. झ. तदाऽऽह° ।” ↩︎

  78. “घ. °ने चाऽऽग ° ।” ↩︎

  79. “क. ख. ग. घ. च. त्येका त° ।” ↩︎

  80. “क. ख. ग. छ. ज. °गत्यैनं ।” ↩︎

  81. “ख. ग. ङ. च. °ध्रीयोदा° ।” ↩︎

  82. “ख. ग. ङ. °त्रैव क ।” ↩︎

  83. “क. ख. ग. घ. ङ. च. प्रवाद° ।” ↩︎

  84. “ङ. च. °बन्धाना°।” ↩︎ ↩︎

  85. “ङ. झ. °प्तिनविधि° ।” ↩︎

  86. “ङ. च. °बन्धाना° ।” ↩︎ ↩︎

  87. " ङ.च तिस्रः ।” ↩︎ ↩︎

  88. “ख. ग. °म्नातं प्रा° ।” ↩︎

  89. “घ. °रोऽभी° ।” ↩︎

  90. “क. नं न भ° ।” ↩︎

  91. “ख. ग. °मेऽप्युद्धर्तव्या° ।” ↩︎

  92. “ख. ग. °ति । अप्ना° ।” ↩︎

  93. “घ.ङ. झ. °रभेत । अ° ।” ↩︎

  94. “ख. ग. °रोहक्र°।” ↩︎

  95. “ख. म. °रोहक° ।” ↩︎

  96. “ङ. च. °नात्पर° ।” ↩︎

  97. “ख. ग. ङ. च.°योऽस्त्यग्न्या° । " ↩︎

  98. “क.संप्रेषितो । ख. ग.घ.संप्रेषतो ।” ↩︎

  99. " ख. ग. घ. झ. संप्रेषत ।” ↩︎

  100. “च. °र्यार्थान्तराणाम° ।” ↩︎

  101. “झ. °धामि° " ↩︎

  102. “च. °त्यव° ।” ↩︎

  103. “ख. म. °न्तरासं° ।” ↩︎

  104. “ङ. झ. °बन्धिमा° ।” ↩︎

  105. “झ. °त्तच्च स° " ↩︎

  106. " ख. ग. तस्य चा° ।” ↩︎

  107. “घ. संबन्धिनीवि° ।” ↩︎

  108. “ख. ग. °जनमस्याव° ।” ↩︎

  109. “ख.ग. च. °दतिक्रि°।” ↩︎

  110. “ख. ग. °यामा° ।” ↩︎

  111. “ङ. °त्वेऽस° ।” ↩︎

  112. " झ. °व पु° ।” ↩︎