०३

विश्वास-प्रस्तुतिः

पशौ।

मूलम्

पशौ।

टीका

अधिकारोऽयं प्राक्प्रायश्चित्ताधिकारात्। पशुगुणकं कर्म पशुरित्युच्यते।

विश्वास-प्रस्तुतिः

इष्टिरुभयतोऽन्यतरतो वा।

मूलम्

इष्टिरुभयतोऽन्यतरतो वा।

टीका

तस्य पशोरुभयतोऽन्यतरतो वेष्टिः कर्तव्या।

विश्वास-प्रस्तुतिः

आग्नेयी वा।

मूलम्

आग्नेयी वा।

टीका

याऽसाविष्टिः पशोरुभयतोऽन्यतरतो वा कर्तव्यत्वेन चोदिता साऽग्निदेवत्या वा भवेदित्येकोऽर्थः। अपरश्चार्थो वाशब्दाल्लभ्यते–येयमाग्नेयीष्टिः पशोरुभयतोऽन्यतरतो1वाऽङ्गत्वेन विहिता सा न भवेद्वेति। तेनेयमिष्टिरनित्येत्यवगन्तव्या। अतः सिद्धं स्वतन्त्रेषु पशुषु कर्तव्याऽङ्गभूतेषु न कर्तव्येति।

विश्वास-प्रस्तुतिः

आग्नावैष्णवी वा।

मूलम्

आग्नावैष्णवी वा।

टीका

इष्टिकरणपक्षे2 देवताविकल्पोऽनेन विधीयते।

विश्वास-प्रस्तुतिः

उभे वा।

मूलम्

उभे वा।

टीका

आग्नेयी चाऽऽग्नावैष्णवी चैकस्मिन्पशुप्रयोगे द्वे वा इष्टी भवेताम्।

विश्वास-प्रस्तुतिः

अन्यतरा पुरस्तात्।

मूलम्

अन्यतरा पुरस्तात्।

टीका

यदोभे स्यातां तदैका पुरस्तात्, इतरोपरिष्टादित्येवं भवतः।नोभे3 संहते उभयतोऽन्यतरतो वा भवेतामिति सूत्रार्थः।

विश्वास-प्रस्तुतिः

उक्तमग्निप्रणयनम्।

मूलम्

उक्तमग्निप्रणयनम्।

टीका

उक्तग्रहणं वारुणप्राघासिकस्य सविधिकस्य4 ग्रहणार्थम्।

विश्वास-प्रस्तुतिः

पश्चात्पाशुबन्धिकाया वेदेरुपविश्य प्रेषितो यूपायाज्यमानायाञ्जन्तित्वामध्वरे देवयन्त इत्युत्तमेन वचनेनार्धर्च आरमेत्।

मूलम्

पश्चात्पाशुबन्धिकाया वेदेरुपविश्य प्रेषितो यूपायाज्यमानायाञ्जन्तित्वामध्वरे देवयन्त इत्युत्तमेन वचनेनार्धर्च आरमेत्।

टीका

वेद्यन्तरस्याभावेऽपि पाशुबन्धिकाया इति विशेषस्तत्स्थाने5 तद्वदुपचारसिद्धयर्थम्। प्रेषितवचनं बहुयूपके कर्मण्यञ्जनादीनां पदार्थानुसमये क्रियमाणे प्रेषितः प्रेषितोऽनुब्रूयादित्येवमर्थम्।यूपायाऽऽज्यमानायेतियूपमज्यमानमभिधातुनेतामृचमनुब्रूयादित्यर्थः। तस्या उत्तमेन वचनेनेति संबन्धः।

उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तादूर्ध्व ऊषुण ऊतयइति द्वे जातो जायते सुदिनत्वे अह्नामित्यर्धर्च आरमेत्। युवा सुवासाःपरिवीत आगादिति परिदध्यात्।

परिदध्यादितिवचनं पदार्थानुसमये प्रतिपदार्थानुवचनस्य6 भेद इति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

यत्रैकतन्त्रे बहवः सपशवोऽन्त्यंपरिधाय संस्तुपादनभिहिंकृत्ययान्वो नरो देवयन्तो निमिम्युरिति षड्भिः।

मूलम्

यत्रैकतन्त्रे बहवः सपशवोऽन्त्यंपरिधाय संस्तुपादनभिहिंकृत्ययान्वो नरो देवयन्तो निमिम्युरिति षड्भिः।

टीका

यस्मिन्कर्मण्येकस्मिन्नेत्र पशुतन्त्रे बहवो यूपाः सपशवश्च तत्रान्त्यमनुवचनं7 परिधायसंस्तुयाद्यूशन्। काण्डानुसमयाभिप्रायेणेदमुच्यते। अन्त्यमिति तदनुवचनस्य8 भिन्नत्वात्पदार्थानुसमये त्वेकमेवानुवचनं भवति। एकतन्त्र इति वचनमेककर्ममात्र निवृत्त्यर्थम्। बहव इति द्वयोर्निवृत्त्यर्थम्। स पशव इत्यपशुक बहुत्वनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

पञ्चभिर्वा। अनभ्यासमेके।

मूलम्

पञ्चभिर्वा। अनभ्यासमेके।

टीका

प्रथमोत्तमयोरनभ्यासमित्यर्थः।

उक्तमग्निमन्थनं तथा धाय्ये कृताकृतावाज्यभागौ। आवाहनेपशुदेवताभ्यो वनस्पतिमनन्तरम्।

आवाहयेदिति शेषः। आवाहनग्रहणमावाहनादिष्वैष्टिकोष्वेव निगमेषु निगमनं वनस्पतेर्न पाशुकेष्वित्येवमर्थम्। अतः सूक्तवाकप्रैषेनिगमनं न कर्तव्यं भवति।

विश्वास-प्रस्तुतिः

संमार्गैःसंसृज्य प्रवृताहुतीर्जुहुयात्।

मूलम्

संमार्गैःसंसृज्य प्रवृताहुतीर्जुहुयात्।

टीका

संमार्गैः संमृज्योदकं स्पृष्ट्वा प्रवृताहुतीर्जुहुयात्। प्रवृताहुतीरिति कर्मनाम न गुणविधिः।

विश्वास-प्रस्तुतिः

जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक्। यद्वाचो मधुमत्तमंतस्मिन्माधाः सरस्वत्यै वाचे स्वाहा। पुनरादाय पञ्चविग्रहं स्वाहावाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा सरस्वते महोभ्यःसंमहोभ्यः9 स्वाहेति।

मूलम्

जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक्। यद्वाचो मधुमत्तमंतस्मिन्माधाः सरस्वत्यै वाचे स्वाहा। पुनरादाय पञ्चविग्रहं स्वाहावाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा सरस्वते महोभ्यःसंमहोभ्यः9 स्वाहेति।

टीका

सकृद्गृहीत्वैकां हुत्वा पुनः सकृद्गृहीत्वा पञ्चाऽऽहुतीर्जुहुयात्। आहुतिसंख्या-भेदादेवद्रव्यभेदे सिद्धे विग्राहवचनंमन्त्रविग्रहणार्थम्।

विश्वास-प्रस्तुतिः

सोम एवैके।

मूलम्

सोम एवैके।

टीका

सोमशब्देन सौत्यमहरुच्यते। सौत्य एवाहन्ययं होमो नान्यस्मिन्नित्येके।

प्रशास्तारं तीर्थेन प्रपाद्य दण्डमस्मै प्रयच्छेद्दक्षिणोत्तराभ्यां पाणिभ्यांमित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रयच्छामीति।

विहारप्रपदनस्य तीर्थेनैव सिद्धत्वात्तीतिवचनं प्रशास्तस्तीर्थेन प्रपद्यस्वेति संप्रैषालाभार्थम्। प्रदानमन्त्रोमित्रावरुणयोरित्यादिः।

विश्वास-प्रस्तुतिः

तथायुक्ताभ्यामेवेतरौ मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषाप्रतिगृह्णा-म्यवक्रोविथुरो10 भूयासमिति।

मूलम्

तथायुक्ताभ्यामेवेतरौ मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषाप्रतिगृह्णा-म्यवक्रोविथुरो10 भूयासमिति।

टीका

प्रतिगृह्णीयादिति शेषः। तथायुक्ताभ्यामिति। दक्षिणोत्तराभ्यां पाणिभ्यामित्यर्थः।

** प्रतिगृह्योत्तरेण होतारमतिव्रजेद्दक्षिणेन दण्डं हरेन्न चानेन संस्पृशेदात्मानं वाऽन्यं वाऽऽप्रैषवचनात्।**

अनेन दण्डेनाऽऽत्मानमन्थं वा न संस्पृशेदा प्रैषवचनात्। यावत्प्रैषोच्चारणं नास्तितावदयं नियमः। आरब्धे प्रथमप्रैषे नायं नियमः।

विश्वास-प्रस्तुतिः

अन्यान्यपि यज्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात्।

मूलम्

अन्यान्यपि यज्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात्।

टीका

अन्यान्यपीतिवचनाद्यत्पूर्वोक्तमुत्तरेण होतारमतित्रजेद्दक्षिणेन दण्डनं हरेदिति तदपिव्यवाय-परिहारार्थमेवेति गम्यते। तेनैतद्दर्शिनं भवति - हवींषि चाग्नयोऽन्तरतमाः, हविः.षु च प्रधानाप्रधानविशेषोऽस्ति, तत्र स्रुगादीनि साधनानि, तेषु च विशेषोऽन्वेषणीयः।ततः कर्तारस्तेषु च स्वामी मुख्यो द्वितीयतृतीयचतुर्थेषु विशेष इत्येवं बुध्दैतेषूपचारे कृतेयज्ञाङ्गानि विहारेणाव्यवेयानि11 भवन्ति। उपयुक्तवत्रनमनपवृत्तकर्मणामेव ग्रहणार्थम्।सर्वार्थ चेदं सूत्रं व्यवायप्रतिषेधपरत्वात्।

विश्वास-प्रस्तुतिः

दक्षिणो होतृषदनात्प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टभ्य ब्रूयात्प्रैषांश्चाऽऽदेशम्।

मूलम्

दक्षिणो होतृषदनात्प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टभ्य ब्रूयात्प्रैषांश्चाऽऽदेशम्।

टीका

वेदिश्रोण्यां बहिर्वेदि होतृषदनं तस्य12 दक्षिणतो बहिर्वेदि स्वयमवस्थायान्तर्वेदि दण्डमषष्टभ्य ब्रूयात् – प्रैषानादेशमाप्रैषं प्रेषणमित्यर्थः। यावन्ति प्रैषार्थानि प्रेषणानि सन्तितावत्सु प्रेषणेषु प्रैषान्ब्रूयादिति। एतदुक्तं भवति-प्रैषाम्नायपरिपठितान्सर्वा प्रषान्मैत्रावरुणएव प्रेषितः प्रेषितोऽनुब्रूयादित्यर्थः। चशब्दो मैत्रावरुणानुकर्षणार्थः। तेन ज्ञायते व्यवायप्रतिषेधसूत्रं सर्वार्थमिति।

विश्वास-प्रस्तुतिः

अनुवाक्यां च सप्रैषे पूर्वां प्रैषात्।

मूलम्

अनुवाक्यां च सप्रैषे पूर्वां प्रैषात्।

टीका

अनुवाक्यां ब्रूयादिति शेषः।

विश्वास-प्रस्तुतिः

पर्यग्निस्तोकमनोतोन्नीयमानसूक्तानि च।

मूलम्

पर्यग्निस्तोकमनोतोन्नीयमानसूक्तानि च।

टीका

एवंभूत मैत्रावरुणानुकर्षणार्थश्च शब्दः।

विश्वास-प्रस्तुतिः

सोम आसीनोऽन्यत्॥ १॥

मूलम्

सोम आसीनोऽन्यत्॥ १॥

टीका

उक्तेभ्यो यदन्यन्मैत्रावरुणस्य सोमे कर्मास्ति तदासीनो ब्रूयात्। सोमेऽप्येतानि तिष्ठन्नेव ब्रूयादित्यर्थः॥ १॥

विश्वास-प्रस्तुतिः

एकादश प्रयाजाः।

मूलम्

एकादश प्रयाजाः।

टीका

पशावेकादश प्रयाजा इति नियम्यते सर्वत्र सर्वेषाम्।

विश्वास-प्रस्तुतिः

तेषां प्रैषाः।

मूलम्

तेषां प्रैषाः।

टीका

तेषां प्रयाजानां प्रैषा अपि भवन्ति।
ते चैत इत्याह -

विश्वास-प्रस्तुतिः

प्रथमं प्रैषसूक्तम्। उक्तं द्वितीये।

मूलम्

प्रथमं प्रैषसूक्तम्। उक्तं द्वितीये।

टीका

यदुक्तं प्रकृतौ वासिष्ठादीना13नाराशंसः, इतरेषां तनूनपादिति तदप्राकृतेषु प्रैषेष्वपिस्यादित्येवमर्थं सूत्रम्।

विश्वास-प्रस्तुतिः

अध्वर्युप्रेषितो मैत्रावरुणः प्रेष्यति प्रैषैर्होतारम्।

मूलम्

अध्वर्युप्रेषितो मैत्रावरुणः प्रेष्यति प्रैषैर्होतारम्।

टीका

एवं सति होत्रा नाध्वर्योः प्रैष आकाङ्क्षणीय इत्यर्थः।

विश्वास-प्रस्तुतिः

होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः।

मूलम्

होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः।

टीका

होतृग्रहणं मैत्रावरुणाधिकारात्प्रैषसलिङ्गाभिरित्याप्रीष्वपि तनूनपानराशंस इति विवेकःकर्तव्य इत्यर्थः।

विश्वास-प्रस्तुतिः

समिद्धो अग्निरिति शुनकानां जुषस्व नः समि-
धमिति वसिष्ठानां समिद्धो अद्येति सर्वेषाम्।

मूलम्

समिद्धो अग्निरिति शुनकानां जुषस्व नः समि-
धमिति वसिष्ठानां समिद्धो अद्येति सर्वेषाम्।

टीका

वसिष्ठशुनकानामुक्त्वा विधीयमानत्वात्तद्वर्जानां सर्वेषामिति गम्यते। अन्त्यं जामदग्न्यमिदं त्वाप्रीसूक्तं नाऽऽगस्त्यम्। आम्नायऋमानुगुण्याद्वासिष्ठविध्युत्तरकालिकत्वाच्चास्यविधेः। तत्राभ्यादीनां नाराशंस्येव वासिष्ठ्याहर्तव्या प्रैषसलिङ्गाभिरित्युक्तस्वात्। एवंप्राजापत्येऽपि पशौ वसिष्ठादीनां नाराशंस्येत्येव14

विश्वास-प्रस्तुतिः

यथ ऋषि वा।

मूलम्

यथ ऋषि वा।

टीका

यो यस्यर्षिस्तदानु*गुण्यं यथर्षिशब्देनोच्यते। तथा वाऽऽप्रीसूक्तं ग्रहीतव्यम्15। स्वीयपिनामधेयस्यानुगुणा आम्यः कर्तव्या इत्यर्थः। तत्र भगषता शौनकेन यथर्षिपक्ष आप्रीविवेकार्थमेव श्लोक उक्तः-

विश्वास-प्रस्तुतिः

कण्वाङ्गिरोगस्त्यशुनका विश्वामित्रोऽत्रिरेव च।
वसिष्ठः कश्यपो वाध्य्रश्चोजमदग्निरथोत्तमः॥

मूलम्

कण्वाङ्गिरोगस्त्यशुनका विश्वामित्रोऽत्रिरेव च।
वसिष्ठः कश्यपो वाध्य्रश्चोजमदग्निरथोत्तमः॥

टीका

तत्र दशानां सूक्तानां प्रथमं कण्वानां ‘सुसमिद्धो न आवह’ इति। द्वितीयं तद्वर्जानामङ्गिरसां ‘समिद्धो अग्न आवह’ इति। तृतीयमगस्तीनां ‘समिद्धो अद्यराजसि’ इति। चतुर्थं शुनकानां ‘समिद्धो अग्निर्निहितः पृथिव्याम्’ इति। पञ्चमंविश्वामित्राणां ‘समित्समित्सुमनाः’ इति। षष्ठमत्रीणां ‘सुसमिद्धाय शोचिषे’इति। सप्तमं वसिष्ठानां ‘जुषस्व नः समिधमग्ने अद्य’ इति। अष्टमं कश्यपानां ‘समिद्धोविश्वतस्पतिः’ इति। नवमं वाध्य्रश्वानाम्।‘इमां मे अग्ने समिधं जुषस्वेल’ इति।शुनकवाध्य्रश्ववर्जितानां भृगूणां दशमं ‘समिद्धो अद्य मनुषो दुरोण’ इति। यथर्षिपक्षेविवेकोऽयम्।

——————————————————————————————————
* क. अनुसरणम्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

प्राजापत्ये तु जामदग्न्यः सर्वेषाम्।

मूलम्

प्राजापत्ये तु जामदग्न्यः सर्वेषाम्।

टीका

तुशब्देनात्र वसिष्ठशुनकप्तहितानामिति विशेषो लभ्यते।

विश्वास-प्रस्तुतिः

दशसूक्तेषु प्रेषितो मैत्रावरुणोऽग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह।

मूलम्

दशसूक्तेषु प्रेषितो मैत्रावरुणोऽग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह।

टीका

कालोपदेशादप्रेषितोऽपि ब्रूयादिति प्रेषितवचनम्। मैत्रावरुणग्रहणमुत्तरार्थम्। पर्यग्नय इति परितः क्रियमाणमग्निमभिधातुमित्यर्थः।

विश्वास-प्रस्तुतिः

अध्रिगवे प्रेष्योपप्रेष्य होतरिति वोक्तोऽजैदग्निर-
सनद्वाजमिति प्रैषमुक्त्वाऽन्तर्वेदि दण्डं निदध्यात्।

मूलम्

अध्रिगवे प्रेष्योपप्रेष्य होतरिति वोक्तोऽजैदग्निर-
सनद्वाजमिति प्रैषमुक्त्वाऽन्तर्वेदि दण्डं निदध्यात्।

टीका

मैत्रावरुणग्रहणं द्वितीयेऽपि संप्रेषे मैत्रावरुण एव ब्रूयादित्येवमर्थम्। प्रैषपाठस्तु होतृलिङ्गेन16 विकृतत्वात्। पूर्वस्य तु पाठः *परिसंख्याभयात्17। प्रैषवचनं प्रैपमित्येकवचनविवक्षार्थं18 न द्विवचनविवक्षार्थम्19। तद्विवक्षयाप्रैषैक्यसिद्धिद्वारेणानवानमस्य साधितं भवति।इदानीं दण्डनिघानवचनान्न पूर्वे निधातव्य। इति गम्यते।

विश्वास-प्रस्तुतिः

अध्रिगुं होतोहन्नङ्गानि दैवतं पशुमिति यथार्थम्।

मूलम्

अध्रिगुं होतोहन्नङ्गानि दैवतं पशुमिति यथार्थम्।

टीका

अधिगुरिति ‘दैव्याः शमितार आरमध्वम्’ इत्यस्य मन्त्रस्य नाम। मैत्रावरुणाधिकाराद्धोतृग्रहणम्। उहन्नित्यभिधेयवशेन वचनानि सन्नमयन्नित्यर्थः। अङ्गानीतिवचनमध्रिगावङ्गादीनां शब्दा एवोह्यन्ते नान्ये बहि20र्मातृपितृशब्दादय इति ज्ञापनार्थम्। यथार्थमिति। यो यस्य शब्दस्यार्थस्तं तथोहन्ब्रूयादित्यर्थः21।ऊहन्नित्यनेनैवास्मिन्नर्थे सिद्धे यथार्थमितिवचनं संव्यवहारार्थेयमूहसंज्ञेति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

पुंवन्मिथुने।

मूलम्

पुंवन्मिथुने।

टीका

मिथुनमिति स्त्रीपुंसयोः समाहार उच्यते। अस्मिन्समाहारे पुंलिङ्गनैवोहः कर्तव्य इति22।नियम्यते।

विश्वास-प्रस्तुतिः

मेधपतीम्।

मूलम्

मेधपतीम्।

टीका

अयं शब्दो देवतावाची। तस्य स्त्रीप्रत्ययान्तस्यायं निर्देशः कृतः। तेनायमपिपदार्थो देवतावाचिनः स्त्रीप्रत्ययस्य संबन्धादस्मिन्सूत्रे लभ्यते स्त्रीदेवतेति। स च स्त्रीदेवतेति पदार्थोऽस्मिन्सूत्रेपुंवद्वचनस्यविधीयमानत्वात्स्त्री-देवतायामभिधेयायामित्यर्थात्क-

————————————————————————————————————

*क — व्यावृत्तिः।
————————————————————————————————————

ल्प्यते। मेधपतिशब्दप्राप्तिपदिकं च पुंवद्वचनस्य विषयत्वेनेत्येवं संप्रदायाविच्छेदादवगम्यते। अत एवं सूत्रार्थः - स्त्रीदेवतायां मेधपतिशब्दं पुंवद्व्रूयादिति। एवं व्याख्यायमानेऽस्मद्ब्राह्मणमनुसृतं भवति ‘अयो खल्वा हुर्यस्यै काव कस्यै च’ इत्यादि।

विश्वास-प्रस्तुतिः

मेधायां विकल्पः।

मूलम्

मेधायां विकल्पः।

टीका

मेधशब्दात्पशुवाचिनः परः स्त्रीप्रत्ययः पूर्ववत्स्त्रीपशाविति निगमयति। तेन स्त्रीपशौमेघशब्दं पुंवद्वा स्त्रीवद्वा ब्रूपादिति विकल्पोऽत्र विधीयते।

विश्वास-प्रस्तुतिः

यथार्थमूर्ध्वमध्रिगोरन्यन्मिथुनेभ्यः।

मूलम्

यथार्थमूर्ध्वमध्रिगोरन्यन्मिथुनेभ्यः।

टीका

अधिगोरूर्ध्वं यथार्थमूहो भवति मिथुने तु सर्वत्राध्रिगुवदेव। एतदुक्तं भवति - अध्रिगोरूर्ध्वमङ्गादिशब्दा अन्ये चार्थवशेनोह्यन्ते न नियमेनाङ्गादिशब्दा23 एवेति। मिथुनं तुसर्वत्र पुंवदेवाभिधेयमिति।

विश्वास-प्रस्तुतिः

सर्वेषु यजुर्निगदेषु।

मूलम्

सर्वेषु यजुर्निगदेषु।

टीका

न केवलमयं विधिः पशावेव। कथं तर्हि सर्वेषु यजुर्निगदेषु चार्थवशेनोहः कार्यः।यजूंप्येवोच्चैः प्रयोगार्हा24निगढ़ा उच्यन्ते।

विश्वास-प्रस्तुतिः

प्रकृतौ समर्थनिगमेषु।

मूलम्

प्रकृतौ समर्थनिगमेषु।

टीका

प्रकृताविति यस्मिन्कर्मण्यर्थाभिधानार्थो यो मन्त्र उत्पद्यते तस्य मन्त्रस्य तत्कर्मप्रकृतिः। समर्थो नाम यथार्थाभिधायी शब्दः। निगमा नाम मन्त्राः। उत्पत्तिस्थाने येमन्त्रा यथार्थाभिधायिशब्दवन्तस्तेषु विकृतिषूहो भवति। ये तु पुनः प्रकृतावेवा यथार्थाभिधायिशब्दवन्तस्तेषु विकृतावपि न भवत्यूह इति प्रकृतावसमर्थनिगमसंभवानुज्ञानान्न प्रकृतावूहो विद्यत इति गम्यते। उपपन्नमेवेदम्। तदर्थाभिधानार्थमेव तस्य मन्त्रस्य प्रत्यक्षा25म्नानात्। तत्र ल*क्षणया गौण्या वाऽभिधानं कल्पनीयम्। तस्याः कल्पनाया विकृतावप्यविशेषात्तेषां विकृतावप्यनूह एवेति युक्तमुक्तं प्रकृतौ समर्थनिगमेष्विति

विश्वास-प्रस्तुतिः

प्राकृतास्त्वेव मन्त्राणां शब्दाः।

मूलम्

प्राकृतास्त्वेव मन्त्राणां शब्दाः।

टीका

ऊहे क्रियमाणे मन्त्राणां प्राकृता एव शब्दा भवेयुः। एतदुक्तं भवति – यदि प्रकृतौछान्दसं प्रातिपदिकं स्यात्तदा तस्मादेव विभक्त्यूहः कर्तव्यो न प्रातिपदिकसंस्कार इतिः।तशब्देन न्यायविरुद्धोऽयमर्थ इति दर्शयति। ऊहस्यस्मदायत्तप्रयोगत्वाद्भा26षिकत्वमेवेति
————————————————————————————————————
*क.—शक्यसंबन्धो लक्षणा। यथा गङ्गायां घोष इत्यादौ गङ्गापदशक्यार्थे प्रवाहेघोषासंभवात्तत्संबद्धे तीरे घोष इत्यर्थो बुध्यते।
————————————————————————————————————

न्यायविरुद्धमपि। असमर्थेष्वनुहवचनं छान्दसस्यापि प्राकृतस्यैव शब्दस्य ग्रहणमित्युभयंग्रहीतव्यमेवेत्येवमर्थं तुशब्दं प्रयुक्तवान्स्वयमेवाऽऽचार्यः।

विश्वास-प्रस्तुतिः

प्रतिनिधिष्वपि।

मूलम्

प्रतिनिधिष्वपि।

टीका

प्राकृता एव शब्दा इति वर्तते।:

विश्वास-प्रस्तुतिः

नाभिरुपमा भेऽदो हविरित्यनूह्यानि॥ २॥

मूलम्

नाभिरुपमा भेऽदो हविरित्यनूह्यानि॥ २॥

टीका

यथाकथंचित्प्राप्तानां प्रतिषेधोऽयम्। उपमेत्युपमार्थाः श्येनादयः शब्दा गृह्यन्ते॥ २॥

विश्वास-प्रस्तुतिः

दैव्याः शमितार आरमध्वमुत मनुष्या उपनयत मेध्यादुर आशासानामेधपतिभ्यां मेधम्। प्रास्मा अग्निं मरत स्तृणीत बर्हिरन्वेनं माता मन्षतामनुपिताऽनुभ्राता सगर्भ्योऽनुसखा सयूथ्यः। उदीचीनां अस्य पदोनिधत्तात्सूर्य चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशःश्रोत्रं पृथिवीं शरीरम्। एकधाऽस्य त्वचमाच्छचतात्पुरा नाभ्या अपिशसो वपामुत्खिताद्न्तरेवोष्माणं वारयध्वात्। श्येनमस्य वृक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपे वांसाच्छिद्रे श्रोणी कवपोरू स्रेकपर्णाऽष्ठीवन्ता षड्विंशतिरस्य वंक्रयस्ता अनुष्ठयोच्च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात्। ऊवध्यगोहं पार्थिवं खनतात्। अस्वा रक्षः संसृजतात्। वनिष्ठुमस्य माराविष्टोरूकं मन्यमानानेद्वस्तोके तनये रविता स्वच्छमितारः। अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३उ अपाप।

मूलम्

दैव्याः शमितार आरमध्वमुत मनुष्या उपनयत मेध्यादुर आशासानामेधपतिभ्यां मेधम्। प्रास्मा अग्निं मरत स्तृणीत बर्हिरन्वेनं माता मन्षतामनुपिताऽनुभ्राता सगर्भ्योऽनुसखा सयूथ्यः। उदीचीनां अस्य पदोनिधत्तात्सूर्य चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशःश्रोत्रं पृथिवीं शरीरम्। एकधाऽस्य त्वचमाच्छचतात्पुरा नाभ्या अपिशसो वपामुत्खिताद्न्तरेवोष्माणं वारयध्वात्। श्येनमस्य वृक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपे वांसाच्छिद्रे श्रोणी कवपोरू स्रेकपर्णाऽष्ठीवन्ता षड्विंशतिरस्य वंक्रयस्ता अनुष्ठयोच्च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात्। ऊवध्यगोहं पार्थिवं खनतात्। अस्वा रक्षः संसृजतात्। वनिष्ठुमस्य माराविष्टोरूकं मन्यमानानेद्वस्तोके तनये रविता स्वच्छमितारः। अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३उ अपाप।

टीका

अयमध्रिगुः। अत्रोह्यानि पदानि वक्ष्यन्ते। मेधपतये मेधपतिभ्यां मेधपतिभ्यः। मेधं मेधौमेधान्। मेधां मेधे मेधा एवं वा। अस्मै, आभ्याम्, एभ्यः। अस्यै, आभ्याम्,आभ्यः। एनम्, एनौ, एनान्। एनाम्, एने, एनाः। अस्य, अनयोः एषाम्। अस्याः, अनयोः, आसाम्। शरीरं शरीरे शरीराणि। त्वचं त्वचौत्वचः। वपां वपे वपाः। वक्षः, वक्षसी वक्षांसि। प्रशंसा27, प्रशसः। बाहू बाहून्।दोषणी दोषाणि। अंसौ28, अंसान्। अच्छिद्रे, अछिद्राः। श्रोणी श्रोणीः। उरूउरून्। अष्ठीवन्ता अष्ठीवन्तः। वनिष्ठुंवनिष्ठू वनिष्ठून्। इत्येवमूहः। मेधं, सयूथ्यः,शरीरं, वारयध्वात्, अनूनं कृणुतात्, खनतात्, सृजतात् शमितारः अध्रिगा ३ उअपाप इत्येतान्यवसानानि अत्र29 श्लोकः–

मेधं सयूथ्यश्च शरीरयध्वादनूनपूर्वं कृणुतान्नताच्च।
जतान्मितारोऽध्रिगा उ अपाप एतेऽध्रिगौ मध्यविरामदेशाः॥

विश्वास-प्रस्तुतिः

अस्ना रक्षः संसृजताच्छमितारोऽपापेत्युपांशु।

मूलम्

अस्ना रक्षः संसृजताच्छमितारोऽपापेत्युपांशु।

टीका

एते त्रयः शब्दाः स्वे स्वे स्थान उपांशु प्रयोक्तव्याः। शमितार इतीतरयोर्मध्येपाठात्तन्मध्यगत एवोपांशुर्भवति30 नान्यः।

विश्वास-प्रस्तुतिः

एकधा षड्विंशतिरिति द्विर्द्विबहूनाम्।

मूलम्

एकधा षड्विंशतिरिति द्विर्द्विबहूनाम्।

टीका

द्विबहूनां पशूनां संबन्धिनावेतौ शब्दौ द्विब्रूयात्। विभक्त्यूनमस्य31 वचननिवृत्त्यर्थंषड्विंशतिशब्दस्याभ्यासो नियम्यते।

विश्वास-प्रस्तुतिः

पुरान्तरिति चैके। अध्रिग्वादि त्रिरुक्त्वा शमि-
तारो यदत्र सुकृतं कृणवथास्मासु तद्यदुष्कृ-
तमन्यत्र तदिति जपित्वा दक्षिणावृदावर्तते।

मूलम्

पुरान्तरिति चैके। अध्रिग्वादि त्रिरुक्त्वा शमि-
तारो यदत्र सुकृतं कृणवथास्मासु तद्यदुष्कृ-
तमन्यत्र तदिति जपित्वा दक्षिणावृदावर्तते।

टीका

अध्रिगो शमीध्वमित्याद्यपापान्तं त्रिरुक्त्वा शमितार इत्यादि च जपित्वा दक्षिणावृदावर्तते। दक्षिणावृद्वचनं बिहाराव्या वृत्तिरिति प्राप्तमनूद्यते, एवं32 मन्त्रं जपित्वेदमेव कुर्यानान्यत्किंचिद्दक्षिणा वृदित्येवमर्थम्। उक्तेन प्रकारेणाऽऽवृत्य पृष्ठतः कृत्वाऽऽसीत।

विश्वास-प्रस्तुतिः

मैत्रावरुणश्च।

मूलम्

मैत्रावरुणश्च।

टीका

मैत्रावरुणश्चैवमावृत्य पृष्ठतः कुर्यात्।

विश्वास-प्रस्तुतिः

सव्यावृतौ ब्रह्मयजमानौ संज्ञप्ते पशावावर्तेरन्॥ ३॥

मूलम्

सव्यावृतौ ब्रह्मयजमानौ संज्ञप्ते पशावावर्तेरन्॥ ३॥

टीका

पुनरावर्तनकालोऽयम्। तस्मादेतावन्तं कालं पराञ्च एवाऽऽसीरन्॥ ३॥

विश्वास-प्रस्तुतिः

वपायां श्रप्यमाणायां प्रेषितस्तोकेभ्योऽन्वाह
जुषस्व सप्रथस्तममिमं नो यज्ञमिति।

मूलम्

वपायां श्रप्यमाणायां प्रेषितस्तोकेभ्योऽन्वाह
जुषस्व सप्रथस्तममिमं नो यज्ञमिति।

टीका

वपायां श्रप्यमाणायामितिवचनं श्रष्यमाणवपासंबन्धिस्तोकाभिधानानुवचनेन33 वषैवसंस्क्रियत इति ज्ञापनार्थन्। प्रेषितवचनं प्रैप एवास्यानुवचनस्य निमित्तं नावसरविशेषइत्येवमर्थम्।

विश्वास-प्रस्तुतिः

उक्तमादापनं स्वाहाकृतिभ्यः।

मूलम्

उक्तमादापनं स्वाहाकृतिभ्यः।

टीका

स्वाहाकृत्यर्थमन्त्र स्रुगादापनं कर्तव्यम्। तेन34माध्यंदिने सवने प्राजापत्येषु स्तोकानन्तरं स्वाहाकृत्यमावादादापनं न कर्तव्यं भवति। एतदप्यत्रावगम्यते - स्रुगादापनं प्रयाजार्थमेवेति। तेनाऽऽज्यभागप्रभृतिषु हविराहुतिप्रभृतिषु चैतन्न स्यात्।

विश्वास-प्रस्तुतिः

होताऽयक्षदग्निं स्वाहाऽऽज्यस्य स्वाहा
मेदस इति प्रैष उत्तमाऽऽप्री याज्या।

मूलम्

होताऽयक्षदग्निं स्वाहाऽऽज्यस्य स्वाहा
मेदस इति प्रैष उत्तमाऽऽप्री याज्या।

टीका

दशसूक्तेष्वितिवचनादुत्तमप्रैषोऽवशिष्टः स्वाहाकृत्यर्थः तदर्थमेवाऽऽप्री चावशिष्टा,किमित्यत्रोभयोर्वचनम्। आप्रीवचनस्येदं प्रयोजनम्-उत्तमै35वाऽऽप्री याज्या नात्र देवताः36स्वाहाँऽऽमुं37 स्वाहाऽमुमिति। प्रकृताभिगन्तव्येति। प्रैषवचनं विस्पष्टार्थम्।

विश्वास-प्रस्तुतिः

वपा पुरोलाशो हविरिति पशोः प्रदानानि।

मूलम्

वपा पुरोलाशो हविरिति पशोः प्रदानानि।

टीका

प्रदानानीति। यागा इत्यर्थः। पशावेतद्रव्यसंबन्धिनस्त्रयो यागाः कर्तव्या इत्यर्थः।तेषां प्रदानानीति संज्ञा। पशावित्यधिकारे पशोर्वचनं पशोः पशोरिति वीप्सार्थम्। तेनैकदेवत्येषु बहुषु पशुषु प्रतिपशु वपाहविर्भेदवत्पुरोडाशभेदः सिद्धो भवति।

विश्वास-प्रस्तुतिः

तानि पृथङ्नानादेवतेषु।

मूलम्

तानि पृथङ्नानादेवतेषु।

टीका

एकदैवत्य एकस्मिन्नपि पशौ वपापुरोडाशहविषां प्रैवयाज्यानुवाक्याभेदात्पृथग्भावः38सिद्धः परस्परम्। तथा नानादेवतेषु पशुषु वपायागानामेवं पृथग्भावः सिद्धो39 याज्यानुवाक्याभेदादेव। तथा पुरोलाशानां हविषामपतिपृथग्भावस्याविधेयत्वादेकदेवतेषु वपानांसकृद्यागः। तथा पुरोडाशानां हविषामपीति व्यतिरेक एवात्र विधातव्यः। तानीति वचनंयोगविभागार्थम्। तेनैकदेवतेष्वपि वपादीनां40पृथक्प्रदानत्वं न भवति। एकयोगत्वे नानादेवतेष्वेतेषां41 पृथक्प्रचारवत्पृथक्प्रदानत्वमपि स्यात्। योगविभागे सति पूर्वेण सर्वेषां प्रदानत्वम्, उत्तरेणैकदेवतेषु सहप्रचार इति युक्तम्।

विश्वास-प्रस्तुतिः

मनोतां च।

मूलम्

मनोतां च।

टीका

अवदीमानहविरर्थत्वान्मनोताया नानादेवतेषु पृथक्प्रचारे सत्यवदानस्य यागव्यवधानात्प्रतिपशु मनोतामन्त्रमा-वर्तयेत्।

विश्वास-प्रस्तुतिः

न मनोताऽऽवर्तेतेत्येके।

मूलम्

न मनोताऽऽवर्तेतेत्येके।

टीका

एक आचार्या मनोता नाऽऽवर्तयितव्येत्याहुः। मनोता वेत्येतावता विकल्पे सिद्धेगुरुसूत्रकरणं न्यायविकल्पोऽ-यमिति प्रदर्शनार्थम्। तत्रैके मन्यन्ते। आग्नेयत्वान्मन्त्रस्य।‘त्वं ह्यग्ने प्रथमो मनोता’ इति मनोताशब्दस्याग्नौ प्रवृत्तिदर्शनात्। ‘अग्नि देवानांमनोता’ इति च श्रुतेः। संप्रैषे च हविःशब्दस्य मनोताकाल-लक्षणार्थत्वेनापिसंभवादनुववचनस्याग्न्यर्थत्वम्। अभ्यर्थत्वे च यागावृत्तावप्या हवनीयाख्यस्याग्नेर मेदेनानावृत्तिरेवेति। आचार्यस्तु। पशोर्वाऽऽलब्धस्य मनोऽपक्रामति42 मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्याह। ‘मन एवास्यावरुन्चे’ इति श्रुतिः। तस्या अयमर्थः - पशोरालब्धस्य43संज्ञपनकाले जीवोऽपक्रामति स एव मनःशब्देनोच्यते। ‘यत्ते यमं वैवस्वतं मनो जगामदूरकम्’ इत्यादिषु जीवे मनःशब्ददर्शनात्। जीवेऽग्निशब्दश्च दृश्यते-

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।

इति भगवद्गीतासु दर्शनात्। अग्निजीवनसामेकार्थत्वं च दृश्यते ‘अयं होता प्रथमःपश्यतेमम्’ इति द्वृचे44। अतोऽवदीयमानहविषो मनोताया अनुब्रहीत्युक्तेऽग्निजीवाख्यस्यमनप्तो हावेःसंबन्धार्थमनुवूहीत्युक्तं भवति। अतोऽग्निं प्रकाशयदनुवचनं हविषो जीवमेवप्रकाशयतीति हविरर्थमेवेति गम्यते। तेन यागावृत्ताववदानस्य पदार्थान्तर-व्यवधानात्प्रतिहविर्मनोता45नुवचनावृत्तिं46 मन्यते। अत्र न काचिहृक्षणाऽप्यस्तीति तमेव पक्षं परिगृहीतवानाचार्यः।

विश्वास-प्रस्तुतिः

तेषां सलिङ्गाः प्रैषाः।

मूलम्

तेषां सलिङ्गाः प्रैषाः।

टीका

तेषां प्रदानानां समानलिङ्गाः प्रैषाः47 प्रैषसमाम्नाय एवं पठितास्तदर्थत्वेनैव समानलिङ्गाः समानदेवता इत्यर्थः। तेनैतत्साधितं भवति – यद्दैवत्यः पशुस्तद्देवत्यः पुरोडाशोभवतीति। तेषामिति वचनं तेषामेव सप्रैपत्वं नाऽऽज्यभागयोरित्येवमर्थम्। प्रैषसमाम्नायस्यक्रत्वर्थत्वात्तत्र चाऽऽज्यभागयोः48 संप्रैपस्यानाम्नानादप्रैषावेवेति मन्यमानस्तेषामित्युक्तवानाचार्यः। यद्यध्वर्यवः49 संप्रैषौ कुर्युस्तदा ‘होता यक्षदग्निमाज्यस्य जुषतां हविर्होतर्यज होता यक्षत्सोमगाज्यस्य जुषतां हविर्हतिर्यज’ इत्येतौ प्रैषौ भवतस्तदाज्यभागयोः।

विश्वास-प्रस्तुतिः

तेष्वग्नीषोमयोः स्थाने या या पशुदेवता।

मूलम्

तेष्वग्नीषोमयोः स्थाने या या पशुदेवता।

टीका

तेषु प्रदानप्रैषेषु पश्वन्तरेष्वतिदेशात्प्राप्तेषु यास्तासु विकृतिषु देवतास्तासामेकैकामेवाग्नीषोमस्थाने निर्दिश्य यष्टव्यं न सर्वा देवताः सकृदेव निर्देष्टव्याः। यावत्यस्तत्र देवतास्तावत्कृत्वः प्रैषोऽभ्यसितव्य इत्यर्थः। एतदर्थमेव या या पशुदवेतेति वीप्सावचनमुक्तम्।अयमर्थोऽस्मिन्सूत्रे सम्यग्व्युत्पादितोऽग्नीषोमयोः स्थान इतिब्रुवताऽऽचार्येणा-ग्नीषोमीयःपशूनां प्रकृतिः पाशुके विध्यन्ते गृह्यमाण इति।

विश्वास-प्रस्तुतिः

छागस्थान उस्रो गौर्मेषोऽविको हयोऽश्वोऽन्वादेशे व्यक्तचोदनाम्।

मूलम्

छागस्थान उस्रो गौर्मेषोऽविको हयोऽश्वोऽन्वादेशे व्यक्तचोदनाम्।

टीका

गोमेषहयानामेकैकस्या जाते द्वो शब्दौ नियम्येते वैकल्पिकौ। एतदुक्तं भवतिगोजातिश्चेत्पशुश्छागस्थाने मोशब्द-मुखशब्दं वा प्रयुञ्जीत। एवमितरयोरपि जात्योः।प्रायिकोऽयं विधिः। कुतः। अन्वादेशे व्यक्तचोदनाम्। औपदेशिकस्य मन्त्रस्य प्रकृतौप्रयोग आदेशः। तस्यैवातिदेशप्राप्तस्य50 विकृतौ प्रयोगोऽन्वादेशः। व्यक्तचोदना51 प्रकृतिप्राप्तस्य मन्त्रस्य विकृतौ संस्कृत्य पुनः पाठः। यथा ‘प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्य ’ इत्येवमादि। तत्र52तमनुसृत्यैव मन्त्राः प्रयोक्तव्याः। एतदुक्तं भवति - आतिदेशिकमन्त्रप्रयोगे यस्मद्विकृत्युपदेशमनुसृत्यैव मन्त्रः प्रयोक्तुं युज्यते तस्माद्विकृत्युपदेशेसति स एवं भवति। तद्भावे गोशब्द उत्रशब्दो वेत्येवं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

एवं वनस्पतिस्विष्टकृत्सूक्तवाकप्रैषेषु।

मूलम्

एवं वनस्पतिस्विष्टकृत्सूक्तवाकप्रैषेषु।

टीका

यथा प्रदानप्रैषेषु देवताशब्दस्य पशुशब्दस्य च स्थान एकैकं देवताशब्दं पशुशब्दं चकृत्वा प्रयोग उक्तः, एवं वनस्पतिस्विष्टकृत्सूक्तवाकप्रैषेषु प्रयोगः कर्तव्यः। तत्रायंविशेषः– नानादेवतेष्वपि पशुषु यत्राग्नेरित्यादेः प्रिया घामान्यन्तस्य, अयालादेस्तदन्तस्य,बघ्नन्नमुष्मा अमुमित्यस्य च त्रिषु प्रैषेष्वभ्यासो न सर्वस्य प्रैषस्येति।

विश्वास-प्रस्तुतिः

प्राजापत्ये त्वग्निचित्या संयुक्ते वायव्यं पशुपुरो-
लाशम्। एके वायव्ये प्राजापत्यं तेन पशुदेवता
वर्धत इत्याचार्याःपुरोलाशतत्प्रधानत्वात्।

मूलम्

प्राजापत्ये त्वग्निचित्या संयुक्ते वायव्यं पशुपुरो-
लाशम्। एके वायव्ये प्राजापत्यं तेन पशुदेवता
वर्धत इत्याचार्याःपुरोलाशतत्प्रधानत्वात्।

टीका

अयमभिप्रायः प्रकृतावनीषोमीये पशौ समानदेवत53त्वात्पुरोडाशयागस्य पशुदेवताप्रत्यभिज्ञानात्तत्संस्कारद्वारेण तदर्थता युक्ता। अत्र पुनर्भिन्नदेवत53त्वात्तदर्थता न युक्ता।ततश्च सूक्तवाकप्रैषेषु पुरोडाशेन पशुदेवतावर्धनमयुक्तमित्याशङ्का नैव कर्तव्या। प्राजापत्येऽपि पशौ प्राकृतकार्यार्थतयैव पुरोडाशयागोऽपि प्राप्त एव। एवं पशुयागार्थतयाप्राप्तस्य देवतान्तरं विधीयमानं प्राकृतदेवताकार्य करत्वेनैव विधीयते। तत्र यच्छब्दभेदादप्रत्यभिज्ञानमाशङ्क्यते तदपि नैवाऽऽशकनीयम्। तदर्थ एवायंशब्दः प्रयुक्त इत्यवगम्यते। ऐन्द्या गार्हपत्यमितिवद्भविष्यतीति। ‘तेन पशुदेवता वर्धत इत्याचार्याः पुरोलाशतप्रधानत्वात्’ इतिवदतः सूत्रकारस्येत्ययमेवार्थः श्रुतौ चोद्योत्तरभङ्ग्योपपादितः।तदाहुः— यदन्यदेवत्य उत पशुर्भवति’ इत्येवमादिना ‘पवमानः प्रजापतिः’इत्येवमन्तेन।

विश्वास-प्रस्तुतिः

पुरोलाशनिगमेषु पुरोलाशवद्धवींष्या-
ज्यवर्जं येषां तेन समवत्तहोमः।

मूलम्

पुरोलाशनिगमेषु पुरोलाशवद्धवींष्या-
ज्यवर्जं येषां तेन समवत्तहोमः।

टीका

यस्मिन्ननेकपशुके पशुतन्त्रे पुरोडाशस्य स्थाने पुरोडाशचर्वाज्य54धनाकरम्मपरिवापामिक्षादयो विहितास्तत्र स्विष्ट-कृति तेषां सर्वेषां समवदाय प्रचारो विहितश्च। तत्रपशुपुरोडाशस्विष्टकृत्प्रैषे सूक्तवाकप्रैषे च पशुपुरोडांशेन देवता वर्धने कर्तव्ये सतिप्रकृतौ पुरोडाशस्य पुरोडाशत्वात्तेनैव शब्देन वर्धनं कृतम्। इह तु नानारूपत्वाद्धविषां स्वेन स्वेनैव शब्देन निगमने प्राप्ते पुरोडाशशब्देनैव चर्वादीनां निगमनंविधीयते। सवनीयानां स्विष्टकृत्प्रेषे सौमिके सूक्तवाकप्रैषे चास्य च्छत्रिन्यायस्य दृष्टत्वादेवमुक्तम्। आज्यभागस्य55 तु तत्राभावाददृष्टः प्रयोग इति तस्य स्वशब्देनैव निगमनंभवति। आज्यस्य तु पुरोडाशत्वसंभावनैव संदिग्धा। यद्य56संभवस्तदाऽऽज्य-वर्जमित्ययमभावा57नुवादः। यदि संभवति तदा स्वशब्देनैव निगमनमाज्यपुरोडाशानामाज्यपुरोलाशैरिति।

विश्वास-प्रस्तुतिः

मेधो रभीयानिति पश्वभिधाने।

मूलम्

मेधो रभीयानिति पश्वभिधाने।

टीका

मेघो रभीयानित्येते पदे पश्चभिधाने पशोरभिधायके इत्यर्थः। मेधपदस्य विधानंप्रथमप्रयुक्तात्वादस्मा एनमित्येवमादीनां प्रदर्शनार्थम्। रभीयानित्यस्योपमार्थत्वशङ्कानिवृत्त्यर्थम्। पश्चभिधाने आदद्धसदिति पाठः कर्तव्यः प्रगृह्यत्वादस्य पदस्य।

विश्वास-प्रस्तुतिः

आदद्घसत्करज्जुषतामघदग्रमीदवीवृधतेति देवतानाम्॥ ४॥

मूलम्

आदद्घसत्करज्जुषतामघदग्रमीदवीवृधतेति देवतानाम्॥ ४॥

टीका

एतेषां पाठो द्विवचनान्तानामाम्नायसिद्धत्वादेकवचनबहुवचनयोरिष्टलकारपरिग्रहार्थम्। आदत्, आदन्। घसत्, घसन्। करत्, करन्। जुषतां, जुषन्ताम्। अघत्, अघन्।अग्रभीत्, अग्रभीषुः। अवीवृधत, अवीवृधन्त॥ ४॥

विश्वास-प्रस्तुतिः

हुतायां वपायां सब्रह्मकाश्चात्वाले मार्ज-
यन्ते निधाय दण्डं मैत्रावरुणः।

मूलम्

हुतायां वपायां सब्रह्मकाश्चात्वाले मार्ज-
यन्ते निधाय दण्डं मैत्रावरुणः।

टीका

अस्मिन्नवसरे चात्वाले मार्जयन्ते। बहुवचनेनैव सर्वेषां मार्जने सिद्धे सब्रह्मकवचनमस्मदीयाः सर्वे सह मार्जयेयुर्न पृथक्पृथगित्येवमर्थम्। दण्डनिधानवचनं स्तोकानुवचनार्थमात्तस्यदण्डस्यात्रैव निधानं न प्रागित्येवमर्थम्।

विश्वास-प्रस्तुतिः

इदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्तु दुर्मि-
त्र्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति।

मूलम्

इदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्तु दुर्मि-
त्र्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति।

टीका

इदमापः प्रवहतेत्यनयर्चा यजुषा चोभाभ्या मार्जनं कर्तव्यम्।

विश्वास-प्रस्तुतिः

एतावन्मार्जनं पशौ।

मूलम्

एतावन्मार्जनं पशौ।

टीका

एतावदेव मार्जनं नाऽऽतिदेशिकं कर्तव्यमित्यर्थः। पश्वधिकारे पुनः पशाविति वचनंपश्वङ्गभूतायामिष्टावाति-देशिकस्य मार्जनस्य प्रवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

तीर्थेन निष्क्रम्याऽऽसीतामापुरोलाशश्रपणात्।

मूलम्

तीर्थेन निष्क्रम्याऽऽसीतामापुरोलाशश्रपणात्।

टीका

अस्मिन्नवसरे नियमेनै58तत्कर्तव्यम्।

विश्वास-प्रस्तुतिः

तेन चरित्वा स्विष्टकृता चरेयुः।

मूलम्

तेन चरित्वा स्विष्टकृता चरेयुः।

टीका

चरित्वेति प्रकृते चरेयुरित्विचनं प्रधानस्विष्टकृतोर्भेदप्रतिपत्त्यर्थम्। अतोऽन्वायात्यानांप्रवेशे सति तयोरेव मध्ये प्रवेशः सिद्धो भवति।

विश्वास-प्रस्तुतिः

यदि त्वन्वायात्यानि तैरग्रे चरेयुः।

मूलम्

यदि त्वन्वायात्यानि तैरग्रे चरेयुः।

टीका

यद्यस्मिन्नवसर आगन्तवो यागा उत्पद्यन्ते तैः पशुपुरोडाशस्विष्टकृतोऽग्रे चरेयुः।तेषामन्वायात्यानीति संज्ञा। एतदुक्तं भवति – यदि पुरोडाशस्विष्टकृतोऽग्रे यैः कैश्चनयागैश्चरेयुस्तान्यन्वायात्यानीति तेषामियं संज्ञा विधीयते। चरेयुरिति पुनर्वचनं चरणमेवैषांकर्तव्यं नान्यन्निगमनादीति सूचनार्थम्।

तदेवोत्तरेण सूत्रेण विस्पष्टयति-

विश्वास-प्रस्तुतिः

न तु तेषां निगमेष्वनुवृत्तिः।

मूलम्

न तु तेषां निगमेष्वनुवृत्तिः।

टीका

अन्वायात्यदेवतानां हविषां चाऽऽवाहनादिषु निगमेष्वनुवृत्तिर्नास्तीत्यर्थः।

नान्येषामूर्ध्वमावाहनादुत्पन्नानाम्

अन्वायात्येभ्योऽन्येषामप्यावाहनकालादूर्ध्व हविरादि सर्वमुत्पद्यते येषां तेषामपिनिगमेष्वनुवृत्तिर्नास्तीत्यर्थः।

विश्वास-प्रस्तुतिः

इलामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोलाशस्य
स्वदस्व हव्या समिषो दिदीहीति पुरोलाशस्विष्टकृतः।

मूलम्

इलामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोलाशस्य
स्वदस्व हव्या समिषो दिदीहीति पुरोलाशस्विष्टकृतः।

टीका

पुरोलाशयोः59 पुरोडाशानामिति हविर्देमे प्रैष ऊह्यः।

विश्वास-प्रस्तुतिः

ऊर्ध्वमिलायाः॥ ५॥
मनोतायै संप्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह।

मूलम्

ऊर्ध्वमिलायाः॥ ५॥
मनोतायै संप्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह।

टीका

अत्रेलामुपहूय मनोतामन्वाह। प्रेषितवचनमुक्तप्रयोजनम्।

विश्वास-प्रस्तुतिः

हविषा चरन्ति।

मूलम्

हविषा चरन्ति।

टीका

तेषां सलिङ्गाः प्रैषा इति प्रैष उक्तः।

विश्वास-प्रस्तुतिः

तत्र प्रैषे करत एवाग्नीषोमावेवमित्यैतरेयिणः।

मूलम्

तत्र प्रैषे करत एवाग्नीषोमावेवमित्यैतरेयिणः।

टीका

तत्र हविःप्रैषे करत60 एवाग्नीषोमावित्याम्नातं तस्यैवशब्दस्य स्थान एवमित्यैतरेयिणआचार्या वक्तव्यमित्याहुः।
किमविशेषेण, नेत्युच्यते-

विश्वास-प्रस्तुतिः

अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च।

मूलम्

अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च।

टीका

अन्यत्र द्विदेवतात्पशोरेकदेवते बहुदेवते च पशावित्यर्थः। द्विदेवते च मैत्रावरुणदेवतेएवमिति वदन्ति। मित्रावरुणौ देवता यस्य पशोः स मैत्रावरुणः पशुः61। मैत्रावरुणोदेवता यस्य स मैत्रावरुणदेवतः पशुः। अत्र मैत्रावरुणशब्दस्य मुख्यया वृत्त्या देवताप्रतिपादनासंभवाल्लक्षणया प्रतिपादयति। अतस्तेन शब्देन *व्यञ्जन62ाद्द्विदेवत्यः पशुर्लक्ष्यतेतस्मिंश्चेत्यर्थः। एतल्लक्षणग्रहणंशास्त्रान्तर-दर्शनाल्लभ्यत इत्युक्तं भाष्यकारेण।
अत्र कारणमाह -

विश्वास-प्रस्तुतिः

तथा दृष्टत्वात्।

मूलम्

तथा दृष्टत्वात्।

टीका

प्रैषेष्वेकदेवतेषु बहुदेवतेषु च व्यञ्जनादि द्विदेवते च तथा दर्शनाते मन्यन्त इत्यर्थः।

विश्वास-प्रस्तुतिः

प्रकृत्या गाणगारिः।

मूलम्

प्रकृत्या गाणगारिः।

टीका

तत्र हेतुमाह -

उत्पन्नानां स्मृत आम्नायेऽर्नथेभेदे* निरर्थो विकारः।

संप्रदायाविच्छेदेनाभ्यस्यमानं आम्नाये दृश्यमानानां पदानामर्थवशेनानूह्यानां सतांविकार इत्येतन्निष्प्रयोजनमित्यर्थः। उपन्यासप्रयोजनमेवंविधानां सामान्यतो दृष्ट्याभ्रान्तिः क्वचिदपि न कर्तव्येति।

विश्वास-प्रस्तुतिः

याज्याया अन्तरार्धर्चौ वसाहोम आरमेत्।

मूलम्

याज्याया अन्तरार्धर्चौ वसाहोम आरमेत्।

टीका

वसाहोमार्थं तत्रावसाय नोत्तरमाददीत। अवसानस्य तदर्थत्वात्तस्मिन्कृतेसमापयेत्।

विश्वास-प्रस्तुतिः

वनस्पतिना चरन्ति प्रैषमभितो याज्यानुवाक्ये।

मूलम्

वनस्पतिना चरन्ति प्रैषमभितो याज्यानुवाक्ये।

टीका

भैषसमाम्नाये यो वनस्पतिप्रैषस्तमभितो ये ऋचावाम्नायेते ते वनस्पतेयज्यानुवाक्येभवतः। प्रैपसमाम्नाये पठिताऽपि याज्येतिसमाख्यातत्वाद्धोत्रैव वक्तव्या।

विश्वास-प्रस्तुतिः

यत्राग्नेराज्यस्य हविष इत्यत्राऽऽज्यभागौ।

मूलम्

यत्राग्नेराज्यस्य हविष इत्यत्राऽऽज्यभागौ।

टीका

यद्याज्यभागौ क्रियेते तदा तस्मिन्प्रेषे प्रधानदेवतावदेतौ निगमयेदित्यर्थः। एतम्,एतौ, एतान्। एताम्, एते एताः। रमीयांसं रमीयांसौ रमीयसः। रमीयसीं रमीयस्यौरमी यसीः।

विश्वास-प्रस्तुतिः

अयालग्निरग्नेराज्यस्य हविष इति
स्विष्टकृतीलामुपहूयानुयाजैश्चरन्ति।

मूलम्

अयालग्निरग्नेराज्यस्य हविष इति
स्विष्टकृतीलामुपहूयानुयाजैश्चरन्ति।

टीका

इलामुपहुयेतिवचनमानन्तर्यार्थम्। तेन प्रकृतिप्राप्तं दक्षिणाप्रतिग्रहाद्यत्र नास्तीतिगम्यते।
————————————————————————————————————
* क. प्रकाशनात्। + घ. — अर्थान्यत्वे शब्दान्यत्वं भवति। अर्थान्यत्वेऽविद्यमानेशब्दस्य यो विकारः क्रियते स निरर्थकः स्मृतः।
————————————————————————————————————

विश्वास-प्रस्तुतिः

तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह।

मूलम्

तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह।

टीका

इहैकादशानुयाजा न त्रयः।

विश्वास-प्रस्तुतिः

प्रागुत्तमा द्वावावपेत। देवो वनस्पतिर्वसुवने वसुधेयस्य
वेतु। देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति।

मूलम्

प्रागुत्तमा द्वावावपेत। देवो वनस्पतिर्वसुवने वसुधेयस्य
वेतु। देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति।

टीका

एकादशानुयाजा इत्युक्त्वा द्वयोरेव याज्ययोः। पाठात्प्राकृतीभ्योऽन्या वैश्वदेव्याआहर्तव्याः।

विश्वास-प्रस्तुतिः

अनवानं प्रेष्यति। अनवानं यजति।

मूलम्

अनवानं प्रेष्यति। अनवानं यजति।

टीका

पुनरनवानग्रहणमुत्तरसूत्रे प्रैषाधिकारनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

उक्तमुत्तमे।

मूलम्

उक्तमुत्तमे।

टीका

यदुक्तम् ‘अनवानं यजति प्रकृत्या वा’ इति तद्याज्याया एव न प्रैपस्थेत्येवमर्थंपूर्वसूत्रे पुनरनवानग्रहणमिति व्याख्यातम्।

विश्वास-प्रस्तुतिः

सूक्तवाकप्रैषे पूर्वस्मिन्निगमे गृह्णन्नित्यत्राऽऽज्यभागौ।

मूलम्

सूक्तवाकप्रैषे पूर्वस्मिन्निगमे गृह्णन्नित्यत्राऽऽज्यभागौ।

टीका

निगमद्वित्वात्पूर्वस्मिन्निति विशेषणम्। अत्रेतिवचनं प्रधानदेवतावदाज्यभागयोरपिनिगमनार्थम्। गृह्णन्निति बघ्नशब्दस्य प्रत्याम्नायः।

विश्वास-प्रस्तुतिः

बध्नन्नमुष्मा अमुंबध्नन्नमुष्मा अमुमिति पशूंश्च देवताश्च।

मूलम्

बध्नन्नमुष्मा अमुंबध्नन्नमुष्मा अमुमिति पशूंश्च देवताश्च।

टीका

नानादैवतनानाजातीयपशुके पशुतन्त्रे पदत्रयस्याभ्यासलाभार्थं पठितस्यापि पुनरभ्यासपाठः।

विश्वास-प्रस्तुतिः

देवताश्चैवैकपशुकाः।

मूलम्

देवताश्चैवैकपशुकाः।

टीका

एकपशुका एकजातीयपशुका इत्यर्थः। एकव्यक्तिपशुत्वे देवता इतिबहुवचनं नोपपद्यते। देवता देवता देवतेति। तत्रैकशेषः। न63 ह्येकः पशुर्बह्वीभिर्देवताभिः संध्यते। ननु वैश्वदेवाग्निमारुत इत्यादिः पशुरस्ति। सत्यम्। अस्त्याश्रयभेदो न तु देवताभेदः। एवं तत्रविग्रहः— विश्वेदेवा देवता यस्य स वैश्वदेव इति। अतो जात्यभिप्राय एवैकशब्दः।यत्रैकजातीयपशुका अनेका देवतास्तत्र देवताशब्दमेवाभ्यसेन्न बघ्नन्पशुशब्दौ। पशुशब्दस्ययावद्रव्यं विभक्त्यूहः कर्तव्यः। बघ्नन्नग्नय इन्द्राग्निभ्यां छागाविति।

विश्वास-प्रस्तुतिः

पशूंश्चैवैकदेवतान्।

मूलम्

पशूंश्चैवैकदेवतान्।

टीका

अत्र पशुशब्दानेवाऽऽवर्तयेन्नान्यौ। यथा ‘बध्नन्प्रजापतयेऽश्वमजं तूपरं गोमृगम्’इति भवति, उभयोरेकजातित्वे ‘बध्नन्प्रजापतये छागौ’ इति। न किंचिदभ्यसितव्यम्।

विश्वास-प्रस्तुतिः

उत्तर आज्येनेत्याज्यभागावमुष्मा अमुनेति पूर्वेणोक्तम्।

मूलम्

उत्तर आज्येनेत्याज्यभागावमुष्मा अमुनेति पूर्वेणोक्तम्।

टीका

पुरोलाशं पुरोलाशौ पुरोलाशान्। तं तौ तान्। तां ते ताः। पुरोलाशेन पुरोलाशाभ्यां पुरोलाशैः। .

विश्वास-प्रस्तुतिः

समाप्य प्रैषमग्नौदण्डमनुप्रहरेदनवभृथे।

मूलम्

समाप्य प्रैषमग्नौदण्डमनुप्रहरेदनवभृथे।

टीका

अवभृथरहिते कर्मणि सूक्तवाकप्रैषं समाप्यानन्तरमेवाऽऽहनीये दण्डननुप्रहरेत्।

विश्वास-प्रस्तुतिः

अवभृथेऽन्यत्र।

मूलम्

अवभृथेऽन्यत्र।

टीका

अन्यत्रेति। सावभृथे कर्मणीत्यर्थः। तत्रावभृथेऽनुप्रहरेदित्यर्थः।

विश्वास-प्रस्तुतिः

कृताकृतं वेदस्तरणं तीर्थेन निष्क्रम्याग्निपशुकेतना-
न्यव्यवयन्तो हृदयशूलमुपोयमानमनुमन्त्रयेउञ्छु-
गसि योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमभिशोचेति।

मूलम्

कृताकृतं वेदस्तरणं तीर्थेन निष्क्रम्याग्निपशुकेतना-
न्यव्यवयन्तो हृदयशूलमुपोयमानमनुमन्त्रयेउञ्छु-
गसि योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमभिशोचेति।

टीका

संस्थाजपात्प्राक्तीर्थेन निष्क्रम्याग्निपशुके *तनान्यव्यवयन्तो हृदयशूलमुदस्यमानं‘शुगसि’ इत्यनेन मन्त्रेणानुमन्त्रयेर-न्सर्वे कर्तारः।

विश्वास-प्रस्तुतिः

तस्योपरिष्टादप उपस्पृशन्ति द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु। धाम्नो धाम्नोराजन्नितो वरुण नो मुञ्च। यदापो अध्न्या इति वरुणेति शपामहेततो वरुण नो मुञ्च। मयि वाऽऽपो मोषधी हिंसीरतो विश्वव्यचाऽभूस्त्वेतो वरुणं नो मुञ्च। सुमित्र्या न आप ओषधयः सन्त्विति च।

मूलम्

तस्योपरिष्टादप उपस्पृशन्ति द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु। धाम्नो धाम्नोराजन्नितो वरुण नो मुञ्च। यदापो अध्न्या इति वरुणेति शपामहेततो वरुण नो मुञ्च। मयि वाऽऽपो मोषधी हिंसीरतो विश्वव्यचाऽभूस्त्वेतो वरुणं नो मुञ्च। सुमित्र्या न आप ओषधयः सन्त्विति च।

टीका

चशब्दः सुमित्र्या न इत्यस्य कृत्स्नस्य ग्रहणार्थः। तस्योदस्यमानस्योपरिष्टादप उपस्पृशन्ति ‘द्वीपे राज्ञः’ इत्यादिभि-र्मन्त्रैः।

विश्वास-प्रस्तुतिः

अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्या-
यन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः।

मूलम्

अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्या-
यन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः।

टीका

अस्पृष्ट्वा हृदयशूलमनवेक्षणमाणास्तमेवासंस्पृशन्तः परस्परं प्रत्याव्रजन्ति64। प्रत्याव्रजन्तःसर्वे तिस्रस्तिस्रः समिधो गृह्णीयुः। एकैक इति क्रमेण ग्रहणार्थम्। तेन सर्वे न युगपद्गृह्णीयुः।

विश्वास-प्रस्तुतिः

अग्नेः समिदसि तेजोसि तेजो मे देहीति प्रथमाम्। एधोऽस्येधि
षीमहीति द्वितीयाम्। समिदसि समेधिषीमहीति तृतीयाम्।

मूलम्

अग्नेः समिदसि तेजोसि तेजो मे देहीति प्रथमाम्। एधोऽस्येधि
षीमहीति द्वितीयाम्। समिदसि समेधिषीमहीति तृतीयाम्।

टीका

प्रथम द्वितीय तृतीयग्रहणान्यभ्याधाने प्रथमगृहीतां प्रथममभ्याध्यात्, एवं द्वितीयांतृतीयामित्येवमर्थानि।

——————————————————————————————————
* क. - आयतनानि।
————————————————————————————————————

एत्योपतिष्ठन्त आपो अद्यान्वचारिपमिति। ततः समिधोऽभ्यादधति65यथागृहीतमग्नेःसमिदसि तेजोऽसि तेजो मेऽदाः स्वाहा सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा। पितॄणां समिदसि मृत्योर्मा पाहि स्वाहेति।

तत66 इति सर्वेषामुपस्थाने परिसमाप्ते पश्चादम्याधानारम्भार्थं यथागृहीतमिति ग्रहणम्।यो यः पूर्व गृह्णीयात्स स पूर्वमभ्याध्यान्न सर्वे युगपदभ्याध्युरिति।

विश्वास-प्रस्तुतिः

ततः संस्थाजप इति पशुतन्त्रम्॥ ६॥

मूलम्

ततः संस्थाजप इति पशुतन्त्रम्॥ ६॥

टीका

पशुमात्रस्यैतत्तन्त्रं न पशुविशेषस्थेत्यर्थः॥ ६॥

विश्वास-प्रस्तुतिः

प्रदानानामुक्ताः प्रैषाः।

मूलम्

प्रदानानामुक्ताः प्रैषाः।

टीका

सर्वत्र प्रदानानामुक्ता एव प्रैषा भवन्ति नान्य इति। अतिदेशप्राप्तानां पुनर्वचनंक्वचित्क्वचित्पशुविशेषे तदर्थतया प्रैषाम्नानं याज्यानुवाक्याम्नानं चास्ति तत्रापि प्रदानप्रैपाएत एव ग्रहीतव्या इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

तेषां याज्यानुवाक्याः।

मूलम्

तेषां याज्यानुवाक्याः।

टीका

याज्यानुवाक्या इत्येतावतैव प्रदानानामेवेति सिद्धे तेषामिति वचनम्। ‘इति पशवः’ इत्यस्मिन्सूत्रे पशून्विघास्यति तेषां67 पशूनां यानि प्रदानानि तेषां पशूनां याज्यानुवाक्यावक्ष्यन्त इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः।

मूलम्

सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः।

टीका

ततो याज्या इत्यनेन विनाऽपि शिष्टा याज्या एव भवन्ति। वचनप्रयोजनं सर्वत्रपूर्वंप्रोक्ता अनुवाक्या उत्तरा याज्या इति ज्ञापनार्थम्। तत्र याज्यायाः पूर्वनिपातोऽल्पाच्तरत्वादित्यवगन्तव्यम्।

विश्वास-प्रस्तुतिः

दैवतेन पशुनानात्वम्।

मूलम्

दैवतेन पशुनानात्वम्।

टीका

याज्यानुवाक्यालिङ्गितदैवतेन वक्ष्यमाणानां पशूनां नानात्वमित्यवगन्तव्यम्।

विश्वास-प्रस्तुतिः

अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने
पायुभिरजस्रैः प्र वः शुक्राय मानवे भरध्वं यथा
विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः।

मूलम्

अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने
पायुभिरजस्रैः प्र वः शुक्राय मानवे भरध्वं यथा
विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः।

टीका

अग्नेरेताः।
अथ सरस्वत्याः-

विश्वास-प्रस्तुतिः

एका चेतत्स्वरस्वती नदीनामुत स्या नः सरस्वती जुषाणा

मूलम्

एका चेतत्स्वरस्वती नदीनामुत स्या नः सरस्वती जुषाणा

विश्वास-प्रस्तुतिः

सरस्वत्यमि नो नेषिवस्यः प्रक्षोदसा धायसा सस्र एषा
पावी रवी कन्या चित्रायुर्यस्ते स्तनः शशयो यो मयोभूः।

मूलम्

सरस्वत्यमि नो नेषिवस्यः प्रक्षोदसा धायसा सस्र एषा
पावी रवी कन्या चित्रायुर्यस्ते स्तनः शशयो यो मयोभूः।

टीका

अथ सौम्याः68-

विश्वास-प्रस्तुतिः

त्वं सोम प्रचिकितो मनीषेति द्वे त्वं नः सोम विश्वतो
वयोधा या ते धामानि दिवि या पृथिव्यामषाह्लं
युत्सु पृतनासु पप्रिंया ते धामानि हविषा यजन्ति।

मूलम्

त्वं सोम प्रचिकितो मनीषेति द्वे त्वं नः सोम विश्वतो
वयोधा या ते धामानि दिवि या पृथिव्यामषाह्लं
युत्सु पृतनासु पप्रिंया ते धामानि हविषा यजन्ति।

टीका

अथ पूष्णः-

विश्वास-प्रस्तुतिः

यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा
अनुवेद सर्वाः शुक्रं ते अन्यद्यजतं ते अन्यत्म पथे
पथामजनिष्ट पूपा पथस्पथः परि पतिं वचस्या।

मूलम्

यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा
अनुवेद सर्वाः शुक्रं ते अन्यद्यजतं ते अन्यत्म पथे
पथामजनिष्ट पूपा पथस्पथः परि पतिं वचस्या।

टीका

अथ बृहस्पतेः—

विश्वास-प्रस्तुतिः

बृहस्पते या परमा परावदिति द्वे बृहस्पते
अतियदर्यो अर्हात्तमृत्विया उप वाचः सचन्ते
संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे।

मूलम्

बृहस्पते या परमा परावदिति द्वे बृहस्पते
अतियदर्यो अर्हात्तमृत्विया उप वाचः सचन्ते
संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे।

टीका

अथ विश्वेषां देवानाम् -

विश्वास-प्रस्तुतिः

विश्वे अद्य मरुतो विश्व ऊत्यानो देवाना मुपवेतु शंस आ
नो विश्वआस्क्रागमन्तु देवा विश्वे देवाः शुणुतेमं हवं मे ये
के च ज्मा महिनो अहिमाया अग्ने याहि दूत्यं मारिषण्यः।

मूलम्

विश्वे अद्य मरुतो विश्व ऊत्यानो देवाना मुपवेतु शंस आ
नो विश्वआस्क्रागमन्तु देवा विश्वे देवाः शुणुतेमं हवं मे ये
के च ज्मा महिनो अहिमाया अग्ने याहि दूत्यं मारिषण्यः।

टीका

अथेन्द्रस्य -

विश्वास-प्रस्तुतिः

इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुं नो लोकमनुनेषि
विद्वान्प्रससाहिषे पुरुहूत शत्रून्स्वस्तये वाजिभिश्च प्रणेतः।

मूलम्

इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुं नो लोकमनुनेषि
विद्वान्प्रससाहिषे पुरुहूत शत्रून्स्वस्तये वाजिभिश्च प्रणेतः।

टीका

अथ मरुताम्-

विश्वास-प्रस्तुतिः

शुची वो हव्या मरुतः शुचीनां नूष्ठिरं मरुतो वीरवन्तमा
वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायारा-
इवेदचरमा अहेव या वः शर्म शशमानाय सन्ति।

मूलम्

शुची वो हव्या मरुतः शुचीनां नूष्ठिरं मरुतो वीरवन्तमा
वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायारा-
इवेदचरमा अहेव या वः शर्म शशमानाय सन्ति।

टीका

अथेन्द्राग्न्योः–

विश्वास-प्रस्तुतिः

आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू

मूलम्

आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू

विश्वास-प्रस्तुतिः

उभावामिन्द्राग्नी आहुबध्यैशुचिं नु स्तोमं नवजात-
मद्यगीर्भिर्विप्रः प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु।

मूलम्

उभावामिन्द्राग्नी आहुबध्यैशुचिं नु स्तोमं नवजात-
मद्यगीर्भिर्विप्रः प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु।

टीका

अथ सवितुः -

विश्वास-प्रस्तुतिः

आ देवो यातु सविता सुरत्नः सधानो देवः सविता सहावेति
द्वे उदीरय कवितमं कवीनां भगं धियं वाजयन्तः पुरन्धिमिति द्वे।

मूलम्

आ देवो यातु सविता सुरत्नः सधानो देवः सविता सहावेति
द्वे उदीरय कवितमं कवीनां भगं धियं वाजयन्तः पुरन्धिमिति द्वे।

टीका

अथ वरुणस्य –

विश्वास-प्रस्तुतिः

अव सिन्धुं वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधा
व एवावन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान
इति द्वे अस्तम्नाद्यामसुरो विश्ववेदा इत्यैकादशिनाः॥ ७॥

मूलम्

अव सिन्धुं वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधा
व एवावन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान
इति द्वे अस्तम्नाद्यामसुरो विश्ववेदा इत्यैकादशिनाः॥ ७॥

टीका

‘अग्ने नय’ इत्यादयः ‘अस्तभ्नाद्यामसुरः’ इत्येवमन्ता अग्न्यादिदैवत्या एकादशषलच69 आम्नाताः। तैश्चैकादश पशवो विहिता भवन्ति। तेषां समाहार एकादशिनीत्युच्यते। तस्यां भवा ऐकादशिना इत्युक्ताः॥ ७॥

** अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचावाऽऽवांमित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या नो मित्रावरुणा हव्यजुष्टिं युवं वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतंजीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्तताग्र इतिषट्प्राजापत्याश्चित्रं देवानामुद्गादनीकमिति पञ्च शं नो भव चक्षसाशं नो अह्नावायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमच्छानो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नां रयिवृधः सुमेधा राये नुयं जज्ञतू रोदसी मे प्र वायुमच्छा बृहती मनीषा तववायवृतस्पतेत्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानायप्र हुतिं यस्त आनट्प्रवो वायुं रथयुजं कृणुध्वमुत त्वामदिते मह्यनेहोन उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरंसुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वंविष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतां त्रिर्देवः पृथिवीमेष एतां परो मात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन्हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणियाऽवमा य इमे द्यावापृथिवी जनित्री तन्नस्तुरीपमधपोषयित्नु देवस्त्वष्टासविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट्पिशङ्गरूपः सुमरोवयोधाः प्रथममाजं यशसं वयोधां सोमापूपणा जनना रयीणामितिसूक्तमादित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरखो गभीरा इमं स्तोमं सकतवों मे अद्य तिस्रो भूमीर्धारयन्त्रींरुत द्यून्न दक्षिणा विचिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठेऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरितिद्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृलानो रुद्रोत नो मयस्कृषीति द्वेआ ते पितर्मरुतां सुम्नमेतु प्र बभ्रत्रे वृषमाय श्वितीच इति तिस्र आपश्चातान्नासत्या पुरस्तादा गोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुरभि क्रत्वेन्द्र भूरध जमस्त्वं महां इन्द्र तुभ्यं हृक्षाःसत्राहणं दाधूषिं तुम्रमिन्द्रं सहदानुं पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवायद्ध वृत्रैवावस्व इन्द्रः सत्यः सम्राड्यद्राग्वदन्त्यविचेतनानि पतङ्गोवाचं मनसा बिमर्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचःपदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवा जनीयन्तोऽन्वग्रव इतितिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधे नर्यो योषणासु यस्य व्रतंपशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः। यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम।**

अत्राष्टादश पलृच आम्नाताः। तैरष्टादश पशवो विहिता भवन्ति। तत्रान्यलिङ्गत्वात्प्राजापत्या इत्युक्तम्।

विश्वास-प्रस्तुतिः

इति पशवः।

मूलम्

इति पशवः।

टीका

** **इत्येत70द्याज्यानुवाक्यालिङ्गकल्पितदेवत्याः पशवोऽस्मिन्सूत्रे विघीयन्ते। एत एकोनत्रिंशत्पशवः। ‘निर्मित ऐन्द्राग्नः’ इत्यस्मिंश्चैको विधास्यते। तेन च सह त्रिंशत्पशवोऽस्मिन्नध्याये विहिताः। तत्रैकादशिनानां गणात्मकत्वाद्गण71 एवाऽऽम्नातो नैकैकः72 पशुस्तेषाम्।एतदुक्तं भवति - एकादशिनी गणरूपेणाऽऽम्नाता73। अग्नीषोमीयादयश्चैकैकश आम्नाताः।निरूढश्चाऽऽम्नातः। अन्ये च केचनास्मिञ्शास्त्रे पशव आग्नाताः। तेषु सर्वेषु पशुषुपौर्णमासमेव तन्त्रम्। असमाम्नातेष्वर्थात्कल्पनीयं तन्त्रम्।

विश्वास-प्रस्तुतिः

सौम्यश्च निर्मिताश्च।

मूलम्

सौम्यश्च निर्मिताश्च।

टीका

सौम्याः सोमाङ्गभूता इत्यर्थः। निर्मिताः स्वतन्त्रा इत्यर्थः। अस्मिन्खण्डद्वये पशवआग्नातास्तेषां केचित्सोमाङ्गभूताः केचित्स्वतन्त्रा इत्यर्थः।

विश्वास-प्रस्तुतिः

निर्मित ऐन्द्राग्नः।

मूलम्

निर्मित ऐन्द्राग्नः।

टीका

ऐन्द्राग्नो निरूढो नाम पशुः कर्तव्यः। अयमपि पशुः पशूनां प्रकृतिः। तेनाङ्गभूता74नामग्नीषोमीयः प्रकृतिः स्वतन्त्राणां निरूढः प्रकृतिरिति तेष्वेव पश्विष्टिर्नाङ्गभूतेण्वित्येवमर्थं75 निरूढप्रकृतित्वाम्नानम्।

विश्वास-प्रस्तुतिः

षाण्मास्यः सांवत्सरो वा।

मूलम्

षाण्मास्यः सांवत्सरो वा।

टीका

सोऽयं निरूढः पशुः षट्सु षट्सु मासेषु कर्तव्यः संवत्सरे संक्रसरे वा। अतोऽयंचीप्सा वचनान्नित्योऽयं पशुरिति गम्यते।

विश्वास-प्रस्तुतिः

प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वक-
र्मणाश्चैतेषां तत्रोपांशुयाजविकारान्वक्ष्यामः।

मूलम्

प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वक-
र्मणाश्चैतेषां तत्रोपांशुयाजविकारान्वक्ष्यामः।

टीका

ऐष्टिकेषूक्तो विकारः। पाशुकेषु तन्त्रेष्विदानीं विकार उच्यते।

विश्वास-प्रस्तुतिः

प्रैषादिरागुरस्थाने।

मूलम्

प्रैषादिरागुरस्थाने।

टीका

आगुरो यत्स्वरस्थानमुच्चैष्ट्वं नाम तत्प्राषादेरेपि76भवति। उच्चैरिति वक्तव्य आगुरस्थानइति वचनमागूः परिमाणो द्विपद एव प्रैषादिशब्दवाच्य इति ज्ञापनार्थम्।

विश्वास-प्रस्तुतिः

आदद्घसत्करदिति चैतानि यथास्थानमुपांशु॥ ८॥

मूलम्

आदद्घसत्करदिति चैतानि यथास्थानमुपांशु॥ ८॥

टीका

एतानीतिवचनमाददादीनां सप्तानां ग्रहणार्थम्। यथास्थानवचनं सर्वप्रैषपरिग्रहार्थम्। चशब्दो विकारसमुच्चयार्थः। कस्याचदुच्चेष्टविधानात्कस्यचिदुपांशुत्व विधानादन्यस्यतन्त्रसरस्वं भवति तेन प्रधानोपांशुवाददारन्यदुच्चैर्भवति। तन्त्रोपांशुषु प्रैषादेरन्यदुपांशुभवतीति सिद्धम्॥ ८॥

विश्वास-प्रस्तुतिः

सौत्रामण्याम्।

मूलम्

सौत्रामण्याम्।

टीका

सौत्रामणीति कर्मनाम तस्यां विधिर्वक्ष्यत इति संबन्धः।

विश्वास-प्रस्तुतिः

आश्विनसारस्वतैन्द्राः पशवो बार्हस्पत्यो वा
चतुर्थः। ऐन्द्रसावित्रवारुणाः पशुपुरोलाशाः।

मूलम्

आश्विनसारस्वतैन्द्राः पशवो बार्हस्पत्यो वा
चतुर्थः। ऐन्द्रसावित्रवारुणाः पशुपुरोलाशाः।

टीका

आश्विनसारस्वतैन्द्राणामेत ऐन्द्रादयः पशुपुरोलाशा यथासंख्येन भवन्ति। बार्हस्पत्यस्यतु स्वदैवत एव, अन्यस्याविधानात्।

विश्वास-प्रस्तुतिः

मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां
पुरोनुवाक्या होता यक्षदश्विना सरस्वतीमिन्द्रं
सुत्रामाणं सोमानां सुराम्णां जुषन्तां व्यन्तु
पिबन्तु मदन्तु सोमान्सुराम्णो होतर्यजेति
प्रैषः पुत्रमिव पितरावश्विनोभेति याज्या।

मूलम्

मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां
पुरोनुवाक्या होता यक्षदश्विना सरस्वतीमिन्द्रं
सुत्रामाणं सोमानां सुराम्णां जुषन्तां व्यन्तु
पिबन्तु मदन्तु सोमान्सुराम्णो होतर्यजेति
प्रैषः पुत्रमिव पितरावश्विनोभेति याज्या।

टीका

मार्जनं77 चात्वालमार्जनं तत्कृत्वा ग्रहैः प्रचरेयुः। ते चाऽऽश्विनसारस्वतैन्द्रास्तेषामेषा78ऽनुवाक्या। प्रैषया79ज्ये उक्ते। याज्यादीना80 त्रिदेवतालिङ्गत्वात्तैः सह प्रचारः।

विश्वास-प्रस्तुतिः

अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा। नाना
हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि। सुरा
त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमम्।

मूलम्

अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा। नाना
हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि। सुरा
त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमम्।

टीका

अवेक्षेतेति शेषः। नानां हि वामिति कुम्भीस्थां सुरामवेक्ष्य ततो बाहू अधोमुखौकृत्वा ग्रहपात्रस्थां सुरामवेक्षेत ‘सोम एषः’ इत्यनेन मन्त्रेण ऋयणत्रिरात्र वासनद्रवीकरणपावनश्रयणोर्ध्वपात्रसंबन्धात्सुरैव सोमशब्देनोक्ता।

विश्वास-प्रस्तुतिः

यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः। इदं
तद्स्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः।

मूलम्

यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः। इदं
तद्स्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः।

टीका

भक्षयेदिति वक्तव्ये भक्षजप इति वचनं पयोग्रहेष्वप्यस्य मन्त्रस्य प्रापणार्थम्।

विश्वास-प्रस्तुतिः

प्राणभक्षोऽत्र॥ ९॥

मूलम्

प्राणभक्षोऽत्र॥ ९॥

टीका

अत्रेतिवचनं सुराग्रहेष्वेव प्राणभक्षो भवति पयोग्रहेषु प्रत्यक्षभक्ष एवेति प्रदर्शनार्थम्।अस्मिन्कर्मणिकेषांचित्प-शुपुरोडाशा न सन्ति ग्रहा एव तेषां पशुपुरोडाशकार्ये भवन्तीति। अस्मिन्कर्माण केषांचित्प्रैषा न सन्ति। तत्रापि मैत्रावरुण एवानुवाक्यां ब्रूयात्। यावद्वचनमपोद्यत इतर81त्प्रकृतिप्राप्तमेवावतिष्ठते। (*सिद्धान्तभाष्ये – ग्रहाणामितिबहुवचनात्सोमग्रहाश्च विद्यन्ते। उत्तरत्र भझविधानाच न सुराया भक्षो विद्यते। प्रैष इति वचनं प्रैषपाठेऽनाम्नातत्वात्। अथ वा स्विष्टकृत्प्रचारेऽपि स्विष्टकृतोऽप्ययमेव प्रैषःकथं स्यादिति केचिदध्वर्यवो ग्रहाणां स्विष्टकृता पृथक्श्चरन्ति। तत्रापि समाम्नाते ग्राह्येसंयाज्ये। तत्र ‘होता यक्षदग्निं सोमानां सुराम्णां जुषतां वेतु पिबतु सोमान्सुराम्णो

————————————————————————————————————
* धनुश्चिह्नान्तर्गतोऽयं ग्रन्थो घ. ङ. च. पुस्तकेषु नास्ति।
————————————————————————————————————

होतर्यजेति प्रैषः कर्तव्यः। अस्मिंस्तु पक्षे ग्रहाणामनुवषट्कारो न भवति। अनुवषट्कारस्य स्विष्टकृत्स्थानापन्नत्वात्) आदेशस्तु कर्तव्य एव। प्रैषे सति तत्रैवाऽऽदेशस्यकृतत्वाद्याज्यायामादेशप्रतिषेधः कृतः। असति तस्मिन्याज्यायामादेशः कर्तव्य एव।कौकिल्यां तु सौत्रामण्यां प्रयाजादीनां प्रैषादयः केचन तदर्थतयैवाऽऽम्नाताः। तत्रापियावदाम्नातं तत एव ग्रहीतव्यम्। इतरत्सर्वं प्रकृतिप्राप्तमेवेति सिद्धम्॥ ९॥

विश्वास-प्रस्तुतिः

विध्यपराधे प्रायश्चित्तिः।

मूलम्

विध्यपराधे प्रायश्चित्तिः।

टीका

प्रायश्चित्तिरित्यधिकारोऽयमाऽध्यायपरिसमाप्तेः। विधिशब्देन विहितमुच्यते।अपराधोऽन्यथाभावः, अभावो वा। विहितस्याकरणेऽन्यथाकरणे च प्रायश्चित्तिः कर्तव्या।प्रायो विनाशः। चित्तिः संधानम्। विनष्टसंधानं प्रायश्चित्तिरित्युक्तं भवति। विध्यपराधेप्रायश्चित्तिरिति वचनादपराधे सति तदर्थतया विहितमस्ति चेत्तदेव कर्तव्यम्। तन्नास्तिचेद्व्याहृतिहोमः कर्तव्यः। ‘तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्या’ इतिवचनात्।विध्यपराध इति वचनाद्विधिसंपादने प्रायश्चित्तिर्नास्ति। यथा यादे वाऽस्याग्निहोत्रउपसन्न इत्यांद्य82न्तरागमननिषेधावसरे यजमानस्या-न्तरागमनं विहितं तस्मिन्गमन इत्यर्थः।कालश्च प्रायश्चित्तानां नैमित्तिकत्वान्निमित्तानन्तरं कर्तव्यानीत्युत्सर्गः।

विश्वास-प्रस्तुतिः

शिष्टाभावे प्रतिनिधिः।

मूलम्

शिष्टाभावे प्रतिनिधिः।

टीका

शिष्टं विहितमित्यर्थः। तस्याभावे प्रतिनिधिरुपादातव्यः। अभाव इत्येतावतैव सिद्धेशिष्टग्रहणं यत्कार्यार्थतया *यच्छिष्टं तस्य +स्वरूपसत्तायामपि तत्कार्याशक्तौ प्रतिनिधिरुपदातव्यं83 एवेत्येवमर्थम्। अर्थद्रव्ययोर्विरोधेऽर्थोx बलीयानित्ययमपि न्यायोऽर्थादत्रव्युत्पादितो भवति। इदं चापरम्। कार्यसामर्थ्ये सति न गुणसंपादनार्थमुपादातव्य इति व्यतिरेकालभ्यते। अत्रापि न्यायान्तरं व्युत्पादितं भवति, ÷ द्रव्यगुणविरोधे द्रव्यंबलीय इति। प्रतिनिधीयत इति प्रतिनिधिः। एतदुक्तं भवति – यत्कार्यार्थतया यद्विहितंतस्य तत्कार्याशक्तौ तस्य यत्प्रतिरूपं तत्तत्कार्यकरणायोपादातव्यमिति। अनेन प्रकारेणसदृशप्रतिनिधिरुक्तो भवति। न्यायादेवायमर्थो लभ्यते। शिष्टाभावे प्रतिनिधिरिति वचननस्येदं प्रयोजनं प्रतिनिधिप्रयोगेऽपि विहितस्वरूपापचाराद्विध्यपराधशङ्कानिवृत्त्यर्थम्।अतस्तत्र प्रायश्चित्तिर्न कर्तव्या। विधिशक्तिरेव तत्रैवरूपा विपरिणमते नात्र विध्यपराधोऽस्तीत्येवमर्थं सूत्रप्रणयनम्।

———————————————————————————————————
* क. उपदिष्टम्। + क. प्रत्यक्षतया विद्यमानत्वेऽपि। x घ. स्रुवग्रहण समर्थोऽर्थः।÷ घ. दूधि।
————————————————————————————————————

विश्वास-प्रस्तुतिः

अन्वाहिताग्नेः प्रयाणोपपत्तौ पृथगनीन्नयेयुः।

मूलम्

अन्वाहिताग्नेः प्रयाणोपपत्तौ पृथगनीन्नयेयुः।

टीका

अन्वाहिता अग्नयो यस्य सोऽयमन्वाहिताग्निः। इष्टिमध्य84इत्यर्थः। तस्य प्रयाणोपपत्तावनीन्पृथङ्नथेयुः प्रत्यक्षं च। पृथग्रहणमसंसर्गार्थम्। उपपत्तिवचन मनात्माधीनगमनसूचनार्थम्। चोरव्याघ्रा ऋदिमयात्क्षणमप्यत्र वस्तुमशक्यमिति यदि गमनमापद्येत तदेष्टिमध्येऽप्यनेन प्रकारेणाम्नीन्गृहीत्वा गन्तव्यम्। अन्यथा कर्ममध्ये न गन्तव्यमित्येवमर्थमुपपत्तिवचनम्।

विश्वास-प्रस्तुतिः

तुभ्यं ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समारोपयेत्।

मूलम्

तुभ्यं ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समारोपयेत्।

टीका

एतामाहुतिं हत्वा समारोप्य गन्तव्यमित्यर्थः। प्रत्यक्षनयन आहुतिहोमो नास्ति।
समारोपणस्वरूपमाह–

विश्वास-प्रस्तुतिः

अयं ते योनिऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्।

मूलम्

अयं ते योनिऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्।

टीका

पूर्वे एव द्वे अरणी गार्हपत्ये प्रतितपेन्नाग्न्यन्तरे। यदि दक्षिणाग्निभिन्नयोनिस्तदातस्यारण्यन्तरे85 तेनैव मन्त्रेण समारोपणं भवति।

विश्वास-प्रस्तुतिः

पाणी वा या ते अग्ने यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽ-
त्मानमच्छावसूनि कृण्वन्नर्या पूरूणि यज्ञो भूत्वा
यज्ञमासीद योनिं जातवेदो भुव आजायमान इति।

मूलम्

पाणी वा या ते अग्ने यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽ-
त्मानमच्छावसूनि कृण्वन्नर्या पूरूणि यज्ञो भूत्वा
यज्ञमासीद योनिं जातवेदो भुव आजायमान इति।

टीका

द्वौ पाणी गार्हपत्ये सकृदेव प्रतितपेत्। द्वयोरपि समारोपणं यजमान एव कुर्यात्।पूर्वमन्त्रस्य प्रत्यगाशीष्ट्वात्, उत्तरस्य चाऽऽत्मानमिति लिङ्गात्, कर्जन्तरविधानाभावाच्च।

विश्वास-प्रस्तुतिः

एवमनन्वाहिताग्निरहुत्वा।

मूलम्

एवमनन्वाहिताग्निरहुत्वा।

टीका

समारोप्य गमनप्राप्तौ गच्छेदितिशेषः86। अतोऽनन्वाहिताग्नेः प्रत्यक्षनयनं नास्ति।प्रयाणकाले विहारदेशेऽपि यत्र क्वापि संचारयितव्येऽनुच्छ्वप्तता संचारयितव्यः। अविहृतस्य गार्हपत्यस्यैष नियमो विहृतानामपि सर्वेषांयुगपन्नयनेऽपि भवति नैकैकस्य नयने।अनप्ता नयने क्वचिदप्यनुच्छ्वासनियमो नास्ति। अनेनैव प्रकारेणाग्नीन्सर्वदा नयेत्। अन्यथानयनेऽग्नीनां लौकिकत्वाशङ्का स्यात्।

विश्वास-प्रस्तुतिः

यदि पाण्योररणी संस्पृश्य मन्थयेत्प्रत्यवरोह जात-

मूलम्

यदि पाण्योररणी संस्पृश्य मन्थयेत्प्रत्यवरोह जात-

टीका

———————————————————————————————————
* घ. आदिपदेन राज्यक्रान्त्यादि। अन्यत्र दर्शनात्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

वेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्। प्रजां
पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति।

मूलम्

वेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्। प्रजां
पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति।

टीका

अरण्योर्हस्तयोर्वा समारोपणमुक्तम्। तत्रावरोहणकाले यजमानः ‘प्रत्यवरोह जातवेदः’इत्येतं मन्त्रमुक्त्वा मन्त्रान्ते तयोररण्योरग्निं मन्थयेत्, स्वयं वा मन्थेत्87। एवमरणीसमारोपणे। यदि हस्तयोः समारोपणं स्यात्तदैतेन मन्त्रेणारणी संस्पृश्य मन्थयेत्। यजमानोमन्थनकाले यावदग्नेर्जन्म तावदरणी संस्पृशन्नेवाऽऽस्ते। मध्यमानेऽग्नौयद्युत्पादनसमर्थःप्रयत्नो निष्फलः स्यात्तदा पुनररारम्भावसरे मन्त्र आवर्तयितव्यः। एवं व्यर्थे व्यर्थे पुनःपुनरावर्तयेत्। अग्न्यवरोहणार्थमरणी मन्थयेदित्येकोऽर्थः। यदि पाण्योः समारोपणं तदैव88मवरोहयेत्। ‘पाणिभ्यामरणी’ अनेन मन्त्रेण संस्पृश्य मन्थयेदित्यपरोऽर्थः।

विश्वास-प्रस्तुतिः

आहवनीयमवदीप्यमानमर्वाक्शम्यापरासा-
दिदं त एकं पर ऊत एकमिति संवपेत्।

मूलम्

आहवनीयमवदीप्यमानमर्वाक्शम्यापरासा-
दिदं त एकं पर ऊत एकमिति संवपेत्।

टीका

आहवनीयस्यैकदेशः समस्तो वा यद्यायतनादुत्सृप्यार्वाक्शम्यापरासाद्वेदेर्बहिर्गच्छेत्तदातम्‘इदं त एकम्’ इत्यायतने संवपेत्। ततः समस्ताभिर्व्याहृतिभिर्होमः कर्तव्यः।अग्नीनां सर्ववेदसंबन्धित्वात्89। सर्वत्र विनष्टसंघानं द्विविधम्। आयातना90दपगतस्य पुनःप्रक्षेपात्लेन्द्रियं संधानं तत्रैव व्याहृतिभिर्होमा91दतीन्द्रियम्। अतो यत्र यागो92 होमो जपोदानं दक्षिणारूपं93 ब्राह्मणभोजनं चास्ति तत्र तैरेवातीन्द्रियसंधानांशः सिध्यति। यत्र स्वेषामन्यतमं94 नास्ति तत्र व्याहृतिहोमेनातीन्द्रियांशसंधानं कर्तव्यम्। आहवनीयग्रहणादग्न्यन्तरे नैतत्प्रायश्चित्तम्। तत्र तूष्णीं प्रक्षिप्य व्याहृतिहोमः कर्तव्यः। तस्य च विध्यपराधत्वात्। दीप्यमानवचनं यावत्प्रायश्चित्तकालं जीवत एवैतत्प्रायश्चित्तं भवति न विस्फुलिङ्गमात्रस्येत्येवमर्थम्।

विश्वास-प्रस्तुतिः

यदि त्वतीयाद्यद्यमावास्यां पौर्णमासींवाऽऽतीयाद्यदि
वाऽन्यस्याग्निषु यजेत यदि वाऽस्यान्योऽग्निषु यजेत
यदि वाऽस्यान्योऽग्निरग्नीन्व्यवेयाद्यदि वाऽस्याग्निहोत्र उप-
सन्नेहविषि वा निरुप्ते चक्रीवच्छ्वापुरुषो वा विहार-
मन्तरियाद्यदि वाऽध्वे प्रमीयेतेष्टिः।

मूलम्

यदि त्वतीयाद्यद्यमावास्यां पौर्णमासींवाऽऽतीयाद्यदि
वाऽन्यस्याग्निषु यजेत यदि वाऽस्यान्योऽग्निषु यजेत
यदि वाऽस्यान्योऽग्निरग्नीन्व्यवेयाद्यदि वाऽस्याग्निहोत्र उप-
सन्नेहविषि वा निरुप्ते चक्रीवच्छ्वापुरुषो वा विहार-
मन्तरियाद्यदि वाऽध्वे प्रमीयेतेष्टिः।

टीका

उक्तं शम्यापरासदेशमनतिक्रान्तस्य। अतिक्रान्तस्येदमुच्यते। यदि त्वतीयाच्छम्यापरासदेशमित्यर्थः। यद्यमावास्यां पौर्णमासीं वा स्वकालेऽकृत्वाऽतीयात्। अन्यस्याग्निषुयागं कुर्यात्। अस्याग्निष्वन्यो वा यजेत। अस्याग्नीनन्यो वाऽग्निर्व्यवेयात्। यद्यग्निहोत्रद्रव्ये कुशेषूपसादिते दर्शपूर्णमासादिषु वा हविषि निरुप्ते चक्रीवद्रथशकटादि श्वापुरुषो मनुष्यजातिः सर्वाऽग्नीनां मध्ये नातिक्रामेत्। यदि वा यजमानोऽध्वनि प्रमीयेत,यस्मिन्ग्रामेऽग्नय आसते तस्माद्ग्रामाद्ग्रामान्तरे प्रम्रियेतेत्यर्थः। एतेषु निमित्तेष्विष्टि कुर्यात्।

विश्वास-प्रस्तुतिः

अग्निः पथिकृत्।

मूलम्

अग्निः पथिकृत्।

टीका

तस्यामियं देवता। अग्निः पथिकृद्गुणकः।

विश्वास-प्रस्तुतिः

वेत्था हि वेधो अध्वन आ देवानामपि
पन्थामगन्मेति। अनड्वान्दक्षिणा।

मूलम्

वेत्था हि वेधो अध्वन आ देवानामपि
पन्थामगन्मेति। अनड्वान्दक्षिणा।

टीका

शकटवहनसमर्थो बलीवर्दोऽनड्वान्दक्षिणा।

विश्वास-प्रस्तुतिः

व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत्।

मूलम्

व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत्।

टीका

अग्निचक्रीवरुपैर्व्यवाय इष्टिरुक्ता। तत्राग्निवर्जितैरन्यैर्व्यवाये गवातिक्रमणं भस्मराज्युदकराजिम्यां संतानमनु-गमयित्वा प्रणयनमुपस्थानमिति विशेषः। श्वव्यवाये त्वयमप्यपरो विशेषः ‘भस्मना शुनः पदं प्रतिवषेत्’ इति एते पदार्था निमित्तानन्तरमेव कर्तव्याः।ततो वर्तमानं कर्म समाप्येष्टिः कर्तव्या। दर्विहोममध्य एष विधिः, इष्टिमध्ये तु तदेव।तन्त्रमुपजीव्य तत्रैव पाथिकृती कर्तव्या। प्रागिष्टेरिति वचनं पूर्वोक्ताया अपष्टेिः प्रांगवैतेपदार्थीः कार्या इत्येवमर्थम्।

विश्वास-प्रस्तुतिः

भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति।

मूलम्

भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति।

टीका

शुनो यानि पदानि तानि भस्मना प्रतिवपेत्पूरयेदित्यर्थः। प्रतिपदं मन्त्रावृत्तिः।

विश्वास-प्रस्तुतिः

गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या
च संतनुयात्तन्तुं तन्वन्रजसो मानुमन्विहीति।

मूलम्

गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या
च संतनुयात्तन्तुं तन्वन्रजसो मानुमन्विहीति।

टीका

प्रतिराजि मन्त्रावृत्तिः।

विश्वास-प्रस्तुतिः

अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणीयोपतिष्ठेत। यदग्ने पूर्वं
प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान। तत्र रयिष्ठामनुसंभवैतां
सं नः सृज सुमत्या वाजवत्या। त्वमग्ने सप्रथा असीति च।

मूलम्

अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणीयोपतिष्ठेत। यदग्ने पूर्वं
प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान। तत्र रयिष्ठामनुसंभवैतां
सं नः सृज सुमत्या वाजवत्या। त्वमग्ने सप्रथा असीति च।

टीका

राजिम्यां95 संतानं कृत्वाऽऽहवनीयमनुगमयेत्। ततः प्रणीयोपतिष्ठेत ‘यदग्ने पूर्वं’‘त्वमग्ने सप्रथा असि’ इति च द्वाभ्याम्। चशब्दः पूर्वान्त इतिकाराभावात् ‘त्वमग्नेसप्रथा असि’ इत्यस्य पूर्वमन्त्रशेषाशङ्कानिवृत्त्यर्थः। इष्टेरपि स एव विहारः। प्रायश्चित्तउत्पन्ने पूर्वप्रवृत्ता अग्नयो नापवृज्यन्त इत्यस्यार्थस्य साधनार्थमुत्तरत्र वक्ष्यति – ‘अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेत्’ इति।

विश्वास-प्रस्तुतिः

अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं
तूष्णीं सर्वहुतं जुहुयुरासमवायात्।

मूलम्

अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं
तूष्णीं सर्वहुतं जुहुयुरासमवायात्।

टीका

पथिकृतं कृत्वा तस्मिन्नेव विहारे तूष्णींधर्मकमग्निहोत्रं नाम कर्मान्तरमनेन विधीयते।तत्सर्वमग्निहोत्रवत्कर्तव्यम्। सर्वहुतत्वं तु विशेषः। अतो नात्र भक्षोऽस्ति। कालश्च सायंप्रातरेव। साङ्गं प्रधानम्। तूष्णीं प्रधाने प्रजापतिध्यानं कर्तत्र्यम्। अभिवान्यवत्सानामान्यवत्सेन दोहनीया। अभिवान्यो वत्सो यस्याः साऽभिवान्यवत्सा। अभिवान्योऽभि96याचनीय इत्यर्थः। आसमवायादिति। आ शरीरस्याग्निसंबन्धादित्यर्थः।

विश्वास-प्रस्तुतिः

यद्याहिताग्निरपरपक्षे97 प्रमीयेताऽऽहुतिभिरेनं पूर्वपक्षं हरेयुः।

मूलम्

यद्याहिताग्निरपरपक्षे97 प्रमीयेताऽऽहुतिभिरेनं पूर्वपक्षं हरेयुः।

टीका

यद्याहिताग्नेरपरपक्षे मरणाशङ्का स्यात्तदा तस्य पक्षस्यावशिष्टा आहुतीः पक्षहोमन्यायेन हुत्वाऽमावास्यां च कृत्वा कर्मभिरेवमेनं98 पूर्वपक्षं नयेयुः। आहिताग्निग्रहणमन्या अप्यनाहिताग्नेरपरपक्षाश्रिता या नित्याहुतयस्ताः सर्वा होतव्या इत्येवमर्थम्। एष पूर्वाधिकृतानां कालापकर्षो विधीयते। तेन जीवत एव मरणशङ्कायामेतदिति गम्यते। मृतस्यानधिकारात्। अत एव पूर्वसूत्रेऽग्निहोत्रनामकं कर्मान्तरमित्युक्तम्।

विश्वास-प्रस्तुतिः

हविषां व्यापत्तावोह्लासु देवतास्वाज्येनेष्टिं समाप्य पुनरिज्या।

मूलम्

हविषां व्यापत्तावोह्लासु देवतास्वाज्येनेष्टिं समाप्य पुनरिज्या।

टीका

आवाहानादूर्ध्व प्रधानयागादवग्यदि हविर्व्यापद्येत तस्य प्रधानयागादि सर्वमाज्येनसमापयेत्। अव्यापन्नानि च यथा पूर्व समापयेत्। एवं समाप्य ततो व्यापन्न हविर्मात्रस्यैवाग्न्यन्वाधानादिः पुनर्यागः कर्तव्यः। एवं द्वयोर्चहूनां व्यापत्तौ कर्तव्यम्। हविषामितिबहुवचनमविवक्षितम्। ब्राह्मणे च सर्वशब्दोऽस्य प्रायश्चित्तस्य सर्वहविष्णु प्रापणार्थः। नैकस्मिन्द्वयोर्वा प्रतिषेधार्थः। इष्टिग्रहणं प्रधानयागे कृते शेषकार्ये चाकृते हविषिव्यापन्न आज्येन समापनं कुर्यादित्येवमर्थम्। तत्र पुनर्यागो न भवति।

विश्वास-प्रस्तुतिः

व्यापन्नानि हवींषि केशनख कीटपतङ्गैरन्यैर्वा बीभत्सैः।

मूलम्

व्यापन्नानि हवींषि केशनख कीटपतङ्गैरन्यैर्वा बीभत्सैः।

टीका

अन्यैर्वा बीभत्सैरितिवचनात्केशादिभिरपि बीभत्सैरेवेति गम्यते। तेनाच्युतकेशनखसंसर्गो न दोषाय भवति। तथा कीटपतङ्गैरेवाप्य99मेध्यनिवासिभिः संसर्गः। अन्यैर्वा बीभत्सैरित्यनेन च वमनादीन्युच्यन्ते। एतैः संसर्गे हवींषिव्यापन्ना-नीत्यर्थः। वीभत्सैरित्येतावतैवास्मिन्नर्थे सिद्धे केशादीनां पृथग्ग्रहणं केशादिसंसर्गे स्मृत्युक्तंः शुद्धयुपायो यः सहविषि न भवतीत्येवमर्थम्।

विश्वास-प्रस्तुतिः

भिन्नसिक्तानि च।

मूलम्

भिन्नसिक्तानि च।

टीका

भिन्नानि च सिक्तानि च हवींषि दुष्टानि भवन्ति। काठिनेषु भेदनं दवेषु क्षरणमिति।

विश्वास-प्रस्तुतिः

अपोऽभ्यवहरेयुः।

मूलम्

अपोऽभ्यवहरेयुः।

टीका

दुष्टानि हवींप्यप्स प्रक्षिपेदित्यर्थः। एषैतेषां प्रतिपत्तिः।

विश्वास-प्रस्तुतिः

प्रजापते न त्वदेतान्यन्यइति च वल्मीकवपायां
वा सांनाय्यं मध्यमेन पलाशपर्णेन जुहुयात्।

मूलम्

प्रजापते न त्वदेतान्यन्यइति च वल्मीकवपायां
वा सांनाय्यं मध्यमेन पलाशपर्णेन जुहुयात्।

टीका

सांनाध्यं दुष्टं मध्यमेन पलाशपर्णेन ‘प्रजापते न त्वद्’ इत्यृचा स्वाहाकारान्तयावल्मीकद्वारे प्रतिषिञ्चेत्। अप्सु वा तूष्णीमिति विकल्पः। मध्यमग्रहणं द्विपर्णस्य मासूदित्येवमर्थम्।

विश्वास-प्रस्तुतिः

विष्यन्दमानं मही द्यौः पृथिवी च
न इत्यन्तः परिधिदेशे निवपेयुः।

मूलम्

विष्यन्दमानं मही द्यौः पृथिवी च
न इत्यन्तः परिधिदेशे निवपेयुः।

टीका

द्विविधं विष्यन्दनं सिक्तमसिक्तंच। सिक्तं दुष्टं भवति। अन्यद्दुष्टम्। यद्विष्यन्दमानं कुम्भीमतीत्याग्निं पृथिवीं वा प्राप्नुयात्तत्सिक्तं भवति दुष्टं च तदेव। यत्कुम्भ्यांबहिर्गमनमात्रेण विष्यन्दते तदसिक्तमदृष्टं च। यद्विष्यन्दनेन दुष्टं तदेवं प्रतिपादयेत्।‘मही द्यौः’ इत्यनयर्चाऽन्तःपरिधिदेशे निषिञ्चेत्। देशग्रहणं परिध्यभावेऽपितस्मिन्देशे निनयनार्थम्।

विश्वास-प्रस्तुतिः

अन्यतरादोषे व्यासिच्य प्रचरेयुः।

मूलम्

अन्यतरादोषे व्यासिच्य प्रचरेयुः।

टीका

अदुष्टे प्रातर्दोह एतद्भवति। तत्प्रातर्देहिं व्यासिच्य द्वयोः पात्रयोः कृत्वा तयोरज्यतरद्दधिभावायाऽऽतच्य ताभ्यांदधिपयोभ्यां प्रचरेयुरित्यर्थः। अतएवादुष्टे प्रातर्दोहइत्युकम्।

विश्वास-प्रस्तुतिः

पुरोलाशं वा तत्स्थाने।

मूलम्

पुरोलाशं वा तत्स्थाने।

टीका

पयसि दुष्ट एतदेव भवति पूर्वोक्तस्यासंभवात्। तेन व्यवस्थितविभाषेयम्।

विश्वास-प्रस्तुतिः

उभयदोष ऐन्द्राग्नंपञ्चशरावमोदनम्।

मूलम्

उभयदोष ऐन्द्राग्नंपञ्चशरावमोदनम्।

टीका

सानाय्यद्वये दुष्टे पञ्चशरावपरिमितान्ब्रीहीन्निर्वपेदिन्द्राग्निदेवत्यौदनसिद्ध्यर्थम्।

विश्वास-प्रस्तुतिः

तयोः पृथक्प्रचर्या।

मूलम्

तयोः पृथक्प्रचर्या।

टीका

तयोरिन्द्राग्न्योर्हविरुत्पत्तौ सहोद्दिष्टयोरपि प्रचारकाले तस्मादेव हविषस्तयोः पृथगेवयागः कर्तव्य इत्यर्थः। तत्र ‘अग्निं देवतानां प्रथमं यजेत्’ इतिश्रुतेरग्निमिष्टेन्द्रंयजेत्।

विश्वास-प्रस्तुतिः

ऐन्द्रमेवेत्येके।

मूलम्

ऐन्द्रमेवेत्येके।

टीका

एक ऐन्द्रमेव पञ्चशरावमोदनमुत्पाद्य प्रचार इन्द्राग्न्योः पृथक्पृथक्प्रचारमाहुः। अत्राप्यग्निरेव प्रथममेष्टव्यः100। अस्य पक्षस्येयं श्रुतिर्मूलम् – ‘यस्योभयँहविरार्तिमार्च्छति।ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्। अग्निं देवतानां प्रथमं यजेत्’ इति। अस्यां श्रुतावग्नियागस्यानुवादत्वेनापि संभवादैन्द्रमेव निरूप्येन्द्रायैव101 यष्टव्यमिति केचित्सूत्रार्थं वर्णयन्ति।

विश्वास-प्रस्तुतिः

वत्सानां धाने वायवे यवागूम्।

मूलम्

वत्सानां धाने वायवे यवागूम्।

टीका

सांनाय्यार्थमपाकृतानां वत्सानां पाने वायुदेवत्यां यवागूं निरुप्य102 तया यष्टव्यमित्यर्थः।सर्वपान एतत्प्रायश्चित्तम्। पितशिष्टमेव हविषः पर्याप्तं103 चेव्याहृतिहोम एषन यवांगूः।यवाग्वा यागं कृत्वा पुनर्यागः कर्तव्यः।

विश्वास-प्रस्तुतिः

अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत गर्भं स्रवन्त-मगदमकर्माग्निर्होतापृथिव्यन्तरिक्षम्। यतश्चुतदग्ना-
वेव तन्नाऽभिप्राप्नोति निर्ऋतिं परस्तादिति॥ १०॥

मूलम्

अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत गर्भं स्रवन्त-मगदमकर्माग्निर्होतापृथिव्यन्तरिक्षम्। यतश्चुतदग्ना-
वेव तन्नाऽभिप्राप्नोति निर्ऋतिं परस्तादिति॥ १०॥

टीका

अधिश्रितमग्निहोत्रद्रव्यं स्थालीमूलेन यदि स्रवति तद्नेनाभिमन्त्रयेत गर्भमिति॥ १०॥

विश्वास-प्रस्तुतिः

यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्ताममिमन्त्र-
येत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि।
पशून्नः सर्वान्गोपाय नमो रुद्राय मीह्लुषइति।

मूलम्

यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्ताममिमन्त्र-
येत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि।
पशून्नः सर्वान्गोपाय नमो रुद्राय मीह्लुषइति।

टीका

उपावसृष्टा दुह्यमानेत्युभयं विशेषणं वत्ससंसर्गाद्यादोहनपरिसमाप्तेरेतस्य104 प्रापणार्थम्। यस्येति ब्राह्मणानुवादः।

विश्वास-प्रस्तुतिः

अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात्।
इन्द्राय कृण्वती भागं मित्राय वरुणाय चेति।

मूलम्

अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात्।
इन्द्राय कृण्वती भागं मित्राय वरुणाय चेति।

टीका

अथेति संबन्धार्थं योऽभिमन्त्रयते स एवोत्यानमपि105 कुर्यात्, यजमान एवोभयं कुर्याद्धोमकर्ता वेत्येवमर्थम्।

विश्वास-प्रस्तुतिः

अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा
ब्राह्मणं पाययेद्यस्या भोक्ष्यन्स्याद्यावज्जीवं संवत्सरं वा।

मूलम्

अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा
ब्राह्मणं पाययेद्यस्या भोक्ष्यन्स्याद्यावज्जीवं संवत्सरं वा।

टीका

ऊधः स्तनप्रदेशः। अग्निहोत्र्या ऊधसि च मुखे च समीप उद्पात्रमुद्गृह्य ततस्तांदुग्ध्वा तत्पयोब्राह्मणं पाययेत्। यस्यान्नं यावज्जीवं न मोक्ष्यमाणो भवेत्। य एतत्पयःपिबति तस्यान्नं यावज्जीवं नाश्नीयादित्यर्थः। संवत्सरं वा नाश्नीयात्। अत्र कालानाम्नानाद्यावज्जीवमित्युक्तवानाचार्यः। संवत्सरं व्रतं नात्येतीति सामान्यानुवादात्संवत्सरवचनम्।अथशब्दः पूर्ववत्।

विश्वास-प्रस्तुतिः

वाश्यमानायैयवसं प्रयच्छेत्सूयवसाद्भगवती हि भूया इति।

मूलम्

वाश्यमानायैयवसं प्रयच्छेत्सूयवसाद्भगवती हि भूया इति।

टीका

एतदप्युपावसर्गादि दोहनपर्यन्तमेव। वाश्यमानायै शब्दयन्त्यै यवतो भक्षः।

विश्वास-प्रस्तुतिः

शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्थेन जुहुयात्।

मूलम्

शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्थेन जुहुयात्।

टीका

*संक्षाप्येतियावत्तन्निरवशेषं भवति तावद्दा106हयित्वाऽन्येन द्रव्येण जुहुयात्। अत्रान्यवचनात्पूर्वत्र तामन्यां वा पुनर्दुग्ध्वा पयसैव जुहुयात्। तत्रैवं ब्राह्मणम् – ‘अथैनांब्राह्मणाय दद्यात्’ इति। तद्दानं पूर्वोक्तेन107सूत्रोक्तेन पयसःपानेन विकल्प्यते। दानपक्षेऽन्यामेव दुग्ध्वा जुहुयात्।

विश्वास-प्रस्तुतिः

भिन्नं सिक्तं वाऽभिमन्त्रयेत समुद्रं वः प्रहिणोमि स्वां योनिमपि
गच्छत। अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति।

मूलम्

भिन्नं सिक्तं वाऽभिमन्त्रयेत समुद्रं वः प्रहिणोमि स्वां योनिमपि
गच्छत। अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति।

टीका

स्थालीभेदेन विक्षिप्तं द्रव्यंभिन्नमित्युच्यते। विक्षेपात्तद्दुष्टं भवति। सिक्तमिति। स्कन्नमुच्यते। स्कन्दने च यावत्स्कन्नं108 तावन्मात्रं दुष्टं भवति न पात्रगतं भिन्नसिक्तानिचेतिवचनात्। तद्भिन्नं सिक्तं च समुद्रमित्यनेनाभिमन्त्रयेत। ततोऽपोऽभ्यवहरेयुः।‘अपोऽम्यवहरेयुः’ इत्यस्य वचनस्य प्रकरणावशेषाभावाव्या पन्नहविर्मात्रमेवास्य विषयइति भेदन इदमेवास्मिन्प्रकरणे सववस्ये पयस्यन्येषु द्रव्येषु च। स्कन्ने109 पुनः पयसिवक्ष्यमाणत्वादिदमभिमन्त्रणं द्रव्यान्तरेष्वेवेति स्थितम्।

विश्वास-प्रस्तुतिः

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत सा यत्तत्र स्कन्दये-
त्तदभि जपेद्यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः।
पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति।

मूलम्

यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत सा यत्तत्र स्कन्दये-
त्तदभि जपेद्यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः।
पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति।

टीका

दोहनावस्थायां पयसि स्कन्दने110 ‘यद्य’ इत्यनेनाभिमृश111न्स्कन्नमभिमन्त्रयेत ‘समुद्रंबः’इत्यनेनास्य तुल्यकार्यत्वात्। अत एव ‘समुद्रं वः’ इत्यत्राप्यभि112मर्शनं कर्तव्यम्।स्कन्नमभिमन्त्रयेत। दोहनावस्थायां स्कन्न एतद्भवती113त्येतावदत्र विवक्षितम्। इतराह्मणानुवादः। पयोलिङ्कत्वात्स्यस्येवदं भवति।

————————————————————————————————————

* ङ. गार्हपत्ये पात्रमध्ये दुग्धं कृत्वा दाहयित्वा क्षानं निरवशेषम्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

तत्र यत्परिशिष्टं स्यात्तेन जुहुयात्।

मूलम्

तत्र यत्परिशिष्टं स्यात्तेन जुहुयात्।

टीका

अर्थप्राप्तस्य विधानं शेषकार्यस्यापर्याप्तावपि तेनैव होमः कर्तव्यः। शेषकार्यस्यभक्षादेलेपि एव स्यात्। अप्रयोजकत्वाद्द्रव्यस्येति114

विश्वास-प्रस्तुतिः

अन्येन वाऽभ्यानीय।

मूलम्

अन्येन वाऽभ्यानीय।

टीका

जुहुयादिति शेषः। होमस्यापर्याप्ताविदं भवति।

विश्वास-प्रस्तुतिः

एतद्दोहनाद्याप्राचीनहरणात्।

मूलम्

एतद्दोहनाद्याप्राचीनहरणात्।

टीका

मर्यादायामयमाकारः। उत्तरत्र तत्रेतिवचनात्। दोहनवचनं पूर्वसूत्रे स्कन्दननिमित्तविशेषस्य विवक्षितत्वसूचनार्थम्। आदिग्रहणमधिश्रितेऽपि पयसि स्कन्न एतदेव प्रायश्चित्तंन ब्राह्मणोक्तम् ‘अधिश्रितं *स्कन्दति वा वि+ष्यन्दतेवा’ इति। इदं तु द्रव्यान्तरेषु भवति। विष्यन्दने तु पयस्यपीदमेव भवति विष्यन्दनेऽधिश्रितेऽन्यस्यानाम्नानात्।तत्र यत्परिशिष्टमित्यादि द्रव्यान्तरेष्वपि साधारणमन्यस्यानाम्नानात्। उन्हीयाऽऽहवनीयांप्रतिहरणं प्राचीनहरणमित्युच्यते।

विश्वास-प्रस्तुतिः

प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम्।

मूलम्

प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम्।

टीका

इदमपि पयस्येव पूर्वेण संबन्धित्वात्। तत्रेति। प्राचीनहरण इत्यर्थः।

विश्वास-प्रस्तुतिः

शेषेण जुहुयात्।

मूलम्

शेषेण जुहुयात्।

टीका

अन्तरेणापि वचनं सर्वस्य वा प्रधानमात्रस्यैव वा पर्याप्ते शेषेणैव होमो युक्तः,उक्तत्वाद्रव्यस्य। वचनमिदानीं किमर्थम्। अयमभिप्रायः - अस्तिचेच्छेषः स चहोमद्वयस्यापर्याप्तः, तथाऽपि शेषेणैव मात्राहीनेनापि जुहुयादिति वचनम्।

विश्वास-प्रस्तुतिः

पुनरुन्नीयाशेषे।

मूलम्

पुनरुन्नीयाशेषे।

टीका

स्रुग्गतस्याशेषे पुनरुन्नीय जुहुयात्। पुनरुन्नयनेऽयं विशेषः—प्राचीनहरणे यावतिःगते स्कन्नं भवति तावत्येवाध्वन्युपविश्य स्थालीमन्येन प्राचीं नीत्वा तत्रैवोपविष्ट उन्नयेतू।न स्वयं स्रुग्वा प्रत्यग्गच्छेत्115

विश्वास-प्रस्तुतिः

आज्यमशेषे।

मूलम्

आज्यमशेषे।

टीका

स्थाल्यामपि यदा नास्ति तदाऽऽज्यं गृहीत्वा तस्य यथासंभवं संस्कारं कृत्वोन्नीयतेन जुहुयात्।

————————————————————————————————————
* घ॰ क्षरणम्। + किंचिच्चलनम्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

एतदाहोमात्।

मूलम्

एतदाहोमात्।

टीका

द्वयोरपि होमयोः प्रधानत्वाद्धोमद्वयपर्यन्तमेतदेव प्रायश्चित्तं *भवति।

विश्वास-प्रस्तुतिः

वारुणीं जापित्वा वारुण्या जुहुयात्।

मूलम्

वारुणीं जापित्वा वारुण्या जुहुयात्।

टीका

विशेषाभावाद्ये केचन वारुण्यौ भवतः। पूर्वहोमे प्राकृतस्य मन्त्रस्यानवादो वारुणी।

विश्वास-प्रस्तुतिः

अनशनमाऽन्यस्माद्धोमकालात्।

मूलम्

अनशनमाऽन्यस्माद्धोमकालात्।

टीका

यजमानस्येदं न होमकर्तुः। वारुणीजपो वारुणीहोमोऽनशनमित्येतत्रयं शेपेण जुहुयादित्यत्र + मात्रापचारहोमे पुनरुन्नीयहोमं आज्यहोमे च भवति।

विश्वास-प्रस्तुतिः

पुनर्होमं च गाणगारिः।

मूलम्

पुनर्होमं च गाणगारिः।

टीका

एतेष्वेव त्रिषु पक्षेषु गाणगारिः पुनर्होमं चेच्छति। आचार्यग्रहणं विकल्पार्थम्।पुनर्होमे पूर्वं समाप्य पुनर्विहरणादि सर्वे क्रियते निमित्ते प्रयोगावृत्तिविधानात्।

विश्वास-प्रस्तुतिः

अग्निहोत्रं शरशरायत्समोषामुमिति द्वेष्टारमुदाहरेत्।

मूलम्

अग्निहोत्रं शरशरायत्समोषामुमिति द्वेष्टारमुदाहरेत्।

टीका

अधिश्रितमग्निहोत्रद्रव्यं यदि शब्द116येत्तदा तद्रव्यं समोषामुमित्यमिमन्त्रयेत।अमुमित्यस्य स्थाने यजमानद्वेष्टुर्नाम निर्दिशेत्। अधिश्रितविशेषणं तत्रैवास्य संभवाच्छास्त्रान्तरदर्शनाच्च।

विश्वास-प्रस्तुतिः

विष्यन्दमानं मही द्यौः पृथिवी च न
इत्याहवनीयस्य भस्मान्ते निजयेत्।

मूलम्

विष्यन्दमानं मही द्यौः पृथिवी च न
इत्याहवनीयस्य भस्मान्ते निजयेत्।

टीका

उद्वासितेविष्यन्दित एतद्भवति। अधिश्रिते तु ब्राह्मणोक्तमेव।

विश्वास-प्रस्तुतिः

सांनाय्यवद्बीभत्से।

मूलम्

सांनाय्यवद्बीभत्से।

टीका

‘प्रजापते117’ इत्यनया मध्यमेन पलाशपर्णेन वल्मीके जुहुयादित्यर्थः।

विश्वास-प्रस्तुतिः

अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम्।

मूलम्

अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम्।

टीका

अधिकेयं समित्, उत्तराहुत्यर्थस्याप्यभिवर्षण118संभवात्। अतः पूर्वाहुत्याः प्रागप्यस्मिन्निमित्ते सति निमित्तानन्तरं समिदन्तरमाधेयमेव।

विश्वास-प्रस्तुतिः

यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने॥ ११॥

मूलम्

यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने॥ ११॥

टीका

समिदाधानमिति शेषः॥ ११॥

————————————————————————————————————
*ख॰ ग. घ. झ. पुस्तकेषु भवतीत्यस्याग्रेऽयं ग्रन्थः – स्रुवपूर्णकन्दने पादोनस्रुवपूर्णस्कन्दने च प्रायश्चित्तम्। ततो न्यूनस्कन्दने न प्रायश्चित्तम्। दर्शपूर्णमासादिषु च विष्णुस्मरणमात्रम्। वा°। + घ.—अर्धस्रुवपूर्णे न भवति ततोऽधिकेभवति।
————————————————————————————————————

विश्वास-प्रस्तुतिः

प्रदोषान्तो होमकालः।

मूलम्

प्रदोषान्तो होमकालः।

टीका

प्रदोषो नाम रात्रेः पूर्वश्चतुर्थो भागः। प्रदोषस्थान्तः प्रदोषान्तः। प्रदोषान्तो119ऽन्तोःयस्य सः प्रदोषान्तः120। प्रदोषान्तान्त इत्यर्थः। स सायं होमस्य कालः। केषांचित्पञ्चमीषष्ठ्यौ नाडिके प्रदोषशब्देनोच्येते तदन्तो वाऽयं121 होमकालः।

विश्वास-प्रस्तुतिः

संगवान्तः प्रातः।

मूलम्

संगवान्तः प्रातः।

टीका

यस्मिन्काले गावो वत्सैः सहाऽऽसते स संगवः कालः। तावत्पर्यन्तं प्रातर्होमकालः।केचिदह्नस्तृतीयो भागः संगव इत्याहुः। तदन्तः संगवान्तो दश नाडिका इत्यर्थः। अस्तमित उदिते च विहिते122 होम एतावति काले क्रियमाणे123ऽतीतकालो न भवतीति पुनःकालविधिः।

*तमतिनीय चतुर्गृहीतमाज्यं जुहुयात्।

कस्मिन्काले केन मन्त्रेणेत्यत आह -

विश्वास-प्रस्तुतिः

यदि सायं दोषा वस्तर्नमः स्वाहति यदि प्रातः
प्रातर्वस्तर्नमः स्वाहेति। अग्निहोत्रमुपसाद्य
भुर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात्।

मूलम्

यदि सायं दोषा वस्तर्नमः स्वाहति यदि प्रातः
प्रातर्वस्तर्नमः स्वाहेति। अग्निहोत्रमुपसाद्य
भुर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात्।

टीका

उपसादनवचनं क्रमार्थम्। उपसाद्य जपं च वरदानं च कृत्वा समिदावानादि पूर्ववत्।+वरदानं याजमानम्। वाशब्देन गोजांतिरुच्यते। तं वरं दत्त्वा जुहुयादिति। पूर्वकालतामात्रं विवक्षितं नाव्यवधानं कर्त्रैक्यं च।

विश्वास-प्रस्तुतिः

इष्टिश्चवारुणी।

मूलम्

इष्टिश्चवारुणी।

टीका

कर्तव्येत्यर्थः। समाप्तेऽग्निहोत्रहोमे तेम्वेवाग्निष्वियमिष्टिः कार्या, उत्तरत्रानुगमनविधानात्।

विश्वास-प्रस्तुतिः

हुत्वा प्रातर्वरदानम्।

मूलम्

हुत्वा प्रातर्वरदानम्।

टीका

प्रातःकालातिपत्तौ विशेषो वक्ष्यते। होमोत्तरकालं124 वृष्ट्यन्ते वरदानं कर्तव्यम्।

————————————————————————————————————

*घ. यद्यपीदं प्रायश्चित्तप्रकरणे पठितं तथाऽप्यध्वर्युसंज्ञकर्ममध्य एव याश्चोदनास्तत्र ध्वर्युरेव कुर्यात्। प्रायश्चित्तमुभयसंज्ञकर्तृकम्। जुहुयादिति चोदनया ब्रह्मकर्तृत्वं प्राप्तम्। अध्वर्युसंज्ञककर्मण्यन्वर्युरेब कर्ता। अन्यत्र ब्रह्मा कर्ता। अत एवेष्टिकर्मणि कर्ताऽध्वर्युरेव। + घ. अन्यवरदानस्यासंभवाद्यजमानस्य।
————————————————————————————————————

विश्वास-प्रस्तुतिः

अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेदिहैव क्षेभ्य
एधि मा प्रहासीरमुं125 माऽमुं माऽऽमुश्यायणमिति।

मूलम्

अनुगमयित्वा चाऽऽहवनीयं पुनः प्रणयेदिहैव क्षेभ्य
एधि मा प्रहासीरमुं125 माऽमुं माऽऽमुश्यायणमिति।

टीका

समाप्तेऽग्निहोत्रहोम आहवनीयस्यानुगमनं कृत्वा पुनस्तमेवोद्धरेत्। ‘इहैव क्षेभ्य एधि’इति मन्त्रेण। मा प्रहासीरमुं माऽऽमुण्यायणमिति पाठः कर्तव्यः। अमुमित्यस्य स्थानेयजमाननाम द्वितीयया निर्दिशेत्। आमुष्यायणशब्दस्य स्थाने गोत्रनाम, मा प्रहासीर्देवदत्तं मा भारद्वाजमिति। पित्रादौ जीवति भारद्वाजायनमिति वदेत्। दक्षिणा निश्चाऽऽग्निहौत्रिक एव। आहवनीयस्यैवानुगमनविधानात्। इदमनुगमनं कस्याऽऽहवनीयस्येति नविद्मः। आग्निहौत्रिकस्येति126 चेत्। न। समाप्तेऽग्निहोत्रे तस्य लौककत्वादनाहवनीयत्वम्।होमे कृतेऽसमाप्ते च प्रयोगेऽनुगमनमिति चेत्। तथा सति पुनः प्रणयनमदृष्टार्थं स्यात्।अत्रायमभिप्रायः127— इष्टयर्थं विहृतस्येति, तदा पुनः प्रणयेत्तत इष्टिरिति समन्वयो नोपपद्यते। अत्रायमभिप्रायः128 - समाप्तेऽग्निहोत्रे लौकिकस्य सतोऽनुगमनमेव कर्तव्यं नाऽऽयतनाद्बहिस्त्याग इति तदाऽऽहवनीयमिति शब्दो नोपपद्यते। अत एवंवदतः सूत्रकारस्यायमभिप्राय इति वर्णनीयम्। यस्य कस्यचित्कर्मणोऽर्थाय विहृतेष्वग्निषु यत्किंचिदग्निसाध्यं नैमित्तिकमुत्पद्यते तस्य नैमित्तिकसहितस्य त एवाग्नयो भवेयुः। न पुनः पुनर्विहर्तव्या इति।

विश्वास-प्रस्तुतिः

तत इष्टिर्मित्रः सूर्यः।

मूलम्

तत इष्टिर्मित्रः सूर्यः।

टीका

एते देवते।

विश्वास-प्रस्तुतिः

अभि यो महिना दिवं प्र स मित्रवर्तोअस्तुप्रयस्वानितिसंस्थितायांपत्न्या सहवाग्यतोऽग्नीञ्ज्वलतोऽहरनश्नन्नुपासीत।

मूलम्

अभि यो महिना दिवं प्र स मित्रवर्तोअस्तुप्रयस्वानितिसंस्थितायांपत्न्या सहवाग्यतोऽग्नीञ्ज्वलतोऽहरनश्नन्नुपासीत।

टीका

समाप्तायामिष्टौ पत्नीयजमानौ यतवाचौ भूत्वा तानेवाग्नीञ्ज्वलयन्तावनश्चन्तावहःशेषमुपासीयाताम्। उपासीत पत्न्या सहैवं कुर्वन्नग्नीनां समीप आसीतेत्यर्थः।

विश्वास-प्रस्तुतिः

द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुयात्।

मूलम्

द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुयात्।

टीका

वासो रात्रेः पूर्वश्चतुर्थो भागः। द्वयोर्गवोर्दुग्धेन पयसा सायमग्निहोत्रं स्वकाले जुहुयादित्यर्थः।

विश्वास-प्रस्तुतिः

अधिश्रितेऽन्यस्मिद्वितीयमवनयेत्।

मूलम्

अधिश्रितेऽन्यस्मिद्वितीयमवनयेत्।

टीका

अयमत्र विशेषः – एकस्या गोर्दुग्धं पयोऽधिश्रित्य तस्मिन्नेव पयसि द्वितीयं गोर्दुग्धमवनयेत्। तेन पयसा होमः, ततोऽग्न्योरपवर्गः।

विश्वास-प्रस्तुतिः

प्रातरिष्टिः।

मूलम्

प्रातरिष्टिः।

टीका

ततः श्वोभूते पूर्वाह्णइष्टिः कार्या। इयमपि प्रातःकालातिपत्तिनिमित्तैव। प्रातरितिकालविधानात्प्रयोगभेदः। ततो विहरणभेदोऽपराग्न्योरपि भवति।

विश्वास-प्रस्तुतिः

अग्निर्व्रतभृत्।

मूलम्

अग्निर्व्रतभृत्।

टीका

व्रतभृद्गुणकोऽग्निर्देवता।

विश्वास-प्रस्तुतिः

त्वमग्ने वृतभृच्छुचिरग्ने देवा इहावह। उप यज्ञं हविश्चनः। व्रतानि विभ्रद्व्रतपा अदब्धो यजानो देवां अजरः सुवीरः।दधद्रत्नानि सुमृलीको अग्ने गोपाय नो जीवसे जातवेद इति।

मूलम्

त्वमग्ने वृतभृच्छुचिरग्ने देवा इहावह। उप यज्ञं हविश्चनः। व्रतानि विभ्रद्व्रतपा अदब्धो यजानो देवां अजरः सुवीरः।दधद्रत्नानि सुमृलीको अग्ने गोपाय नो जीवसे जातवेद इति।

टीका

एतत्प्रायश्चित्तं स्वकाल एव प्रणीतेष्वग्निषु होमकालातिपत्तौ भवति। अप्रणीतेषूक्तकालातिपत्तावत्यन्तापद्यनुद्धृत-प्रायश्चित्तं कृत्वा होमं कुर्यात्। अनापदि मनस्वतीहोमेनानुद्धृतप्रायश्चितेन च सहितो होमः कार्यः। विहृतेष्वेवाग्निण्वहुतेषु होमान्तरकालप्राप्तावुपक्रान्तमेवहोमं कालातिपत्तिप्रायश्चित्तसहितं कृत्वा वर्तमानकालीन-मनुद्धृतप्रायश्चित्तसहितं कुर्यात्।अविहृतेषु कालान्तरप्राप्तौ मनस्वतीहोमं129कृत्वाऽतिपन्नस्य प्रतिहोमं च कृत्वाऽ-नुद्धृतप्रायश्चित्तादि पूर्ववत्। एवमनेककालातिपत्तावपि द्रष्टव्यम्। विहृतेष्वविहृतेषु130 वाऽनेककालातिपत्तौमनस्वतीहोमं प्रतिहोमं चावश्यं कुर्यात्। विहृतेषु तेष्वेवाग्निषु। अविहृतेषु त्वग्नीन्विहृत्यमनत्वत्यादि कृत्वा प्राप्तकालस्य विहरणादि क्रियेत। एवमत्र विचार्य यद्युक्तं तत्कर्तव्यम्। विचारस्याऽऽस्पद्‌मात्रमत्र लिखितमिति मन्तव्यम्।

विश्वास-प्रस्तुतिः

एषैवाऽऽर्त्याऽश्रुपाते।

मूलम्

एषैवाऽऽर्त्याऽश्रुपाते।

टीका

आर्त्याऽश्रुपाते दुःखेनाश्रुपाते न धूमादिनेत्यर्थः। एतद्दर्शपूर्णमासयोस्तत्प्रकृतिषु चभवति। ब्राह्मणे ‘उपवसथेऽश्रु कुर्वीत’ इतिदर्शनात्।

विश्वास-प्रस्तुतिः

यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेद्दर्मैर्हिरण्येऽग्रतो ह्रियमाणे।

मूलम्

यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेद्दर्मैर्हिरण्येऽग्रतो ह्रियमाणे।

टीका

अग्निहोत्रार्थं विधिनाऽनुद्धृतमाहवनीयं यद्यस्तमियात्तदा तदानीमेवाऽऽनेतुं शक्येषुब्राह्मणेषु यो बहु वेत्ति तमानीयते नोद्धरणादि निधानान्तमाहवनीयस्य कारयेत्। अग्नेःप्रणीयमानस्याग्रतो हिरण्यं दुर्भेरेव नयेत्। ब्राह्मणग्रहणं बहुविद्यत्वेऽपि जात्यन्तरनिवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

अभ्युदिते चतुर्गृहीतमाज्यं रजतं च हिरण्यवदग्रतो हरेयुः।

मूलम्

अभ्युदिते चतुर्गृहीतमाज्यं रजतं च हिरण्यवदग्रतो हरेयुः।

टीका

अनुद्धृतप्रभ्युदिते सति बहुविदग्निं प्रणयेत्। तस्याग्रतश्चतुर्गृहीतमाज्यं नेतव्यं रजतंच। यदि हिरण्यवद्वचनेन रजतस्याग्रतो हरणं प्राप्येत तदा दर्भेर्हरणमपि प्राप्नुयात्,आज्यस्याग्रतो हरणं च न प्राप्नुयात्। अतो दर्भनिवृत्त्यर्थमाज्यस्य प्रापणार्थेचाग्रत इति वचनम्। एवं चेद्धिरण्यवद्वचनं पूर्वोक्तस्य बहुविद्व्राह्मणाग्न्युद्धरणस्यप्रापणार्थम्।

विश्वास-प्रस्तुतिः

अथैतदाज्यं जुहुयात्पुरस्तात्प्रत्यङ्मुख
उपविश्योषाः केतुना जुषतां स्वाहेति।

मूलम्

अथैतदाज्यं जुहुयात्पुरस्तात्प्रत्यङ्मुख
उपविश्योषाः केतुना जुषतां स्वाहेति।

टीका

हिरण्यरजतयोरग्रतो हरणमेव कार्यम्। आज्यस्य कार्यान्तरमुच्यते। निहितेऽग्नावाहवनीयस्य पुरस्तात्प्रत्यङ्मुख उपविश्य ‘उषाः केतुना’ इति तदाज्यं जुहुयात्।

कालात्ययेन शेषः*।

उभयोः कालयोरनुद्धृतप्रायश्चित्तशेषः कालात्ययप्रायश्चिताम्यामेवोक्तः स्वेन स्वेनकालात्ययप्रायश्चित्तेनाग्निहोत्रमुप-साद्येत्यादि वारुणीष्टयन्तं सायंकाले भवति। प्रातःकालेऽपि तदाद्येव व्रातभृतीष्ट्यन्तं भवति।

विश्वास-प्रस्तुतिः

न त्विहाग्निरनुगम्यः।

मूलम्

न त्विहाग्निरनुगम्यः।

टीका

प्रातःकालेऽयं विशेषः। अनुगमयित्वा चाऽऽहवनीयमित्येतन्न भवति। तेनाग्निहोत्रार्थे131ष्वेवाग्निषु सायंहोमान्तं भवति।

विश्वास-प्रस्तुतिः

आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत्स्वेभ्य
एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरम्।

मूलम्

आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत्स्वेभ्य
एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरम्।

टीका

विद्यमान आहवनीये गार्हत्यो यद्यनुगच्छेत्तदा स्वेभ्योऽवक्षामेम्य एनं गार्हपत्यं मन्थेयुः।तत इतरमनुगमयेत्। आहवनीयमित्यर्थः। गार्हपत्यशब्दादेव गार्हपत्यप्रत्यये सिद्धे तत्प्रत्ययार्थमेनमिति वचनं सर्वावस्थस्य गार्हपत्यस्यानुगमनेमन्थनेनैवोत्पत्तिः, एवंरूपा चसति ज्ञापनार्थम्। तुशब्दादप्ययमर्थो द्योत्यते। गार्हपत्यम+नुगतं मन्थनेनैवोत्पादयेत्।धियमाण आहवनीयेऽयं विशेषस्तं चानुगमयेदिति। अवक्षामाणि मन्थनसमर्थानिकाष्ठानि।

विश्वास-प्रस्तुतिः

क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञेप्रथममेभ्यो योनिभ्यो अधिजातवेदाः। स गायत्र्या त्रिष्टुभा

मूलम्

क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञेप्रथममेभ्यो योनिभ्यो अधिजातवेदाः। स गायत्र्या त्रिष्टुभा

टीका

________________________________________________________________

*घ.—प्रदोषान्तो होमकाल इत्येवमादिहोमकालविधिना शेषो विधिर्व्याख्यातः। +घ.-तदाहुर्यस्याऽऽहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्कातत्र प्रायश्चित्तिरिति स यदि प्राञ्चमुद्धरेत्प्रायतनाच्च्यवेत। यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत। यन्मन्थेद्भातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणोयजमानं जह्यात्सर्वमेवैनं सद्दभरमानं समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमावहनीयमुद्धरेत्सा तत्रप्रायश्चित्तिः।
————————————————————————————————————

विश्वास-प्रस्तुतिः

जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति।

मूलम्

जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति।

टीका

मन्थनसमर्थक्षामाभावे मस्मनाऽरणी संस्पृश्य लेपयित्वा ततो मन्थयेत् ‘इतो जज्ञे’इति मन्त्रेण। मन्थयेदिति णिचः प्रयोगात्प्रकृते कर्माण यः कर्ता स एव मन्त्रं ब्रूयात्।ये केचन समर्था मन्थयेयुरित्येवमवगम्यते। अरणीमन्थन एवायं मन्त्रो नावक्षाममन्थने।यद्युभयोरभिप्रेतः स्यात्पूर्वत्रैव मन्त्रं ब्रूयादनुगमयेत्त्वितरमितिवत्। तथा च न कृतम्।तेन पूर्वस्मिन्मन्थने मन्त्रो नास्तीति सिद्धम्। अवरोहणमन्त्रस्तूभयोरपि भवति, भरणीगतावरोहणस्यापि तस्मिन्नेव सूत्रे विधातुमिष्टत्वात्।

विश्वास-प्रस्तुतिः

मथित्वा प्रणीयाऽऽहवनीयमुपतिष्ठेताग्ने सम्रालिषेरायेरमस्व सहसे द्युम्नायोर्जेऽपत्याय। सम्रालसि स्वरालसिसारस्वतौ त्वोत्सौ प्रावतामन्नादं त्वान्नपत्यायाऽऽदध इति।

मूलम्

मथित्वा प्रणीयाऽऽहवनीयमुपतिष्ठेताग्ने सम्रालिषेरायेरमस्व सहसे द्युम्नायोर्जेऽपत्याय। सम्रालसि स्वरालसिसारस्वतौ त्वोत्सौ प्रावतामन्नादं त्वान्नपत्यायाऽऽदध इति।

टीका

मथित्वेतिवचनम् ‘इतो जज्ञे’इत्यस्य प्रणयनमन्त्रत्वशङ्का निवृत्त्यर्थम्।

विश्वास-प्रस्तुतिः

अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणम्।

मूलम्

अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणम्।

टीका

अत्रैव विषयेऽयं द्वितीयः कल्पः। प्रियमाण आहवनीये गार्हपत्यानुगमने सत्यतएवाऽऽहवनीया132द्गार्हपत्यभूता-दन्यमा*हवनीयं प्रणयन्त्येके। तथा सति दक्षिणाग्निरप्यनुहर्तव्यः।

विश्वास-प्रस्तुतिः

स+हमस्मानं वा गार्हपत्यायतने
निधायाथ प्राञ्चमावनीयमुद्धरेत्।

मूलम्

स+हमस्मानं वा गार्हपत्यायतने
निधायाथ प्राञ्चमावनीयमुद्धरेत्।

टीका

इदमपि कंल्पान्तरम्। आहवनीय मुद्धरेदित्येतावतैव सिद्धे प्राञ्चमितिवचनमाहवनीयात्प्रस्यश्चं गार्हपत्यं प्रणीयापि विहारसिद्धिरितीदमपि कल्पान्तरमिति ज्ञापनार्थम्। एते चत्वारःपक्षाx ब्राह्मणे समुद्दिष्टाः। तत्र नि÷न्दा विध्यन्तरस्तुत्यर्था। अतः सर्वेषां क्वचिच्छा133स्त्रान्तरे विधानमस्तीति तान्सर्वान् कर्तव्यतया सूचितवानाचार्यः। स©हभस्मानमित्यस्मिन्पक्षे दक्षिणेन विहारं नीत्वा गार्हपत्यायतने निधानम्।

————————————————————————————————————

* घ. – आहवनीयातने प्राग्देशे। + घ. -‘सहभस्मानं दक्षिणेन विहारं कृत्वा गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्’ अयमेव पाठो ब्राह्मणे दृष्ट इति देवत्रातभाष्ये× घ.—तेषु मध्ये सहभस्मानमित्यस्य प्रधानत्वं तस्यैतरेय ब्राह्मणे निन्दाभावात्। ÷घ—स्तुतिःसाक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम्। अनिबोधनद्वारा विध्यर्थप्रवर्तकवाक्यं निन्दा। उदितहोमविधावनुदितहोमनिन्दावत्। न हि निन्दा निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतृमिति न्यायात्।© घ. - अयं पक्षोऽजस्रपक्षे संभवति। कुतः। तत्रेव भस्मसंभवात्। अग्निसंभरणयोग्यं भस्मपदेनगृहयते।
————————————————————————————————————

विश्वास-प्रस्तुतिः

तत इष्टिरग्निस्तपस्वाञ्जनद्वान्पावकवान्।

मूलम्

तत इष्टिरग्निस्तपस्वाञ्जनद्वान्पावकवान्।

टीका

एकाऽत्र देवतास चाग्निस्त्रिभिर्गुणैर्युक्तः।

विश्वास-प्रस्तुतिः

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा। उपेमां सुष्टुतिं मम। आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत्।हव्या देवेषु नो दधदिति। प्रणीतेऽनुगते प्राग्घोमादिष्टिः।

मूलम्

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा। उपेमां सुष्टुतिं मम। आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत्।हव्या देवेषु नो दधदिति। प्रणीतेऽनुगते प्राग्घोमादिष्टिः।

टीका

अग्निहोत्रार्थं प्रणीत आहवनीये134ऽनुगत135प्रायश्चित्तत्वेनेयमिष्टिः कर्तव्या। प्राक्पूर्वाद्दुतिप्रक्षेपादेषैवेष्टिः प्रायश्चित्तिर्भवति। उत्पत्तिस्तु ब्राह्मणोक्ता भवति ‘तदाहुर्यस्यान्निमनुद्धृतमादित्योऽभ्युदियाद्वाऽभ्यस्तमियाद्वा प्रणीतो वा प्रग्धोमादु-पशाम्येदित्यादि हिरण्यंपुरस्कृत्य सायमुद्धरेद्रजतमन्तर्धाय प्रातरुद्धरेत्’ इत्यत्रोक्ता। इयमेवोत्पत्तिरस्मिन्नवसरे ‘प्रणीतो वा प्राग्घोमादुपशाम्येत्’ इति वचनात्। अग्नावनुगतेऽन्तराहुती इति वक्ष्यति। उत्तराहुत्यां हुतायामग्न्युत्पत्तेः प्रयोजनं नास्ति। एवमग्निहोत्रे निर्वाह इत्यस्मत्सूत्रानुसारेण मन्यामहे।

विश्वास-प्रस्तुतिः

अग्निर्ज्योतिष्मान्वरुणः।

मूलम्

अग्निर्ज्योतिष्मान्वरुणः।

टीका

द्वे देवते। ज्योतिष्मानित्यग्नर्गुणः।

विश्वास-प्रस्तुतिः

उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति। सर्वांश्चेदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधेयं वा।

मूलम्

उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति। सर्वांश्चेदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधेयं वा।

टीका

यदि सर्वेष्वग्निष्वनुगतेष्वादित्योऽस्तमुदयं वा गच्छेत्तदाऽग्न्याधेयं पुनराधेयं वा प्रायश्चित्तं भवेत्। अनयोरेव कालयोः शास्त्रान्तरे गार्हपत्याहवनीययोर्द्वयोरेवानुगतावेतत्प्रायश्चित्तमुक्तम्। तस्मिन्शास्त्रे दक्षिणाग्निर्मिन्नयोनिः। अत एवं विनिवेशः। एकयोनित्वे सर्वानुगमने भवति भिन्नयोनित्वे द्वयोरेवानुगमन इति। अत्राम्याधेयपुनराधेयाभ्यां सेष्टिके तेगृह्येते अग्न्युत्पादकत्वसामान्यात्। एतदर्थमेवाघाना। दशरात्रमित्यत्र सेष्टिकेऽग्न्याधानआधानशब्दप्रयोगः संव्यवहारार्थं कृतः। तस्मिन्काले सर्वदा सर्व एवाग्नयो विहृता एवप्रायेणाऽऽसते। तत्र केवलगार्हपत्यानुगमने मन्थनेनोत्पाद्य तपस्वतीष्टिः कार्येत्युक्तम्।दक्षिण ग्न्यनुगमनेऽपि स्वयोनितो विहृत्य सैवेष्टिः कार्या। आहवनीयानुगमनेऽपि प्रायश्चित्तविशेष उक्तः। द्वयोर्द्वयोरनुगमने तान्येव यथासंभव कर्तव्यानि। अतः सर्वानुगमन इदमवशिष्यते। अतः सर्वशब्दा136विवक्षायामपि नैमित्तिकस्य स्वभावपर्यालोचनया सर्वानुगतावैवैतद्भवतीति मन्तव्यम्। एकयोनित्वे भिन्नयो नित्व उक्तो विनिवेशः। उभयोरनुगमनेऽपिविधीयमानस्याग्न्याधेयस्यसर्वोत्पादक-स्वभावात्यागात्तद्विधानसामर्थ्यादेवानष्टोऽपि दक्षिणाग्निर्नष्ट इति गम्यते। विहृतेष्वेवं भवति। अविहृतेष्वपि किं गार्हपत्यानुगमने सर्वानुगमोऽस्तिन वा। अस्तीति ब्रूयात्। तत्र हि सर्वेऽग्नयः समवेता इति गम्यते। ततो विवहरणदर्शनात्। कथं तत्र समवायः। अङ्गारसमवायस्तावन्नास्ति। कर्मार्थपृथकृतानां कर्मसमाप्तौ तत्रैवानुगमनदर्शनात्। अथायमभिप्रायः - अङ्काराश्रयो यो दक्षिणाग्न्याहवनी*याख्यः शास्त्रगम्यः स कर्मसमाप्तौ गार्हपत्याङ्गाराननुप्रविशति। अन्यथा तत उद्धरणविधानं नोपपद्यते। तत्संसर्गे संसर्गदोषश्च नास्ति। अङ्गारसंसर्गो137 हि सः। तथा चशास्त्रान्तरे वचनम्। यदि पूर्वोऽनुगतः संवर्ध्य138 पश्चाद्धि स तहिं गत इति एवमपिन युज्यते। अविहृतावस्थायां गार्हपत्ये ‘गार्हपत्यं प्रज्वल्य’ इति सूत्रप्रयोगात्। तथाचं शास्त्रान्तरे सूत्रकारप्रयोगो मन्त्रवर्णश्च139 दृश्यते। ‘गार्हपत्यममिमन्त्रयते सुगार्हपत्य140मभिमन्त्रयते सुगार्हपत्यः’ इति। तेनावगम्यते तत्रानुप्रवेशोऽग्न्यन्तरस्य नास्तीति।यत्पुनः पश्चाद्धि से तर्हि गतः ’ इति तदप्यन्यपरम्। यदि हि सर्वदाऽनुगत स्याऽऽहवनयस्य गार्हपत्यात्प्रणयनेनैवोत्पत्तिः स्यात्तदैवैतलिङ्गमनुप्रवेशस्य। तत्र हि शास्त्रे मन्थनादप्युत्पत्तिरुक्ता। अतोऽस्यायमर्थः - यस्मिन्ननुगमने गार्हपत्यत्प्रणयनेनोत्पत्तिरुक्ता तदानुगतेऽन्तरा संचरणम विरुद्धं मन्थनोत्पाद्ये141ऽनुगतेऽप्यन्तरा न142संचरितव्यमिति। अतोऽन्यपरत्वादेवास्य वाक्यस्यानुप्रवेशे लिङ्गं न भवितुमर्हति। अतस्तत्र समवायः प्रत्यक्षेणशास्त्रेण वा लक्षयितुं न शक्यते। कथं तर्हि तत उद्धृत आहवनीयादिर्भवति। वचनगम्यो हि सः। वचनमेवं भवति ‘गार्हपत्यं प्रज्वल्य143ततो दक्षिणाग्निमुद्धृत्य गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत्’। इति। तेनाधिकृतेन पुरुषेण तन्नियुक्तेन वाऽग्निहोत्राद्यर्थस्वकाले यथोक्तेन विधिना य उद्धियते स एवाऽऽहवनीयादिर्भवति नान्यथा। अन्यथाचेदुद्धियते तदा समोप्य तमग्नि विक्षेपप्रायश्चित्तं कर्तव्यं नान्यत्। अभ्युदितेष्टौ तु वचनान्मध्योद्धृतोऽप्याहवनीयादिर्भवति। एवं तर्हि कर्मान्तरालकाले क्वासौ तिष्ठति। वयमपिन जानीमः क्वासौ तिष्ठतीति। एतावदत्रावगन्तुं शक्यते। सर्वकर्मार्थमग्नय आहिताः।तत्र गार्हपत्यो यावज्जीवं धार्यते वचनात्। इतरौ तु कर्मणि कर्मण्युधियेते। गतश्रियःसर्वे धार्यन्ते वचनादेव। नान्यदतोऽवगन्तुं शक्यते। एवं सति कर्मापूर्ववत्तिष्ठति। यथायागादिजनितान्यपूर्वाणि यावत्फलभोगसंबन्धं तिष्ठन्ति तथाऽऽहवनीयादिरपि तिष्ठतीति। अतोऽनुद्धृतेषु गार्हपत्यानुगमने सर्वानुगमनं नास्तीति। तत्राग्न्याधेयं पुनराधेयं वा न कर्तव्यमिति सिद्धम्।

————————————————————————————————————

* क. – शब्दवाच्यः संस्कारः।
————————————————————————————————————

विश्वास-प्रस्तुतिः

समारूह्लेषु चारणीनाशे॥ १२॥

मूलम्

समारूह्लेषु चारणीनाशे॥ १२॥

टीका

अग्निष्वरण्योः समारूढेषु144 सत्स्वरण्योर्नाशेऽग्न्याधेयं पुनराधेयं वा कर्तव्यम्। अन्यतरारणीनाशेऽपि भवत्येतत्प्रायश्चित्तं तयोरकैकस्या एव कार्यविशेषे नियमाज्जायापति सं145स्तुतत्वाच्च। नन्वरणीनाश इति शब्द एकस्यामप्यनष्टायां146 न प्रवर्तत इति। सत्यम्।असौ शब्दो न प्रवर्तते। तथाऽपि मन्थनपदार्थो नैकया संपादयितुं शक्यत147 इत्यनष्टाऽपिनष्ठैवेतिकृत्वोक्तम्। यदि परमनष्टामेव द्विधा कृत्वा मन्थनसिद्धिरिति। तथाऽपि नैववक्तुं शक्यते। उपादानकालेऽरणी आहरेदिति द्वयोरुपादानमदृष्टार्थे स्यादिति युक्तंकार्यभेददर्शनादिति। एवं सत्युर्वशी पुरूरवः संस्तुतिरधरोत्तस्योररण्योः श्रूयमाणा चोपपन्नाभवतीति युक्तम्॥ १२॥

विश्वास-प्रस्तुतिः

अथाऽऽग्नेय्य इष्टयः।

मूलम्

अथाऽऽग्नेय्य इष्टयः।

टीका

अथानन्तरं या वक्ष्यन्ते ता अग्निदेवत्या इष्टय इति वेदितव्यमित्यस्य सूत्रस्यार्थः।यान्यत्र चतुर्थ्यन्तानि पदानि तान्यग्नेर्गुणवाचकानीत्यर्थः। एतेनावगम्यते सर्वत्र चोदितैव देवता चोदनायां सत्याम्, असत्यां तु चोदनायां याज्यानुवाक्यादिगम्या148। देवतागुणस्तु चोदनात एवावगन्तव्यः। कथं तर्हि वैश्वानरपार्जन्यायां वैश्वानरशब्दोऽग्नेर्गुणः।तयोरेव याज्यानुवाक्ययोस्तत्र149 प्रवेशात्। अत्र हि वैश्वानरशब्दस्याग्निगुणत्वं चोदितमेवेति।

विश्वास-प्रस्तुतिः

व्रतातिपत्तौ व्रतपतये।

मूलम्

व्रतातिपत्तौ व्रतपतये।

टीका

यस्मिन्कर्मणि यानि चोद्यन्ते व्रतशब्देन धर्मशब्देन वा तत्र तेषामतिपत्तावेषेष्टिः150 कार्या।

विश्वास-प्रस्तुतिः

साग्नावग्निप्रणयनेऽग्निवते।

मूलम्

साग्नावग्निप्रणयनेऽग्निवते।

टीका

निवृत्तकर्मणाऽनिवृत्तकर्मणा वाऽग्निना सहित आहवनीयायतने यद्यन्योऽग्निराहवनीयार्थ उदध्रियेत तमग्निमानधायैव स्मरति चेदायतनस्थमदूह्येदानीमुध्दृतं151 निदध्यात्152। तथासतीष्टिर्न भवति। एतस्मिन्नपि पक्षे यद्यनपवृत्तकमोंदूह्येत तदा व्याहृतिहोमः कर्तव्यः।अपवृत्तकर्मा चेन्न किंचिदपि प्रायश्चित्तं विद्यते। यद्यस्मृत्वैव तस्मिन्पूर्वप्रणीते निदध्यात्तदेयामष्टिः कार्या।

विश्वास-प्रस्तुतिः

क्षामायागारदाहे शुचये संसर्जनेऽग्निनाऽन्येन।

मूलम्

क्षामायागारदाहे शुचये संसर्जनेऽग्निनाऽन्येन।

टीका

अन्य इति शवाग्निरुच्यते।

विश्वास-प्रस्तुतिः

मिथश्चेद्विविचये।

मूलम्

मिथश्चेद्विविचये।

टीका

गार्हपत्यादयः सर्वे द्वौ153 वा परस्परं यदि संसृज्येरंस्तदा विविचय इष्टिः कर्तव्या।

विश्वास-प्रस्तुतिः

गार्हपत्याहवनीययोर्वीतये।

मूलम्

गार्हपत्याहवनीययोर्वीतये।

टीका

पूर्वस्यायमपवादः।

विश्वास-प्रस्तुतिः

ग्राम्येण संवर्गाय।

मूलम्

ग्राम्येण संवर्गाय।

टीका

ग्राम्यः पचनाग्निः।

विश्वास-प्रस्तुतिः

वैद्युतेनाप्सुमते वैश्वानराय विमतानामन्नभोजने।

मूलम्

वैद्युतेनाप्सुमते वैश्वानराय विमतानामन्नभोजने।

टीका

विमता विमनस्काः। शत्रव इत्यर्थः। द्विषदन्नं यद्याहिताग्निर्भुञ्जीत तदा वैश्वानरायेष्टिःकार्या।

विश्वास-प्रस्तुतिः

एषैव कपाले नष्टेऽनुद्वासिते।

मूलम्

एषैव कपाले नष्टेऽनुद्वासिते।

टीका

केषां चिदध्वर्यूणां पुरोडाशश्रवणानन्तरमेव कपाल द्वासनं विहितम्। केषां चित्कर्मसमाप्तौ। केषांचिदनुद्वासनमेव तत्र पूर्वयोः पक्षयोरनुद्वासिते नष्टे चैषेष्टिर्भवति। अनुद्वासनपक्षेऽपि प्रयोगमध्ये भवति प्रयोगसमाप्तौ न भवति विध्यपराधाभावात्।

विश्वास-प्रस्तुतिः

अभ्याश्राविते वा।

मूलम्

अभ्याश्राविते वा।

टीका

येषां श्रवणानन्तरमुद्वासनं तेषामनुवासिते कपाले सत्याश्रावणे कृतेऽप्येषेष्टिः कर्तव्या।

विश्वास-प्रस्तुतिः

सुरमय एव यस्मिञ्जीवे मृतशब्दः।

मूलम्

सुरमय एव यस्मिञ्जीवे मृतशब्दः।

टीका

यस्मिन्नाहिताग्नौ जीवत्येव मृत इति यदि शब्दः संजायेत तदेयमिष्टिः कार्या। एकशब्दो गुणनियमार्थः। सुरभय एव न सुरभिमत इति। तेनान्यत्र गुणान्तरसंबन्धोऽप्यभ्युपगतो भवति यथा क्षामाय क्षामवते वेत्येवमादि।

विश्वास-प्रस्तुतिः

त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अग्निनाऽग्ने त्वमस्मद्युयोध्यमीवा अक्रन्ददग्निस्तनयन्निवद्यौर्वि ते विष्वग्वात जूतासो अग्ने त्वामग्ने मानुषीरीलते विशोऽग्नआयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नोअस्मिन्महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीदद्यजीयान्त्साध्वीमकर्देववीतिंनो अद्येति। यस्य भार्या गौर्वा यमौजनयेदिष्टिर्मरुतः।

मूलम्

त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अग्निनाऽग्ने त्वमस्मद्युयोध्यमीवा अक्रन्ददग्निस्तनयन्निवद्यौर्वि ते विष्वग्वात जूतासो अग्ने त्वामग्ने मानुषीरीलते विशोऽग्नआयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नोअस्मिन्महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीदद्यजीयान्त्साध्वीमकर्देववीतिंनो अद्येति। यस्य भार्या गौर्वा यमौजनयेदिष्टिर्मरुतः।

टीका

मरुतोऽस्यामिष्टौ देवता।

विश्वास-प्रस्तुतिः

सांनाय्येपुरस्ताच्चन्द्रमसाभ्युदितेऽग्नि-
र्दातेन्द्रः प्रदाता विष्णुः शिपिविष्टः।

मूलम्

सांनाय्येपुरस्ताच्चन्द्रमसाभ्युदितेऽग्नि-
र्दातेन्द्रः प्रदाता विष्णुः शिपिविष्टः।

टीका

सांनाय्यशब्देनाऽऽमावास्यं कर्मोच्यते तस्मिन्नारब्धे सति चन्द्रमा यदि पुरस्तादभ्युदियात्तदैतामिष्टिं कुर्यात्। अस्या अमावास्याविकारत्वात्प्रायश्चित्तेष्टीनां यो धर्म उपांशुत्वंवार्त्रघ्नाज्यभागता च न भवति। एकदेशविकृतमनन्यवद्भवतीति वृधन्वन्तावित्यादयोऽमावास्याधर्मा एव भवन्ति। एतदुक्तं भवति। अकालेऽमावास्याकर्मण्यारब्धे सत्यकालोऽयमिति ज्ञाने154 तामेवामवास्यां155 देवताभिर्विकृतां समापयेत्। अत्र काले प्राप्ते पुनर्यागोऽस्ति156नास्तीत्यत्राध्वर्युभिः सह निश्चयः कार्यः। दाताऽग्नेर्गुणः। प्रदातेन्द्रस्य। शिपिविष्टोविष्णोः।

अग्नेदा दाशुषे रयिं सयन्ता विप्र एषां दीर्घस्ते अस्त्वङ्कुशोभद्रा ते हस्ता सुकृतोत पाणी वषट्ते विष्णवास आकृणोमिप्र तत्ते अद्य शिपिविष्टनामेति। अपि वा प्रायश्चित्तेष्टीनां*स्थाने तस्यै तस्यै +देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते।

प्रायश्चित्तप्रकरणे या इष्टय इष्टिशब्देनैव चोद्यन्ते, याश्च ब्राह्मणोक्तास्तासामयं वैकल्पिको157विधिरुच्यते। यास्तासामिष्टीनां देवतास्तासामेकैकस्यै देवताया एकैकां पूर्णाहुतिं जुहुयात्।द्वादशगृहीतेन॑ स्रुचं पूरयित्वा यदधूयते सा पूर्णाहुतिरित्युच्यते। अयं पुनरनुपक्रान्तदर्शपूर्णमासस्य भवति दर्विहोममध्ये च नान्यत्र भवति।

विश्वास-प्रस्तुतिः

हविषां स्कन्नमभिभृशेद्देवाञ्जनमगन्यज्ञस्तस्य माशीरवतुवर्धताम्। भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः। भूपतयेस्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा। यज्ञस्यत्वा प्रमयोन्मयाऽभिमया प्रति मया दृप्सश्च स्कन्देति।

मूलम्

हविषां स्कन्नमभिभृशेद्देवाञ्जनमगन्यज्ञस्तस्य माशीरवतुवर्धताम्। भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः। भूपतयेस्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा। यज्ञस्यत्वा प्रमयोन्मयाऽभिमया प्रति मया दृप्सश्च स्कन्देति।

टीका

देवाञ्जनमित्यादिना स्कन्देत्यन्तेन स्कन्नं हविरभिमृशेत्।

विश्वास-प्रस्तुतिः

आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्।

मूलम्

आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्।

टीका

यदि हूयमानाहुतिर्बहिष्परिधि स्कन्देत्तदा तस्याः स्कन्नाभिमर्शने कृते तत आग्नीध्रस्तासामादाय तूष्णीमेव जुहुयात्।

————————————————————————————————————

*घ.— स्थानग्रहणात्तत्कार्यकरी पूर्णाहुतिः। पश्चलाभे पयस्या मैत्रावरुणीतिसूत्रे वृत्तिकारेणोक्तम्। +घ॰— अर्थसहिशब्द एव देवता। अचेतनत्वाद्युगपद्गमनं न संभवति। तथाऽपि संभवतियोगबलात्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

हुतवते पूर्णपात्रं दद्यात्।

मूलम्

हुतवते पूर्णपात्रं दद्यात्।

टीका

होमं कृतवत आग्नीध्राय तदानीमेव येन केनचिद्धान्यरसादिना158 पूर्णपात्रं दद्यात्।

विश्वास-प्रस्तुतिः

देवते अनुवाक्ये याज्ये वा विपरिहृत्याऽऽज्ये अवदाने हविषी वा यो देवा अतिपातयानि वाचा च प्रयुतीदेवहेलनम्। अरायो अस्माँ अभिदुच्छनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात्।

मूलम्

देवते अनुवाक्ये याज्ये वा विपरिहृत्याऽऽज्ये अवदाने हविषी वा यो देवा अतिपातयानि वाचा च प्रयुतीदेवहेलनम्। अरायो अस्माँ अभिदुच्छनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात्।

टीका

देवताविपर्यास आवाहनादिषु व्युत्क्रमः अनुवाक्याविपर्यासोऽन्यदीयामन्यस्यानुब्रूयात्159। एवं याज्याविपर्यासः। आज्यविपर्यासोऽजौहवौपभृतयोरित्यादि160। अवदानविपर्यासःपूर्वार्धात्पूर्वमित्यादि। हविर्विपर्यासो निवर्पणादिषु161 व्युत्क्रमः। यागे चान्यदीयस्यान्येन162यागः। एतेषु सर्वेषु ‘यद्वो देवा अतिपातयानि’ इत्याहुतिं हुत्वा स्वगृहे यत्प्रधानभूतंद्रव्यं तद्धोमकर्त्रे ब्रह्मणे दद्याद्यजमानः। हुत्वेत्यत्र समानकर्तृकत्वमविवक्षितम्। याज्यानुवाक्ययोस्तु तस्मिन्कर्मण्यविहितयोस्तद्देवस्ययोरन्यदेवतयोर्वा विपर्यासे सति यागात्प्रागेवभ्रेषज्ञाने सति प्रायश्चित्तं कृत्वा पुनर्विहित163 एवानूच्य यष्टव्यम्। कृते तु यागेऽनुवाक्याविपर्यासज्ञाने प्रायश्चित्तमेव न पुनर्यागाभ्यासः। याज्यायामप्यविहितायां तद्देवत्यायां विहितदेवतादेशं कृत्वा विहितामेव देवतां ध्यायन्यदि वषट्कुर्यात्तदाऽपि नाम्यासः। अन्यदेवत्यायामप्यादेशध्याने विहितविषये स्यातां चेत्तदाऽपि नाम्यासः। अतोऽन्यथाचेद्यागावृत्तिःकार्या। यागविषयेऽपि हविर्विपर्यासे यागावृत्तिशङ्का नैव कर्तव्या कृतत्वाद्यागस्य।एतद्धिलक्षणं यागस्य देवतोद्देशेन स्वद्रव्यत्यागो याग इति। देवता तावद्विहितैव।अस्मिन्क164र्मणि द्रव्यमपि स्वमेव। अथायमभिप्रायः - अन्यस्यै संकलितत्वात्स्वत्वमपगच्छतीति। एवं चेत्तस्या अपि देवतायै यष्टुं न शक्यते स्वत्वाभावात्। अथ संकल्पनकालएव यागः क्रियत इति सुतरां विपर्यासे यागो नाऽऽवर्तयितव्यो यागस्यावैगुण्यात्।तस्मादयथासंकल्पकरणमेव।त्रापराधो न यागासिद्धिरिति। यदि पुनराग्नेयेनाम्नीषोमीययागेकृते भ्रूषो ज्ञायेत तदाऽग्नीषोमीयेणानेययागः कर्तव्यःसंनिहितत्त्वात्तस्य द्रव्यस्यकार्यान्तरस्य165 चामावात्। तस्मिन्संनिहिते सति स्वद्रव्ये द्रव्यान्तरोपादानमशक्यमितितस्मादेवं कृत्वा प्रायश्चित्तमेव कुर्यात्। अत्र व्याहृतिहोमश्च कार्यः। एतद्विपर्यासेऽन्तरितइत्यत्रैवोक्तम्।

विश्वास-प्रस्तुतिः

स्थानिनीमनावाह्य देवतामुपोत्थापाऽऽवाहयेत्।

मूलम्

स्थानिनीमनावाह्य देवतामुपोत्थापाऽऽवाहयेत्।

टीका

यदि166 कस्मिधिकर्माणि यष्टव्यां देवतामनावोहयैवोत्तरं कर्म कुर्यासदा यावति गतेस्मरति तदैवोत्थायाऽऽवाह्येत्, वर्तमानावधिस्वरेण न मन्द्रेण। यदि मन्द्रेणैव स्यात्,उपोत्थानं न विद्ध्यात्। तस्याप्यावाहनधर्मवात्। तस्मादुपोत्थानविधानान्न167 मन्द्रत्वनियमः168। अवधिस्वर एवेति सिद्धम्।

विश्वास-प्रस्तुतिः

मनसेत्येक आज्येनास्थानिनीं यजेत्॥ १३॥

मूलम्

मनसेत्येक आज्येनास्थानिनीं यजेत्॥ १३॥

टीका

यद्यस्थानिनीं प्रमादादावाहयेत्तदा तस्मिन्नेव क्रमे तां यजेत्। निगमेषु च निगमयेत्।यमेदितिवचनं169 तद्देवत्यो याग एवयं नाऽऽहुतिहोम इत्येवमर्थम्॥ १३॥

विश्वास-प्रस्तुतिः

हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान्भोजयेत्।

मूलम्

हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान्भोजयेत्।

टीका

यदा हविरपक्कं भवति तदा तेनैव हविषा तत्कर्म समाप्प चतुःशरावपरिमितव्रीहिभिरोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत्।

विश्वास-प्रस्तुतिः

क्षामे शिष्टेनेष्ट्वा पुनर्यजेतं।

मूलम्

क्षामे शिष्टेनेष्ट्वा पुनर्यजेतं।

टीका

एकदेशक्षामस्य शक्यपरिहारत्वात्प्रायश्चित्तं न भवति। यदा पुनरदग्धं किंचिदस्त्यवदानेभ्यो न पर्याप्तं च *तदैतत्प्रायश्चित्तं भवति।

विश्वास-प्रस्तुतिः

अशेषे पुनरावृत्तिः।

मूलम्

अशेषे पुनरावृत्तिः।

टीका

हविष्यशेषे दग्धे पुनरावृत्तिः कार्या पुनर्यागपुनरावृत्त्योरयं विशेषः। वर्तमानंप्रयोगं समाप्य पुनरप्यादित एवाऽऽरम्यान्तात्क्रिया पुनर्यागः। पुनरावृत्तिस्तु वर्तमानएव प्रयोगे नष्टस्य हविषः पुनरुत्पादनमिति। पुनरावृत्तौ तु पुनरुत्पादितेन हविषा स एवप्रयोगः समापयितव्यः। अयमनयोर्विशेषः।

विश्वास-प्रस्तुतिः

प्रागावाहनाच्चदोषे।

मूलम्

प्रागावाहनाच्चदोषे।

टीका

पुनरावृत्ति प्रसङ्गात्सूत्रत्रय मारब्धम्। आवाहनात्प्राग्घविदर्दोषे सति पुनरावृत्तिरेव।

विश्वास-प्रस्तुतिः

अप्यत्यन्तं गुणभूतानाम्।

मूलम्

अप्यत्यन्तं गुणभूतानाम्।

टीका
  • गुणभूतानामत्यन्तमपि पुनरावृत्तिरेव। अत्यन्तमित्याकर्मपरिसमाप्तेरित्यर्थः।
विश्वास-प्रस्तुतिः

प्राक्स्विष्टकृत उक्तं प्रधानभूतानाम्।

मूलम्

प्राक्स्विष्टकृत उक्तं प्रधानभूतानाम्।

टीका

यत्पुनर्हविषां व्यापत्तावित्युक्तं तत्प्रधानहविषामेव स्विष्टकृतश्च प्रागेवेति चोभयमनेननियम्यते। तेनात्राप्यङ्गानां पुनरावृत्तिरेव।

————————————————————————————————————

* घ –चतुःशरावमोदनं ब्राह्मणान्भोजयेत्। + घ. अङ्गहविषां दोषे सति। X घ.— इन्द्रं वैमृधाशीनामन्त्रायात्यानाम्।
————————————————————————————————————

विश्वास-प्रस्तुतिः

अवदानदोषे पुनरायतनादवदानम्।

मूलम्

अवदानदोषे पुनरायतनादवदानम्।

टीका

प्र*सक्तानुप्रसक्तमिदम्। मध्यात्पूर्वार्धाद्गृहीतस्यावदानस्य दोषे सति तस्य हविषोमध्यपूर्वार्धाभावात्सद्प्यसदेवेति170 मन्यमानः प्रधानहविषश्चेदाज्येनेष्टिमित्यादि कर्तव्यम्। अङ्गहविषश्चेत्पुनरावृत्तिरेव। मध्यपूर्वार्धयोरेव साधनत्वेनो+पसंहारादिति यो व्यवतिष्ठते तस्योत्तरमिदं सूत्रम्। अवदानदोषे पुनरप्यवदानायतनान्मध्यात्पूर्वार्धादेवावदातव्यम्171।अपेक्षितत्त्वात्तयोः शब्दयोरिति। चतुर्मुष्ट्यादिभित्रीहिभिः संपादितं हविः सर्वे यागार्थमेव। तत्र172 द्व्यवदानेन यागसिद्धौ सत्यां तादर्थ्यंतत्रोपसंहृतं भवेन्नान्यथा। यत्का×र्यार्थं यदुपादीयते तस्य तत्कार्याकरणे तत्प्रति तादर्थ्यंनापैति। अतस्तादर्थ्यानपायात्तेनैवहविषा यष्टव्यमिति सिद्धम्।

विश्वास-प्रस्तुतिः

द्वेष्ट्रे त्विहदक्षिणां दद्यात्।

मूलम्

द्वेष्ट्रे त्विहदक्षिणां दद्यात्।

टीका

प्रकृतमनुसृतम्। ‘क्षामे शिष्टेनेष्ट्वा’इत्येतस्मिन्प्रयोगे या दक्षिणा सा द्वेष्टेदातव्या नर्त्विग्भ्य इत्यर्थः।

विश्वास-प्रस्तुतिः

दक्षिणादान उर्वरां दद्यात्।

मूलम्

दक्षिणादान उर्वरां दद्यात्।

टीका

सर्वार्थमिदं सूत्रम्। सर्वेषु कर्मसु विहितदक्षिणादान उर्वरां दद्यात्। सस्यसंपन्ना भूमिरुर्वरेत्युच्यते।

विश्वास-प्रस्तुतिः

कपालं भिन्नमन÷पवृत्तकर्म गायत्र्या त्वा शताक्षरया संदधा-
मीति संधायापोऽम्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्तस्तदग-
न्पुनः। इध्मो वेदिः परिधयश्च सर्वे यज्ञस्याऽऽयुरनुसंतरन्तु त्रय-
स्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते। तेऽभि-
श्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति।

मूलम्

कपालं भिन्नमन÷पवृत्तकर्म गायत्र्या त्वा शताक्षरया संदधा-
मीति संधायापोऽम्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्तस्तदग-
न्पुनः। इध्मो वेदिः परिधयश्च सर्वे यज्ञस्याऽऽयुरनुसंतरन्तु त्रय-
स्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते। तेऽभि-
श्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति।

टीका

अनपवृत्तकर्मवचनात्पुरोडाशपणादूर्ध्वंन प्रायश्चित्तमिति गम्यते।

विश्वास-प्रस्तुतिः

एवमवलीह्लाभिः173 क्षिप्तेषु।

मूलम्

एवमवलीह्लाभिः173 क्षिप्तेषु।

टीका

अवलीढानिश्वादिभिरभिक्षिप्तानि तद्दशनादिभिः, अन्यथा वाऽशुचिसंबन्धीनि कपालान्यभिन्नान्यप्थेवं कुर्यात्। भेदाभावात्संधानमर्थलुप्तम्। तेन भिन्न इत्यादिनाऽपोऽभ्यवहरेयुः।

————————————————————————————————————

*क. प्राप्तेऽनुप्राप्तम्। +क. – सामान्येन प्राप्तस्य विशेषे संकोचनमुपसंहारः। ×ध.—स्वशाखापवर्तक-ऋष्युक्ताविरुद्धस्यैव परकीयस्न ग्राह्यत् भवति। यः स्वशाखां परित्यज्य परशाखांसमाचरेत्। अप्रमाणमृषिं कृत्वा सोऽन्धे तमसि मज्जति। इति। ÷घ.— उद्वासितं कर्मापवृत्तंभवति।
————————————————————————————————————

विश्वास-प्रस्तुतिः

अप एवान्यानि मृन्मयानि। भूमिर्भूमिमगान्मातामातरमप्यगात्। भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति।

मूलम्

अप एवान्यानि मृन्मयानि। भूमिर्भूमिमगान्मातामातरमप्यगात्। भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति।

टीका

कपालेभ्योऽन्यानि मृन्मयानि भिन्नान्यभिन्नानि च। ‘भूमिभूमिम्’ इति मन्त्रेणापएवाम्यवहरेन्न संध्यादित्यर्थः।

विश्वास-प्रस्तुतिः

यदि पुरोलाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेतकिमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽगहि।अघोरो यज्ञियो भूत्वाऽऽसीदसदनं स्वमासीद सदनं स्वमितिमा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्व मा नः किंचनरीरिपः। योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति।

मूलम्

यदि पुरोलाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेतकिमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽगहि।अघोरो यज्ञियो भूत्वाऽऽसीदसदनं स्वमासीद सदनं स्वमितिमा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्व मा नः किंचनरीरिपः। योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति।

टीका

रफुटेद्भिन्द्यादित्यर्थः। उत्पतेतोद्गच्छेदित्यर्थः। पूर्वो निधानमन्त्रः, उत्तरोऽभिमन्त्रणार्थः, आनन्तर्ययोगात्।

विश्वास-प्रस्तुतिः

अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः।

मूलम्

अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः।

टीका

अग्निहोत्रहोमार्थं प्रणयनकाले समारूढोऽग्निर्मथ्यमानो यदि न जायेत तदाऽन्यंलौकिकमग्निमानीय प्रणीय तत्रैव होमः कार्यः। एतदनुगते न भवति। अनुगते तु मन्थनादि तपस्वतीष्ट्यन्तं तत्र प्रायश्चित्तम्। तत्राग्निसंधानमेव मन्थनप्रवृत्तौ निमित्तं नाग्निहोत्रहोमः। समारूढेतु नैमित्तिकस्याभावादग्निहोत्राद्येव मन्थनस्य निमित्तं नान्यत्। अतः समारूढ एवेति युक्तमुक्तम्। तेनानुगतावजायमानेऽपि यावज्जन्म तावन्मथितव्यमेवेति। ततस्तपस्वतीष्टिः। तत्राग्निहोत्रहोमोऽनुद्घृतप्रायश्चित्तेन सह यदि होमकालोऽतिपन्नस्तदा मनस्वतीहोमश्च कार्यः। अप्यन्यमित्यन्यशब्दा-ल्लौकिकमग्निमानीय जुहुयुः। अपिशब्दाद्व्राह्मणपाण्यादि वक्ष्यमाणमपि गम्यते।

विश्वास-प्रस्तुतिः

पूर्वालाभउत्तरोत्तरम्।

मूलम्

पूर्वालाभउत्तरोत्तरम्।

टीका

अग्न्यादीनांपृथिव्यन्तानां पूर्वपूर्वालाभ उत्तरोत्तरं गृह्णीयुः। पूर्वालाभ इत्यलाभवचनादलाभ174े वचनान्तरविधिरयं न प्रतिनिधिनियम इत्यध्यवीयते। तेन दृष्टार्थानामङ्गानांमध्ये यस्य कार्यमस्ति तदेव कार्यंनान्यत्।

विश्वास-प्रस्तुतिः

ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्याम्।

मूलम्

ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्याम्।

टीका

अग्नौ सर्वधर्मसंभवात्तस्य पृथग्योगभावः। पाण्यादीनां चतुर्णामिन्धनादि175 श्रवणादि वर्जयित्वाऽन्यत्सर्वं संभवतीति पृथग्भावः। काष्ठानामबभावे विधानादुदककार्याण्यपिकाष्ठेषु न स्युरिति तेषां पृथग्भावः। पाण्यादिषु पञ्चरवाहुतिधारणार्थासमिद्भवति, इन्धनार्थास्तु न भवन्त्येव समिधः। पृथिव्यां तु धारणार्थाऽपि समिन्न भवाति काष्ठाभावेतस्या विधानात्। एवमन्यदपि विचार्य कर्तव्यम्176

विश्वास-प्रस्तुतिः

हुत्वा त्वपि मन्थनम्।

मूलम्

हुत्वा त्वपि मन्थनम्।

टीका

होमं कृत्वाऽऽनन्तरमेव मन्थनमपि भवति। अपिशब्दात्कालान्तरेऽपि मन्थनं भवति।अत्र विनिवेशः। यदा प्रयाणकाले प्रयाणं परिसमाप्तं तदा होमानन्तरमेव मन्थनं भवति।यदा त्वपरिसमाप्तं प्रयाणं तदा पुनरपि होमकाल एव मन्थनमिति। तुशब्दोऽवधारणार्थः।हुत्वा मन्थनमेव भवति न पुनर्होम इति।

विश्वास-प्रस्तुतिः

पाणौ चेद्वासेऽनवरोधः।

मूलम्

पाणौ चेद्वासेऽनवरोधः।

टीका

यदि पाणौ जुहुयात्तदा ब्राह्मणस्य वासार्थिनो नावरोधः कार्यः।

विश्वास-प्रस्तुतिः

कण चेन्मांसवर्जनम्।

मूलम्

कण चेन्मांसवर्जनम्।

टीका

अत्राजमांसवर्जनं भवति।

विश्वास-प्रस्तुतिः

स्तम्बे चेन्नाधिशयीत।

मूलम्

स्तम्बे चेन्नाधिशयीत।

टीका

अत्र दर्भाणामनधिशयनम्।

विश्वास-प्रस्तुतिः

अप्सु चेदविवेकः।

मूलम्

अप्सु चेदविवेकः।

टीका

अत्राविवेकोऽपामिमा भोजनीया इमा अभोजनीया इत्येवंरूपः।

विश्वास-प्रस्तुतिः

एतत्सांवत्सरं व्रतं यावज्जीविकं वा।

मूलम्

एतत्सांवत्सरं व्रतं यावज्जीविकं वा।

टीका

पूर्ववद्विकल्पप्रतिभासहेतुर्द्रष्टव्यः।

विश्वास-प्रस्तुतिः

अग्नावनुगतेऽन्तराहुती हिरण्य उत्तरां
जुहुयाद्धिरण्य उत्तरां जुहुयात्॥ १४॥

मूलम्

अग्नावनुगतेऽन्तराहुती हिरण्य उत्तरां
जुहुयाद्धिरण्य उत्तरां जुहुयात्॥ १४॥

विश्वास-प्रस्तुतिः

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के तृतीयोऽध्यायः॥ ३॥

मूलम्

इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के तृतीयोऽध्यायः॥ ३॥

टीका

आहुत्योरन्तराऽग्नावनुगते सति हिरण्यं निधाय तस्मिद्वितीयामाहुतिं जुहुयात्।हिरण्य एव यथासंभवं शेषकार्याणि कुर्यान्न पुनरग्निरुद्धर्तव्यः। अभ्यासोऽध्यायपरिसमाप्त्यर्थः॥ १४॥

इत्याश्वलायनश्श्रौतसूत्रवृत्तौ नारायणीयायां तृतीयोऽध्यायः॥ ३॥

________________

अथ चतुर्थोऽध्यायः।
————


  1. " ख. ग. °तो न °" ↩︎

  2. “ख. ग. झ. ङ.च. इष्टेः क° ।” ↩︎

  3. “ख. झ. ग. °भे सहिते उ° । क. घ. °भे सहतउ° ।” ↩︎

  4. “ख. झ. ग. °कस्येह ग्र° ।” ↩︎

  5. “ख. ग. झ. °षणं तत्स्था° । ङ. °षणं कर्मणः । तत्स्था° ।” ↩︎

  6. “ख॰ झ॰ ग॰ °दार्थमनुं° । ङ. °दार्थं नानु° ।” ↩︎

  7. “क. घ. च. तन्त्रान्त्य° ।” ↩︎

  8. “ङ. तदानु° ।” ↩︎

  9. “क. ध. °महेभ्यः ।” ↩︎ ↩︎

  10. " ख. ए. ङ. विधुरो ।" ↩︎ ↩︎

  11. “ख. ग. ङ.. झ. °वेतानि ।” ↩︎

  12. “ख. ग. झ. °तस्मादक्षि° ।” ↩︎

  13. " ख. ग. भ. ङ. च. °नां नरा ° ।" ↩︎

  14. " ग. °व । तत्रात्र्यादीनां नाराशंस्थेवय° ।" ↩︎

  15. “घ. च. °म् । स्वयमृषिना° ।” ↩︎

  16. “ख. घ. च. °ङ्गेनावि° ।” ↩︎

  17. “झ . °ख्याभावात्° ।” ↩︎

  18. “ख. ग. झ. °र्थंतद्वि° ।” ↩︎

  19. " ध.च.°वक्षया । प्रै° ।" ↩︎

  20. “ख. ग. झ. बहिर्मा° । च. ङ. च. बर्हिमातृ ।” ↩︎

  21. “ख. ग. तथानुश्रूया° ।” ↩︎

  22. “ख. ग. °ति गम्य° ।” ↩︎

  23. " क. °शब्द ए° ।" ↩︎

  24. “ख. ग. °र्हाणिनि°” ↩︎

  25. “झ. प्रत्याम्ना° ।” ↩︎

  26. " च. °त्वांत्पारिभाषि° ।" ↩︎

  27. “ख. ग. °शसाः प्र° ।” ↩︎

  28. " घ. अंसम्,° ।" ↩︎

  29. " ङ. तंत्र । " ↩︎

  30. “ख. ग. घ. ङ.च. झ. °शु भव ।” ↩︎

  31. “क. ग. घ. हप्तमस्य ।” ↩︎

  32. " ख. ग, घ. ङ. च.झं एतं म° ।" ↩︎

  33. “ङ. झ. °नादनु ।” ↩︎

  34. “क. ख. ग. घ. °न मध्यंदि° ।” ↩︎

  35. “ख. ग. °मैकाऽऽप्री°।” ↩︎

  36. “ङ. °वतावचना स्वा° ।” ↩︎

  37. “क. °हाऽमुं° ।” ↩︎

  38. " घ. च. °रभावाः।सिद्धाः प° । " ↩︎

  39. “झ. °द्धोऽनु° ।” ↩︎

  40. " ख. ग. घ. ङ. च. झ. °नां प्रदानत्वं भ°" ↩︎

  41. " ङ. झ.°ष्वेव ते° ।" ↩︎

  42. " क. घ. °पक्रम°" ↩︎

  43. “ख. ग. लम्भनस्य ।” ↩︎

  44. “च. तृचे ।” ↩︎

  45. “घ. च. °तानुवृ° ।” ↩︎

  46. “ख. ग. झ. °वृत्तिर्गम्यते ।” ↩︎

  47. " क. व. प्रैषाप्रै°।" ↩︎

  48. “झ. °योः सप्रै° ।” ↩︎

  49. “क. झ. °र्यवः सप्रै° ।” ↩︎

  50. “ख. ग. °स्य प्रकृ° ।” ↩︎

  51. “ख. ग. झ. °दनां प्र° ।” ↩︎

  52. " ङ. °ब्रताम° ।" ↩︎

  53. “ख. ग. °वतात्वा° ।” ↩︎ ↩︎

  54. " घ. च. °धानाः क° ।" ↩︎

  55. " ङ॰ झ. ज्यस्य ।" ↩︎

  56. “ख॰. ग. यदाऽसं° ।” ↩︎

  57. “ख. ग. °वादनु° ।” ↩︎

  58. “ङ. झ. °नैव त° ।” ↩︎

  59. “क. घ. ङ. च. °लाशाना° ।” ↩︎

  60. “च. कतर ए° ।” ↩︎

  61. “क. ख. ग. घ. च. °शुः । अ° ।” ↩︎

  62. “१ ङ. झ. नादि द्विदे° ।” ↩︎

  63. " क. घ. च. न त्वेकः ।" ↩︎

  64. “च, °त्यायन्तः प्र° ।” ↩︎

  65. " ङ. छ. °दुधाति ।" ↩︎

  66. “ख. ग. घ. च. ततः संस्थाजप इ° ।” ↩︎

  67. “च. येषां ।” ↩︎

  68. “ख. ग. ङ. झ. °थ सोमस्य-” ↩︎

  69. “क. षलर्च ।” ↩︎

  70. “च. °त्येते या° ।” ↩︎

  71. “ख. ग. °त्वात्तद्न° ।” ↩︎

  72. " ङ. झ. °कैकशः प° । " ↩︎

  73. “क.ख.ग. ध. °म्नाताः । अ° ।” ↩︎

  74. “ख. ग. तेषामङ्ग ° ।” ↩︎

  75. “क. °व नि° ।” ↩︎

  76. " ख. ग. °षादिर° ।" ↩︎

  77. “घ. °नं चत्वा° ।” ↩︎

  78. “ख. ग. ङ. झ. °मेता अ° ।” ↩︎

  79. “ङ. प्रैषायाज्या उक्ताः । या° । ख.म. झ. प्रैषयाज्या उक्ताः । या° ।” ↩︎

  80. “ख ग घ. °नां दे° ।” ↩︎

  81. “ख ग घ. च. इति तत्म° ।” ↩︎

  82. “ग. ङ. झ. त्यादावन्त ° ।” ↩︎

  83. " ख. ग. ङ. झ °व्य इत्ये° ।" ↩︎

  84. “ख. ग. ङ. झ. °ध्यगत इ° । " ↩︎

  85. “ख. ग. ङ. झ. ‘रेऽनेनै ।” ↩︎

  86. " ख.ग. दित्यर्थः । अ° ।” ↩︎

  87. “क. मन्थयेत् ।” ↩︎

  88. “ख. ग. °वमेवाव° ।” ↩︎

  89. “ख. ग.°त् । तत्र ।” ↩︎

  90. “घ. °नात्पराग°इति पाठान्तरम् ।” ↩︎

  91. “ख. ग. ङ. झ. °माद्यती° ।” ↩︎

  92. “ख. ग. यागे ।” ↩︎

  93. “क. ख. ग. ङ. च. झ.°पं चा° ।” ↩︎

  94. “ख. ग. झ. तमो ना° ।” ↩︎

  95. “क. °भ्यां सांतनं ।” ↩︎

  96. “घ. च. °भिजननीय ।” ↩︎

  97. “ख. ग. ङ. छ. ज झ. °क्षे मिथे° ।” ↩︎ ↩︎

  98. “ङ. झ. °रेनं ।” ↩︎

  99. “ख. ग. ङ. झ. °ङ्गैरप्य° ।” ↩︎

  100. “ख. ग. ङ. झ. °थमं यष्ट°” ↩︎

  101. “ख. ग. झ. निरूप्ये°।” ↩︎

  102. “ख. ग. झ. निरूप्य ।” ↩︎

  103. “च. पय आप्तं ।” ↩︎

  104. “ख. ग. झ. °प्तेस्तस्य ।” ↩︎

  105. “ख. ग. ङ. °त्थापन° ।” ↩︎

  106. “ख. ग. घ. °वद्दोह° ।” ↩︎

  107. “क. घ. च. °न प°” ↩︎

  108. " व. च. स्कन्दनं ता°" ↩︎

  109. “ख.ग.ङ. झ. स्कन्दने पु°। " ↩︎

  110. “ख. ग. ड. स्कन्ने य° ।” ↩︎

  111. " ख. ग. °मृश्य स्क° । " ↩︎

  112. “झ॰ °भिमृशन्स्कन्न° ।” ↩︎

  113. “ख. ग. एव भव° ।” ↩︎

  114. “क. °कस्याद्द्र°।” ↩︎

  115. “ख. ग.°त्यगागच्छे° ।” ↩︎

  116. “क. घ. शब्दायेत° ।” ↩︎

  117. “ख. ग. °पतये ’ इ° ।” ↩︎

  118. “घ. °र्षणासं° ।” ↩︎

  119. “घ. ङ. °षान्तान्तो ।” ↩︎

  120. “ख.ग. झ. °षान्तान्त इ° ।” ↩︎

  121. “ख. ग. झ. वा सायं ।” ↩︎

  122. “ख. ग. ङ. च. झ. °हितो हो°।” ↩︎

  123. “ख. झ. ङ. च. झ. माणोऽती° ।” ↩︎

  124. “घ. कालमिष्ट्य° ।” ↩︎

  125. “घ. ङ. च. झ. °मुं मामुष्या° ।” ↩︎ ↩︎

  126. “घ. च. °त्रिकं चे° ।” ↩︎

  127. “क. ख. ग. ङ. झ. झथाय° ।” ↩︎

  128. “ख. ङ. झ. अथाय° ।” ↩︎

  129. " क. होमं कृत्वाऽनु° । घ. होममतिपन्नहो° ।” ↩︎

  130. “ङ, °षु चाने° ।” ↩︎

  131. “झ. तेन प्रातरग्नि° ।” ↩︎

  132. “घ. च. °यादाह° ।” ↩︎

  133. " ख. ग. झ. °च्छाखान्त° ।" ↩︎

  134. “ङ. °नीयानु° ।” ↩︎

  135. “ख. ग. घ. ङ.झ. °गते पा° ।” ↩︎

  136. “ङ. च.°शब्दवि ।” ↩︎

  137. “ङ. झ. °सर्गे हि ।” ↩︎

  138. “ख. ग. ङ. संचर्य ।” ↩︎

  139. “ख. ग. ङ. °र्ण प्रयोगो दृ° । झ. °र्णप्रयोगोऽपि दृ° ।” ↩︎

  140. " ख. ग. ङ. च. झ. °पत्यः इ° ।" ↩︎

  141. “ख ग °न्थनेनो ।” ↩︎

  142. “ख. ग. नु ।” ↩︎

  143. “ख. ग. झ. °ल्यद° ।” ↩︎

  144. “ङ. झ. °रूह्लेषु । " ↩︎

  145. “झ. °तिवत्संस्तु° । ३ घ. च. संस्कृत° ।” ↩︎

  146. “ख. ग. °मन° ।” ↩︎

  147. “ख. ग. घ. ङ॰ झ. °क्य इ° ।” ↩︎

  148. “ख. ग. ङ. झ. °दिलिङ्गादवगन्तव्या। दे° ।” ↩︎

  149. “झ॰ °योरत्र ।” ↩︎

  150. “क॰ °त्तावेवेष्टिः ।” ↩︎

  151. “च. झ. °मुद्धृत्येदा° ।” ↩︎

  152. “घ. च. निराद° ।” ↩︎

  153. “ख. ग. ङ. झ. द्वौ द्वौ वा ।” ↩︎

  154. “ख. ग. ङ.. झ. ज्ञाते ।” ↩︎

  155. “घ. च. ‘वास्यायां दे ।” ↩︎

  156. " घ. °गो ना° ।” ↩︎

  157. “ख. ग. °कोऽवधि° ।” ↩︎

  158. “च. °चिद्वान्य° ।” ↩︎

  159. “घ. °त् ।एवं याज्या ब्रूयात् । ए° । " ↩︎

  160. “घ. च. ‘हव औप॰ ।” ↩︎

  161. “घ. च. निर्वाप° ।” ↩︎

  162. “घ. ख. ग. झ. °दीयेनान्यस्य या° । ङ. ‘दीये सत्यस्य या° ।” ↩︎

  163. “च. ०हिते वानू० ।” ↩︎

  164. “घ.च. ०हिते चास्मिन्क० ।” ↩︎

  165. “झ.कार्यस्य ।” ↩︎

  166. " ख. ग. झ. यस्मिन्कस्मि°” ↩︎

  167. “ख. ग. तस्या उपो° ।” ↩︎

  168. “ख. ग. मन्त्रनि° ।” ↩︎

  169. “घ.ङ. च. °नं यद्दे°।” ↩︎

  170. “ख. ग. °घात्तद° ।” ↩︎

  171. " ख. ग. ङ. च. झ. °म् । आपेक्षिकत्वा ।" ↩︎

  172. “घ. तदत्र ।” ↩︎

  173. “ख. ग. छ. झ.°लीढाभिः ।” ↩︎ ↩︎

  174. “घ. झ. °भे द्रव्यान्तर° । " ↩︎

  175. “घ. ङ. झ. °नाधिश्रयणा° ।” ↩︎

  176. “घ. च. वक्तव्यम् ।” ↩︎