विश्वास-प्रस्तुतिः
पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः।
मूलम्
पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः।
टीका
प्रथमेऽध्याये दर्शपूर्णमासौ व्याख्यातौ विध्यन्तसहितौ। उत्तरत्रेष्टयः पशवश्च वक्ष्यन्ते विध्यन्तर1हिताः। तेषां विध्य2न्तापेक्षाऽस्ति यथा3हि —
न हि तत्करणं लोके वेदे वा किंचिदीदृशम्।
इतिकर्तव्यता साध्ये4 यस्य नानुग्रहे5ऽर्थिता*॥ इति।
एवं च तदपेक्षायां सत्यां तदपि वैदिकमेव श्रौतमेवेत्यपि सिद्धे श्रौतेषु चाऽऽग्निहौत्रिकदार्शपौर्णमासिकसौमिकेषु त्रिषु सत्स्वस्येदमिति विध्यन्त6 विशेषग्रहणे चोदनासामान्यं स्वरूपसामान्यं च मुक्त्वाऽन्यस्य विशेषलिङ्गस्याभावात्तैरेव विशेपलिविंध्यत7विशेषः परिगृह्यते। तानीमानि विध्यन्त6विशेषग्रहणालिङ्गानि-
विश्वास-प्रस्तुतिः
निर्वपेत्तद्धितश्चाऽऽज्यमौषधं8 च पयो दधि।
कपालानि च तत्संख्या देवता शब्द एव च॥
तस्मिन्नक्षरसंख्या च तद्वाच्ये ह्येकबह्वपि।
द्रव्य9त्वं प्राकृतः शब्दो हविषः प्रभवादि च॥
मूलम्
निर्वपेत्तद्धितश्चाऽऽज्यमौषधं8 च पयो दधि।
कपालानि च तत्संख्या देवता शब्द एव च॥
तस्मिन्नक्षरसंख्या च तद्वाच्ये ह्येकबह्वपि।
द्रव्य9त्वं प्राकृतः शब्दो हविषः प्रभवादि च॥
टीका
————————————————————————————————————
* क. प्रयाजादिसाध्येऽनुग्रह उपकारे।
————————————————————————————————————
*एतद्ब्राह्मणशब्द10श्च तद्वदित्युपदेशनम्।
नामधेयं तथा11ऽ+व्यक्तचोदना चान्यदीदृशम्॥
लिङ्गान्येतानि चान्यानि गुरूणि च लघूनि च।
समक्ष्य प्रकृतिश्चेयं विकृतिश्चेति कल्पना॥
द्रव्यदेवतयोर्यत्र विरोधस्तत्र निश्चये।
तत्र द्रव्यं बलीयः स्याद्देवताया इति स्थितिः॥
यत्र12 सर्वासामिष्टीनां दर्शपूर्णमासौ प्रकृती तत्र13विशेषलिङ्गात्कासांचिद्दर्शः प्रकृतिः कासां चित्पौर्णमासीत्येवं समीक्ष्य व्यवस्था कल्पनीया।एवं सर्वेषां पशूनां दर्शपूर्णमासावेव प्रकृती तद्धितादिविशेषलिङ्गादग्नीषोमीयस्य पशोरन्येषां च। अत्र न्यायंविद आहुः — अग्नीषोमीयस्य पशोरेव दर्शपूर्णमासौ प्रकृती नान्येषां पशूनाम्। सर्वा14तिदेशिकैरौपदेशिकैश्च संबद्धोऽन्येषां पशूनां प्रकृतिः। एवं सत्युपकारप्राप्तिरखण्डिता भवतीति सत्यमेषा15न्यायविदां स्थितिः। किं त्वत्र कल्पसूत्रकाराणामेवं प्रवृत्तिः — सर्वेषु पशुषु दार्शपौर्णमासिको विध्यन्तो दर्शपूर्णमासाभ्यामेव प्राप्नोति। अग्नीषोमीयाच्च पशोः पाशुक इति। अत एवास्मिन्सूत्रेऽग्नीषोमीयशब्दमनुक्त्वा पशुसामान्यवाचिनं पशुशब्दमेव प्रयुक्तवानाचार्यः। तेनैवायमतिदेशः सर्वेषां पशनां नाम्नीषोमीयस्यैवति गम्यते। अत एव भाष्यकारः ‘अथ सवनीयेन’ इत्यस्मिन्सूत्रे यदैवत ग्रहणस्येदं प्रयोजनमुक्तवान्। अनुक्तदेवतानामपि पशूनां स्वनीयत्वप्राप्तौ तेषामपि समाम्नातत्वं भवतीति। समाम्नातत्वे च वार्त्रघ्ना16वाज्यभागस्य लाभः प्रयोजनं नान्यत्। अतः सर्वपशूनामतिदेशः सिद्धः। तत्राऽऽग्नेय उपशुयाजोऽग्नीषोमीय इति17 पूर्णमाससंज्ञका यागाः। आग्नेय उपांशुयाज ऐद्राग्न इत्यसंनयतोऽमावास्यायां संनयत ऐन्द्राग्नस्य स्थान ऐन्द्रे माहेन्द्रे वा दधिपयसी इति तयोः समुदाययोरपि पौर्णमास्यमावास्यानामनी भवतः। अनयोस्तन्त्रं साधारणम्। एतावानेव भेदः प्रधानदेवता आज्यभागयोरनुवाक्ये च। यत्र प्रधानदेवता विकृतिषु प्रत्यक्षा18स्तत्रातिदेशव्यापारों नास्ति। अतः पारिशेप्यादाज्यभागानुवाक्ययोरेवातिदेशः फलति। एवं स्थिते येऽस्मिशास्त्रे समाम्नाता इष्टयः पशवश्च स्वस्वप्रकरणेऽविशेषिताज्यभागाश्च तेषां मध्ये केषांचि19द्वार्त्रघ्नाज्यभागतां मत्वा तदुपदेशार्थमेतत्सूत्रं प्रणीतवानाचार्यः। तस्यायमर्थः—
————————————————————————————————————
* क. एतदितिकर्तव्यताकानि। + अव्यक्तत्वं स्वार्थचोदितदेवताराहित्यम्।
————————————————————————————————————
उपदिष्टाः समाम्नाता इत्यर्थः। अनुवादत्वेन चायं शब्दः संबध्यते। अतोऽयमर्थः सूत्रस्य20येऽस्मिञ्शास्त्र उपदिष्टा इष्टयः पशवश्चाप्यविशेषिताज्यभागास्ते सर्वे वार्त्रघ्नाज्यभागा इति। पौर्णमासेनेत्यस्यायमर्थः। पौर्णमासेन व्याख्याता इति। वार्त्रघ्नाज्यभागा इत्यर्थः।तेन21 समाम्नातानामिष्टीनां पशूनां22 चान्यदेवतागममात्रः सिद्धो भवति। तथाचोक्तमिष्ट्ययनप्रकरणे – ‘असमाम्नातास्वर्थात्तन्त्रविकारः’इति। तच्च23 पशूनामपि प्रदर्शनार्थत्वेनोक्तमिति द्रष्टव्यम्। सोमग्रहणमुत्तरार्थम्। अत्रापि किंचित्प्रयोजनमस्ति, याज्याधर्मा निरसनादयश्चैवंप्रकाराः श्रुतावनारभ्याधीता अप्यस्मिञ्शास्त्रे दर्शपूर्णमासप्रकरणविहितास्तेषां प्रापणायेति।
विश्वास-प्रस्तुतिः
तैरमावास्यायां पौर्णमास्यां वा यजेत।
मूलम्
तैरमावास्यायां पौर्णमास्यां वा यजेत।
टीका
तैरिष्टिपशुसोमैरमावास्यायां पौर्णमास्यां वा यागः कर्तव्य इतीष्टिपशूनां प्रकृतिप्राप्त एवायं कालःपुनर्विधीयते द्व्यहकालतां निवर्त्य सद्यरकालताप्राप्त्यर्थम्। किंच दर्शप्रकृतेरमावास्या पौर्णमासप्रकृतेः पौर्णमासीत्येवं नियमं निवर्त्यानियमेनोभयकालताप्राप्त्यर्थम्। प्रकृत्यविरोधात्पर्वणस्तद्वत्यहोरात्रे विकृतिः कर्तव्या। यदाऽह्नःपूर्वभागे पर्व स्यात्तदा प्रकृतिं कृत्वा विकृतिः कार्या। यदा परभागे रात्रौ वा तदा विकृतिं कृत्वा प्रकृतिः +कार्येति सोमस्यायमप्राप्तः कालो विधीयते। इष्ट्यादिशब्दसंबन्धादेव यजेतेत्यपि सिद्धे यजेतेतिवचनं सोमस्य याग एवानयोः कालयोः संपादनीयो नान्यद्दीक्षादीति24।
विश्वास-प्रस्तुतिः
राजन्यश्चाग्निहोत्रं जुहुयात्।
मूलम्
राजन्यश्चाग्निहोत्रं जुहुयात्।
टीका
क्षत्रियस्याग्निहोत्रहोमः पर्वणोरेव कर्तव्यो नान्यस्मिन्काल इति। चशब्दद्वैश्योऽप्यनयोरेव कालयोरग्निहोत्रं जुहुयान्नान्यस्मिन्नित्यवगम्यते।
कथमनयोरन्यस्मिन्काल इत्याह-
विश्वास-प्रस्तुतिः
तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत्।
मूलम्
तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत्।
टीका
तपस्वी कर्मनिरतस्तस्मै ब्राह्मणाय। अतपस्विनेऽपि ब्राह्मणायैव दद्यान्न जात्यन्तराय तपस्विनेऽपीति।इतरं कालमिति। इतरेषु सर्वेष्वग्निहोत्रकालेष्वित्यर्थः। भक्तं पक्वोदनं पक्वान्नमुपहरेद्दद्यात्। एतदुक्तं भवति – राजन्यवैश्ययोः पर्वण्यग्निहोत्रकालद्वयं वर्जयित्वेतरेषु कालेषु ब्राह्मणायौदनं दातव्यं न होमः कर्तव्य इति। अग्निधारणं तु क्रियत एव।
————————————————————————————————————
- क.— माधवोऽपि—
आवर्तनात्प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन्प्रकृतिं विकृत्याः।
तदैव यागः परतो यदि स्यात्तस्मिन्विकृत्या प्रकृतेः परद्युः॥
————————————————————————————————————
विश्वास-प्रस्तुतिः
ऋतसत्यशीलः सोमसुत्सदा जुहुयात्।
मूलम्
ऋतसत्यशीलः सोमसुत्सदा जुहुयात्।
टीका
ऋतं वाङ्मनसयोः सत्यत्वम्। सत्यं वाच25 एव। ऋतसत्यस्वभावः सोमयाजी च यः क्षत्रियो वैश्यो वा स सदा जुहुयादग्निहोत्रं न पर्वणोरेव। ऋतशब्देनैव सत्यशब्दार्थे सिद्धे सत्यग्रहणं वाक्सत्यस्वभावस्यापि सर्वदा होमसिद्ध्यर्थम्।
विश्वास-प्रस्तुतिः
बहुषु बहूनामनुदेश आनन्तर्ययोगः।
मूलम्
बहुषु बहूनामनुदेश आनन्तर्ययोगः।
टीका
समानानामिति शेषः। अनेकेषु विहितेषु तानुद्दिश्यानेकेषां समानानामनुदेशे पश्चाद्विधाने सत्यानन्तर्ययोगः क्रमेण संबन्धः स्यादित्यर्थः।
विश्वास-प्रस्तुतिः
द्वे द्वे तु याज्यानुवाक्ये।
मूलम्
द्वे द्वे तु याज्यानुवाक्ये।
टीका
याज्यानुवाक्ययोर्देवताभिरेवाऽऽनन्तर्ययोगो भवति। एकस्या एकस्या देवताया द्वाभ्यां द्वाभ्यामृग्भ्यां नैकैकस्या एकैकयेति।
विश्वास-प्रस्तुतिः
अदृष्टादेशे नित्ये।
मूलम्
अदृष्टादेशे नित्ये।
टीका
यदि क्वचिदनेका देवता विधाय कस्याधिदेवतायास्तलिङ्गयोर्याज्यानुवाक्ययोविधिं न कुर्यात्तदा नित्ये ग्रहीतव्ये इत्येकोऽर्थः। अयमप्यपरोऽर्थः—गृहीत26त्वात्पुनस्ताभ्यां विहि ताभिश्च सह देवताभिरानन्तर्ययोग इति। आदेशो विधिरित्यर्थः। नित्ये उक्ते इत्यर्थः।
विश्वास-प्रस्तुतिः
अग्न्याधेयम्।
मूलम्
अग्न्याधेयम्।
टीका
अग्न्याधेयप्रभृतित्वं कर्मणामनुष्ठानस्योक्तम्। अनुष्ठानक्रमेणैव व्याख्यानमपीत्युक्तम्। तत्रोपोद्धाताद्दर्शपूर्णमासौ व्याख्यातौ। तत्प्रसङ्गादतिदेशः। तत्प्रसङ्गात्कालविधिः। तत्प्रसङ्गादेवाग्निहोत्रहोमप्रकारविधिः। परिभाषाप्रसङ्गात्कथंचिदानन्तर्ययोगविधिः। सूत्रत्रयेणैवं27 गते सति प्रथमप्राप्तमाधानमुच्यते। विशिष्टकाले विशिष्टदेशे विशिष्टपुरुषेण विशिष्टैर्मन्त्रैर्गार्हपत्याद्यात्न्युत्पत्त्यर्थं यदङ्गाराणां निधानं तदग्न्याधेयमुच्यते। अग्नीनामाधेयमग्न्याधेयं तत्कर्तव्यमित्यर्थः28।
कस्मिन्काल इत्याह —
कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः।
फल्गुनीष्विति पूर्वेउत्तरे च गृह्येते अविशेषाद्बहुवचनाच। प्रोष्ठपदे29 तूत्तरे एव। अतः सप्तैतानि नक्षत्राणि तेषामेकस्मिन्नक्षत्रेऽग्न्याधेयं कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
एतेषां कस्मिंश्चित्।
मूलम्
एतेषां कस्मिंश्चित्।
टीका
एतेषां कस्मिंश्चित्पर्वणि, एवमेतत्सूत्रमर्थतो द्रष्टव्यमुत्तरं च सूत्रं ‘वर्तन्ते30 ब्राह्मण आदधीत’ इति। एवं कृते सर्वमनुगुणं भवति। एतेषां नक्षत्राणां कस्मिंश्चिन्नक्षत्रे पर्वणि31चाग्न्याधेयं कर्तव्यमितीदं सूत्रं पर्वनक्षत्रतससुच्चय32मग्न्याधेयस्य कालत्वेन विदधाति। पूर्वसूत्रं तु केवलं नक्षत्राणामेवाऽऽधानसंबन्धं विदधाति। अतो द्वौ पक्षौ स्तः। समुच्चयस्तत्र प्रथमः कल्पः। तदसंभवे केवलं नक्षत्रमेवेति विनिवेशो युक्तः। इदं कल्पद्वयं सोमाधानवर्जितेषु सर्वेष्वाधानेषु भवति।
विश्वास-प्रस्तुतिः
वसन्ते पर्वणि ब्राह्मण आदधीत।
मूलम्
वसन्ते पर्वणि ब्राह्मण आदधीत।
टीका
इदमपि सूत्रमर्थत एवं भवति। अनेन वसन्ते ब्राह्मण33गुणकमाधानं विधीयते।
विश्वास-प्रस्तुतिः
ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपकृष्टाः।
मूलम्
ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपकृष्टाः।
टीका
वैश्यस्तक्षकर्मोपजीव्युपक्रुष्ट इत्युच्यते। अस्मिन्सूत्रे त्रीण्याधानानि विधीयन्ते। ग्रीष्मे क्षत्रियगुणकं वर्षासु वैश्यगुणकं शरद्युपकृष्टगुणकं च। एते वसन्तादयः शब्दा ऋतुवाचकाः। ऋतवो नाम षट्। वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराः। ते च चैत्रमासमारभ्य द्वौ द्वौ मासावृतवः। वसन्तादयो मासाश्चैत्रादय एव।
विश्वास-प्रस्तुतिः
यस्मिन्कस्मिंश्चिदृतावादधीत।
मूलम्
यस्मिन्कस्मिंश्चिदृतावादधीत।
टीका
आदधीतेतिप्रकृते पुनरादधीतेतिवचनमापत्कल्पोऽयमाधानविधिरिति दर्शयति। अत्या34पदि मुमूर्षोः सर्वेष्वृतृष्वाधानं कर्तव्यं नैवानाहिताग्निम्रियेतेति। इदं चापरमाधानं पूर्वोक्तानि च चत्वारि। तेषु सर्वेषु पर्वनक्षत्रविधय उपसंहर्तव्या न35पर्वर्तुस्वातन्त्र्येणाऽऽधानस्य कालविधयो भवेयुः। अत एव च सूत्रकारः पर्वनक्षत्रविधीनामृतुविधिभिः संबद्धानामेवाऽऽधानकालताप्रदर्शनार्थमेव ‘एतेषां कस्मिश्चित्36’ इति पर्वनक्षत्रसमुच्चयविधिपरेसूत्रे37 पठितव्यं पर्वशब्दमुत्तरसूत्राय पठितव्यमृतुशब्दं व्यतिषज्य पठितवान्। पर्वनक्षत्रविध्योर्ऋतुविध्युपसंहारे न्यायविरोधश्च नास्ति तत्रैव तयोरन्तभवदर्शनादिति।
विश्वास-प्रस्तुतिः
सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रम्।
मूलम्
सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रम्।
टीका
अद्यैव सोमेन यक्ष्य इति संकल्प्य य आधानमिच्छेत्स आधानस्य कालं ना38पेक्षेत सोमोपक्रमकाल एवाऽऽधीतेत्यर्थः। अयमपि मुख्य एवाऽऽधानकालः। ऋतुनक्षत्रनिरपेक्षवचनंपर्वणो39रपि प्रदर्शनार्थम्। अस्य मूलं यदहरेवैनमिति श्रुतिः सोमाधानस्य विधायिका न सोमस्य। तेन वसन्तसंबन्धित्वं सोमस्य न बाध्यत इष्ट्युत्तरकालता तु बाध्यते, सोमाधानयोरानन्तर्यविधानादिति।
विश्वास-प्रस्तुतिः
अश्वत्थाच्छमीगर्भादरणी आहरेदन40वेक्षमाणः।
मूलम्
अश्वत्थाच्छमीगर्भादरणी आहरेदन40वेक्षमाणः।
टीका
शम्या गर्भः शमीगर्भः। शमीगर्भादश्वत्थादरण्याहरणं कुर्यात्। तच्चाधानार्थम्। आहरणे कृतेऽध्वर्युणाऽरण्याहरणे क्रियमाणे तेन सह यजमानोऽप्यनेन मन्त्रेणाऽऽहरेत्। अनवेक्षमाणः पृष्ठतोऽन41वेक्षमाणः। अयं चापरोऽर्थः — कुर्यान्न कुर्यामिति नान्यदपेक्ष42माणः। अध्यवसिता*धान इत्यर्थः।
विश्वास-प्रस्तुतिः
यो अश्वत्थः शमीगर्भ आरुरोह त्वेसचा। तं त्वा हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेतिपूर्णाहुत्यन्तमग्न्याधेयम्।
मूलम्
यो अश्वत्थः शमीगर्भ आरुरोह त्वेसचा। तं त्वा हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेतिपूर्णाहुत्यन्तमग्न्याधेयम्।
टीका
पूर्णाहुतिरन्ते यस्य तत्पूर्णाहुत्यन्तम्। अग्न्याधेयं कर्तव्यमित्युक्तम्। तच्चाग्न्यावेयमरण्या-हरणादिपूर्णाहुत्यन्तं भवतीत्यर्थः। अस्य सूत्रस्य प्रयोजनं पूर्णाहुत्यन्त आहिताग्निव्रतप्राप्तिः। कथमिति चेत्। श्रुतावेवमाम्नातम् — ‘अग्नयः पुरुषार्थसाध्याः’ इति प्रस्तुत्य वसन्तेब्राह्मणोऽनीनादधीत’ इत्येवमादीनि वसन्तादिकालानि ब्राह्मणादिकर्तृकाणि कर्तृगा मिक्रियाफलयुक्तानि निरधिकाराण्याधानानि विधाय “ततोऽरणी आहरेत्। संभारान्संभरेत्। अग्न्यायतनानि कुर्यात्। केशश्मश्रु वपते। ब्राह्मौदनिकमौपासनिकं निदध्यात्। तस्मिन्ब्रह्मौदनं पचेत्। समिध आदध्यात्। आयतनेषु संभारान्निध्यात्। ब्राह्मौदनिकमरण्योः समारोप्य मथित्वा गार्हपत्यादीनादध्यात्। तत्र काश्चित्समिध आध्यात्। अग्निहोत्रं जुहुयात्। पूर्णाहुतिं जुहुयात्। तत आग्नेयमष्टाकपालं निर्वपेत्तदहरेव। तदहरादिसंवत्सरान्तानां कालानां कस्मिंश्चित्काले पवमानहवींषि निर्वपेत्। तत्तश्चान्यानि इवींषि’ इति।ततः43 ‘आहिताग्निः क्लिन्नं दारुनाभ्याध्यात्। नानृतं वदेत्’ इत्याद्याहितान्निव्रतानि। चाऽऽम्नातानि। तथाऽग्निमत्तायां सिद्धायामग्निहोत्रादीनि नित्यनैमित्तिककाम्यानि कर्माणि तत्र तत्राऽऽम्नातानि। तत्र कस्मिन्नवसर आहिताग्निव्रतप्राप्तिः कस्मिन्नवसरेऽग्निहोत्रादीनामारम्भ इति तद्विवेकार्थमिदं सूत्रद्वयम्। तत्र पूर्वेण सूत्रेण श्रुत्यादिभिः प्रकरणरहितैः पञ्चभिः प्रमाणैर्यावन्तः पदार्था आधानविधिना संबध्यन्ते तावत्सु समाप्तेष्वाधानसमाप्तिः। आधानसमाप्तौ चाऽऽहिताग्निव्रतप्राप्तिरित्येतत्प्रतिपादयितुं पूर्णाहुत्यन्त44मित्युक्तवानाचार्यः। उत्तरेण चाग्निहोत्राद्यारम्भकालं प्रतिपादितवान्।
————————————————————————————————————
* क—निश्चिताधानः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
यदि त्विष्टयस्तनुयुः।
मूलम्
यदि त्विष्टयस्तनुयुः।
टीका
अग्नीनेवेति वाक्यशेषः। यद्यनधिकारत्वादाधानविधेर्विनियोजकस्य प्रकरणस्य45 व्यापारासंभवादाधानाङ्गमिष्टयो न स्युः। इष्टीनां चानधिकारत्वादिष्ट्यङ्गमाधानं न स्यात्। तथाऽपि न कश्चिद्दोषः। अग्न्यर्थत्वेनैवोभयोरप्यनुष्ठानसिद्धेः। नन्विष्टीनामग्निसंबन्धाभावादग्न्यर्थता न संभवतीति चेत्। न। यदाहवनीये जुह्वतीत्येवमादिभिरग्निसंबन्धोऽस्ति। नन्वेष46 संबन्धः साधनत्वेन न दृश्यते। सत्यमेव न दृश्यते। तथाऽप्याहवनीयादिष्वग्निषु साध्यत्वबुद्धेरनुवर्तमानत्वादन्यस्य च साध्य47स्यानवगमाद्रात्रिसत्रन्यायेनाग्नय एवेष्टिभिः साध्या इत्येवमाश्रयितुंयुक्तमानर्थक्या48श्रयणादधिकारान्तरकल्पनाश्रयणाच्चेति49। अत आधानेनेष्टिभिश्चाग्निसिद्धिर्भवति50 न तयोरन्यतरेण51। तेन सिद्धमग्निहोत्रादीनामग्निसाध्यानामिष्टिभ्य उत्तरकाल एवाऽऽरम्भ इति। अस्मिन्नर्थ एवं सूत्रयोजना — यद्या52सामिष्टीनामाधानाङ्गता न स्यात्तथाऽप्याहवनीयाद्यग्निसंबन्धात्तानेवाग्नीनिष्टयस्तनुयुर्विस्तारयेयुः कुर्युः साधयेयुरित्यर्थः। तुशब्द53स्त्वासामाधानाद्विशेषं दर्शयति। आधानेऽग्नीनां साध्यत्वेन संवद्धानामेव साध्यत्वम्। इष्टिषु साधनत्वेन संबद्धानामपि कल्पनागौरवभयात्साध्यत्वमिति विशेषं गृह्णीमः। एवमा54धानेनेष्टिभिश्चाग्नय एवांशतः साध्या इति। अनधिकाराणां कथमनुष्ठानसिद्धिरिति न्यायविदमेष उपालम्भो नास्माकम्। अस्माकं55 तु साध्यसाधनसंबन्धेऽवगते तदर्थिनां* कर्तृत्वेनावगतानां ब्राह्मणादीनां कथं चिद+धिकारकल्पनाऽनुष्ठानसिद्धिः। अथ वाऽनधिकाराणामनन्यशेषाणामपि तत्सा56धनसाध्यरूपेणोपकारकत्वेन कामश्रुति× प्रयुक्त्यैवैवंविधानामनुष्ठानसिद्धिरित्यलमतिविस्तरेण।
विश्वास-प्रस्तुतिः
प्रथमायामग्निरग्निः पवमानः।
मूलम्
प्रथमायामग्निरग्निः पवमानः।
टीका
प्रथमायामिष्टौ द्वे देवते अग्निः प्रथमः केवलो द्वितीयः पवमानगुणकोऽग्निः। केवलस्याग्नेर्नित्ये एव।
विश्वास-प्रस्तुतिः
अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः।
मूलम्
अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः।
टीका
एते द्वितीयस्य पवमानगुणस्य।
————————————————————————————————————
*क- अग्न्यर्थिनाम्। +क–फलकल्पनया। ×क – अग्निसिद्धिकाम आधानं कुर्यादितिकामश्रुतिप्रयुक्तिः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
स हव्यवालमर्त्योऽग्निर्होता पुरोहित इति स्विष्टकृतःसंयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्।
मूलम्
स हव्यवालमर्त्योऽग्निर्होता पुरोहित इति स्विष्टकृतःसंयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्।
टीका
सौविष्टकृत्योर्याज्यानुवाक्ययोर्ऋचोरनेन संयाज्ये इतिसंज्ञा विधीयते।
विश्वास-प्रस्तुतिः
सर्वत्र देवतागमे नित्यानामपायः।
मूलम्
सर्वत्र देवतागमे नित्यानामपायः।
टीका
सर्वत्रेति प्रकरणान्तरेऽपीति दर्शयति — देवतागम इत्यत्र समास57निर्देशस्य तुल्यत्वाद्देवताया देवतयोदेवतानां58 वाऽऽगम इत्येवं भवति। नित्यानां प्राकृतीनामित्यर्थः। अपायः, उद्धार इत्यर्थः। एतदुक्तं भवति — विकृतौ देवताया एकस्या आगमे द्वयोर्बह्वीनां वाऽऽगमेऽपि प्राकृतीनां सर्वासामुद्धार इति। यस्यां पुनर्विकृताविष्टिचोदनां कृत्वा देवतां न विदधाति तत्र नोद्धारः प्राकृतीनाम्। तत्र ता एव देवता भवन्तीत्यर्थः। यथा59 गदितः ‘सोमेन पशुनेष्ट्या वा’ इत्यादौ।
विश्वास-प्रस्तुतिः
याःस्विष्टकृतमन्तराऽऽज्यभागौ च तास्तत्स्थाने।
मूलम्
याःस्विष्टकृतमन्तराऽऽज्यभागौ च तास्तत्स्थाने।
टीका
नित्यानामपाय उक्तः। तत्र किं सर्वा नित्या उद्धर्तव्या, उत का60चिद्देव61तेत्येत संशयं निवर्तयति। या आज्यभागौ स्विष्टकृतं62 चान्तरा देवता यष्टव्यास्ता उद्धर्तव्याः। याः पुनर्विकृतौ विहितास्तास्तत्स्थाने ‘उद्धृतानां प्राकृतीनां स्थाने भवन्ति’ इति वचनात्तद्धमिंकाश्च भवन्तीति गम्यते।
विश्वास-प्रस्तुतिः
एष समानजातिधर्मः।
मूलम्
एष समानजातिधर्मः।
विश्वास-प्रस्तुतिः
द्वितीयस्यां वृधन्वन्तौ। अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावक रोचिषाऽग्निः शुचिव्रततम उदग्ने शुचयस्तव।
मूलम्
द्वितीयस्यां वृधन्वन्तौ। अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावक रोचिषाऽग्निः शुचिव्रततम उदग्ने शुचयस्तव।
टीका
एकः पावकगुणकोऽग्निरपरः शुचिगुणकः।
साह्वान्विश्वा अभियुजोऽग्निमीले पुरोहितमिति संयाज्ये। तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे।
आवपत इतिवचनादधिके एते सामिधेन्यौ भवतः। प्रथमा65यां द्वितीयस्यां तृतीयस्यामितिवचनाद्यस्यामिष्टौ यत्तन्त्रं विहितं तस्यामेकदेवतायामपि तत्तन्त्रं भवति न यथोक्तनानादेवतायामेवेति।
विश्वास-प्रस्तुतिः
धाय्ये इत्युक्त एते प्रतीयात्पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति। अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि।
मूलम्
धाय्ये इत्युक्त एते प्रतीयात्पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति। अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि।
टीका
त्रयाणामेको गृह्यते।
विश्वास-प्रस्तुतिः
अदितिः।
मूलम्
अदितिः।
टीका
अदितिश्चान्या। अस्यां द्वे देवते।
विश्वास-प्रस्तुतिः
उत त्वामदिते महि महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम्।
मूलम्
उत त्वामदिते महि महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम्।
टीका
एषा कल्पना।
विश्वास-प्रस्तुतिः
प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः।
मूलम्
प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः।
टीका
इत्येतास्तिस्त्र इष्टयोऽनुक्रान्ता इत्यर्थः। उक्तानुकीर्तनमुत्तरार्थम्। यदाऽऽद्योत्तम वैव स्यातामाद्या वेति पक्षस्तदाऽपि तिसृणामिष्टीनां यावत्यो देवतास्ताः सर्वा यष्टव्या इत्येवमर्थम्। आद्योत्तमपक्षे मध्यमायां ये देवते ते आद्यायामेव प्रक्षेप्तव्ये। यदा पुनराद्यैव तदा सर्वा देवता आद्यायामेव प्रक्षेप्तव्या इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
अद्योत्तमे वैव स्याताम्।
मूलम्
अद्योत्तमे वैव स्याताम्।
टीका
इष्टी इति शेषः।
विश्वास-प्रस्तुतिः
आद्या वा।
मूलम्
आद्या वा।
टीका
आद्यैव वेष्टिर्भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
तथा सति तस्यामेव धाय्ये विराजौ।
मूलम्
तथा सति तस्यामेव धाय्ये विराजौ।
टीका
यदाऽऽद्यैव भवति तदा द्वितीयतृतीययोरपि देवतास्तत्र भवन्तीत्युक्तम्। अतस्तस्यामेव धाय्ये विराजौ भवतः। धाय्याविराजामनुप्रवेशस्य निमित्तं तृतीयस्या इष्टेर्देवतानुप्रवेश इत्येवमर्थंतथा सतीत्युक्तम्।
विश्वास-प्रस्तुतिः
इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात्।
मूलम्
इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात्।
टीका
पौर्णमासतन्त्रायामिष्टौ धाय्याविराणमात्रे विकारे सति सेष्टिर्वैराजतन्त्रेति वेदितव्या।
विश्वास-प्रस्तुतिः
आधानाद्द्वादशरात्रमजस्राः।
मूलम्
आधानाद्द्वादशरात्रमजस्राः।
टीका
अत्राऽऽधानमिष्टीश्चोक्त्वाऽऽधानादूर्ध्वं द्वादशरात्रमजस्राइत्युक्तं तस्यायमभिप्रायः—यावता कर्मसमुदायेनाग्नीनां सिद्धिर्भवति तावतः कर्मसमुदायस्याऽऽधानशब्दो वाचक इति ज्ञापयितुम्। तेनाग्न्याधेयं पुनराधेयं वेत्यत्र सेष्टिकस्याऽऽधानस्य ग्रहणं भवतीति सिद्धम्। आधानेनेष्टिभिश्च सिद्धा अग्नयो द्वादशाहोरात्राणि सर्वे स्वरूपेणैव धार्यन्ते। एतदजस्रधारणमग्निहोत्रपूर्व एवाऽऽधाने भवति, अग्निहोत्रस्यैवानन्तरमुच्यमानत्वात्। अनुष्ठानक्रमेणैव कर्मणां व्याख्यानमित्युक्तत्वाच्च। इष्टिपूर्व च सोमपूर्वे च शास्त्रान्तराण्यालोच्य विचारणीयम्। तत्रायं विचारः—इष्टिपूर्वेऽजस्त्रधारणं नास्ति, आपस्तम्बवचनात्। ‘अन्यमाहवनीयं प्रणीयाग्नीनन्वादधाति’ इतीष्ट्यर्थतयाऽन्यस्य प्रणयनस्य विधानात्। ‘अपवृज्य श्वो भूते पौर्णमासेन यजेत’ इत्यपवर्जनविधानाच्च। तथा सोमपूर्वेऽपि नास्ति। तस्माद्दीक्षितो द्वादशाहं * भृतिंतन्वीत +’ इति प्रकृतौ द्वादशदीक्षानियमादुपसद्भिः सुत्यया च सह षोडशाहानि प्रकृतेः कालः। अजस्रधारणं तु द्वाशाहपरिच्छिन्नम्। सोममध्ये विहरणस्य चासंभवः, दीक्षणीयासंस्कृतेष्वग्निषु सोमयागविधानात्। अत इष्टिपूर्वे सोमपूर्वे चाजस्रधारणं नास्तीति सिद्धम्। अग्निहोत्रपूर्वेऽपि यदाऽर्वागिष्टिकालाद्वादशाहानि न पूर्यन्ते तदा कथं तत्रैते पक्षा अजस्रेस्विष्टिकरणम्, इष्टिलोपः, यथासंभवमजस्रधारणम्, अजस्रलोप इति। तत्र यथासंभवमजस्रधारणमिति पक्षो दुरा66श्रयस्तथा विध्यभावात्। द्वादशाहकालविशिष्ट एवासौ विधिः श्रूयते नान्यकालविशिष्ट इति। तथेष्टिलोपपक्षोऽपि न संभवति। अग्निमत्तायां सिद्धायां पौर्णमासी67काल आगते तदनारम्भे प्रमाणाभावात्, अक्रियायां प्रायश्चित्तोपदेशाच्च। एवं चेदजस्त्रेष्वेव पौर्णमासो भवतु को दोषः। उक्तो दोषः × स्वार्थ एव प्रणीतेऽन्वाधानदर्शनादपवर्जनविधानाच्चेति। नन्वग्निहोत्रमपि स्वार्थ एव प्रणीत आहवनीये भवति, ‘अर्थायार्थायाग्निं प्रणयति’ इत्यस्यापि शिष्टत्वात्। सत्यमविशिष्टं तथाऽप्याधानानन्तरमजस्त्रधारणावधेः प्रवृत्तत्त्वात्तदवस्थेष्वेवाग्निष्वग्निहोत्राधिकारस्य प्राप्तस्य त्यामे प्रमाणाभावात्तेष्वेवाग्निहोत्रहोमो युक्तः। एतमेव न्यायमनुसृत्योक्तं भगवताऽऽपस्तम्बेन– ‘द्वादशाहमजस्रेष्वग्निषु यजमानः स्वयमग्निहोत्रं जुहुयात्’ इति। तथा प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रं जुहुयात्। एवमन्य68त्र विप्रक्रान्ते तन्त्र इत्यग्निहोत्रस्यान्यार्थेष्वपि प्रवृत्तिदर्शनान्नात्रायं दोष इति गम्यते। अतोऽग्निहोत्रस्यान्यार्थेष्वपि प्रवृत्तिदर्शनादाधानानन्तरमग्निहोत्रस्यानन्या÷र्थाहवनीयासंभवादजस्रेष्वे वाग्निहोत्रहोमो न विरुध्यते। पौर्णमास्याः पुनर्द्वादशाहोत्तरकालवर्तियाःस्वार्थाहवनीयसंभवादजस्रेष्वेतस्याः प्रवृत्तिर्विरुध्यते। अतोऽजस्रेविष्टिकरणमित्ययमपि पक्षो न संभवति। नन्वजस्रलोपपक्षेऽप्याधानात् ‘द्वादशरात्रमजस्राः’ इति नित्यवदाम्नानं69 विरुध्यते। न विरुध्यते। अस्य नित्यत्वासंभवात्। उक्तं हि ‘इष्टिपूर्वे सोमपूर्वे70 चाप्रवृत्तिकरणम्’ इति।
_______________________________________________________________
* क. – हिरण्यादिकाम्। + क. – याचेत। x क. – इष्ट्यर्थ° एव। ÷ क.– स्वार्थाहवनीयस्य नामाग्निहोत्रार्थाहवनीयस्य।
————————————————————————————————————
तस्माद71स्यविध्यन्तरानुपरोधेन प्रवृत्तिदर्शनादकरणे च प्रायश्चित्तानाम्नानादस्मिन्विपयेऽजस्रलोप एव श्रेयानिति वक्तुं युक्तम्।
विश्वास-प्रस्तुतिः
अत्यन्तं तु गतश्रियः॥ १॥
मूलम्
अत्यन्तं तु गतश्रियः॥ १॥
टीका
अत्यन्तं यावज्जीवमित्यर्थः। गतश्रियः ‘त्रयो वै गतश्रियः’ इति श्रुतावुक्ताः। गतश्रियामग्नयो यावज्जीवमजस्रा भवन्ति न द्वादशा72हमेवेति॥ १॥
उत्सर्गेऽपराह्णेगार्हपत्यं प्रज्वल्य दक्षिणाग्निमानीय बिट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत्।
उत्सर्गेऽजस्रोत्सर्गेऽग्निहोत्रोमार्थं विहरेन्राजस्त्रेषु। होमस्त्वजत्रेष्वपि भवतीत्युक्तम्। एवं स्थिते विहरणसहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्तवान्। अत्रापराह्नशब्देनाहश्चतुर्थभागो गृह्यते। विहरणकाले73 गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाग्निं वैश्यगृहादानयेत्। चतुर्णांवर्णानामन्यतमस्य74द्रव्यवतो वा गृहाद्गार्हपत्याद्वा। नित्यधार्यश्चेत्प्र75ज्वलयेत्। काले काले यदि निर्म76थ्यस्तदा मन्येत्। एषां प्रकाराणामुत्पत्तिवशाद्व्यवस्था। तेषामन्यतमप्रकारेण दक्षिणाग्निं साधयित्वा ततो गार्हपत्याज्ज्वलन्तमग्निमाहवनीयार्थमुद्धरेत्। पात्रान्तरेण पृथक्कुर्थादित्यर्थः।
विश्वास-प्रस्तुतिः
देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत्।
मूलम्
देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत्।
टीका
अनेन मन्त्रेणाग्निहोत्रार्थमुद्धरेत्। पूर्वस्योद्धरेदितिवचनस्येदं प्रयोजनं गार्हपत्यं प्रज्व ल्येत्यादेराहवनीयं ज्वलन्तमुद्धरेदित्यन्तस्य मन्त्रवर्जितोद्धरणप्रकारस्य सर्वार्थत्वज्ञापनम्। एवं सर्वार्थमुद्धरणं विदधतैतत्साधितं भवति। येनाग्निना यत्र प्रयोजनं तत्र तस्योद्धरणं कर्तव्यमिति। शास्त्रान्तरे स्पष्टं वचनमस्ति ‘अर्थायार्थायाग्निं प्रणयति’ इति। उद्धरणमन्त्रोऽयमग्निहोत्र एव नान्यत्रेति सिद्धम्।
उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार। अह्ना यदेनः कृतमस्ति किंचित्सर्वस्मान्मोध्दृतः पाहि तस्मादिति प्रणयेत्।
प्रणयेत्प्राङ्नयेदग्निमाहवनीयं प्रत्यनेन मन्त्रेण।
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ। तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्नावग्निः स्वाहेति निदध्यादादित्यमभिमुखः।
आदित्याभिमुखो भूत्वाऽनेन मन्त्रेणाऽऽहवनीयायतनेऽग्निं निदध्यादित्यर्थः।
विश्वास-प्रस्तुतिः
एवं प्रातर्व्युष्टायां तमेवाभिमुखः।
मूलम्
एवं प्रातर्व्युष्टायां तमेवाभिमुखः।
टीका
एवमेव प्रातर्होमार्थमप्यादित आरभ्यनिधानान्तं कुर्यात्। तमेवा77भिमुखो निर्धायमानाहवनीयाभिमुख इत्यर्थः। एवं सति प्रातःकाल आहवनीयायतनात्पश्चात्स्थितेन निधानं भवति। सायं तु पुरस्तात्स्थितेन व्युष्टायामुपस्युदितायामादित्योदयात्प्राक्।
विश्वास-प्रस्तुतिः
रात्र्या पदेन इति तु प्रणयेत्।
मूलम्
रात्र्या पदेन इति तु प्रणयेत्।
टीका
प्रणयनमन्त्रेऽह्नायदेन इत्यस्य स्थाने राज्या यदेन इति कर्तव्यं प्रातःकाले।
विश्वास-प्रस्तुतिः
अत ऊर्ध्वमाहिताग्निर्व्रतचार्या होमात्।
मूलम्
अत ऊर्ध्वमाहिताग्निर्व्रतचार्या होमात्।
टीका
सत्रिधर्माश्चातुर्मास्यव्रतानि चात्र व्रतशब्देनोच्यन्ते। विहरणादूर्ध्व78मग्निहोत्रहोमप्रयोगसमाप्तेर्व्रतचारी भवत्याहिताग्निः।
विश्वास-प्रस्तुतिः
अनुदित होमी चोदयात्।
मूलम्
अनुदित होमी चोदयात्।
टीका
अनुदितहोमी चेत्समाप्तेऽपि प्रयोग ओदयादूव्रतचारी भवेत्।
विश्वास-प्रस्तुतिः
अस्तमिते होमः।
मूलम्
अस्तमिते होमः।
टीका
कर्तव्यः। अङ्गान्यपि प्रधानकाल एव कर्तव्यानि। यत्पुनरङ्गं विहरणवत्स्वकालविशिष्टंतत्स्वकाल एव कर्तव्यम्।
विश्वास-प्रस्तुतिः
नित्यमाचमनम्।
मूलम्
नित्यमाचमनम्।
टीका
उक्तं प्राङ्मुखस्याऽऽचमनं यत्पुरस्तात्तदिदानीं कर्तव्यमस्याङ्गत्वाय।
ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्रिस्त्रिरेकैकं पुनः पुनरुदकमादाय।
पर्युक्षणमन्त्रोऽपि जपित्वा पर्युक्षेदिति पृथक्क्रियते पर्युक्षणातिदिष्टे परिसमूहने मन्त्रो मा भूदिति। त्रिरेकैकमित्येतावतैवैकैकस्याग्नेस्त्रिस्त्रिः पर्युक्षणे सिद्धे त्रिस्त्रिरितिवीप्सावचनं मन्त्रस्यापि त्रिरावृत्तिर्भवत्वित्येवमर्थम्। पुनःपुनरुदकमादायेतिवचनं न सकृद्गृहीतेन त्रिः पर्युक्षेदित्येवमर्थम्।
विश्वास-प्रस्तुतिः
आनन्तर्ये विकल्पः।
मूलम्
आनन्तर्ये विकल्पः।
टीका
अग्नीनां पर्युक्षणादिषु कर्तव्येषु केनाऽऽनन्तर्येण कर्तव्या इत्यानन्तर्यविशेषे ज्ञातव्येऽनेन सूत्रेणाग्नीनामुत्पत्तिक्रमस्य होमक्रमस्य च विकल्पो विधीयते।
दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्नीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्रआहवनीयस्तस्मादेवं पर्युक्षेत्।
पर्युक्षेत्। पर्युक्षणेऽयमेव क्रमो दक्षिणाग्निं गार्हपत्यमाहवनीयमिति। तत्र श्रुतिमेव हेतुमुपन्यस्य तस्मादेवं पर्युक्षेदित्युपसंहृतम्। तेन पर्युक्षणातिदिष्टे परिसमूहनेऽयमेव क्रमः अन्यत्र पूर्वोक्तो विकल्पः। अत्र विनिवेशःप्रधानात्पूर्वेषामुत्पत्तिक्रमः, परेषां प्रधानक्रम इति।
विश्वास-प्रस्तुतिः
गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन्राजसो भानुमन्विहीत्याहवनीयात्।
मूलम्
गार्हपत्यादविच्छिन्नामुदकधारां हरेत्तन्तुं तन्वन्राजसो भानुमन्विहीत्याहवनीयात्।
टीका
अयमाकारो मर्यादायामग्न्युपवातविरोधात्।
विश्वास-प्रस्तुतिः
पश्चाद्गार्हपत्यस्योपविश्योदगङ्गारानपोहेत्सुहुतकृतः स्थ सुहुतं करिष्यथेति।
मूलम्
पश्चाद्गार्हपत्यस्योपविश्योदगङ्गारानपोहेत्सुहुतकृतः स्थ सुहुतं करिष्यथेति।
टीका
पश्चाद्गार्हपत्यस्य तूष्णीमेव दक्षिणोत्तरिणोपस्थेनोपविश्य गार्हपत्यात्कतिपयानङ्गारा79नुदक्पृक्कुर्यादधिश्रयणा80र्थम्।
** तेष्वग्निहोत्रमधिश्रयेदधिश्रि * तमध्यधिश्रितमधिश्रितं हिङ्इति।**
तेष्विति। पृथक्कृतेष्वङ्गारेष्वित्यर्थः। अग्निहोत्रमिति होमसाधनभूतं द्रव्यमुपचर्यते।
विश्वास-प्रस्तुतिः
इलायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व।ये ग्राम्याःपशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा।
मूलम्
इलायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व।ये ग्राम्याःपशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा।
टीका
अनेन वा मन्त्रेणाधिश्रयेत्पूर्वेण वेति विकल्पविधिः।
विश्वास-प्रस्तुतिः
न दध्यधिश्रयेदधिश्रयेदित्येके॥ २॥
मूलम्
न दध्यधिश्रयेदधिश्रयेदित्येके॥ २॥
टीका
अधिश्रयन्न वेत्येतावतैव सिद्धे गुरुसूत्रकरणं न्यायविकल्पोऽयमिति प्रदर्शनार्थम्। अत्रैक आचार्याःप्रवृत्तिपरत्वाच्छास्त्रस्य कार्यस्य चातीन्द्रियत्वादलोपमाहुः। आचार्यस्तु कार्यार्थत्वात्प्रवृत्तेः कार्यस्य च दृष्टस्य त्यागे प्रमाणाभावात्तदत्यागे संस्कार्यस्वरूपविनाशात्संस्कार्यसं81पादकत्वात्संस्कारस्य लोप एवात्र श्रेयानित्याह॥ २॥
विश्वास-प्रस्तुतिः
पयसा नित्यहोमः॥
मूलम्
पयसा नित्यहोमः॥
टीका
नित्यश्चासौ होमश्च नित्यहोमः स पयसा कर्तव्यः। अकामस्याग्निहोत्रहोमः पयसा कर्तव्य इत्यर्थः। कामानुपदेशादेवास्य नित्यत्वे सिद्धे नित्यग्रहणमुत्तरार्थम्।
विश्वास-प्रस्तुतिः
यवागूरोदनो दधि सर्पिर्ग्रामकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम्।
मूलम्
यवागूरोदनो दधि सर्पिर्ग्रामकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम्।
टीका
यथासंख्येन ग्रामकामादीनां यवाग्वादीन्यग्निहोत्र82होमद्रव्याणि भवन्ति।ग्राम83कामः प्रसिद्धः। अन्नं च तदाद्यं चान्नाद्यम्।स्वाद्यान्नकाम इत्यर्थः। इन्द्रियं शुक्रं चक्षुरादीनि
_________________________________________________________________
* घ. प्रथमः कल्पः समर्थः।
————————————————————————————————————
वा। तेजश्छविः। नित्यहोम इत्यत्रापि संबध्यते। तेन पुरुषार्थैरपि क्रियमाणो होमो नित्य एव स्यान्न कामार्थः। होमाश्रितानि द्रव्याण्येव कामाश्रितानि भवन्तीति।
विश्वास-प्रस्तुतिः
अधिश्रितमवज्वलयेत्।
मूलम्
अधिश्रितमवज्वलयेत्।
टीका
अधिश्रितग्रहणादधिश्रितमात्र एवावज्वलयेन्न कालविक्षेपः कर्तव्य इत्यवगम्यते।
विश्वास-प्रस्तुतिः
अनधिश्रयं दध्यग्निष्टे तेजो मा हार्षीरिति।
मूलम्
अनधिश्रयं दध्यग्निष्टे तेजो मा हार्षीरिति।
टीका
नाधिश्रयो यस्य तदनधिश्रयम्। अधिश्रयरहितमपि दध्यवज्वलयेदित्यर्थः। सर्वत्रावज्वलनमन्त्रोऽयम् ‘अग्निष्टे तेजः’ इति। दधिचेत्येतावतैव सिद्धे गुरुसूत्रकरणं84 व्रीह्यादीनामपक्वानां संग्रहार्थम्।
सुवेण प्रतिषिञ्च्यान्न*वा शान्तिरस्यमृतमसीति।
पयसा होमे दोहनपात्रप्रक्षालनं स्रुव आनीय तेन प्रतिषिञ्चेत्। अग्निहोत्रद्रव्यमन्यत्रोदुकेनैव शान्तिरिति मन्त्रेण। न वा प्रतिषेकः कर्तव्यः।
विश्वास-प्रस्तुतिः
तयोरव्यतिचारः।
मूलम्
तयोरव्यतिचारः।
टीका
तयोः प्रतिषेकाप्रतिषेकयोरित्यर्थः। अव्यतिचारोऽ+संकरः। एकस्मिन्पुरुष इत्यर्थः। एकः सर्वदा प्रतिषिञ्चेदपरः सर्वदा न प्रतिषिञ्चेदित्यर्थः।
विश्वास-प्रस्तुतिः
पुनर्ज्वलता परिहरेत्त्रिरन्तरितं रक्षोऽन्तरिता अरातय इति।
मूलम्
पुनर्ज्वलता परिहरेत्त्रिरन्तरितं रक्षोऽन्तरिता अरातय इति।
टीका
पुनर्वचना85ज्ज्वलता येनोल्मुकेनावज्वलनं कृतं तेनैव परिहरणं कुर्यादिति गम्यते। उल्मुकादानं गार्हपत्यादेव न श्रपणार्थात्86। श्रपणार्थं पृथक्कृतस्य पुनः प्रक्षेप87विधानात्। अन्यत्र कार्यार्थंपृथक्कृतस्य कार्यपरिसमाप्तौ त्याग एवं कर्तव्यः। तेनावज्वलनार्थंपृथक्कृतमवज्वलने कृते पृथगेव निधाय तेनैव परिहरणमपि कृत्वा त्यजेत्।
विश्वास-प्रस्तुतिः
समुदन्तं कर्षन्निवोद88गुद्वासयेद्दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदधत्।
मूलम्
समुदन्तं कर्षन्निवोद88गुद्वासयेद्दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदधत्।
टीका
सम्य89गृद्गतोऽन्तो यस्य द्रव्यस्य तत्समुदन्तं द्रव्यम्90। परितः स्थालीसं91बद्धप्रदेशोऽन्ह इत्युच्यते। यदा पच्यमानं पय एवमवस्थं भवेत्तदा कर्षन्निवोदगुद्वासयेत्। कर्षन्निवेति मन्दगत्येत्यर्थः। निदधदिति। त्रिभिर्मन्त्रैस्त्रिर्निधानं कुर्वन्नवतारयेत्। प्रथमद्वितीयाभ्यामाकाशे धृत्वा तृतीयेन भूम्यां निदध्यात्।
—————————————————————————————————————————————
*घ. सद्यस्काला पौर्णमासी व्यहकाला वा रूपं कालोऽनुनिर्वापो देवताश्रपणं तथा। आदौये विधृताः पक्षास्त एव स्युः सदैव हि। + अत्र प्रथमारम्भे यः पक्षः स एव। न सर्वदा तुल्पविकल्पः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
सुहुतकृतः स्थ सुहुतमकार्ष्टेत्यङ्गारानतिसृज्य
स्रुक्स्रुवं प्रतितपेत्प्रत्युष्टं रक्षः प्रत्युष्टा
अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति।
मूलम्
सुहुतकृतः स्थ सुहुतमकार्ष्टेत्यङ्गारानतिसृज्य
स्रुक्स्रुवं प्रतितपेत्प्रत्युष्टं रक्षः प्रत्युष्टा
अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति।
टीका
अतिसर्गोऽङ्गाराणां गार्हपत्ये प्रक्षेपः।
विश्वास-प्रस्तुतिः
उत्तरतः स्थाल्याः स्रुच92मासाद्योमुन्नयानीत्यतिसर्जयीत।
मूलम्
उत्तरतः स्थाल्याः स्रुच92मासाद्योमुन्नयानीत्यतिसर्जयीत।
टीका
स्थाल्या उत्तरतः स्रुच93मासाद्य स्रुवहस्त एव सन्नोमुन्नयानीत्यनेन मन्त्रेणाऽऽहिताग्निमतिसर्जयेत्।
विश्वास-प्रस्तुतिः
आहिताग्निराचम्यापरेण वेदिमतिव्रज्यदक्षिणत उपविश्यैतच्छ्रुत्वोमुन्नयेत्यतिसृजेत्।
मूलम्
आहिताग्निराचम्यापरेण वेदिमतिव्रज्यदक्षिणत उपविश्यैतच्छ्रुत्वोमुन्नयेत्यतिसृजेत्।
टीका
** ** विहरणकाल एवाऽऽहिताग्निश्चाध्वर्युःपत्नी च स्नात्वाऽऽचम्य तीर्थेन प्रविशन्ति। तत्राध्वर्युर्विहरणं कृत्वा होमकाले प्राप्ते निष्क्रम्य प्राङ्मुख उदङ्मुखो वाऽऽचम्य तीर्थेनैव प्रविश्य पर्युक्षणादि कुर्यात्। पत्नी तु गार्हपत्यस्य दक्षिणत आस्त आहोमपरिसमाप्तेः। आहिताग्निश्चाऽऽहवनीयविहरणकाले दक्षिणत उपविश्योद्धराऽऽहवनीयभित्यध्वर्युं संप्रैषमुक्त्वाऽऽस्ते। ततो होमकाले प्राप्ते निष्क्रम्य प्राङ्मुख उदङ्मुखो वाऽऽचम्य तीर्थेनैव प्र94पद्यापरेण वेदिदेशं पूर्वेण गार्हपत्यं दक्षिणाग्निं च गत्वा वेदेर्दक्षिणत उपविशेत्। उपविष्टः सन्नेतदतिसर्जनवाक्यं श्रुत्वोमुन्नयेत्यतिसृजेत्।
विश्वास-प्रस्तुतिः
अतिसृष्टो भूरिला भुव इला स्वरिला वृध इलेति स्रुवपूरमुन्नयेत्।
मूलम्
अतिसृष्टो भूरिला भुव इला स्वरिला वृध इलेति स्रुवपूरमुन्नयेत्।
टीका
अतिसृष्ट इतिवचनं प्रवसति यजमाने स्वेनैवातिसृष्ट उन्नयेन्नानतिसृष्ट इत्येवमर्थम्। चत्वार एते मन्त्राः सम95त्वात्संसर्गाणामतश्चतुष्कृत्व उन्नयेत्। स्रुवपूरमिति णमुल्यत्यययोगाच्च।अग्रि96यमग्रियमित्युन्नयनभेददर्शनाच्च। स्रुवपूरमिति। स्रुवं पूरयित्वा पूरियित्वेत्यर्थः। अत्र पञ्चममन्त्रस्याभावात्पञ्चावत्तिनां तूष्णीमेव पञ्चममुन्नीयते पुरुषविशेषधर्मत्वादवदानविशेषसंबन्धस्य।
विश्वास-प्रस्तुतिः
अग्रि97यमग्रियं पूर्णतमं योऽनु ज्येष्ठमृद्धिमिच्छेत्पुत्राणाम्।
मूलम्
अग्रि97यमग्रियं पूर्णतमं योऽनु ज्येष्ठमृद्धिमिच्छेत्पुत्राणाम्।
टीका
यो यजमानः पूर्वजातानुसारेणाऽऽत्मनः पुत्राणामृद्धितारतम्यमिच्छेत्तस्य पूर्वःपूर्वः पूर्णतमो भवेत्। अनेकपुत्रस्यायं काम्यः कल्पो न चतुष्पुत्रस्यैव।
विश्वास-प्रस्तुतिः
योऽस्य पुत्रःप्रियःस्यात्तं प्रति पूर्णमुन्नयेत्98।
मूलम्
योऽस्य पुत्रःप्रियःस्यात्तं प्रति पूर्णमुन्नयेत्98।
टीका
प्राकृतानामेव पञ्चानां चतुर्णांवैकं स्रुवं प्रियं पुत्रं ध्यात्वा पूर्णमुन्नयेत्। अयमपि काम्यः। अयमेकपुत्रस्यापि भवति।
स्थालीमभिमृश्य समिधं स्रुचं चाध्यधि गार्हपत्यंहृत्वा प्राणसंमितामाहवनीयसमीपे कुशेषूपसाद्य जान्वाच्य समिधमादध्याद्रजतां त्वाग्निज्योतिषं रात्रिमिष्टकामुपदधे स्वाहेति।
स्थाल्याः स्रुवेण स्रुच्युन्नयनं कृत्वा स्थालीमभिमृश्य स्रुचा सह समिधं च गृहीत्वाऽध्यधि गार्हपत्यं गार्हपत्यस्योपरि समीपं हृत्वाऽऽहवनीयस्य99 नेदीयसि नासिकासंमितां हरेत्। हृत्वा तस्य पश्चाददूरे कुशेषूपसाद्य दक्षिणं जानु निपात्य तां समिधमादध्याद्रजतामिति मन्त्रेण।
** समिधमाधाय विद्युदसि विद्य मे पाप्मानमग्नौ श्रद्धेत्यप उपस्पृश्य प्रदीप्तां द्व्यङ्गुलमात्रेऽभिजुहुयाद्भूर्भुवः स्वरोमग्निर्जोतिर्ज्योतिरग्निः स्वाहेति।**
समिधमाधायेत्युच्यते समिदाधानधर्मस्य जानुनिपातनस्यानुवृत्त्यर्थम्। समिधमाधायेत्यनेनैव समिद्ग्रहणेन पूर्वसूत्र आदध्यादित्येवोक्तेऽपि समिध एवाऽऽधाने सिद्धे यत्पूर्वसूत्रे समिद्ग्रहणं करोति तज्ज्ञापयति यत्र यत्र समिधमादध्यात्तत्र तत्र जान्वाच्याऽऽध्यादिति। विद्युसीत्यप उपस्पृश्य प्रदीप्तां समिधं मूलतो द्व्यङ्गुलमात्रेऽभिजुहुयात्। ‘भूर्भुवः स्वरोम्’ इतिमन्त्रेण।
** पूर्वामाहुतिं हुत्वा कुशेषु सादयित्वा + गार्हपत्यमवेक्षेत पशून्मे यच्छेति।**
हुत्वेतिवचनं निपातितजानुरेवोत्तरमपि कुर्यादित्येवमर्थम्। पूर्वामितिवचनं पूर्वाहुत्युत्तरकालीनं स्रुचं सादयित्वैव कुर्यात्, उत्तराहुत्युत्तरकालीनं स्रुग्घस्त एव कुर्यादित्येवमर्थम्।
विश्वास-प्रस्तुतिः
अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा।
मूलम्
अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा।
टीका
अथेत्यानन्तर्यवचनेन पूर्वीहुत्योत्तराहुतेः संबन्धः क्रियते। तेन जान्वाच्येत्यस्यानुवृत्तिर्लभ्यते। प्राधान्यं चोत्तराहुतेः। अतः पूर्वाहुतौ हुतायां द्रव्यदोषे सत्युत्तराहुत्यर्थं द्रव्यमुत्पादयितव्यमेव। भूयसीं पूर्वाहुतेर्भूयोद्रव्याम्। असंसृष्टां पूर्वयाऽऽहुत्या। प्रागुदक्पूर्वाहुतेरुत्तर100तो वा तस्याएव।
_________________________________________________________________
- घ.–स्रुच्यमावारपथमभिजुहुयादिति द्वैधव्याख्याने सुबोधिन्यां – प्रधानहवींषि स्रुच्याघारपथस्योपरि जुहुयादिति। अथैनत्सँस्रावेणाभिजुहोतीति सूत्रव्याख्यावसरे ऽप्येनदनुप्रहृतं मेक्षणमाभि मेक्षणस्योपरि संस्रावेण स्विष्टकृद्धोमानन्तरमित्यादि। अभिहोम उपरिहोम इति प्रायश्चित्तप्रश्ने रुद्रदत्तः।२ च. द्रव्यम्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
प्रजापतिं मनसा ध्यायात्तूष्णींहोमेषु सर्वत्र।
मूलम्
प्रजापतिं मनसा ध्यायात्तूष्णींहोमेषु सर्वत्र।
टीका
यत्र तु तूष्णींशब्दविशिष्टो होमश्चो101द्यते तत्र प्रजापतिदेवतां ध्यायेद्देवतासाध्यत्वाद्धोमस्य। ध्यानत्वादेव मानसत्वे सिद्धे मनोग्रहणं शब्दध्यानार्थम्। तेन चतुर्थ्यन्तं प्रजापतिशब्दं ध्यात्वा तदनन्तरं स्वाहेत्युपांशूक्त्वा जुहुयात्। होमेष्विति बहुवचनादेव प्रकरणादुत्कर्षे सिद्धे सर्वत्रग्रहणं102 गाह्येष्वपि प्रापणार्थम्।
भूयिष्ठं स्रुचि शिष्ट्वा त्रिरनुप्रकम्प्यावमृज्य कुशमूलेषु निमार्ष्टि पशुभ्यस्त्वेति।
उत्तराहुते103र्भूयिष्ठं भूयोद्रव्यं पूर्वाहुतेर्भूयिष्ठं यथा भवति। तथा भक्षार्थंस्रुचि शेषयेत्। पूर्वाहुत्यर्थं प्रक्षिप्ताद्रव्यादुत्तराहुत्यर्थं भूयो भवति। तस्मादपि भूयो भक्षार्थं भवति। तत्पूर्वाहुत्यपेक्षया भूयिष्ठमित्युच्यते। भूयिष्ठं द्रव्यं स्रुचि शेषयित्वा स्रुचमेवाऽऽहुतिदेशस्थां प्रकम्पयेत्। ततः स्रुग्गतलेपं पाणिनाऽधोमुखेनावमृज्य पाणिगतं लेपं कुशमूलेषु निर्माष्टिं निमृजेत्पशुम्यस्त्वेति।
तेषां दक्षिणत उत्ताना अङ्गुलीःकरोति प्राचीनावीती तूष्णीं स्वधा पितृभ्य इति वा।
तेषां कुशमूलानां दक्षिणत उत्ताना अङ्गुलीनिंदध्यात्। प्राचीनावीती भूत्वा ‘स्वधा पितृभ्यः’ इति मन्त्रेण तूष्णीं वा।
विश्वास-प्रस्तुतिः
अपोऽवनिनीय।
मूलम्
अपोऽवनिनीय।
टीका
एतावदेव सूत्रम्।अपश्च कुशमूलानां दक्षिणतो निनयेदवाचीनेन पाणिना। एतावत्स्रुग्घस्त एवं करोति। एवं वा तेषां दक्षिणत उत्ताना अङ्गुलीःकरोति प्राचीनावीती तूष्णीं स्वधा पितृभ्य इति वाऽपोऽवनिनीय।
विश्वास-प्रस्तुतिः
वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उपस्पृश्य।
मूलम्
वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उपस्पृश्य।
टीका
इदमपि सूत्रमेतावदेव। निधाय स्रुचमप उपस्पृशेत्।
विश्वास-प्रस्तुतिः
आहिताग्निरनुमन्त्रयेत।
मूलम्
आहिताग्निरनुमन्त्रयेत।
टीका
अधिकारोऽयम्।
आधानमुक्त्वा तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुघासीदेति समिधम्।
समिदाधानमन्त्रेण तेन ऋषिणेत्यनेन मन्त्रेण च समिधमाधीयमानामनुमन्त्रयते।
विश्वास-प्रस्तुतिः
ता अस्य सूद दोहस इति पूर्वामाहुतिम्।
मूलम्
ता अस्य सूद दोहस इति पूर्वामाहुतिम्।
टीका
एतयर्चा पूर्वामाहुतिमनुमन्त्रयते।
विश्वास-प्रस्तुतिः
उपोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वःसुप्रजाःप्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः।
मूलम्
उपोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वःसुप्रजाःप्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः।
टीका
** ** इतिकाराध्याहारेण सूत्रच्छेदः। उत्तराहुतेर्हूयमानाया देशतः कालतश्च समीपे स्थित्वा कटाक्षेणेक्षमाणस्तामेवाऽऽहुतिमनुमन्त्रयते। काङ्क्षेतशब्दःकटाक्षवचनः। केचिदुत्तरामाहुतिमीक्षमाणोऽनुमन्त्रयते तन्मन्त्राभिहितान्कामान्। काङ्क्षेत चेति वर्णयन्ति।
विश्वास-प्रस्तुतिः
आग्नेयीभिश्च।
मूलम्
आग्नेयीभिश्च।
टीका
याभिः काभिश्च त्र्यवराभिराग्नेयीभिरुत्तरामेवाऽऽहुतिमनुमन्त्रयते।
अग्न आयूंषि पवस इति तिसृभिः॥ ३॥
—— ——
संवत्सरे संवत्सरे।
पूर्णे पूर्णे संवत्सर एताभिरधिकाभिः सकृदनुमन्त्र104येत।
विश्वास-प्रस्तुतिः
यवाग्वा पयसा वा स्वयं पर्वणि जुहुयात्।
मूलम्
यवाग्वा पयसा वा स्वयं पर्वणि जुहुयात्।
टीका
यवाग्वा पयसा वा स्वयं पर्वणि पौर्णमास्याममावास्यायां105वा सायं प्रातर्यजमानः स्वयमेवाग्निहोत्रं जुहुयात्। अस्मिन्सूत्रे पर्वणि द्रव्यनियमः स्वयंकर्तृ106नियमश्च विधीयते। स्वयंहोमे समिधमनुमन्त्र्य ‘विद्युदसि’ इति पूर्वामाहुतिमनुमन्त्र्य ‘पशून्मे यच्छ’ इत्युत्तरामाहुतिमनुमन्त्र्य वृष्टिरसिइत्येवं क्रमो भवति। यत्किंचिदग्निहोत्रद्रव्यं काम्यं वैकल्पिकं वा प्रयुज्यते तत्सायमुपक्रम्य प्रातरपवर्गं प्रयुज्यते नान्यथेति। प्रतिनिधिस्त्वेकप्रयो गपर्यवसाय्येव।
विश्वास-प्रस्तुतिः
ऋत्विजामेक इतरं कालम्।
मूलम्
ऋत्विजामेक इतरं कालम्।
टीका
ऋत्विजां मध्य एकः कश्चिदृत्विगितरस्मिन्कालेऽग्निहोत्रं जुहुयात्।
विश्वास-प्रस्तुतिः
अन्तेवासी वा।
मूलम्
अन्तेवासी वा।
टीका
इतरस्मिन्कालेऽग्निहोत्रं जुहुयादिति शेषः। अन्ते समीपे वसतीत्यन्तेवासी। स पुनः पुत्रः शिष्यो वा। अत्र किंचिदुच्यते - ऋत्विजत्रिविधा देवभूताः पितृभूता मनुष्यभूता इति। ये कर्मणि कर्मणि व्रियन्ते ते देवभूताः। येऽन्वयागता ऋत्विजस्ते पितृभूताः। ये त्वेकस्य पुरुषस्य सर्वाणि कर्माणि कर्तुं व्रियन्ते ते मनुष्यभूताः। तत्र यस्याऽऽहिताग्नेः पितृभूता मनुष्यभूता वा ऋत्विजः सन्ति तेषामृत्विजामेकः कश्चित्पर्ववर्जितेषु कालेषु जुहुयात्। यस्य सु देवभूतास्तस्यान्तेवास्येवेति107निवेशः।
विश्वास-प्रस्तुतिः
स्पृष्ट्वोदकमुदङ्ङावृत्त्य भक्षयेत्।
मूलम्
स्पृष्ट्वोदकमुदङ्ङावृत्त्य भक्षयेत्।
टीका
उक्तमेवोद108कोपस्पर्शनं कृत्वोदगावृत्त्य स्रुग्गतं शेषं भक्षयेत्। उक्तसंकीर्तनमाहिताग्न्यधिकार सत्यपि होमकर्तृप्रापणार्थम्।
विश्वास-प्रस्तुतिः
अपरयोर्वा हुत्वा।
मूलम्
अपरयोर्वा हुत्वा।
टीका
भक्षयेदिति शेषः।
आयुषे त्वा प्राश्नामीति प्रथमम्।अन्नाद्याय त्वेत्युत्तरम्।
प्रथममुत्तरमिति भक्षयोः संबन्धकरणार्थम्। तेनोत्तरस्यापि मन्त्रस्य प्राश्नाम्यन्तता भवति।
तूष्णीं समिधमाधायाग्नये गृहपतये स्वाहेति गार्हपत्ये।
जुहुयादित्यध्याहारः। तृष्णींग्रहणमाहवनीये109 समिदाधाने होमे च ये धर्मा जानुनि पातनं प्रदीप्ताभिहोमो द्व्यङ्गु110लमात्राभिहोमश्च तेषां प्राप्तिसूचनार्थम्।
विश्वास-प्रस्तुतिः
नित्योत्तरा।
मूलम्
नित्योत्तरा।
टीका
उत्तराहु111तिं तूष्णीं भूयसीमित्येवमुक्तेत्यर्थः।
तूष्णीं समिधमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे। *अग्नयेऽनादायानपतये स्वाहेति वा।
मन्त्रविकल्पोऽयम्।
विश्वास-प्रस्तुतिः
नित्योत्तरा।
मूलम्
नित्योत्तरा।
टीका
गतार्थमेतत्।
भक्षयित्वाऽभ्यात्ममपः स्रुचा निनयते त्रिः सर्पदेवजनेभ्यः स्वाहेति।
भक्षयित्वेतिवचनं भक्षणानन्तरमेव निनयनमपि स्यादित्येवमर्थम्। अभ्यात्ममपः स्रुचानिनयते112 त्रिः। असंस्कारकर्मत्वान्मन्त्रोऽपि त्रिरावर्तते।
अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाःप्रागुदीच्योर्निनयेद्दतुभ्यःस्वाहा दिग्भ्यःस्वाहा सप्तऋषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति।
अथेत्यभ्यात्मनिनयनानन्तरमेवेदमपि कर्तव्यमिति दर्शयति - एनां स्रुचमित्यर्थः। विहारस्य प्रागुदग्देशे पूर्णाश्चतस्रः स्रचो निनयेदेकैकेन मन्त्रेणैकैकामिति।
————————————————————————————————————
* घ. – एतामेवमाहुतिं जुहुयात्। वेदनं प्रशंसन्ति। अन्नादो हान्नपतिर्भवत्यश्नुते प्रजयाऽन्नद्यम्। य एवं वेदेति। वेदिता स्वयमन्नादो रोगराद्दित्या ( दन्नं ) भोक्तुं समर्थोऽन्नपतिरन्नस्वामी च भवति। तथा प्रजया हि पुत्रादिरूपया सहान्नाद्यं प्राप्नोति। ब्राह्मणभाष्ये सप्तमपञ्चिकायाम्।६ ख. ग. ॰हेतीत °।
————————————————————————————————————
विश्वास-प्रस्तुतिः
पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति। षष्ठीं पश्चाद्गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति।
मूलम्
पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति। षष्ठीं पश्चाद्गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति।
टीका
पञ्चमीं पष्ठीमिति पूर्णस्रुक्संप्रत्ययार्थम्।
विश्वास-प्रस्तुतिः
प्रताप्यान्तर्वेदि निदध्यात्।
मूलम्
प्रताप्यान्तर्वेदि निदध्यात्।
टीका
प्रतपनमाहवनीयेऽन्तर्वेदिशब्दसमन्वयात्। प्रताप्य स्रुचमन्तर्वेदिदेशे निदध्यादित्युक्तम्।
विश्वास-प्रस्तुतिः
परिकर्मिणे वा प्रयच्छेत्।
मूलम्
परिकर्मिणे वा प्रयच्छेत्।
टीका
परिचारकः परिकर्मीत्युच्यते।
** अग्रेणाऽऽहवनीयं परीत्य समिध आदध्यात्तिस्रस्तिस्र उदङ्मुखस्तिष्ठन्।**
पूर्वेणाऽऽहवनीयं विहारस्य दक्षिणदेशं गत्वा तस्य तस्याग्नेर्दक्षिणत उदङ्मुखस्तिष्ठंस्तिस्रस्तिस्त्रः समिध आदध्यात्। पुनः प्रत्येत्य पर्युक्षणादि कुर्यात्।
विश्वास-प्रस्तुतिः
प्रथमां समन्त्राम्।
मूलम्
प्रथमां समन्त्राम्।
टीका
सकृन्मन्त्रेणेति परिभाषा प्रधानकर्मसु न प्रवर्तत इति कृत्वा प्रथमां समन्त्रामित्युक्तवानाचार्यः।
विश्वास-प्रस्तुतिः
आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति।
मूलम्
आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति।
टीका
सर्वे स्वाहाकारान्ताः कर्तव्याः।
विश्वास-प्रस्तुतिः
उक्तं पर्युक्षणम्।
मूलम्
उक्तं पर्युक्षणम्।
टीका
यदुक्तं पर्युक्षणं तदिहापि कर्तव्यम्।
विश्वास-प्रस्तुतिः
ताभ्यां परिसमूहने।
मूलम्
ताभ्यां परिसमूहने।
टीका
पूर्वोक्तमिदं च द्वे पर्युक्षणे ताभ्यां परिसमूहने व्याख्याते इति धर्मातिदेश एकोऽर्थः। परिसमूहने इति योगविभागात्स्वरूपसिद्धिश्च भवति। मन्त्रस्तु जपित्वेतिपृथक्करणान्न भवति लिङ्गाभावाच्च।
विश्वास-प्रस्तुतिः
पूर्वे तु पर्युक्षणात्।
मूलम्
पूर्वे तु पर्युक्षणात्।
टीका
ये द्वे परिसमूहने पर्युक्षण113कर्मके विहिते तयोरनेन क्रमो विधीयते पर्युक्षणाभ्यां पूर्वे परिसमूहने भवत इति।
विश्वास-प्रस्तुतिः
एवं प्रातः।
मूलम्
एवं प्रातः।
टीका
सायंकालेऽग्निहोत्रविधिरुक्तः, एवं प्रातःकालेऽपि होमः कर्तव्य इत्यर्थः।
तत्र विशेषमाह —
विश्वास-प्रस्तुतिः
उपोदयं व्युषित उदिते वा।
मूलम्
उपोदयं व्युषित उदिते वा।
टीका
उपोदयमादित्योदयसमीप114इत्यर्थः। व्युषिते, उषस्युदित इत्यर्थः। उदिते, आदित्यमण्डले कृत्स्न उदित इत्यर्थः। एते त्रयः प्रातर्हेमप्रधानकालाः। तत्र यद्युपोदयमुदित इत्युच्यते, उदित आदित्ये सत्युदयसमीप इति द्वाभ्यां पदाभ्यामेक एवं कालो विहितः स्यात्, तद्भ्रांन्तिनिवृत्त्यर्थं व्युषितशब्दात्पूर्वमुपोदयशब्दं पठितवानाचार्यः। एतेषु त्रिषु कालेषु प्रधानं यथा संपद्यते तथाऽङ्गानामेवोत्कर्षोऽपकर्षो115+ द्रष्टव्यः।
सत्यक्रताभ्यां त्वेति पर्युक्षणमोमुन्नेष्यामीत्यतिसर्जनं हरिणीं त्वा सूर्यज्योतिपमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरों सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति होम उन्मार्जनं च॥ ४॥
एते प्रातर्होमे विशेषाः॥ ४॥
विश्वास-प्रस्तुतिः
प्रवत्स्यन्नग्नीन्प्रज्वल्याऽऽचम्यातिक्रम्योपतिष्ठते।
मूलम्
प्रवत्स्यन्नग्नीन्प्रज्वल्याऽऽचम्यातिक्रम्योपतिष्ठते।
टीका
यस्मिन्हतामेऽग्नय आसते तस्मात्प्र116देशाद्ग्रामान्तर एकरात्रावमो वासः प्रवासस्तं करिष्यन्प्रवत्स्यन्भवति। अग्नीनिति बहुवचनात्सर्वान्विहृत्य प्रज्वलयेत्। प्रज्वल्या ऽऽचभ्य तीर्थदेशेन प्रपद्यातिक्रम्यानी नुपतिष्ठते। अतिक्रम्येति। अव्यक्तोपस्थानदेशमतिक्रम्या117त्यन्तसमीपं गत्वा तं तमग्निमुपतिष्ठत इत्यर्थः। इदं कर्माऽऽहिताग्निः स्वयमेव कुर्यात्।
इदम118नेनेत्याह —
** आहवनीयं शंस्य पशून्मे पाहीति। गार्हपत्यं नर्यप्रजां मे पाहीति। दक्षिणमथर्वपितुं मे पाहीति।गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहान्गोपायतं युवम्। अविनष्टानविहृतान्पूषैमानभिरक्षत्वस्माकं पुनरायनादिति।**
दक्षिणाग्निमुपस्थाय तत्रैव तिष्ठन्गारर्हपत्याहवनीयावीक्षते, इमान्मे मित्रावरुणाविति। उत्तरत्र ‘यथेतं प्रत्येत्य’ इतिवचनात्तत्रैव तिष्ठन्निति लभ्यते। द्विवचनलिङ्गाद्युगदेवेक्षेत।
** यथेतं प्रत्येत्य प्रदक्षिणं पर्य119न्नाहवनीयमुपतिष्ठते। मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे। तत्त्वं विभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्न इति।**
_________________________________________________________________
- घ.– उदितेत्यस्य प्रधानत्वम्। यथा ‘उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्संदधाति’ इति श्रुतिः।
————————————————————————————————————
आहवनीयमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुपस्थाय तद्वदेव स्थित्वा दक्षिणाग्निमुपस्थाय तत्रैव तिष्ठन्गार्हपत्या120हवनीये121क्षणं कृत्वा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो122 गमनाय प्रदक्षिणमावर्तमान आहवनीयमुनतिष्ठते ‘मम नाम प्रथमम्’ इत्यनेन मन्त्रेण।
विश्वास-प्रस्तुतिः
प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन्।
मूलम्
प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन्।
टीका
पृष्ठतोऽग्नीन्नेक्षमाणे मा प्रगामेति सूक्तं जपन्यथेष्टं गच्छेत्। सूक्तग्रहणमनभ्यासार्थम्।
विश्वास-प्रस्तुतिः
आरादग्निभ्यो वाचं विसृजेत।
मूलम्
आरादग्निभ्यो वाचं विसृजेत।
टीका
अग्निभ्यो123 दूराद्गत्वा वाचं विसृजेत।यावद्गतेऽग्न्यागारच्छदिर्न दृश्यते तावदत्राऽऽराच्छब्देनोच्यते। अत्र वाग्विसर्गविधानादितः। प्राग्वा124ग्यत एव सर्वंकुर्यात्।
विश्वास-प्रस्तुतिः
सदा सुगः पितुमां अस्तु पन्था इति पन्थानमवरुह्य।
मूलम्
सदा सुगः पितुमां अस्तु पन्था इति पन्थानमवरुह्य।
टीका
ब्रूयादिति शेषः। योऽभिलषितदेशगामी पन्थास्तं125 प्राप्येत्यर्थः।
अनुपस्थिताग्निश्चेत्प्रवासमापद्येत। इहैव सन्तत्र सन्तं त्वाऽग्ने हृदा वाचा मनसा वा बिभर्मि। तिरो मा सन्तं मा प्रहासीर्ज्योतिषा त्वा वैश्वानरेणोपतिष्ठत इति प्रतिदिशमग्नीनुपस्थाय126।
यदि कदाचिद्यथोक्तोपस्थानमकृत्वै127व गन्तव्यं स्यादै128वान्मानुषाद्वा निमित्तातदा तत्रैव स्थितः ‘इहैव सन्’ इत्यनेन मन्त्रेण सर्वानग्नीनुत्पत्तिक्रमेण तं तमग्निं मनसि ध्यात्वा तां तां दिशम129भिमुखमुपस्थाय130 गच्छेत्।
विश्वास-प्रस्तुतिः
अपि पन्थामगन्महीति प्रत्येत्य।
मूलम्
अपि पन्थामगन्महीति प्रत्येत्य।
टीका
ब्रूयादिति शेषः। प्रवासं कृत्वा प्रत्येत्य स्वग्रामसमीपं प्राप्य ‘अपि पन्थामगन्महि’ इति ब्रूयात्।
विश्वास-प्रस्तुतिः
समित्पाणिर्वाग्यतोऽग्नीञ्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयमीक्षेत। विश्वदानीमाभरन्तोऽनातुरेण मनसा। अग्ने मा ते प्रतिवेशारिषाम। नमस्ते अस्तु मीह्लुषे नमस्त उपसद्वने। अग्ने शुम्भस्व तन्वःसंमारय्यासृजेति131।
मूलम्
समित्पाणिर्वाग्यतोऽग्नीञ्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयमीक्षेत। विश्वदानीमाभरन्तोऽनातुरेण मनसा। अग्ने मा ते प्रतिवेशारिषाम। नमस्ते अस्तु मीह्लुषे नमस्त उपसद्वने। अग्ने शुम्भस्व तन्वःसंमारय्यासृजेति131।
टीका
वाग्यतः समिधो गृहीत्वा पुत्रेण शिष्येण वा पूर्वं प्रस्थापिते नाग्नीन्विहृताञ्ज्वलतश्चज्ञात्वा132स्वयमाहिताग्निराचम्य शुचिर्भूत्वा तीर्थेन प्रपद्याव्यक्तदेशादत्यन्तं समीपदेशमभिक्रम्याऽऽहवनीयमीक्षेत ‘विश्वदानीम्’ इति द्वाभ्यां मन्त्राभ्याम्।
विश्वास-प्रस्तुतिः
अग्निषु समिध उपनिधायाऽऽहवनीयमुपतिष्ठते। मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः। ते बिभृवो133 दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति।
मूलम्
अग्निषु समिध उपनिधायाऽऽहवनीयमुपतिष्ठते। मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः। ते बिभृवो133 दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति।
टीका
इदानीमानीताः समिधो विभज्य तस्य तस्याग्नेः समीपे निधाय तत आहवनीयमुपतिष्ठते ‘मम नाम तव च’ इत्यनेन मन्त्रेण।
विश्वास-प्रस्तुतिः
ततः समिधोऽभ्याध्यात्।
मूलम्
ततः समिधोऽभ्याध्यात्।
टीका
उपनिहिता एवास्मिन्नननेत्याह—
आहवनीये।अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम्। अग्ने सम्रालभिद्युम्नमभिसह आयच्छस्व स्वाहेति। गार्हपत्येऽयमग्निगृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः। अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहेति। दक्षिणेऽयमग्निः पुरीप्यो रयिमान्पुष्टिवर्धनः। अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व स्वाहेति। गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहानजूगुपतंयुवम्। अविनष्टानविहृतान्पूषैनानभ्यराक्षीदास्माकं पुनरायनादिति।
दक्षिणाग्निसमीपेस्थित इत्युक्तम्।
** यथेतं प्रत्येत्य। ( परि*समुह्योदग्विहारादुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत )।**
यथेतमित्युक्तार्थम्। यथेतं प्रत्येत्य सर्वस्य विहारस्य परिसमूहनं कृत्वा तस्योत्तरत उपविश्य वाचं विसृजेत भूर्भुवः स्वरित्यनेन। असत्यतिप्रवासनिमित्त एवं प्रयोगक्रमः। सति तु तन्निमित्ते यथेतं प्रत्येत्य134नैमित्तिकं कृत्वा परिसमूहनवाग्विसर्गौ कुर्यात्। एवमेव सूत्रस्वरूपं विविच्यम्।
** प्रोष्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयात्। मनोज्योतिर्जुषता-**
_________________________________________________________________
*छ संज्ञकेमूलपुस्तक एतद्धनुश्चिह्नान्तर्गतसूत्रं ‘प्रतिहोममेके’ इत्यग्रिमसूत्रानन्तरं पठितमप्यर्थानुरोधाद्वृत्तिकृतैतत्सूत्रार्यैकवाक्यतयेहैव व्याख्यातम्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
माज्यं मे विच्छिन्नं यज्ञं समिमं दधातु। या इष्टा उपसो या अनिष्टास्ताः संतनोमि हविषा घृतेन स्वाहेति।
मूलम्
माज्यं मे विच्छिन्नं यज्ञं समिमं दधातु। या इष्टा उपसो या अनिष्टास्ताः संतनोमि हविषा घृतेन स्वाहेति।
टीका
दशरात्रादूर्ध्वंप्रवासं कृत्वा जुह्वां चतुर्गृहीतं गृहीत्वाऽनया जुहु135यान्मनो ज्योतिरित्येत यर्चा। चतुर्गृहीतशब्दादेवाऽऽज्यद्रव्यसिद्धौ सत्यामाज्यग्रहणं तूष्णीमुत्पवनलाभार्थम्।
विश्वास-प्रस्तुतिः
अग्निहोत्राहोमे च।
मूलम्
अग्निहोत्राहोमे च।
टीका
अग्निहोत्रहोमविच्छेदे चैतामाहुतिं जु+हुयात्। विशेषाभावादेकस्य द्वयोर्बहूनामपि विच्छेद एषैव प्रायश्चित्तिः कार्या।
विश्वास-प्रस्तुतिः
प्रतिहोममेके।
मूलम्
प्रतिहोममेके।
टीका
चशब्दोऽत्राध्याहार्यः। एतामाहुतिंहुत्वा प्रतिहोमं च कुर्यादित्यर्थः। प्रतिहोमो नाम यावन्तः काला होमेन विच्छिन्नास्तावतामेकैकं कालं प्रत्येकैको होमः कर्तव्य इति।
एवं परिसमुह्येत्यादिपूर्वमेव व्याख्यातम्।
गृहानीक्षेताप्पनाहिताग्निर्गृहा मा बिभीतोपवः136 स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपतीरिपदिति प्रपद्येत गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान्। इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानीति शिवं शग्मं शंयोः शंयोरिति त्रिरनुवीक्ष137माणः।
ईक्षणं प्रपदनं चानाहिताग्निरपि कुर्यात्। ‘गृहा मा बिभीत’ इतीक्षेत। ‘गृहानहम्’ इति प्रपद्येत। प्रति138पद्यमान एवं प्रपद्येत – ‘शिवं शग्मं शंयोः शंयोः’ इति त्रिरनुवीक्षमाणः। अनुवीक्षणमनुमन्त्रणं मन्त्रेण प्रकाशनम्। तत्पुनर्मन्त्रेण विना कर्तुं न शक्यत इति मन्त्रोऽपि त्रिरावर्तते।
विश्वास-प्रस्तुतिः
विदितमप्यलीकं न तदहर्ज्ञापयेयुः।
मूलम्
विदितमप्यलीकं न तदहर्ज्ञापयेयुः।
टीका
अलीकमप्रियम्। अत्रगतमप्यप्रियं प्रवासादागतस्य तस्मिन्नहानि न निवेदयेयुः।
विश्वास-प्रस्तुतिः
विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत प्रवसन्प्रत्येत्याहरहर्वेति॥ ५॥
मूलम्
विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत प्रवसन्प्रत्येत्याहरहर्वेति॥ ५॥
टीका
वाशब्दश्च शस्यार्ये। ‘अभयं वः’ इत्यनेन मन्त्रेण प्रवत्स्यन्प्रवासादागतश्चाहरहरग्निहोत्रहोमे चोपतिष्ठेतेति श्रुतिरेवोपन्यस्ता विज्ञायत इति। अस्मिन्पक्षे प्रयोगक्रमः-
_________________________________________________________________
- घ. ‘स्वयं दुशरात्रमहुत एतामाहुतिं जुहुयात्’ देवत्राते।
————————————————————————————————————
विहृत्य प्रज्वाल्याऽऽचम्य तीर्थेन प्रपद्य तत्रैव स्थित्वा सर्वानग्नीन्सकृदेवोपस्थाय प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य ‘मा प्रगाम’ इतिजपन्प्रव्रज्य ‘सदा सुगः’ इति पन्थानं प्राप्य ब्रूयात्। प्रत्येत्य ‘अपि पन्थाम्’ इत्युक्त्वा विहृताञ्ज्वलितांस्तीनैव प्रपद्य तत्रैव स्थित्वा ‘अभयं वः’ इत्युपस्थाय परिसमूहनादि शेषं पूर्ववत्। अतिप्र*वासोऽस्ति चेत्तस्य नैमित्तिकगपि कुर्यात्। अग्निहोत्रा139होमे च दक्षिणाग्निहोमानन्तरं ‘अभयं वः’ इत्युपतिष्ठेत। पूर्वोक्त140स्यानुमन्त्रणस्य याजमानत्वादस्य चोपस्थानत्वान्न विकल्पः, तेन समुच्चय एव। अनुपस्थिताग्नेः141प्रवास इहैव सन्नि142त्येतदेवनान्यत्किंचित्॥ ५॥
विश्वास-प्रस्तुतिः
अमावास्यायामपराह्णे पिण्डपितृयज्ञः।
मूलम्
अमावास्यायामपराह्णे पिण्डपितृयज्ञः।
टीका
अमावास्याशब्दः प्रतिपत्पञ्चदश्योः संधिवचनोऽप्यत्रापराह्णशब्दसमन्वयात्तद्वत्यहोरात्रे वर्तते। तस्या143पराह्णेऽह्नश्चतुर्थे भागे पिण्डपितृयज्ञः कर्तव्य औपवसथ्येऽहनि144। यजतीये चेत्स्वार्थ एव दक्षिणाग्निःप्रणीयते। यदा पुनरहोरात्रसंधौ तिथिसंधिःस्यात्तदौपव सथ्य एवाहनि x क्रियते।
दक्षिणाग्नेरेकोल्मुकं प्राग्दक्षिणा प्रणयेद्ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधयाचरन्ति। परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्प्रणुदात्वस्मादिति।
एकोल्मुकमेकतः प्रदीप्तमुल्मुकं प्राग्दक्षिणा प्राग्दक्षिणस्यां दिशीत्यर्थः। दक्षिणाग्नेः सकाशादेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षिणस्यां दिशि प्रणयेत् ‘ये रूपाणि’ इत्यनेन मन्त्रेण।
विश्वास-प्रस्तुतिः
सर्वकर्माणि तां दिशम्।
मूलम्
सर्वकर्माणि तां दिशम्।
टीका
अवि145शिष्टदिक्कानि सर्वाणि कर्माणि तामेव प्राग्दक्षिणां दिशमभिमुखानि कर्तव्यानि।
उपसमाधायोमौ परिस्तीर्य दक्षिणाग्नेःप्रागुदक्प्रत्यगुदत्वैकैकशः
_________________________________________________________________
* घ. – भूयो दशरात्रादित्युक्तम्। दशरात्रं प्रवासेऽग्निरव्युच्छिन्नो भवति। तस्माद्दशरात्रं स्वयमालस्यादिनाऽहुत एतामाहुतिं जुहुयात्। अत ऊर्ध्वं पुनराधेयमेव व्युच्छिन्नत्वादिति देवत्रातभाष्ये। × घ.— अतोऽमावास्यातिथेरपराह्नव्याप्त्यभावेऽप्यन्त्यक्षणावच्छिन्नाहोरात्र एव पिण्डपितृयज्ञः। पूर्वदिनापराह्नव्याप्तेस्त्वनादरः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
पात्राणिसादयेच्चरुस्थालिशूर्पस्पयोलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नेध्ममेक्षणकमण्डलून्।
मूलम्
पात्राणिसादयेच्चरुस्थालिशूर्पस्पयोलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नेध्ममेक्षणकमण्डलून्।
टीका
उभयोरप्युपसमाधानं परिस्तरणं च कर्तव्यं मध्यगतस्योभावितिशब्दस्यविशेषसंबन्धे कारणाभावात्। पात्राणीति चरुस्थाल्यादीन्युच्यन्ते। तेन शब्देन संव्यवहारार्थंचरुश्रपणार्या स्थाली चरुस्थाली। चरुस्थालीध्रुवाशब्दयोश्छान्दसं ह्रस्वत्वम्। एकेन प्रयत्नेन च्छिन्नाःकुशाःसकृदाच्छिन्नाः।
विश्वास-प्रस्तुतिः
दक्षिणतोऽग्निष्ठमारुह्य चरुस्थालीं ब्रीहीणां पूर्णां निमृजेत्।
मूलम्
दक्षिणतोऽग्निष्ठमारुह्य चरुस्थालीं ब्रीहीणां पूर्णां निमृजेत्।
टीका
निमृज्यादिति प्राप्ते निमृजेदिति च्छान्दसः। अग्निसमीपे तिष्ठनत्यनिष्ठं शकटम्। प्रयाणकाले वाऽग्नयो यत्र तिष्ठन्ति तदग्निष्ठम्। दक्षिणत आरुह्य तत्रैव शूर्पे स्थालीं निधाय व्रीहिभिरापूरयेत्। तां पूर्णांनिमृज्याद्यथोपरितनाद्बिलदेशाच्छूर्पोपरि पतन्ति।
विश्वास-प्रस्तुतिः
परिसन्नान्निदध्यात्।
मूलम्
परिसन्नान्निदध्यात्।
टीका
स्थाल्यास्यदेशाच्छूर्पोपरि146 ये पतन्ति तान्त्रीहीन्परिसन्नान्शकटे निदध्यात्।
विश्वास-प्रस्तुतिः
कृष्णाजिन उलूखलं कृत्वेतरान्पत्न्यवहन्यादविवेचम्।
मूलम्
कृष्णाजिन उलूखलं कृत्वेतरान्पत्न्यवहन्यादविवेचम्।
टीका
कृत्वा निधायेत्यर्थः। इतरान्स्थाल्यन्तर्गतानित्यर्थः। अविवेचम्। अविविच्याविविच्येत्यर्थः।
विश्वास-प्रस्तुतिः
अवहतान्त्सकृत्प्रक्षाल्य दक्षिणाग्नौ श्रपयेत्।
मूलम्
अवहतान्त्सकृत्प्रक्षाल्य दक्षिणाग्नौ श्रपयेत्।
टीका
अवहतेष्ववहतवचनं फलीकरणनिवृत्त्यर्थम्147। दक्षिणाग्न्यधिकारेऽपि दक्षिणाग्नौ श्रपयेदिति श्रपणवचनं वचनादृते गार्हपत्य एव श्रपणमिति ज्ञापनार्थम्।
** अर्वागतिप्रणीतात्स्फ्थेन लेखामुल्लिखेदपहता असुरा रक्षांसि वेदिषदइति**।
** ** दक्षिणाग्न्यतिप्रणीतयोरन्तराल उल्लिखेदित्यर्थः।
विश्वास-प्रस्तुतिः
तामभ्युक्ष्य सकृदाच्छिन्नैरवस्तीर्य आसादयेदभिघार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोत्पूतं ध्रुवायामाज्यं कृत्वा दक्षिणतः।
मूलम्
तामभ्युक्ष्य सकृदाच्छिन्नैरवस्तीर्य आसादयेदभिघार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोत्पूतं ध्रुवायामाज्यं कृत्वा दक्षिणतः।
टीका
आज्यं सर्पिरित्यादिर्ध्रुवायामाज्यं कृत्वा दक्षिणत इत्येवमन्तः पदसमूह आसादयेदभिघार्येत्यस्मात्पुरस्तादर्थतो द्रष्टव्यः। तेनायमर्थः - तां लेखामभ्युक्ष्य सकृदाच्छिन्नैरवस्तीर्या148ऽऽज्यं सर्पिगृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेनाऽऽज्येन स्थालीपाकमभिघार्य दक्षिणाग्नेः पश्चादासादयेत्। यदि नवनीतमाज्यकार्यार्थं स्यात्तदाऽस्यवि149लापनमात्रं कृत्वाऽन्यस्मिन्पात्र आनीय पवित्राभ्यां तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेनाभिघार्येत्यादिसमानम्। द्वितीयाज्यग्रहणस्येदं प्रयोजनं पात्रान्तरस्थमुत्पूय पश्चाद्ध्रुवायां ग्रहणमित्येवमर्थम्। पूर्वमाज्यग्रहणं कार्यलक्षणार्थम्। सर्पिः पक्वंनवनीतमपक्वम्।
विश्वास-प्रस्तुतिः
आञ्जनाभ्यञ्जनकशिपूपबर्हणानि।
मूलम्
आञ्जनाभ्यञ्जनकशिपूपबर्हणानि।
टीका
दक्षिणत इत्यत्रापि संबध्यते विशेषाग्रहणादपेक्षितत्वाच। आञ्जनादीनि च दक्षिणतो दक्षिणाग्नेर्निदध्यात्। पूर्वसूत्रेऽयथा150क्रमेण सूत्रप्रणयनं दक्षिणत इत्यस्योभयार्थत्वायैव।
विश्वास-प्रस्तुतिः
प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनाऽऽदायावदानसंपदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति।
मूलम्
प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनाऽऽदायावदानसंपदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति।
टीका
इध्मः पञ्चदशसंख्याकः। मेक्षणेनाऽऽदाय तेनैव जुहुयादवदानसंपदा।अवदानसंपन्नामोपस्तरणं द्विरवदानं प्रत्यभिघारणं च। तयेत्थंभूतं जुहुयात्। नात्र स्वाहाकारः, स्वधानमःशब्दस्य *प्रदानार्थत्वात्।
विश्वास-प्रस्तुतिः
स्वाहाकारण वाऽग्निं पूर्वं यज्ञोपवीती।
मूलम्
स्वाहाकारण वाऽग्निं पूर्वं यज्ञोपवीती।
टीका
स्वधानमःशब्दस्य स्थाने स्वाहा151शब्दं वा कृत्वा जुहुयात्। अस्मिन्पक्षे152 मन्त्रविपर्य153यो व्यत्यासो यज्ञोपवीतत्वं च भवति। अग्निं पूर्वमिति। ‘अग्नये कव्यवाहनाय’ इत्येतं मन्त्रं पूर्वं कुर्यादित्यर्थः।
** मेक्षणमनुप्रहृत्य प्राचीनावीती लेखां त्रिरुदके*नोपनयेच्छुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति।**
प्राचीनावीतीग्रहणं स्वाहाकारपक्षेपि मेक्षणानुप्रहरणोत्तरकालं प्राचीनावीतित्वप्रापणार्थम्। उभयस्मिन्पक्षेऽपि मेक्षणमग्नावनुप्रहर्तव्यमेव। त्रिभिर्मन्त्रैस्त्रिर्निनयेत्पिण्डस्थानेषु।
विश्वास-प्रस्तुतिः
तस्यां पिण्डान्निपृणीयात्पराचीनपाणिःपित्रे पितामहाय प्रपितामहायैतत्तेऽसौ + ये च त्वामत्रान्विति।
मूलम्
तस्यां पिण्डान्निपृणीयात्पराचीनपाणिःपित्रे पितामहाय प्रपितामहायैतत्तेऽसौ + ये च त्वामत्रान्विति।
टीका
अधिकृतायां लेखायां लेखासंप्रत्ययार्थं तस्यां ग्रहणं क्रियते नाधिकाराल्लेखासंबन्धोऽस्तीति ज्ञापनार्थम्। तेन हविरासादनमग्नेः पश्चादिति साधितं भवति तथैवोक्तं च। निपृ-
________________________________________________________________
* घ.—पित्र्यायां स्वधा नम इति वषट्कार इति प्रदानार्थत्वज्ञापनादिति सिद्धान्तभाष्ये।+ घ.–उपनयनं पिण्डस्थानदेशेष्विति जयन्तः। + घ. – एकाञ्जलिमुत्सृज्य तस्य गोत्रनाम गृहीत्वोत्तीर्थान्यानि [इति] गृह्यसूत्रे चतुर्थेऽध्याये चतुर्थखण्डे।
————————————————————————————————————
णीयाद्दद्यादित्यर्थः। निपरणं पित्र्येणैव तीर्थेन। पाणेरुत्तानत्वमजहदेव पित्र्येण तीर्थेन यदा कुर्यात्तदा पराचीन *पाणिर्भवति। असावित्यस्य स्थाने संबुध्यन्तानि पित्रादीनां नामानि गृह्णीयात्।
विश्वास-प्रस्तुतिः
तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिःप्रत्यक्षमितरानर्चयेत्तदर्थत्वात्।
मूलम्
तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिःप्रत्यक्षमितरानर्चयेत्तदर्थत्वात्।
टीका
त्रयाणां मध्ये प्रेतानां पिण्डदानं, जीवानां प्रत्यक्षार्चनमिति गाणगारेर्मतं पितृप्रीत्यर्थत्वात्कर्मण इति।
विश्वास-प्रस्तुतिः
सर्वेभ्य एव निपृणीयादिति तौल्वलिः क्रियागुणत्वात्।
मूलम्
सर्वेभ्य एव निपृणीयादिति तौल्वलिः क्रियागुणत्वात्।
टीका
पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्यो निपरणं तौल्वलिर्मन्यते। क्रियायामुद्देशकारकत्वेन च गुणभूताः पितरो न तेषां प्रीतिः शास्त्रतो लोकतोऽवगम्यत इति।
** अपि जीवान्त आ त्रिभ्यःप्रेतेभ्य एव निपृणीयादिति गौतमः क्रिया ह्यर्थकारिता +।**
आदिमध्यान्तशब्दैः पितृपितामहप्रपितामहा उच्यन्ते। जीवोऽन्तो यस्य स जीवान्तः अपिशब्देन जीवादिर्जीवमध्य इत्यपि लभ्यते जीवसर्व इति च अत्र त्रयाणामेकस्मिन्द्वयोः सर्वेषु वा जीवत्सु वा यावदर्थं परान्पितृृन्गृहीत्वा154प्रेतेभ्यस्त्रिभ्यो दद्यादिति गौतमो मन्यते। क्रिया ह्यर्थकारिता। मरणपदार्थप्र155वृत्ता यस्मात्क्रियेत्यर्थः।
विश्वास-प्रस्तुतिः
उपायविशेषो जीवमृतानाम्।
मूलम्
उपायविशेषो जीवमृतानाम्।
टीका
पित्रादीनां जीवानां मृतानां च पिण्डदान उपायविशेषो वक्ष्यत इत्यर्थः।
उपन्यस्तान्पक्षान्दूपयितुमाह–
विश्वास-प्रस्तुतिः
न परेभ्योxधिकारात् न प्रत्यक्षम्।न जीवेभ्यो निपृणीयात्।
मूलम्
न परेभ्योxधिकारात् न प्रत्यक्षम्।न जीवेभ्यो निपृणीयात्।
टीका
_________________________________________________________________
* घ.-आप० सत्या०–अवाचीनं पाणिदातीति। अङ्गुष्ठभागपार्श्वमधो यस्य पाणेः सोऽवाचीन इति। निनयनसंस्कृतेषु स्थानेष्वेव ददातीति च संप्रदानकारकत्वाभावाददातिर्निधानार्थः। उत्पत्तिविधौ त्रिर्निदधातीति श्रवणादिति च वैजयन्ती। +ख. ग. पुस्तकयोर्ह्यर्थकारितेत्यस्याग्रेऽयं ग्रन्थः—नामगोत्रे समुच्यार्य सम्यक् द्धान्वितो ददेत्। संकीर्त्य देशकालादि तुभ्यं संप्रददे इति। न ममेति च सत्ताया निवृत्तिमपि कीर्तयेत्। दानहोमादिकं कुर्यादेवं श्राद्धसमन्वितः। इति हेमाद्र्धृतवृद्धवसिष्ठवचनात्। x घः सि० भाष्ये – कथमनधिकारः। पित्रे ददाति पितामहाय ददाति प्रपितामहाय ददातीति श्रुतेः। प्रेतेभ्यो ददातीति श्रुतेश्च।
————————————————————————————————————
गौतमगाणगारितौल्वलीनां क्रमेण दूषणानि।
विश्वास-प्रस्तुतिः
न जीवान्तर्हितेभ्यः।
मूलम्
न जीवान्तर्हितेभ्यः।
टीका
जीवव्यवहितेभ्यो न निष्टणीयादित्यर्थः। सर्वपक्षव्यापीदं दूषणम्। सर्वत्रानधिकारादित्ययमेव हेतुः। अनधिकारात्, अयोग्यत्वादित्यर्थः। क्वचिद्विध्यभावात्वचिन्निषेधादयोग्यत्वमवगम्यते। अयमुपायविशेष उच्यते।
विश्वास-प्रस्तुतिः
जुहुयाज्जीवेभ्यः।
मूलम्
जुहुयाज्जीवेभ्यः।
टीका
जीवेभ्यो जुहुयात्प्रेतेभ्यो निपृणीयादित्यर्थः। ‘न जीवन्तमतीत्य156 दद्यात्’ इत्यत्रापि निषेधोऽस्ति। तेन जीवापितुः जीवपितामहस्य जीवोभयस्य वाऽयमपि पक्षो नास्ति। तत्र होमान्तमनारम्भो* वा।
अथ सर्वेषु जीवत्सु कथमित्याह —
विश्वास-प्रस्तुतिः
सर्वहुतं सर्वजीविनः।
मूलम्
सर्वहुतं सर्वजीविनः।
टीका
सर्वहुतमिति। सर्वे पिण्डा होतव्या इत्यर्थः। पिण्डहोमो निपरणमन्त्रेण स्वाहाकारान्तेन कर्तव्यः। अत्र दूषणीयपक्षाणामुपन्यासे प्रयोजनं सपिण्डीकरणे पितामहे जीवति पितरि मृते संवत्सरादिषु कालेषु तस्यावश्यकर्तव्यत्वात्तत्रैषां पक्षाणामुपयोग इत्येवमर्थम्। एवमादीन्यन्यान्यपि प्रयोजनानि चिन्त्यानि।
विश्वास-प्रस्तुतिः
नामान्यविद्वांस्ततपितामहप्रपितामहेति॥ ६॥
मूलम्
नामान्यविद्वांस्ततपितामहप्रपितामहेति॥ ६॥
टीका
पित्रादीनां नामाज्ञाने ततादयः शब्दा नामस्थाने प्रयोक्तव्याः॥ ६॥
विश्वास-प्रस्तुतिः
निपृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति।
मूलम्
निपृताननुमन्त्रयेतात्र पितरो मादयध्वं यथाभागमावृषायध्वमिति।
टीका
निपूर्तानितिप्राप्ते निपृतानिति च्छन्दसो निर्देशः। निपूर्तानेव पिण्डाननुमन्त्रयते न हुतानित्येवमर्थंनिष्टतानित्युच्यते। तेन सर्वहोम इदमनुमन्त्रणं न भवति। अस्मिन्प्रकरणे यद्यपि पिण्डानामेवानुमन्त्रणमुपस्थानं प्रवाहणं च विधीयते तथाऽपि मन्त्राणां पितृलिङ्गत्वात्पिण्डा एव पितर इतिकृत्वा पितर एवैतैर्मन्त्रैरभिधातव्याः।
विश्वास-प्रस्तुतिः
सव्यावृदुदङ्गावृत्य यथाशक्त्यप्राणन्नासित्वाऽभिपर्यावृत्यामी मदन्त पितरो यथाभागमावृषायीपतेति।
मूलम्
सव्यावृदुदङ्गावृत्य यथाशक्त्यप्राणन्नासित्वाऽभिपर्यावृत्यामी मदन्त पितरो यथाभागमावृषायीपतेति।
टीका
अनुमन्त्रयेतेति शेषः। सव्यावृदुदङित्येतावतैव सव्यावृत्त्वोदङ्मुखत्वयोः सिद्धयोरा-_________________________________________________________________
* घ. त्रयाणामन्यतमस्य जीवनेऽप्येवमेव। स्पष्टं चेदंयज्ञपुच्छसूत्र उक्तं जीवमृतेभ्य इत्यत्रवृत्तौ। आपस्तम्भसूत्रव्याख्यास्वप्येवम्।
————————————————————————————————————
वृत्त्येतिवचनमावृत्त्ये157वोच्छ्वासो न पूर्वमित्येतदर्थम्।यथाशक्त्य158नुच्छ्वतन्नासित्वा पुनरभिषर्यावृत्त्यामीमदन्त इत्यनुमन्त्रयते। आवृषायीषतेति यकारः पठितव्यः। व्यक्ति159स्तु प्रमादजा।
विश्वास-प्रस्तुतिः
चरोः प्राणभक्षं भक्षयेत्।
मूलम्
चरोः प्राणभक्षं भक्षयेत्।
टीका
तूष्णीमेवात्र प्रा*णभक्षणं कार्यम्।
विश्वास-प्रस्तुतिः
नित्यं निनयनम्।
मूलम्
नित्यं निनयनम्।
टीका
यदुदकोपनयनमुक्तं शुन्धन्तां पितर इत्यादि160मन्त्रकं तदत्र निनयनमित्युच्यते। तदत्र कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
असावभ्यङ्क्ष्वासावङ्क्ष्येति पिण्डेष्वभ्यञ्जनाञ्जने।
मूलम्
असावभ्यङ्क्ष्वासावङ्क्ष्येति पिण्डेष्वभ्यञ्जनाञ्जने।
टीका
दद्यादिति शेषः।
विश्वास-प्रस्तुतिः
वासो दद्याद्दशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वल्लोँमैतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युङ्ध्वमिति।
मूलम्
वासो दद्याद्दशामूर्णास्तुकां वा पञ्चाशद्वर्षताया ऊर्ध्वं स्वल्लोँमैतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युङ्ध्वमिति।
टीका
एतेषामन्यतमद्रव्यं वासोऽर्थंपिण्डेषु दद्यादित्यर्थः। दशा वस्त्रस्यान्तप्रदेशः। ऊर्णास्तुकां वा अविलोमानि। पञ्चाशद्वर्षाणि यस्य स तथोक्तस्तस्य भावः पञ्चाशद्वर्षता। पञ्चाशद्वर्षतायाः पञ्चाशद्वर्षेष्वतीतेषूर्ध्वं जीवन्स्वीयमेव लोम वासोर्थं दद्यात्। मन्त्रस्त्वयमेव सर्वेषु द्रव्येषु सकृदेव भवति।
अथैनानुपतिष्ठेत नमो वः पितर इषे नमो वः पितरः ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरोऽघोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय।स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम।
इतिकाराध्याहारेण सूत्रच्छेदः सन्तः स्यामेतिमन्त्रः +पठितव्यो161 विकारं वर्जयित्वा।
विश्वास-प्रस्तुतिः
मनोऽन्वाहुवामह इति च तिसृभिः।
मूलम्
मनोऽन्वाहुवामह इति च तिसृभिः।
टीका
उपतिष्ठेतेति शेषः।
_________________________________________________________________
* घ. — प्राणे नासिकास्थानो वायुस्तेन भक्ष्यते गन्धः प्राणभश्च इति गन्धोपादानं, देवत्रातः। + घ.–पठितव्य उपचारं वर्जत्यिवेति पुस्तकान्तरे पाठः – उपचारो नाम विसर्गस्थानिकः सकार इति प्रातिशाख्ये प्रसिद्धः।
————————————————————————————————————
** अथैनान्प्रवाहयेत्परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः। दत्वायास्मभ्यं द्रविणे ह भद्रं रयिं च नः सर्ववीरं नियच्छतेति।**
अत्रापि पिण्डस्थान्पितॄनेत्र प्रवाहयेत्*।
विश्वास-प्रस्तुतिः
अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति।
मूलम्
अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति।
टीका
प्रत्येयादितिवचनसामर्थ्याद्दक्षिणामुखेनात्र किंचिदनुवजनं कर्तव्य+म्। अग्निं प्रत्येयादग्नेतमद्याश्वं न स्तोमैरित्यविशेषवचने162न दक्षिणाग्निमेव163, इतरयोर्विशेषाभिधानात्।
विश्वास-प्रस्तुतिः
गार्हपत्यं यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा164जिहिंसिम। अग्निर्मा तस्मादेनसो गार्हपत्यःप्रमुञ्चतु करोतु मामनेनसमिति।
मूलम्
गार्हपत्यं यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा164जिहिंसिम। अग्निर्मा तस्मादेनसो गार्हपत्यःप्रमुञ्चतु करोतु मामनेनसमिति।
टीका
प्रत्येयादिति शेषः।
विश्वास-प्रस्तुतिः
वीरं मे दत्त पितर इति पिण्डानां मध्यमम्।
मूलम्
वीरं मे दत्त पितर इति पिण्डानां मध्यमम्।
टीका
आददीतेति शेषः।
पत्नीं प्राशयेदाधत्त पितरो गर्भं कुमारं पुष्करस्रजम्।यथाऽयमरपा असदिति।
तमेव मध्यममिति शेषः। पत्न्येव मन्त्रं ब्रूयादाधत्तेति।
विश्वास-प्रस्तुतिः
अप्स्वितरौ।
मूलम्
अप्स्वितरौ।
टीका
प्रक्षिपेदित्यर्थः।
विश्वास-प्रस्तुतिः
अतिप्रणीते चा।
मूलम्
अतिप्रणीते चा।
टीका
प्रक्षिप्य दाहयेत्।
विश्वास-प्रस्तुतिः
यस्य वाऽऽगन्तुरन्नकाम्याभावः स प्राश्नीयात्।
मूलम्
यस्य वाऽऽगन्तुरन्नकाम्याभावः स प्राश्नीयात्।
टीका
आगन्तुरभिनवो निर्निमित्त एवान्नेच्छाभावो यस्य स वेतरौ प्राश्नीयात्।
विश्वास-प्रस्तुतिः
महारोगेण वाऽभितप्तः प्राश्नीयादन्यतरां गतिं गच्छति।
मूलम्
महारोगेण वाऽभितप्तः प्राश्नीयादन्यतरां गतिं गच्छति।
टीका
क्षयकुष्ठादिनाऽशक्यपरिहारेणातिपीडितः। प्राश्नीयादिति पुनर्वचनं पूर्वेणास्य संबन्धनिवृत्त्यर्थम्। तेनान्यतरामित्यत्रैव भवति। अन्यतरां गतिं गच्छतीत्ययमर्थः। सद्य एवारोगो भवेन्द्रियेत वेति।
विश्वास-प्रस्तुतिः
एवमनाहिताग्निर्नित्ये।
मूलम्
एवमनाहिताग्निर्नित्ये।
टीका
अनाहिताग्निरप्येवं पिण्डपितृयज्ञं कुर्यान्नित्य औपासन इत्यर्थः।
_________________________________________________________________
* घ – उपलभ्य पितॄन्यवाहथेविसर्जयेत् देवत्रातः। + घ - प्रवाहणार्थमिति सिद्धान्तभाष्ये।
————————————————————————————————————
विश्वास-प्रस्तुतिः
श्रपयित्वाऽतिप्रणीय जुहुयात्।
मूलम्
श्रपयित्वाऽतिप्रणीय जुहुयात्।
टीका
तस्यायं विशेषः—हविः श्रपणं कृत्वाऽतिप्रणयनं कर्तव्यम्। तस्यैवातिप्रणीतस्योपसमाधानं परिस्तरणं च कृत्वा ततोऽर्वागतिप्रणीतादित्यादिसमानम्। जुहुयादित्ययमनुवादः। अयं चात्र विशेषः– यदन्तरिक्षमित्यस्मिन्मन्त्रे गार्हप*त्यशब्द उद्धर्तव्यः, तच्छन्द प्र165वृत्तिनिमित्तस्य संस्कारस्यात्राभावादिति।
विश्वास-प्रस्तुतिः
द्विवत्पात्राणामुत्सर्गः।
मूलम्
द्विवत्पात्राणामुत्सर्गः।
टीका
द्विश इत्यर्थः।
विश्वास-प्रस्तुतिः
तृणं द्वितीयमुद्रिक्ते॥ ७॥
मूलम्
तृणं द्वितीयमुद्रिक्ते॥ ७॥
टीका
एकस्यातिरिक्तस्य तृणेन द्वित्वं संपाद्योत्सर्गः कर्तव्य इत्यर्थः॥ ७॥
विश्वास-प्रस्तुतिः
दर्शपूर्णमासावारप्स्यमानोऽन्वारम्भणीयाम्।
मूलम्
दर्शपूर्णमासावारप्स्यमानोऽन्वारम्भणीयाम्।
टीका
पूर्वंदर्शपूर्णमासयोः स्वरूपमात्रमुक्तम् , इदानीं तयोरनुष्ठारम्भ उच्यते166। इदानीं तावारप्स्यमानस्यान्वारम्भणीयाविधानात्। यस्मादाधानानन्तरमजस्राग्निहोत्रपिण्डपितृयज्ञा167नुक्त्वाऽनयोरारम्भ उच्यते तस्मादेतत्साधितं भवति — पौर्णमास्यामाधानमिष्टिं च कृत्वा ततोऽजस्रवारणमग्निहोत्रहोमं च कृत्वाऽमावास्यायां पिण्डपितृयज्ञं च कृत्वा पौर्णमास्यां तयोरारम्भ इति। तत्र यदा168पस्तम्बवचनं ‘पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्वारम्भणी169यमपवृज्य श्वोभूते पौर्णमासेन यजेत ’ इति। अस्यायमर्थः—पौर्णमास्यामादधानस्त दहरेव पौर्णमासीमारभेतेति। तस्यायं विषयः— यस्यां पौर्णमास्यामन्वारम्भणीयापर्यन्तं सर्वं प्रतिपत्पञ्चदशीसंधिक्षणात्प्रागेव कर्तुं शक्यते साऽस्य विषयः। संध्यन+ पगमात्पौर्णमास्यधिकारप्राप्तिरित्येकस्मिन्नहनिय उत्तरस्मिन्क्षणे दर्शपूर्णमासावारभते स तस्मात्पूर्वस्मिन्क्षणे तावारप्स्यमान इत्युच्यते। तस्यान्वारम्भणीया कर्तव्या। सेयं पुरुषार्थान कर्मार्थाश्रुत्यादीनामभावात्। दर्शपूर्णमासावारप्स्यमान इत्यनेन च कर्मसंबन्धो वक्तुं न शक्यते। निमित्ततयाऽधिकारिविशेषणत्वेनोपक्षयादुद्देशा170 (श) बोधकं न भवितुमर्हति। तस्मादनङ्गं तयोरन्वारम्भणीया। तथाऽपि तत्संबन्धिपुरुषसंबन्धात्तयोरेवाधिकारित्वे171न पुरुषं संपादयतीति
_________________________________________________________________
* घ—स्मार्ते द्वितीयाध्यायेऽन्वष्टकाप्रकरणे, ये च त्वामत्रानु’ इत्यूहविचारः कृतो वृत्तौ तेन स्मार्त ऊहः कर्तव्यः।+ क. - अनिवृत्तेः।
————————————————————————————————————
युक्तमुक्तम्। अतो दर्शपूर्णमासावृत्तौ विकृतिषु च न पुनः पुनः कार्याऽतिदेशाभावात्।कार्यसंबन्ध्यतिदिश्यते न पुरुषार्थसंबन्ध्य172तीति।
विश्वास-प्रस्तुतिः
अग्नाविष्णू सरस्वती सरस्वाननिर्भगी।
मूलम्
अग्नाविष्णू सरस्वती सरस्वाननिर्भगी।
टीका
भगीत्यग्नेर्गुणः।
विश्वास-प्रस्तुतिः
अग्नाविष्णू सजोषसे मा वर्धन्तु वाङ्गिरः। द्युम्नैर्वाजेभिरागतम्। अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा। दमे दमे सुष्टुतिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्यत्। पावकानः सरस्वती पावीरवी कन्या चित्रायुःपीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तमासवं सवितुर्यथा स नो राधांस्याभरेति।
मूलम्
अग्नाविष्णू सजोषसे मा वर्धन्तु वाङ्गिरः। द्युम्नैर्वाजेभिरागतम्। अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा। दमे दमे सुष्टुतिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्यत्। पावकानः सरस्वती पावीरवी कन्या चित्रायुःपीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तमासवं सवितुर्यथा स नो राधांस्याभरेति।
टीका
इष्टेर्याज्यानुवाक्याः।
विश्वास-प्रस्तुतिः
आधानाद्यद्यामयावी यदि वाऽर्था व्यथेरन्पुनराधेय इष्टिः।
मूलम्
आधानाद्यद्यामयावी यदि वाऽर्था व्यथेरन्पुनराधेय इष्टिः।
टीका
आमयावी, उदरव्याधिमान्। अर्थव्यथा, अर्थहानिः। अर्थाः पुत्रपश्चादयः। आधानानन्तरं तस्मिन्नेव संवत्सरे यद्येतानि निमित्तानि स्युस्तदा पुनराधेयं कर्तव्यमित्ययमर्थोऽस्मिन्त्सूत्रेऽर्थाल्लभ्यते। तस्मिन्पुनराधेये वक्ष्यमाणलक्षणेष्टिः कार्येत्यर्थः।
विश्वास-प्रस्तुतिः
तस्यां प्रयाजानुयाजान्विभक्तिभिर्यजेत्।
मूलम्
तस्यां प्रयाजानुयाजान्विभक्तिभिर्यजेत्।
टीका
तस्यामितिवचनं तस्यामेवेष्टौ नान्यस्यां वक्ष्यमाणो विधिः स्यादित्येवमर्थम्। तेन ज्ञायतेऽनैकेष्टिकं पुनराधेयमिति। विभक्तिभिः सहितान्प्रयाजानुयाजा कुर्यात्। का विभक्तिः, क्व वा प्रदेशे प्रयोक्तव्या173, किं सर्वेषूत कतिपयेष्वित्येतेषां संशयानां निवृत्तये चतुरः प्रयाजान्पठित्वा174तानेव प्रयाजांश्चतुरो विभक्तिभिः सहितान्पठति, द्वावनुयाजौ च पठति175, अप*ठितयो176रविकृतत्वसिद्ध्यर्थम्।
** समिधः समिधोऽग्नेग्न आज्यस्य व्यन्तु।तनूनपादग्निमग्न आज्यस्य वेतु। इलो अग्निनाऽग्नआज्यस्य व्यन्तु। बर्हिरग्निरग्नआज्यस्य वेत्विति।**
नराशंसिनां नराशंसोऽग्नि177मग्न इति भवति। विभक्तिविधानस्याविशेषात्, पाठस्य चोत्तमप्रयाजानुयाजत्र्यावृत्त्यर्थत्वात्।
_________________________________________________________________
* क. प्रयाजानुयाजयोः।
————————————————————————————————————
समिधाग्निं दुवस्यतेह्यूषु ब्रवाणि त इत्याग्नेयावाज्यभागौ।
सोमस्थानेऽप्यग्निरेव। तयोरेते अनुवाक्ये।
विश्वास-प्रस्तुतिः
बुद्धिमदिन्दुमन्तावित्याचक्षते।
मूलम्
बुद्धिमदिन्दुमन्तावित्याचक्षते।
टीका
आज्यभागयोरेतौ गुणौ।
विश्वास-प्रस्तुतिः
तथाऽनुवृत्तिः।
मूलम्
तथाऽनुवृत्तिः।
टीका
निगमेषु सगुणयोरेवानुवृत्तिरित्यर्थः।
विश्वास-प्रस्तुतिः
इज्या च।
मूलम्
इज्या च।
टीका
इज्याशब्देन याज्यायां देवतादेश उच्यते। स च सगुणयोरेव कर्तव्यः। के चिदिहानुवृत्तिशब्देनैव देवतादेशस्यापि ग्रहणमभ्युपगम्य ‘इज्या च’ इत्यनेन याज्यामध्यगतस्याग्निशब्दस्य सगुणोच्चारणमिच्छन्ति।
विश्वास-प्रस्तुतिः
नित्यं पूर्वमनुब्राह्मणिनः।
मूलम्
नित्यं पूर्वमनुब्राह्मणिनः।
टीका
नित्यः केवलोऽग्निरनुवाक्या च। ’ अग्निर्वृत्राणि ’ इत्यनुब्राह्मणिन आचार्याः।
विश्वास-प्रस्तुतिः
अग्न आयूंषि पवस इत्युत्तरम्।
मूलम्
अग्न आयूंषि पवस इत्युत्तरम्।
टीका
उत्तरोऽपि केवलोऽग्निरियं चानुवाक्याऽनुब्राह्मणिनामेवाभिप्रायेण।
विश्वास-प्रस्तुतिः
नित्यस्तूत्तरे हविः शब्दः।
मूलम्
नित्यस्तूत्तरे हविः शब्दः।
टीका
उत्तरे याज्यामन्त्रे हविःशब्दस्य सोमधर्मत्वात्तन्निवृत्तौ तस्य निवृत्तिप्रसङ्गे तत्स्थानापन्नत्वादग्नेरपि तद्धर्मसंबन्ध इति मत्वा नित्यस्त्वित्युक्तवान्।
** आग्नेयं हविरधाह्यग्ने क्रतोर्भद्रस्याभिष्टे अद्य गीर्भिर्गुणन्त एभिर्नो अर्कैरग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये देवं बर्हिरग्नेर्वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुवने वसुधेयस्य वेत्विति॥ ८॥**
गतार्थमिदम्॥ ८॥
विश्वास-प्रस्तुतिः
आग्रयणं व्रीहिश्यामाकयवानाम्।
मूलम्
आग्रयणं व्रीहिश्यामाकयवानाम्।
टीका
अग्रेऽयनं भक्षणं येन कर्मणा तदाग्रयणम्। प्रथमद्वितीययोर्ह्रस्वदीर्घत्वव्यत्ययः। एषां त्रयाणां द्रव्याणां संवत्सरे प्रथमनिष्पन्नानामाग्रयणं नाम कर्म कर्तव्यमित्यर्थः। व्रीहिशब्दस्य प्रथमनिपातो व्रीहीणां प्राधान्यस्थापनार्थम्। तेन काल178चोदना व्रीह्याग्रयणस्यैव भवति। श्यामाकशब्दस्य मध्यनिपातो व्रीहिकालाद्यवकालो भिन्न इति ज्ञापयति।
विश्वास-प्रस्तुतिः
सस्यं नाश्नीयादग्निहोत्रमहुत्वा।
मूलम्
सस्यं नाश्नीयादग्निहोत्रमहुत्वा।
टीका
सस्यं नवनिष्पन्नं तन्नाश्नीयादाग्रयणेनानिष्ट्वा।यद्याग्रयणेनानिष्टवतो नवनिष्पन्नेनाशनेन विना निर्वाहो न स्यात्तदा तेषां द्रव्याणां तत्कालनिष्पन्नेन सायंप्रातरग्निहोत्रं हुत्वाऽश्नीयात्। ततः काल आगत आग्रयणं कुर्यात्। अग्निहोत्रमहुत्वा नाश्नीयादितिवचनादाग्रयणेनानिष्ट्वाऽप्यग्निहोत्रं हुत्वाऽश्नतो न दोष इति गम्यते। सस्यग्रहणं व्रीह्या179द्यन्यदपि यन्नवनिष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम्।
विश्वास-प्रस्तुतिः
यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयणेन यजेत।
मूलम्
यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयणेन यजेत।
टीका
यदा वर्षतृप्तिर्लोकस्य भवति तदाऽऽग्रयणेन यजेत। अनेन प्रकारेण व्रीह्याग्रयणस्य शरत्काल उक्तो भवति।
एतमेव कालं श्रुत्या समर्थयति—
** अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याऽऽग्रयणेन हि यजत इति। अग्निहोत्रीं वैनानादयित्वा तस्याः पयसा जुहुयात्।**
अथाऽऽग्रयणेन यजेतेतीष्टिरेवाऽऽग्रयणशब्देनोक्ता।इदानीमिदमप्युच्यते। अग्नि180होत्रहोमार्था धेनुरग्निहोत्रीत्युच्यते। तां व्रीहिश्यामाक्यवानामन्यतममाशयित्वा तस्याः पयसा सायं प्रातरग्निहोत्रं जुहुयात्। इष्टिःप्रथमकल्पः, तदसंभवेऽयमनुकल्प इति द्वावेवाऽऽग्रयणकल्पावत्रोच्येते।
विश्वास-प्रस्तुतिः
अपि वा क्रिया यवेषु।
मूलम्
अपि वा क्रिया यवेषु।
टीका
यवैराग्रयणस्य क्रिया वा भवेदक्रिया वेति विकल्पः।
विश्वास-प्रस्तुतिः
इष्टिस्तु राज्ञः।
मूलम्
इष्टिस्तु राज्ञः।
टीका
त्रयाणां वर्णानामविशेषेण कल्पद्वये प्राप्ते राज्ञो विशेष उच्यत इष्टिरेव नान्य इति।
विश्वास-प्रस्तुतिः
सर्वेषां चैके।
मूलम्
सर्वेषां चैके।
टीका
सर्वेषामपि वर्णानामिष्टिरेवेत्येके मन्यन्ते।
विश्वास-प्रस्तुतिः
श्यामाकेष्ट्यां सौम्यश्चरुः।
मूलम्
श्यामाकेष्ट्यां सौम्यश्चरुः।
टीका
श्यामाकाग्रयणेष्ट्यां सोम181देवत्यश्चरुर्भवति। कालो वर्षर्ऋतुः शास्त्रान्तरे दर्शनात्।
** सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामिति। अवान्तरेलाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत्। प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय।**
इतिकाराध्याहारेण सूत्रच्छेदः। नित्यजपशब्देनेले भागमितिमन्त्र उच्यते। तस्य नित्यत्वे सत्यपि नित्यवचनमेतेन भक्षिण इति विध्यतिदेशे तद्वर्जितस्य प्रापणार्थम्।
** भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावशेन182समशीमहित्वा। सनो मयोभूः पितवाविशे ह शं नो भव द्विपदे शं चतुष्पद इति प्राश्याऽऽचम्य नाभिमालभेतामोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः। स मे जरां रोगमपनुद्य शरीरादमा म एधि मासृथाम इन्द्रेति।**
स्मृतिप्राप्तस्याऽऽचमनस्य विधानं यस्मिन्देश आचमनं कृतं तस्मिन्नेव देशे स्थितस्य नाभ्यालम्भनसिद्ध्यर्थम्।
विश्वास-प्रस्तुतिः
एतेन भक्षिणो भक्षा183न्सर्वत्र नवभोजने।
मूलम्
एतेन भक्षिणो भक्षा183न्सर्वत्र नवभोजने।
टीका
एतेन विधानेन * सर्वभक्षेषु सर्वे भक्षिणः+सर्वान्भक्षान्भक्षयेयुः। सर्वत्रवचनं प्रकरणादुत्कर्षार्थम्। नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम्। सर्वत्रवचनात्प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक एव व्यवतिष्ठते। वैदिकेऽग्निहोत्रहोमे ‘नवानां सवनीयान्’ इत्यत्र च न प्राप्नुयात्तत्रापि प्रापणार्थं भक्ष184वचनम्।
विश्वास-प्रस्तुतिः
अथ व्रीहियवानां धाय्ये विराजौ।
मूलम्
अथ व्रीहियवानां धाय्ये विराजौ।
टीका
अथानन्तरं व्रीहीणां यवानां चाऽऽग्रयणेष्टिरुच्यते। तत्र व्रीह्याग्रयणस्य काल उक्तः। वसन्तो यवाग्रयणस्य। तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभावादुभयोः सहवचनं तयोर्धाय्ये विराजौ च भवतः। ‘इतरत्पौर्णमासं तन्त्रं वैराजम्’ इत्येतावैतवोक्तेऽपि तावन्मात्रविकारसिद्धौ सत्यां धाय्याविरा185ड्ग्रहणं विकल्पेन वृधन्वतोरपि प्रापणार्थम्।
विश्वास-प्रस्तुतिः
अग्नीन्द्रविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी।
मूलम्
अग्नीन्द्रविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी।
टीका
आद्ययोर्विकल्पेनैका186 देवता गृह्य187ते। यदि श्यामाकाग्रयण188मस्यामेवेष्टौ समानतन्त्रेण क्रियते तदा समस्तृतीयो भवति।
** आघाये अग्निमिन्धते सुकर्माणःसुरुचो देवयन्तो विश्वे देवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरानव्यसीभिरिति॥ ९॥**
इन्द्राग्न्योः सोमस्य चोक्ता याज्यानुवाक्याः॥ ९॥
_________________________________________________________________
* घ. - श्रौतस्मार्तेषु। + घ. — व्रीहियवश्यामाकान्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
अथ काम्याः।
मूलम्
अथ काम्याः।
टीका
अथानन्तरं काम्या इष्टयो वक्ष्यन्ते। प्राक्चातुर्मास्येभ्य इत्यर्थः। काम्या इतिवचनमनिर्दिष्टकामा अपि न नित्याः शास्त्रान्तरादपि तासां कामोऽन्वेष्टव्य इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
आयुष्कामेष्ट्यां जीवातुमन्तौ।
मूलम्
आयुष्कामेष्ट्यां जीवातुमन्तौ।
टीका
आयुष्कामस्येष्टिरायुष्कामेष्टिः। अस्मिन्प्रकरणे कामग्रहणानामेतत्प्रयोजनं यद्देवतासंयुक्तायामिष्टौ यत्तन्त्रं विहितं तद्देवतासंयुक्तायामप्यन्यकामसंयुक्तायां तन्न भवतीति ज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
आ नो अग्ने सुचेतुना स्वं सोम महे भगमिति। अग्निरायुष्मानिन्द्रस्त्राता।
मूलम्
आ नो अग्ने सुचेतुना स्वं सोम महे भगमिति। अग्निरायुष्मानिन्द्रस्त्राता।
टीका
द्वे देवते। आयुष्मानित्यग्नेर्गुणः त्रातेतीन्द्रस्य गुणः।
विश्वास-प्रस्तुतिः
आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः। पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते। आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि। घृतं पीत्वा मधुचारु गव्यं पितेव पुत्रमभिरक्षतादिमम्। त्रातारमिन्द्रमवितारमिन्द्रं मा ते अस्यां सहसावन्परिष्टौ पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये स्वस्त्ययन्यां रक्षितवन्तौ।
मूलम्
आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः। पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते। आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि। घृतं पीत्वा मधुचारु गव्यं पितेव पुत्रमभिरक्षतादिमम्। त्रातारमिन्द्रमवितारमिन्द्रं मा ते अस्यां सहसावन्परिष्टौ पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये स्वस्त्ययन्यां रक्षितवन्तौ।
टीका
स्वस्तिगमनसाधनीभूता स्वस्त्ययनीष्टिः।
विश्वास-प्रस्तुतिः
अग्ने रक्षाणो अंहसस्त्वं नः सोम विश्वत इति।
मूलम्
अग्ने रक्षाणो अंहसस्त्वं नः सोम विश्वत इति।
टीका
त्वं न सोम विश्वत इति रक्षालिङ्गाद्गौतम्येव।
विश्वास-प्रस्तुतिः
अग्निः स्वस्तिमान्। स्वस्ति नो दिवो अग्नेपृथि189व्या आरे अस्मदमतिमारे अंह इति। पूर्वयोक्ते संयाज्ये।
मूलम्
अग्निः स्वस्तिमान्। स्वस्ति नो दिवो अग्नेपृथि189व्या आरे अस्मदमतिमारे अंह इति। पूर्वयोक्ते संयाज्ये।
टीका
‘पाहि नः इत्येते।
विश्वास-प्रस्तुतिः
पुत्रकामेष्ट्यामग्निः पुत्री।
मूलम्
पुत्रकामेष्ट्यामग्निः पुत्री।
टीका
पुत्रकामेष्टावग्निः पुत्री देवता। पुत्रीत्यग्नेर्गुणः
विश्वास-प्रस्तुतिः
यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः।अग्निस्तु विश्रवस्तममिति द्वे संयाज्ये आग्नेय्या उत्तरे।
मूलम्
यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः।अग्निस्तु विश्रवस्तममिति द्वे संयाज्ये आग्नेय्या उत्तरे।
टीका
ये उत्तरे इष्टी वक्ष्येते ‘मूर्ध्वन्वतः’ ‘कामाय’ इति च ते अग्निदेवत्ये भवत इत्यर्थः। पूर्वस्यामग्नेर्मूर्धन्वान्गुणः, उत्तरस्यां कामो गुणः।
विश्वास-प्रस्तुतिः
नित्येमूर्धन्वतः।
मूलम्
नित्येमूर्धन्वतः।
टीका
‘अग्निर्मूर्धा भुवो यज्ञस्य’ इत्यर्थः।
विश्वास-प्रस्तुतिः
तुभ्यं ता अङ्गिरस्तमा श्यामतं काममग्ने तवोतीति कामाय।
मूलम्
तुभ्यं ता अङ्गिरस्तमा श्यामतं काममग्ने तवोतीति कामाय।
टीका
कामगुणकस्याग्नेः ‘तुभ्यं ता अङ्गिरस्तमा’ ‘श्यामतं कामम्’ इति याज्यानुवाक्ये।
विश्वास-प्रस्तुतिः
वैमृध्या उत्तरे।
मूलम्
वैमृध्या उत्तरे।
टीका
उत्तरे द्वे इष्टी वैमृध्यौ भवतः। तयोर्वक्ष्यमाणे याज्यानुवाक्यायुगले ते इन्द्रदेवते भवतः। स चेन्द्रो विमृद्गुणकः, वैमृ190धगुणको वा भवति। अत एते इष्टी वैमृध्या इत्युच्येते।
** वि न इन्द्र मृधो जहि मृगो न भीमःकुचरो गिरिष्ठाःसद्युत्तिमिन्द्र सच्युतिं प्रच्युतिं जघनच्युतिम्। प्रनाकाफान आभर प्रयत्स्यन्निव सक्थ्यौ वि न इन्द्र मृधो जहि। जनीखुदद्यथासफमभि नः सुष्टुतिं नयेति।**
एते पुष्टिकामस्य याज्यानुवाक्ये।
विश्वास-प्रस्तुतिः
इन्द्राय दात्रे पुनर्दात्रे वा।
मूलम्
इन्द्राय दात्रे पुनर्दात्रे वा।
टीका
इन्द्रो दाता स पुनर्दाता वा देवता भवति। उभयथाऽप्येते191 एव याज्यानुवाक्ये वचनसामर्थ्यात्।
यानि नो धनानि क्रुद्धो जिनासि मन्युना।इन्द्रानुविद्धि नस्तान्यनेन हविषा पुनः।पुनर्न इन्द्रो मघवा ददातु धनानि शक्रो धनीः सुराधाः। अस्मद्र्यक्कृणुतां याचितो मनः श्रुष्टी न इन्द्रो हवि192षा मृधातीति। आशानामाशापालेभ्यो वा।
आशा आशापाला वा देवता। अत्रापि याज्यानुवाक्ययोरैक्यम्।
आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः। इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्। विश्वा आशा मधुना संसृजाम्यनमी वा आप ओषधयः सन्तु सर्वाः। अयं यजमानो मृधो व्यस्यत्वगृभीताः पशवः सन्तु सर्व इति लोकेष्टिः।
इष्टिनामेदम्।
विश्वास-प्रस्तुतिः
पृथिव्यन्तरिक्षंद्यौरिति देवताः।
मूलम्
पृथिव्यन्तरिक्षंद्यौरिति देवताः।
टीका
देवताग्रहणं पृथिव्यादीनां पृथगेव देवतात्वसिध्द्यर्थम्। त्रिलिङ्गत्वाद्याज्यानुवाक्ययोस्तिस्रः सहिता एका देवता मा भूदिति। तेनैतत्साधितं भवति याज्यानुवाक्यालिङ्गाद्देवतानिर्णयः कार्य इति।
विश्वास-प्रस्तुतिः
पृथिवीं मातरं महीमन्तरिक्षमुपन्नुवे। बृहतीमूतये दिवम्। विश्वं बिभर्ति पृथिव्यन्तरिक्षं विपप्रथे।दुहे द्यौर्बृहती पयः। वर्म मे पृथिवी मह्यन्तरिक्षं स्वस्तये। द्यौर्मे शर्म महि श्रव इति तिस्रस्त्रयाणाम्।
मूलम्
पृथिवीं मातरं महीमन्तरिक्षमुपन्नुवे। बृहतीमूतये दिवम्। विश्वं बिभर्ति पृथिव्यन्तरिक्षं विपप्रथे।दुहे द्यौर्बृहती पयः। वर्म मे पृथिवी मह्यन्तरिक्षं स्वस्तये। द्यौर्मे शर्म महि श्रव इति तिस्रस्त्रयाणाम्।
टीका
एतास्तिस्त्र ऋचस्त्रयाणां हविषां याज्यानुवाक्या भवन्ति। उत्तरसूत्रे विनिवेशसामर्थ्यादेवास्यार्थस्य सिद्धौ सत्यां वचनमिदमन्यत्रापि तिस्रस्त्रयाणां विहिता एवं विनिवेशयितव्या इत्येवमर्थम्।
एवं भवन्तीत्याह—
विश्वास-प्रस्तुतिः
प्रथमे प्रथमस्योत्तमे193 मध्यमस्योत्तमा प्रथमा चोत्तमस्य॥ १०॥
मित्रविन्दा महावैराजी।
मूलम्
प्रथमे प्रथमस्योत्तमे193 मध्यमस्योत्तमा प्रथमा चोत्तमस्य॥ १०॥
मित्रविन्दा महावैराजी।
टीका
मित्राणि यया विन्दते सा मित्रविन्दा।गुणनामैतत्।महावैराजीति नामैव194।
विश्वास-प्रस्तुतिः
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः।
मूलम्
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः।
टीका
दशैता देवता एकप्रदाना महावैराज्यां भवन्ति। एकप्रदानशब्द उक्तार्थः।
विश्वास-प्रस्तुतिः
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिःसविता यः सहस्री।पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तुयज्ञम्।
मूलम्
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिःसविता यः सहस्री।पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तुयज्ञम्।
टीका
इयमनुवाक्या।
विश्वास-प्रस्तुतिः
प्रतिलोममादिश्य यजेद्ये३यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु। बृहस्पतिर्दददिन्द्रः सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति।
मूलम्
प्रतिलोममादिश्य यजेद्ये३यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु। बृहस्पतिर्दददिन्द्रः सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति।
टीका
एता देवताःप्रतिलोममादिश्य यजेत्।ये३ यजामह इतिवचनं याज्यायामेव प्रति लोमत्वं नान्येषु निगमेष्वित्येवमर्थम्। प्रतिलोमविधानादेव प्रतिलोमत्वे सिद्धे प्रतिलोमपाठस्येदं प्रयोजनम्– उत्पत्तियागक्रमयोर्विरोधे पूर्वेषूत्पत्तिक्रम उत्तरेषु यागक्रम इत्यस्यन्यायस्यैन्द्रामारुत्यामुक्तत्वादुत्तरेषु निगमेषु प्रतिलोमत्वं स्यादिति तन्निवृत्त्यर्थम्। इदं च पाठप्रयोजनं वरुणस्याप्युपांशुत्वं195 भवतीति। ‘त्वष्टा रूपाणि’ इति याज्या।
विश्वास-प्रस्तुतिः
अष्टौ वैराजतन्त्राः।
मूलम्
अष्टौ वैराजतन्त्राः।
टीका
‘आग्नेय्या उत्तरे’ इत्येवमाद्या महावैराज्यन्ता इष्टयो वैराजतन्त्राः।
विश्वास-प्रस्तुतिः
तासामाद्याः पलेकहविषः।
मूलम्
तासामाद्याः पलेकहविषः।
टीका
अनुवादोऽयं प्राप्तत्वात्। प्राप्तानुवादे प्रयोजनं हविःशब्देन प्रधानहविषामेव ग्रहणमिति ज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
स्नुषाश्वशुरीययाऽभिचरन्यजेत।
मूलम्
स्नुषाश्वशुरीययाऽभिचरन्यजेत।
टीका
स्नुषाश्वशुरीया नाम इष्टिः। तयाऽभिचरञ्शत्रुं मारया196मीति संकल्पयन्यजेत।
विश्वास-प्रस्तुतिः
इन्द्रः सूरो अतरद्रजांसि स्नुषा सपत्ना श्वशुरोऽहमस्मि। अहं शत्रूञ्जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ। इन्द्रः सूरः प्रथमो विश्वकर्मा मरुत्वां अस्तु गणवान्स197जातैःमम स्नुषा श्वशुरस्य प्रशि198ष्टौ सपत्ना वाचं मनस उपासताम्।
मूलम्
इन्द्रः सूरो अतरद्रजांसि स्नुषा सपत्ना श्वशुरोऽहमस्मि। अहं शत्रूञ्जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ। इन्द्रः सूरः प्रथमो विश्वकर्मा मरुत्वां अस्तु गणवान्स197जातैःमम स्नुषा श्वशुरस्य प्रशि198ष्टौ सपत्ना वाचं मनस उपासताम्।
टीका
याज्यानुवाक्ययोर्लिङ्गादेवास्या देवता कल्प्या।सा चेन्द्रः, इन्द्रः सूरगुणो वा।
विश्वास-प्रस्तुतिः
जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये विमतानां संमत्यर्थे संज्ञानी।
मूलम्
जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये विमतानां संमत्यर्थे संज्ञानी।
टीका
विमतानां विमनस्कानां संमतिप्रयोजनार्थं संज्ञानी नामेष्टिःकार्या।
अग्निर्वसुमान्सोमो रुद्रवानिन्द्रो मरुत्वान्वरुण आदित्यवानित्येकप्रदानाः।
चतस्रो199ऽग्न्यादयः सगुणा देवता एकप्रदाना वेदितव्याः।
अग्निः प्रथमो वसुभिर्नो अव्यात्सोमो रुद्रैरभिरक्षतु त्मना। इन्द्रो मरुद्भिर्ऋतुथा कृणोत्वादित्यैर्नो200 वरुणः शर्म यंसत्। समग्निर्वसुभिर्नो अव्यात्सं सोमो रुद्रियाभिस्तनूभिः। समिन्द्रो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति।
एषा संज्ञानी नामेष्टिः स्वामिभृत्ययोःसंमत्यर्थं ‘यः समानैर्मिथो विप्रियः स्यात्तमेतया याजयेत्’ इति श्रुतेः।
विश्वास-प्रस्तुतिः
ऐन्द्रामारुतीं भेदकामाः।
मूलम्
ऐन्द्रामारुतीं भेदकामाः।
टीका
इन्द्रश्च मरुतश्च देवते यस्याः सैन्द्रामारुतीत्येवात्र विग्रहः। केवलानां मरुतां याज्यानुवाक्यादर्शनादिन्द्रस्य च पूर्वो201क्तयोग्रहणेन द्विदेवत्येय202मिति निश्चीयते। भेदकामा राज्ञां च विशां च लोक आहिताग्नयो यदि स्युस्तेषामस्याधिकार एकैकस्यैव।
विश्वास-प्रस्तुतिः
मरुतो यस्य हि क्षये प्रशर्धाय मारुताय स्वभानव इति।
मूलम्
मरुतो यस्य हि क्षये प्रशर्धाय मारुताय स्वभानव इति।
टीका
इन्द्रस्य नित्ये एव।
विश्वास-प्रस्तुतिः
ऐन्द्रीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्यायजेदिन्द्रंपूर्वं निगमेषु मरुतो वा।
मूलम्
ऐन्द्रीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्यायजेदिन्द्रंपूर्वं निगमेषु मरुतो वा।
टीका
प्रधानक्रम एवाङ्गानां क्रम इति प्रसिद्धो न्यायः। अत्र तु प्रधानयोः परस्सरव्य*तिष203क्तसिद्धयोःक्रमो नास्ति। याज्यानुवाक्याभ्यामुभाम्यां यागक्रियावयवभूतस्योद्देशभागस्य सिद्धेरिति मन्यमानो विकल्पमुक्तवान्।
व्युदस्यत्येन204माचार्यः-
विश्वास-प्रस्तुतिः
इन्द्रं वा प्रधाना205दूर्ध्वं मरुतः।
मूलम्
इन्द्रं वा प्रधाना205दूर्ध्वं मरुतः।
टीका
सत्यमुत्पत्तिक्रमाभावे प्रधानक्रम एवाङ्गानां भवति। उत्पत्तिक्रमे तु सति स एवानु +पजातविरोधित्वात्प्रधानात्प्राग्भवति206 पश्चात्तु प्रधानक्रम एवेति207 न्यायः। अत्र तु प्रधानयोः क्रमोऽस्त्येव याज्याया एवोद्दे208शतायाः प्रतिपादकत्वात्। आवाहनादिवदनुवाक्याया देव ताद्रव्यस्वरूपप्रतिपादकत्वान्मारुत एवात्र यागः पूर्वं क्रियते पश्चादैन्द्र इति विनिवेशमुक्तवानाचार्यः। वाशब्दोऽत्र पक्षव्यावृत्त्यर्थः।
विश्वास-प्रस्तुतिः
प्रकृत्या संपत्तिकामाः संज्ञानीं च।
मूलम्
प्रकृत्या संपत्तिकामाः संज्ञानीं च।
टीका
यद्याहिताग्नयो राजविशां संपत्तिं कामयेरन्तदा ते एते देवते प्रकृत्यैव यजेरन्। पूर्ववदेकैक एव ते। ततः संज्ञानीं चे कुर्युरेवमेव।
विश्वास-प्रस्तुतिः
ऐन्द्राबार्हस्पत्यां प्रधृष्यमाणाः।
मूलम्
ऐन्द्राबार्हस्पत्यां प्रधृष्यमाणाः।
टीका
शत्रुभिरभिभूयमानाः।
विश्वास-प्रस्तुतिः
आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती इति यद्यपीन्द्राय चोदयेयुः॥ ११॥
मूलम्
आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती इति यद्यपीन्द्राय चोदयेयुः॥ ११॥
टीका
_________________________________________________________________
* क.—संकरीभूतयोः परस्परमिश्रयोः। + क. – उत्पत्तिक्रमविरोधाभावात्।
————————————————————————————————————
यद्यैन्द्राबार्हस्पत्यं निरूप्येन्द्राय चोदयेयुरध्वर्यवः, यद्वा बार्हस्पत्यं निरूप्येन्द्राय चोदयेयुः,उभयोरपि पक्षयोरेते एव याज्यानुवाक्ये भवत इत्यर्थः॥ ११॥
विश्वास-प्रस्तुतिः
पवित्रेष्ट्याम्।
मूलम्
पवित्रेष्ट्याम्।
टीका
[ कर्तव्य *मुच्यत इति शेषः। पवित्रेष्टिरितीष्टिनाम्।
प्राक्षिप्तेयं पवित्रेष्टिर्जनैः शास्त्रान्तरादिह॥
नाऽऽचार्येण कृता स्वेन कुत एतदिहोच्यते।
आश्वलायनगृह्यपरिशिष्टे—
विश्वास-प्रस्तुतिः
गृह्येऽपि यानि नोक्तानि कचिद्वैतानिकेऽपि वा।
विधेरलोपनार्थाय तानि वक्षाम्यतः परम्॥
मूलम्
गृह्येऽपि यानि नोक्तानि कचिद्वैतानिकेऽपि वा।
विधेरलोपनार्थाय तानि वक्षाम्यतः परम्॥
टीका
इति प्रतिज्ञायास्या अपि तत्रैवोक्तेः। अत्रैव चान्यकृतत्वे लिङ्गानि वक्ष्यामः। अत एव देवस्वाम्यादयोऽपि न व्याचक्षते। तथाऽप्याम्नतार्थेयमपि पवित्रेष्टिः प्रवक्ष्यते। अत्र चाधिकरी वक्ष्यते —
विश्वास-प्रस्तुतिः
अपामिदं न्ययनं समुद्रस्य निवेशनम्।अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव। नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिषे। अन्यन्तेअस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति पावकवत्यौ धाय्ये।
मूलम्
अपामिदं न्ययनं समुद्रस्य निवेशनम्।अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव। नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिषे। अन्यन्तेअस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति पावकवत्यौ धाय्ये।
टीका
सूत्रयति हि बौधायनः— तस्याः सप्तदश सामिधेन्यः समिध्यं च समिध्यमानं चान्तरेण पावकवत्यौ धाय्ये दध्यात्, अपामिदं नमस्त इति।
विश्वास-प्रस्तुतिः
पावकवन्तावाज्यभागौ।
मूलम्
पावकवन्तावाज्यभागौ।
टीका
यावाज्यमागौ पावकशब्दवदनुवाक्यावन्तौ। आज्याभागावित्युक्तिः प्रक्षिप्तत्वे लिङ्गम्।
अथ पावकवतोरनुवाक्ये आह -
विश्वास-प्रस्तुतिः
अग्नी रक्षांसि सेधति।
मूलम्
अग्नी रक्षांसि सेधति।
टीका
इयमग्नेः।
विश्वास-प्रस्तुतिः
यो धारया पावकयेत्यृचौ याज्ये।
मूलम्
यो धारया पावकयेत्यृचौ याज्ये।
टीका
इयं सोमस्य। ऋचौयाज्ये, इत्येते ऋचौ याज्ये।
** [ + यत्ते पवित्रमर्चिष्याकलशेषु धावतीति पवित्र इत्येते। ]**
_________________________________________________________________
* चतुष्कोणाकृतिकंसस्थितोऽयं ग्रन्थः। ख. ग. संज्ञक पुस्तकेषु वर्तते। क. घ. ङ. संज्ञक पुस्तकेषु तु पवित्रेष्ट्यामित्यस्याये ‘एतत्खण्डमत्र न दृष्टम्’ इत्येतावदेव व्याख्यातम्। एतदग्रिममूलंतुनलिखितम्। घ. पुस्तके - ऋक्संहिताभाष्ये सायणाचार्यस्त्वेतत्खण्डस्थप्रतीका उदाहृता इतीयं टिप्पनी। एतत्खण्डं छ. ज. संज्ञके मूलपुस्तकवर्तत एव। + अत्र त्रुटितमिदं मूलं छ. ज. संज्ञकयोर्मूलपुस्तकयोवतेते।
————————————————————————————————————
तत्रयत्तेपवित्रमर्चिषीत्यग्ने, आकलशेष्विति सोमस्य ऋचौ न तु जुषाण इत्यादिनित्ये यजुषी इत्यर्थः। पवित्र इति श्येनो वर्मेति माभूदिति। एते मध्यगत [इ]ति शब्दश्चेत्यपि प्रक्षेपे लिङ्गानि।
अथ प्रधानदेवता आह—
विश्वास-प्रस्तुतिः
अग्निः पवमानः सरस्वती प्रिया अग्निः पावकः सविता सत्यप्रसवोऽग्निः शुचिर्वायुर्नियुत्वानग्निर्व्रतपतिर्दधिक्रावाऽग्निर्वैश्वानरो विष्णुः शिपिविष्टः।
मूलम्
अग्निः पवमानः सरस्वती प्रिया अग्निः पावकः सविता सत्यप्रसवोऽग्निः शुचिर्वायुर्नियुत्वानग्निर्व्रतपतिर्दधिक्रावाऽग्निर्वैश्वानरो विष्णुः शिपिविष्टः।
टीका
निर्गुणोऽत्र दधिक्रावा न वाऽन्ये गुणसंयुक्ताः। प्रिया अग्निरित्यसंहिता छान्दसी।
आसां मध्ये सरस्वत्याः प्रियाया दधिक्राव्णश्च द्वे द्वे आह-
विश्वास-प्रस्तुतिः
उत नः प्रियाप्रियास्विमा जुह्वाना युष्मदा नमोभिः।
मूलम्
उत नः प्रियाप्रियास्विमा जुह्वाना युष्मदा नमोभिः।
टीका
सरस्वत्याः प्रियाया एते।
** वायुरग्रेगा यज्ञप्रीर्वायो शुक्रो अयामि ते दधिकाव्णो अकारिषमादधिक्राः शवसा पञ्च कृष्टीः।**
दधिक्राव्ण एते।
विश्वास-प्रस्तुतिः
जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये।
मूलम्
जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये।
टीका
शिष्टानां द्वे द्वे वयं वक्ष्यामः। अग्नेः पवमानस्य अग्न आयूंषि पवसेऽग्ने पवस्व स्वपा इति। अग्नेः पावकस्य, स नः पावक दीदिवोऽग्ने पावक रोचिषेति। सवितुः सत्यप्रसवस्य, आविश्वदेवं सत्पतिं न प्रगिये सवितुर्दैव्यस्य तदिति। अग्नेः शुचेः, अग्निः शुचित्रततम उदग्ने शुचयस्तवेति। वायोर्नियुत्वतः आ वायो भूषशुचिपा उप नः प्रियाभिर्यासि दाश्वांसमच्छेति। अग्नेर्व्रतपतेः,त्वमग्ने व्रतपा असि यद्वोवयं प्रमिनाम व्रतानीति। अग्नेर्वैश्वानरस्य, वैश्वानरो अनीजनसृष्टो दिवति। विष्णोः शिपिविष्टस्य, वषट्ने विष्णो प्रतत्ते अद्येति। सूत्रे पुरस्ताच्च दृष्टाः पुरस्तादृष्टयाज्यानुवाक्याप्रक्षेपलिङ्गम्। न, च पुरस्तादृृष्टापेक्षणात्संयाजाश्च प्रक्षेपत्वम्। यत्रेदं पठितं तत्रापि तत्सर्वंकिल स्यादिति सत्यप्रसवसवितृनियुत्वद्वायुत्रतपत्यग्निर्वैश्वानर209शिपिविष्टानां ह्यादेशापेक्षा। गृह्यपरिशिष्टे त्वयं विशेषः— वायोर्नियुत्वतो, वायुरग्रेगा यज्ञप्रीर्वायो शुक्रो अयामि ते इति द्वे। अग्नर्वैश्वानरस्य, वैश्वानरो न ऊतय इत्यनुवाक्या। विष्णोः शिपिविष्टस्य किमित्ते विष्णवित्यनुवाक्येति। ते च वायुरग्रेगा यज्ञप्रीरिति, खैलिकी पुरोरुक्, वैश्वानरो अजीजनत्, वैश्वानरो न ऊतथे, इस्युत्तरत्र प्रकीर्त्तिताः। जुष्टो दमूनाव्याज्ये स्विष्टकृत एते।
अथ पवित्रेष्ट्यामधिकारिणमाह—
विश्वास-प्रस्तुतिः
सैषा संवत्सरमतिप्रवसतः।
मूलम्
सैषा संवत्सरमतिप्रवसतः।
टीका
कर्तव्येति शेषः। यः संवत्सरमतीत्य प्रवासं करोति सोऽतिप्रवसन्तस्यैषा कर्तव्येत्यर्थः। इह प्रवसत इति पुंस्त्वमुपलक्षणं पत्न्यामपि प्रवसंत्यामपष्टत्वात्। तथा च बौधायनः— ’ qथो एतत्सोऽपरिमितं प्रवसति। न संवत्सरमतिप्रवसतीत्येवेदमुक्तं भवति। स चेदतिप्रवसेस्पवित्रेष्ट्या यजेतेति। अथो210 एतत्सोऽपरिमितं प्रवसति न संवत्सरमतिप्रवसतीत्यवि शेषाज्जायापत्योराहिताग्न्योर्विज्ञायतेऽर्थो वा एष आत्मनो यत्पत्नी च ’
विश्वास-प्रस्तुतिः
शुद्धिकामो वा।
मूलम्
शुद्धिकामो वा।
टीका
एतां कुर्यादिशेषः।
अथैतच्छुद्धिकामकर्तव्यतामेव यज्ञगाथया द्रढयति —
विश्वास-प्रस्तुतिः
तदेषाऽमि यज्ञगाथा गीयते -
मूलम्
तदेषाऽमि यज्ञगाथा गीयते -
विश्वास-प्रस्तुतिः
वैश्वानरीं व्रातपतिं पवित्रेष्टिं तथैव च।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपौरुष211मिति॥ १२॥
मूलम्
वैश्वानरीं व्रातपतिं पवित्रेष्टिं तथैव च।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपौरुष211मिति॥ १२॥
टीका
तदुक्तमर्था212मिति प्रगीयत आम्नायते। वैश्वानरीव्रातपत्यौ वक्ष्यमाणे द्वे इष्टी विश्वानराय विमतानामन्नभोजने व्रतातिपत्तौ व्रतातिपतय इति च। ऋतावृतौ वसन्तादिषु दशपुरुषसंयुक्तं स्ववंशं पुनाति शोधयति किं पुनरात्मानम्॥ १२॥ ]
विश्वास-प्रस्तुतिः
वर्षकामेष्टिः कारीरी।
मूलम्
वर्षकामेष्टिः कारीरी।
टीका
वर्षकामस्य कारीरी नामेष्टिः कार्या।
तस्यां प्रतित्यं चारुमध्वरमीले अग्निं स्ववसं नमोभिरिति धाय्ये।
तस्यामिति। कारीर्यामेवेत्यर्थः। अत्र बहुदेवत्याया आम्नानादन्यदेयमेव कारीर्येकदेवत्या भवति तत्यामपि प्रापणार्थं तस्यां ग्रहणम्।
विश्वास-प्रस्तुतिः
याः काश्च वर्षकामेष्ट्योऽप्सुमन्तौ।
मूलम्
याः काश्च वर्षकामेष्ट्योऽप्सुमन्तौ।
टीका
एतौ वर्षकामेष्टिमात्रे भवतः।
विश्वास-प्रस्तुतिः
अप्स्वग्नेसधिष्टवाप्सु मे सोमो अब्रवीदिति।
मूलम्
अप्स्वग्नेसधिष्टवाप्सु मे सोमो अब्रवीदिति।
टीका
अत्र पूर्वस्या गायत्रीत्वात्तत्साहचर्यादुत्तराऽपि गायत्र्येव ग्रहीतव्येति। तथा चोत्तस्त्र वक्ष्यति– ‘अप्सुमन्तौ गायत्रौ’ इति। इदमेव213 वाक्याम्ना214यमनुसरन्।
विश्वास-प्रस्तुतिः
अग्निर्धामच्छन्मरुतः सूर्यः।
मूलम्
अग्निर्धामच्छन्मरुतः सूर्यः।
टीका
धामच्छदित्यग्नेर्गुणः।
विश्वास-प्रस्तुतिः
तिस्रश्च पिण्ड्य उत्तराः।
मूलम्
तिस्रश्च पिण्ड्य उत्तराः।
टीका
उत्तरास्तिस्नः पिण्ड्यश्च भवन्ति। पिण्ड्य इति पिण्डीद्रव्या मरुद्देवत्यास्त्रयो यागा इत्यर्थः।
विश्वास-प्रस्तुतिः
हिरण्यकेशो रजसो विसार इति द्वे त्वन्त्याचिदच्युता धामन्ते विश्वं भुवनमधिश्रितमिति वावाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो विमाय सृजन्ति रश्मिमोजसा वहिष्ठेमिर्विहरन्यासि तन्तुमुदीरयथा मरुतः समुद्रतः प्रवोमरुतस्तविषा उदन्यव आयन्नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः कृष्णं नियानं हरयः सुपर्णा नियुत्वन्तो ग्रामजितो यथा नरः।
मूलम्
हिरण्यकेशो रजसो विसार इति द्वे त्वन्त्याचिदच्युता धामन्ते विश्वं भुवनमधिश्रितमिति वावाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो विमाय सृजन्ति रश्मिमोजसा वहिष्ठेमिर्विहरन्यासि तन्तुमुदीरयथा मरुतः समुद्रतः प्रवोमरुतस्तविषा उदन्यव आयन्नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः कृष्णं नियानं हरयः सुपर्णा नियुत्वन्तो ग्रामजितो यथा नरः।
टीका
धामच्छदो215 याज्यानुवाक्यायुगलद्वयं व्यवस्थया योजनीयम्। यदा केवलोऽग्निस्तदा पूर्वं, यदाऽग्निमिच्छत्तदोत्तरमिति।
विश्वास-प्रस्तुतिः
अग्ने बाधस्व विमृधो विदुर्गहा यं त्वा देवापिः शुशुचानो अग्न इति संयाज्ये ऋचोऽनूच्य यजुर्भिरेके यजन्ति।
मूलम्
अग्ने बाधस्व विमृधो विदुर्गहा यं त्वा देवापिः शुशुचानो अग्न इति संयाज्ये ऋचोऽनूच्य यजुर्भिरेके यजन्ति।
टीका
पिण्डीयागानिति शेषः। एके शाखिन ऋच एवानुवाक्या उक्त्वा यजुर्भिरेव पिण्डीयागं कुर्वन्तीत्यर्थः। अत्र विशेषस्तेभ्य एवाधिगन्तव्यः।
विश्वास-प्रस्तुतिः
संस्थितायां सर्वा दिश उपतिष्ठेताच्छावदतवसं गीर्भिरामिरिति चतसृभिः प्रत्यृचं सूक्तेन सूक्तेन वा॥ १३॥
मूलम्
संस्थितायां सर्वा दिश उपतिष्ठेताच्छावदतवसं गीर्भिरामिरिति चतसृभिः प्रत्यृचं सूक्तेन सूक्तेन वा॥ १३॥
टीका
एकैकां दिशं216सर्वा दिश इत्युपक्रम्य चतसृभिः। प्रत्यृचमित्युपसंहारादन्यत्रापि दिशां सर्वत्वं चतसृष्येव पर्यवस्यतीति गम्यते। सूक्तेन सूक्तेन वा। एकैकां दिशं कृत्स्नेन सूक्तेनोपतिष्ठेतेत्येवं वा॥ १३॥
विश्वास-प्रस्तुतिः
अत ऊर्ध्वमिष्ट्ययनानि।
मूलम्
अत ऊर्ध्वमिष्ट्ययनानि।
टीका
अत ऊर्ध्वं यानि वक्ष्यन्तेऽस्मिन्नध्याये तानीष्ट्ययनसंज्ञानीति विद्यात्। इष्टिभिरयनं गमनं येषु कर्मसु तानीष्ट्ययनानि।
विश्वास-प्रस्तुतिः
सांवत्सरिकाणि।
मूलम्
सांवत्सरिकाणि।
टीका
संवत्सरेण क्रियन्ते सवत्सरैश्च क्रियन्त इत्युभयथा विग्रहः कर्तव्यो दाक्षायणयज्ञचातुर्मास्यानामनेकसांवत्सरिकत्वसिध्यर्थम्।
विश्वास-प्रस्तुतिः
तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा प्रयोगः।
मूलम्
तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा प्रयोगः।
टीका
फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी।चित्रया युक्ता चैत्री। तेषां सांवत्सरिकाणामागन्तुकानामस्मिन्काले प्रारम्भः कार्यः। दर्शपूर्णमासगुणविकाररूपाणां दाक्षायणयज्ञादीनामारम्भे कालनियमो नास्तीति तेषामित्युच्यते।
विश्वास-प्रस्तुतिः
तुरायणम्।
मूलम्
तुरायणम्।
टीका
तुरायणं नामेष्ट्ययनमुच्यते।
विश्वास-प्रस्तुतिः
अग्निरिन्द्रो विश्वे देवा इति पृथगिष्ट्योऽनुसवनमहरहः।
मूलम्
अग्निरिन्द्रो विश्वे देवा इति पृथगिष्ट्योऽनुसवनमहरहः।
टीका
अग्निदेवत्येन्द्रदेवत्या विश्वेदेवदेवत्या चैतास्तित्र इष्टयः।त्रिषु सवनेषु यथासंख्येनैकैकेष्टिः कार्याऽहन्यहनि। अहरहरितिवचनं पौर्णमास्यमावास्ययोर्वाधनार्थम्।
विश्वास-प्रस्तुतिः
एका वा त्रिहविः।
मूलम्
एका वा त्रिहविः।
टीका
एताभिरेव देवताभिर्युक्तैकैवेष्टिस्त्रिहविष्काऽहन्यहनि प्रातःसवन एव कर्तव्या वेत्यर्थः।
विश्वास-प्रस्तुतिः
दाक्षायणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत।
मूलम्
दाक्षायणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत।
टीका
दाक्षायणयज्ञः कर्तव्य इत्ययमर्थोऽर्थाल्लभ्यते। तस्मिन्दाक्षायणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत। द्वितीयानिर्देशा*त्प्रतिपन्नयोर्द्वित्वं गुणो विधीयते ना+प्रतिपन्नयोर्द्वित्वविशिष्टयोर्विधानमत्रेति गम्यते। एतदुक्तं भवति — या पौर्णमासी याऽमावास्या ते एव स्वस्वकाले द्विरावर्तयितव्ये इति।
विश्वास-प्रस्तुतिः
नित्ये पूर्वे यथाऽसंनयतोऽमावास्यायाम्।
मूलम्
नित्ये पूर्वे यथाऽसंनयतोऽमावास्यायाम्।
टीका
आवृत्तयोः पूर्वे ये ते उक्ते एव न विकृते। तत्रामावास्याद्वित्वेऽसंनयतो या सैव निथम्यते।
विश्वास-प्रस्तुतिः
उत्तरयोरैन्द्रं पौर्णमास्यां द्वितीयम्।
मूलम्
उत्तरयोरैन्द्रं पौर्णमास्यां द्वितीयम्।
टीका
उत्तरयोर्विकार उच्यते। पौर्णमास्यां यद्द्वितीयं हविस्तदैन्द्रं भवति।
विश्वास-प्रस्तुतिः
मैत्रावरुणममावास्यायाम्।
मूलम्
मैत्रावरुणममावास्यायाम्।
टीका
अमावास्यायां यद्द्वितीयं तन्मैत्रावरुणं भवति।
आ नो मित्रावरुणा यद्बंहिष्ठं नातिविधे सुदानू इति प्राजापत्य इलादधः।
इलादधो नामेष्ट्ययनम्। तत्प्रजापतिदेवत्यम्। तत्पर्वणि पर्वणि कर्तव्यं विशेषविध्यभावात्।
_________________________________________________________________
* क. – प्राप्तयोर्दर्शपूर्णमासयोः। + क. – अप्राप्तयोः।
————————————————————————————————————
प्रजापते न त्वदेतान्यन्यस्तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च। प्रजापते विश्वसृज्जीव धन्य इदं नो देव प्रतिहर्य हव्यमिति द्यावापृथिव्योरयनम्।
इदमपीष्ट्ययनं नाम।
तस्य स्वरूपमुच्यते —
विश्वास-प्रस्तुतिः
पौर्णमासेनाऽऽमावास्यादामावास्येनाऽऽपौर्णमासात्।
मूलम्
पौर्णमासेनाऽऽमावास्यादामावास्येनाऽऽपौर्णमासात्।
टीका
स्वकाले पौर्णमासं कृत्वा तेनैवाहरहर्यजेतामावास्यायाःकालात्। ततोऽमावास्यां स्वकाले कृत्वा तथैवाहरहरा पौर्णमासात्। एवं संवत्सरे समापयेत्। अत्रापि दर्शपूर्ण मासयोः पुनः क्रिया नास्ति।
विश्वास-प्रस्तुतिः
असमाम्नातास्वर्थात्तन्त्रविकारः।
मूलम्
असमाम्नातास्वर्थात्तन्त्रविकारः।
टीका
अस्मिशास्त्रे या असमाम्नाता इष्टयस्तास्वर्थात्तन्त्रविकारो भवति। इष्टिप्रकरणात्स्त्रीलिङ्गाच्चेष्टिष्वित्यवगम्यते। अर्थात्सामर्थ्याद्द्रव्यदेवतादेश्चोदना217सामान्यात्स्वरूपसामान्याञ्चेत्यर्थः। तदुक्तं प्रकृतिविकार218भावस्य लक्षणं ‘निर्वपेत्तद्धितं चाऽऽज्यम्’ इत्यादिना। तन्त्रविकारस्तन्त्रान्यत्वं पौर्णमासादित्यर्थः। उपदिष्टानामिष्टिपशूनां तन्त्रमुक्तम्, अनुपदिष्टानां कथमित्यपेक्षायां तन्निश्चयार्थमिदं सूत्रचतुष्टयमारब्धम्। अस्यार्थस्य न्यायलभ्यत्वात्पशूनामप्येतत्प्रदर्शनार्थत्वेन व्याख्येयम्।
विश्वास-प्रस्तुतिः
अध्वर्युर्वा यथा स्मरेत्।
मूलम्
अध्वर्युर्वा यथा स्मरेत्।
टीका
अध्वर्युशब्देन यजुर्वेद उच्यते तच्च219प्रदर्शनार्थम्। तेनैत्रं भवति – यत्र क्वापि220वेदेऽस्य221तत्तन्त्रमित्याम्नातं स्यात्तस्य तदेव तन्त्रं भवेन्न न्यायतस्तन्त्रकल्पनेति। वाशब्दोऽवधारणार्थः।
विश्वास-प्रस्तुतिः
वैराजं त्वग्निमन्थने।
मूलम्
वैराजं त्वग्निमन्थने।
टीका
अग्निमन्थनसंयुक्तायामिष्टौ वैराजमेव तन्त्रं भवति। तुशब्दोऽवधारणार्थ एव।
विश्वास-प्रस्तुतिः
धाथ्ये त्वेवैक।
मूलम्
धाथ्ये त्वेवैक।
टीका
अग्निमन्थने सत्यपि धाय्ये एव केवले नियम्येते न वैराजं धाय्याभ्यामन्यन्यायकल्प्यमेव तन्त्रमिति।
असमाम्नातासु तन्त्रलक्षणमुक्त्वेदानी याज्यानुवाक्यालक्षणमुच्यते—
विश्वास-प्रस्तुतिः
देवतलक्षणा याज्यानुवाक्याः।
मूलम्
देवतलक्षणा याज्यानुवाक्याः।
टीका
देवतलक्षणेति च्छान्दसो ह्रस्वः।लक्ष्यतेऽभिधीयते विहितदेवता येन पदेन तल्लक्षणम्। देवताया लक्षणं यास्वृक्षु ता याज्यानुवाक्या भवन्ति। विहितदेवतावाचकपदवत्यइत्यर्थः। व्यधिकरणोऽयं बहुव्रीहिः।
विश्वास-प्रस्तुतिः
गायत्र्यावती हूतवत्युपोत्तवती पुरस्ताल्लक्षणानुवाक्या।
मूलम्
गायत्र्यावती हूतवत्युपोत्तवती पुरस्ताल्लक्षणानुवाक्या।
टीका
इदमनुवाक्यालक्षणम्। गायत्री छन्दः। आ, इत्येतत्पदवत्यावती हूतवती निष्ठान्तग्रहणे धातुमात्रग्रहणं भवतीति सार्वत्रिकमेतत्। हूत इति ह्वेञोरूपम्।उपोक्तवती। उपपूर्वस्य वचेरिदं रूपम्। उपोत्तवतीति प्रमादपाठः। पुरस्ताल्लक्षणा, ऋचः पूर्वभागेदेवतापदं यस्याः सा पुरस्ताल्लक्षणा।
त्रिष्टुब्वती वीतवती जुष्टवत्युपरिष्टाल्लक्षणा याज्या।अपि वान्यस्य च्छन्दसः।
असंभवे विहितच्छन्दसोऽन्यस्य वा याज्यानुवाक्याः कर्तव्याः।
विश्वास-प्रस्तुतिः
न तु याज्या ह्रसीयसी।
मूलम्
न तु याज्या ह्रसीयसी।
टीका
सर्वथा तावदनुवाक्याया याज्या हसीयसी न भवति।
विश्वास-प्रस्तुतिः
नोष्णिनङ्न बृहती।
मूलम्
नोष्णिनङ्न बृहती।
टीका
नोष्णिङ् न बृहती याज्येत्यर्थः।
विश्वास-प्रस्तुतिः
क्षामनष्टहतदग्धवतीस्तु वर्जयेत्।
मूलम्
क्षामनष्टहतदग्धवतीस्तु वर्जयेत्।
टीका
एकवचनाधिकारे बहुवचनं याज्यानुवाक्यापरिग्रहणार्थम्।
विश्वास-प्रस्तुतिः
व्यक्ते तु दैवते तथैव।
मूलम्
व्यक्ते तु दैवते तथैव।
टीका
सर्वलक्षणसंपादनाशक्तौ स्वपदार्थपर्यवसिते कार्ये देवतापदे सति तथैवाऽऽश्रवणीयं न लक्षणान्तरमन्वेषणीयमित्यर्थः।
विश्वास-प्रस्तुतिः
लक्षणमपि वाऽव्यक्ते।
मूलम्
लक्षणमपि वाऽव्यक्ते।
टीका
अथ वैवं भवति - अव्यक्ते देवतापदे सति लक्षणं गायत्र्याद्याश्रयणीयमित्यर्थः। अव्यक्त इति चोदितनामधेयपर्यायेचा वज्रहस्तधूमकेत्वादिपदे चोदितनामधेये वा पदार्थ222सतीत्यर्थः।
विश्वास-प्रस्तुतिः
अनधिगच्छन्सर्वशः।
मूलम्
अनधिगच्छन्सर्वशः।
टीका
उभयथाऽप्यभावे सर्वशोऽधिगन्तव्याः शाखान्तरादाहर्तव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
अनधिगम आग्नेयीभ्याम्।
मूलम्
अनधिगम आग्नेयीभ्याम्।
टीका
एवमप्यसंभवे याभ्यां काभ्यांचिदाग्नेथीभ्यां यजेतानुब्रूयाच्चेत्यर्थः।
विश्वास-प्रस्तुतिः
व्याहृतिभिर्वा।
मूलम्
व्याहृतिभिर्वा।
टीका
तत्रानुब्रूयाद्यजेच्चेत्यर्थः। एवं व्याहृतिर्भिरित्याह—
विश्वास-प्रस्तुतिः
देवतामादिश्य प्रणुयाद्यजेच्च।
मूलम्
देवतामादिश्य प्रणुयाद्यजेच्च।
टीका
पुरस्ताल्लक्षणत्वायानुवावयायां देवतां द्वितीयया विभक्त्याऽऽदिश्य ततो भूर्भुवः स्वरोमेति ब्रूयात्। याज्यायामागुरमुक्त्वा ततो देवतां ततो व्याहृतीःपुनस्तां देवतामुपरिष्टल्लक्षणत्वाय ततो वषट्कार इति223।
विश्वास-प्रस्तुतिः
नम्राभ्यां वा।
मूलम्
नम्राभ्यां वा।
टीका
नम्रे इति नामधेयमृचोर्वश्यमाणयोः।
इम224माशृणुधी हवं यं त्वा गीर्भिर्हवामहे। एवं बर्हिर्निषीद नः। तीर्णं बर्हिरानुषगासदेतदुपेलाना इह नो अद्य गच्छ।अहेलता मनसेदं जुषस्व वीहि हव्यं प्रयतमाहुतं म इति नम्रे।
एतेनम्रसंज्ञे। पुनर्नम्रे इति वचनमेतयोर्नमनप्राप्त्यर्थम्। नम्रे नमनशीले गुह्ये इत्यर्थः।
विश्वास-प्रस्तुतिः
आग्नेय्यावनिरुक्ते॥ १४॥
मूलम्
आग्नेय्यावनिरुक्ते॥ १४॥
टीका
देवतापदरहिते इत्यर्थः। तथाऽप्यग्निदेवत्ये एते ऋचौ भवत इत्यर्थः॥ १४॥
विश्वास-प्रस्तुतिः
चातुर्मास्यानि प्रयोक्ष्यमाणः पूर्वेद्युर्वैश्वानरपार्जन्याम्।
मूलम्
चातुर्मास्यानि प्रयोक्ष्यमाणः पूर्वेद्युर्वैश्वानरपार्जन्याम्।
टीका
चातुर्मास्यानीतीष्ट्ययननाम।तानि च वैश्वदेवादीनि चत्वारि पर्वाणि।तानि फाल्गुन्यां चैत्र्यां वाऽऽर225प्स्यमानस्तस्याः पूर्वस्मिन्नहनि वैश्वानर226पर्जन्यदेवत्यामिष्टिं चातुर्मास्यानामारम्भार्थं कुर्यात्। द्वे एते देवते याज्यानुवाक्यायुगल227दर्शनात्। वैश्वानरोऽग्नेर्गुणः, याज्यानुवाक्ययोरग्निलिङ्गत्वात्। यद्यध्वर्यवः केवलं वैश्वानरं कुर्युस्तदा ‘ऋतावानं वैश्वानरं नाभिं यज्ञानां सदनम्’ इति याज्यानुवाक्ये भवतः।
विश्वास-प्रस्तुतिः
वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम्। क्ष्मया वृधान ओजसा। पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृत्या त उपांशुहविषः।
मूलम्
वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम्। क्ष्मया वृधान ओजसा। पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृत्या त उपांशुहविषः।
टीका
अग्न्याधेयं प्रभृतिं कृत्वा वैश्वानरपार्जन्यान्ता इष्टयो यास्ता उपांशुहविष उपांशुप्रधाना इत्यर्थः।
विश्वास-प्रस्तुतिः
सौमिक्यः।
मूलम्
सौमिक्यः।
टीका
सोमोत्पन्नाः।
विश्वास-प्रस्तुतिः
प्रायश्चित्तिक्यः।
मूलम्
प्रायश्चित्तिक्यः।
टीका
प्रायश्चित्तप्रकरणोत्पन्नाः।
विश्वास-प्रस्तुतिः
अन्वायात्यैककपालाः।
मूलम्
अन्वायात्यैककपालाः।
टीका
अन्वायात्यैककपालानामिष्टित्वासंभवाद्यागा विशेष्यन्ते। अन्वायात्या एककपालाश्च ये यागास्त उपांशु प्रयोक्तव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
सर्वत्र वारुणवर्जम्।
मूलम्
सर्वत्र वारुणवर्जम्।
टीका
सर्वत्र विषये वारुणं वर्जयित्वोपांशुत्वं भवति। न क्वचिदपि विषये वारुण उपांशुर्भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
सावित्रश्चातुर्मास्येषु।
मूलम्
सावित्रश्चातुर्मास्येषु।
टीका
चातुर्मास्येषु सावित्र उपांशुर्भवति।
विश्वास-प्रस्तुतिः
प्रधानहवींषि चैके।
मूलम्
प्रधानहवींषि चैके।
टीका
हवींषीत्येतावता प्रधानप्रत्यये सिद्धे प्रधानवचनं प्रधानान्तरस्य * संप्रत्ययार्थम्। अतो ये चतुर्णांपर्वणां + व्यपदेशहेतवो वैश्वदेव228वारुणप्रघासमाहेन्द्रशुनासीरीयास्ते प्रधानशब्दवाच्याः। तेषामुपांशुत्वं भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
पित्र्योपसदः सतन्त्राः।
मूलम्
पित्र्योपसदः सतन्त्राः।
टीका
तन्त्रेण सहैता उपांशवो भवन्ति।
विश्वास-प्रस्तुतिः
पौनराधेयिकी च प्रागुत्तमादनुयाजात्।
मूलम्
पौनराधेयिकी च प्रागुत्तमादनुयाजात्।
टीका
याऽस्माभिराम्नाता पुनराधेयेष्टिः सा चोत्तमादनुयाजात्प्राक्सतन्त्रोपांशुर्भवति।
विश्वास-प्रस्तुतिः
अपि वा सुमन्द्रतन्त्राः।
मूलम्
अपि वा सुमन्द्रतन्त्राः।
टीका
यासु सतन्त्रमुपांशुत्वं विहितं ताः सर्वाः सुमन्द्रतन्त्रा वा भवेयुः। सुमन्द्रतन्त्रा इति। मन्द्रेऽपि ये पूर्वतरा यमास्तैः प्रयोक्तव्यं तासां तन्त्रम्। प्रधानं तूपांश्ववेत्यर्थः।
विश्वास-प्रस्तुतिः
आगूःप्रणववषट्कारा उच्चैः सर्वत्र।
मूलम्
आगूःप्रणववषट्कारा उच्चैः सर्वत्र।
टीका
प्रणवशब्देनात्रानुवाक्याप्रणव एव गृह्यते, आगूर्वषट्कारसाहचर्यात्। आगुरादयः सर्वविषय उच्चैर्भवन्ति न क्वचिदपि विषये तेषामप्युपांशुत्वं स्यात्।
विश्वास-प्रस्तुतिः
तथाऽऽग्रयणे229ऽग्र्यम्।
मूलम्
तथाऽऽग्रयणे229ऽग्र्यम्।
टीका
अग्रे भवमग्र्यम्। आग्रयणे यत्प्रथमं हविराग्नेन्द्रमैन्द्राग्नं वा तदुच्चै×र्भवति।
_______________________________________________________________
*क. – ज्ञापनार्थम्। +क. – व्यवच्छेदहेतवः। ×घ. – केवलश्यामाकेष्टयां सौम्यस्यैकस्याप्युच्चैष्ट्वं भवति, आद्यन्तवदेकस्मिन्निति परिभाषयेति सिद्धान्तभाष्ये।
————————————————————————————————————
*आहार्यस्तु प्राणसंततः प्रणवः पुरोनुवाक्यायाः।
पुरोनुवाक्यायाः प्रणवस्योच्चैष्ट्वं विहितं स प्रणवः पुरोनुवाक्यायाः प्राणसंततः कार्यः।
विश्वास-प्रस्तुतिः
तथाऽऽगूर्वषट्कारौ याज्यायाः।
मूलम्
तथाऽऽगूर्वषट्कारौ याज्यायाः।
टीका
तथैतौ याज्यायाः प्राणसंततौ कार्यावित्यर्थः। आगूरादिभिः प्रसिद्धोच्चस्वरैर्याज्यानु वाक्ययोः प्राणसंतानविधिसामर्थ्यादेवोपांशुत्वं सिद्धं भवति। प्राणसंततः प्रणवः, तथाऽऽगूर्वषट्कारावित्येतावतैव याज्यानुवाक्ययोरुपांशुत्वस्य प्राणसंतानस्य च सिद्धौ सत्यामपि यद्याज्यानुवाक्याग्रहणं करोति तज्ज्ञापयति अनुवाक्याया याज्यायाश्च पृथक्कृत्य प्राणसंतानेनाऽऽगूःप्रणववषट्कारा वक्तव्या ऋग230न्तस्य ॠगा231देश्च प्लुता232दन्यः सांहितो विकारो मा भूदिति।
विश्वास-प्रस्तुतिः
तन्त्रस्वराण्युपांशोरुच्चानि।
मूलम्
तन्त्रस्वराण्युपांशोरुच्चानि।
टीका
तन्त्रस्वरा आतो मन्द्रेणेत्येवमादिभिर्विहिताः। ते तन्त्रावयवसंबद्धत्वात्तन्त्रस्वरा इत्युच्यन्ते। ते येषां तानि तन्त्रस्वराण्युपांशुयाजसंबन्धीनि।यान्युच्चान्यावहान्यागुरादीनि च तानि तन्त्रस्वराणि भवन्ति।
विश्वास-प्रस्तुतिः
मन्द्राण्युपांशुतन्त्राणाम्॥ १५॥
मूलम्
मन्द्राण्युपांशुतन्त्राणाम्॥ १५॥
टीका
उपांशुतन्त्राणां तान्युच्चानि मन्द्रस्वराणि भवन्ति। न तन्त्रस्वराणि भवन्तीत्यर्थः॥ १५॥
विश्वास-प्रस्तुतिः
प्रातर्वैश्वदेव्यां प्रेषितोऽग्निमन्थनीया अन्वाह पश्चात्सामिधेनीस्थानस्य पदमात्रेऽवस्थायाभिहिंकृत्य।
मूलम्
प्रातर्वैश्वदेव्यां प्रेषितोऽग्निमन्थनीया अन्वाह पश्चात्सामिधेनीस्थानस्य पदमात्रेऽवस्थायाभिहिंकृत्य।
टीका
प्रातरित्युच्यते233, प्रयोक्ष्यमाणः पूर्वे+द्यूरित्यनद्यत234नविभक्तिदर्शनापूर्वेद्युरेव वैश्वदेव्या अपि यागः प्राप्नोतीति तन्निवृत्त्यर्थम्। अतः पूर्वेद्युरुपक्रम्यापरेद्युः प्रातर्वैश्वदेव्या235 यष्टव्यमित्यर्थः। अग्निमन्थनार्था ऋचोऽग्निमन्थनीयास्ताः प्रेषितोऽनुब्रूयात्। प्रेषितवचनमस्यानुवचनस्य प्रैष एव निमित्तं नाऽऽम्ना236नम्। अनाम्ना237नेऽपि प्रेषितोऽनुब्रूयादेवेति। सामि —
_________________________________________________________________
* घ. - अधिकं हर्तव्य इति सिद्ध न्तभाष्ये। + क. — पूर्वेत्यिसयः परुदिति सूत्रेण जायमान एद्युस्स्वार्थे जायमानत्वादनद्यतनार्थकः प्राग्दिर्शायत्वाद्विभक्तिसंज्ञकः। एवं च पूर्वेयुरित्यत्र, एयुस अनयतन विभक्तित्वत्पूर्वेद्युर्यागः।
————————————————————————————————————
धेनीस्थानस्य पश्चादवस्थायेत्येतावतैव पदमात्रेऽवस्थानस्य सिद्धौ सत्यां पदमात्र इतिवचनं पदमात्रेऽतीत इति * ज्ञापनार्थम्। अभिहिंकृत्येतिवचनमस्यानुवचनस्याभिहिंकारप्रतिषेधे सत्यप्यभिहिंकृतिसिद्धयर्थम्। तथा च वक्ष्यति– ‘प्रातरनभ्यासमनभिहिंकृतानि’ इति।
विश्वास-प्रस्तुतिः
अभि त्वा देव सवितर्मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधीतितिसृ238णामर्धर्चं शिष्ट्वारमेदा संप्रैषात्।
मूलम्
अभि त्वा देव सवितर्मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधीतितिसृ238णामर्धर्चं शिष्ट्वारमेदा संप्रैषात्।
टीका
त्वामग्न इति तिस्र ऋचः। तासामुत्तममर्धर्चंशिष्ट्वा यदवसानं तत्रावसायाऽऽरमेत्। आ संप्रैषात्, आ संप्रैषश्रवणात्। नोत्तरामाददीतेत्यर्थः।
विश्वास-प्रस्तुतिः
अन्यत्राप्यन्तर्ऋचोऽवसाने।
मूलम्
अन्यत्राप्यन्तर्ऋचोऽवसाने।
टीका
अन्यत्रापि विषय ऋचो मध्येऽवसाने यत्राऽऽस्मेदिति विधिरस्ति तत्राप्यासंप्रेषान्नोतरा239मारभेत।
विश्वास-प्रस्तुतिः
अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणमिति सूक्तमावपेत पुनः पुनराजन्मनः।
मूलम्
अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणमिति सूक्तमावपेत पुनः पुनराजन्मनः।
टीका
मथ्यमानोऽग्नियदि न जायते तदा तत्रैवावसाने स्थित्वाऽग्ने हंसीत्यावपेत्। पुनः पुनरसकृदप्यावपेत, अग्नेराजन्मनः। आजन्मन इतिवचनाज्जाते सति संप्रैषात्प्रागपि सूक्तस्य कांचिदप्यृचं नाऽऽरभेत। एतस्मिन्नेवावसान इतिवचनादेतस्मिन्नेवार्धर्चावसान ऋगन्तरमावपेन्नान्यत्र। अन्यत्र ऋगन्त एवर्गन्तरमावपेतेति गम्यते। तेन यदा यूपसंस्कारेष्वञ्जनोच्छ्रयणपरित्र्ययणेषु पदार्थानुसमयं कुर्वन्ति बहुयूपे कर्मणि तदा ऋगन्त ऋगन्तरावापः सिद्धो भवति। पादग्रहणसूक्तग्रहणयोः प्रयोजनमावापे पूर्वावधिरेका ऋक240्, परावधिः सूक्तम्। तत्रैकस्या द्वयोर्बहूनां वा ऋचां सूक्तस्य वाऽऽवापः सिद्धो भवति। आवृत्तौ च सूक्तं समाप्यैवाऽऽवृत्तिरित्येवमादि।
विश्वास-प्रस्तुतिः
जातं श्रुत्वाऽनन्तरेण प्रणवेन शिष्टमुपसंतनुयात्।
मूलम्
जातं श्रुत्वाऽनन्तरेण प्रणवेन शिष्टमुपसंतनुयात्।
टीका
जातश्रवणानन्तरमग्ने हंसीत्यस्य सूक्तस्य यः प्रणव आगच्छति तेन शिष्टमर्धर्चमुपसंतनुयात्।
विश्वास-प्रस्तुतिः
शिष्टेनोत्तराम्।
मूलम्
शिष्टेनोत्तराम्।
टीका
अनावापपक्षे जातश्रवणानन्तरमेव शिष्टेनार्धर्चेनोत्तरामृचमुपसंतनुयात्।
_________________________________________________________________
* घ. –मात्रशब्दः समीपवाची। पदादीषन्न्यूनेऽधिके वा नास्ति दोष इति सिद्धान्तभाष्ये।
————————————————————————————————————
विश्वास-प्रस्तुतिः
उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनमित्यर्धर्च आरमेत्। प्रदेवं देव वीतय इति द्वे अग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अग्निना तं मर्जयन्त सुक्रतुं यज्ञन यज्ञमयजन्त देवा इति परिदध्यात्।
मूलम्
उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनमित्यर्धर्च आरमेत्। प्रदेवं देव वीतय इति द्वे अग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अग्निना तं मर्जयन्त सुक्रतुं यज्ञन यज्ञमयजन्त देवा इति परिदध्यात्।
टीका
यज्ञेनेत्यनयर्चा परिदध्यात्। समापयेदित्यर्थः।
विश्वास-प्रस्तुतिः
सर्वत्रोत्तमां परिधानीयेति विद्यात्।
मूलम्
सर्वत्रोत्तमां परिधानीयेति विद्यात्।
टीका
सर्वत्र शस्त्रादिषु योत्तमा ऋक्तां परिधानीयेति विद्यात्।
विश्वास-प्रस्तुतिः
धाय्ये विराजौ नव प्रयाजाःप्रागुत्तमाच्चतुर आवपेत दुरो अग्न आज्यस्य व्यन्तूपासा नक्ताग्न आज्यस्य वीतां दैव्या होताराग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्त्विति।
मूलम्
धाय्ये विराजौ नव प्रयाजाःप्रागुत्तमाच्चतुर आवपेत दुरो अग्न आज्यस्य व्यन्तूपासा नक्ताग्न आज्यस्य वीतां दैव्या होताराग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्त्विति।
टीका
बर्हिरग्न इति प्रयाजानन्तरमेतानावपेत्।
विश्वास-प्रस्तुतिः
अग्निः सोमः सवितः सरस्वती पूषा मरुतः स्वतवसो विश्वे देवा द्यावापृथिवी।
मूलम्
अग्निः सोमः सवितः सरस्वती पूषा मरुतः स्वतवसो विश्वे देवा द्यावापृथिवी।
टीका
अष्टौ देवताः। स्वतवस इति मरुतां गुणः।
विश्वास-प्रस्तुतिः
आ विश्वदेवं सत्पतिं वाममद्य सवितर्वाममुश्वः पूषन्तव व्रते वयं शुक्रं ते अन्यद्यजतं ते अन्यदिहेहवः स्वतवसः प्रचित्रमर्कं गुणतेतुरायेति।
मूलम्
आ विश्वदेवं सत्पतिं वाममद्य सवितर्वाममुश्वः पूषन्तव व्रते वयं शुक्रं ते अन्यद्यजतं ते अन्यदिहेहवः स्वतवसः प्रचित्रमर्कं गुणतेतुरायेति।
टीका
अस्मिन्प241र्वणि निर्गुणानामपि मरुतामेते एव भवतः प्रकरणपठितत्वात्। गुणशब्दस्य च स्तुत्यर्थतयाऽप्यन्वयसंभवात्।
विश्वास-प्रस्तुतिः
नवानुयाजाः पलूर्ध्वं प्रथमाद्देवीर्द्वारोवसुवने वसुधेयस्य व्यन्तु। देवी उपासा नक्ता वसुवने वसुधेयस्य वीताम्। देवी जोष्ट्रीवसुवने वसुधेयस्य वीताम्।देवी ऊर्जाहुती वसुवने वसुधेयस्य वीताम्। देवा दैव्या होतारा वसुवने वसुधेयस्य वीताम्।देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्त्विति।
मूलम्
नवानुयाजाः पलूर्ध्वं प्रथमाद्देवीर्द्वारोवसुवने वसुधेयस्य व्यन्तु। देवी उपासा नक्ता वसुवने वसुधेयस्य वीताम्। देवी जोष्ट्रीवसुवने वसुधेयस्य वीताम्।देवी ऊर्जाहुती वसुवने वसुधेयस्य वीताम्। देवा दैव्या होतारा वसुवने वसुधेयस्य वीताम्।देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्त्विति।
टीका
अनुयाजानामेष देशः कृतः।
विश्वास-प्रस्तुतिः
अनुयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टाद्वाजिभ्यो वाजिनमनावाह्याऽऽदेशम्।
मूलम्
अनुयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टाद्वाजिभ्यो वाजिनमनावाह्याऽऽदेशम्।
टीका
त्रयाणामन्यतमस्मिन्काले वाजिभ्योयागः कर्तव्यः। वाजिनं च तस्य द्रव्यम्। द्रव्यशब्देन कर्मणः संव्यवहारार्थं तद्वचनम्। अनावाह्येत्यावाहनप्रतिषेधोऽयमनुवादः, अपूर्वत्वादस्य कर्मणः242। पूर्ववत्त्वेकारणाभावात्।द्रव्यदेवतासंबन्धमात्रमत्र चोद्यते। नैतावता प्राकृतधर्मसंबन्धोऽस्ति। उक्तं च प्राकृतधर्मसंबन्धे कारणं निर्वपत्यादि। तस्य चात्राभावः। तेनापूर्वत्वं निश्चीयते। इष्टिशब्दवाच्यता चास्य नास्ति तेन चापूर्वत्वम्। तस्मादपूर्वत्वादुत्तरेष्वपिनिगमेषु निगमनं नास्ति। आदेशवचनं वाजिनामन्वायात्यत्वसंशयनिवृत्त्यर्थम्। तत्रायं संशयः – किं यस्य कस्यचित्प्रधानस्यानु पश्चादायात्यते क्रियते तत्सर्वमन्वायात्यमुतान्वायात्यशब्दचोदितमेवेति। तत्र तच्छब्दचोदिते243 चातच्छब्दचोदिते244 चान्वायात्यशब्दप्रवृत्तिनिमित्तस्य विशेषाभावाद्य245र्त्किचिदन्यानुप्रवेशि246 तत्सर्वमन्वायात्यमिति कृत्वा वाजिनामप्यन्वायात्यत्वादनादेशः प्राप्नोति। एवं प्राप्तेऽनुप्रवेशिनामादेशं विदधन्नानुप्रवेशित्वमन्वायात्यत्वे निमित्तमिति दर्शितवानाचार्यः। अतस्ततिच्छन्दचोदितमेवान्वायात्यमिति सिद्धम्। एतदेवाऽऽदेशवचनस्य प्रयोजनं नान्यदिति मन्तव्यम्।
** शं नो भवन्तु वाजिनो हवेषु वाजे वाजेऽवत वाजिनो न इत्यूर्ध्वज्ञुरन*वानं याज्याम्।**
ऊर्ध्वशुरूर्ध्वजानुः। याज्याग्रहणस्य प्रयोजनमनुवषट्कार ऊर्ध्वज्ञुता मा भूदिति।
विश्वास-प्रस्तुतिः
अग्ने वीहीत्यनुवषट्कारो वाजिनस्याग्ने वीहीति वा। यत्र क्व चैकसंप्रेषे द्वौ वषट्कारौसमस्तावेव तत्र द्विरनुमन्त्रयेत।
मूलम्
अग्ने वीहीत्यनुवषट्कारो वाजिनस्याग्ने वीहीति वा। यत्र क्व चैकसंप्रेषे द्वौ वषट्कारौसमस्तावेव तत्र द्विरनुमन्त्रयेत।
टीका
संव्यवहारार्थमिदम्। यत्र क्वच विषय एकस्मिन्नवाध्वर्युसंप्रैषे तुल्यरूपावतुल्यरूपौ वा द्वौ वषट्कारौ भवतरतत्र तौ वषट्कारौ समस्तावेव। ‘वागोजः’इत्यादिना द्विरनुमन्त्रयेत247नैकैकम्।
विश्वास-प्रस्तुतिः
न चाऽऽगूरुत्तरस्मिन्।
मूलम्
न चाऽऽगूरुत्तरस्मिन्।
टीका
याज्यादावागूर्भवतीत्युक्तत्वादनुवषट्कारेऽप्यागूःप्राप्तो निषेवः। आगुरः प्रतिषेधो याज्याधर्माणामितरेषां प्रापणार्थः।
विश्वास-प्रस्तुतिः
वाजिनभक्षमिलामिव प्रतिगृह्योपहवमिच्छेत।
मूलम्
वाजिनभक्षमिलामिव प्रतिगृह्योपहवमिच्छेत।
टीका
इष्ट248शिष्टं वाजिनं भक्षार्थंपात्रेणाऽऽनीतमिXलामिवाञ्जलिना प्रतिगृह्याञ्जलौ निधायोपहवमिच्छेत भक्षणानुज्ञापनार्थम्। वाजिनभक्षसंबन्धिनः सर्वान्या249चेतेत्यर्थः।
_________________________________________________________________
*घ. अनवानमनुच्छ्वसन्निति देवत्रातभाष्ये। Xघ. इलामिवेतिवचनादास्यसंमितस्य प्राणसंमितस्य वा धारणं लभ्यत इति सिद्धान्तभाष्ये।
————————————————————————————————————
सर्वेषु भक्षसंबन्धिषूपहवयाचनं कर्तव्यमित्युक्तम्। तदनेन क्रमेणैवंप्रकारेण वाक्येनेत्याह—
विश्वास-प्रस्तुतिः
अध्वर्य उपह्वयस्थ ब्रह्मन्नुपह्वयस्वाग्नीदुपह्वयस्वेति।
मूलम्
अध्वर्य उपह्वयस्थ ब्रह्मन्नुपह्वयस्वाग्नीदुपह्वयस्वेति।
टीका
वचनसामर्थ्यादेवैषामयं क्रमः। एत आदितोऽन्ततोऽन्ये भक्षिणः,। वाक्यं चैवंप्रकारं कर्मनामधेययुक्तमित्येत250त्तत्सर्वमवगम्यते। अतोऽन्ततो यजमानोपह्वयस्वेत्येतदपि लब्धं भवति251 प्रतिवचनशब्दस्यास्मिञ्शास्त्रेऽनुक्तत्वात्तस्य चापेक्षितत्त्चाच्छास्त्रान्तरोक्तस्योपहूत इति शब्दस्य ग्रहणं भवति।
विश्वास-प्रस्तुतिः
यन्मे रेतःप्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः। तेन मा शिवमाविश तेन मा वाजिनं कुरु। तस्य ते वाजिपीलस्योपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयेत्।
मूलम्
यन्मे रेतःप्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः। तेन मा शिवमाविश तेन मा वाजिनं कुरु। तस्य ते वाजिपीलस्योपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयेत्।
टीका
तस्य वाजिनस्य किंचिदादायानेन मन्त्रेणावजिघ्रेत्।
विश्वास-प्रस्तुतिः
एवमध्वर्युर्ब्रह्माग्नीध्रः।
मूलम्
एवमध्वर्युर्ब्रह्माग्नीध्रः।
टीका
एते च प्राणभक्षं भक्षयेयुः।अध्वर्युग्रहणं भक्षणेऽपि ऋमोऽस्तीति ज्ञापनार्थंन तस्यापि प्राणभक्षणनियमार्थम्। अतो होतुर्भक्षणानन्तरमध्वर्यादेः क्रमेण भक्षगं सिद्धं भवति।
विश्वास-प्रस्तुतिः
यजमानःप्रत्यक्षमितरे च दीक्षिताः।
मूलम्
यजमानःप्रत्यक्षमितरे च दीक्षिताः।
टीका
यजमानादितरे च यत्र दीक्षिता भवन्ति तत्र सर्वे प्रत्यक्षमेवभक्षयेयुः। तच्च सत्रे स्वंभवति। तत्र गृहपतेश्चान्येषां च प्रत्यक्षमेवेत्यर्थः। तत्र च क्रमोमुख्यादिगृहपत्यन्तः।
विश्वास-प्रस्तुतिः
पौर्णमासेनेष्ट्वा वा चातुर्मास्यव्रतान्युपेयात्।
मूलम्
पौर्णमासेनेष्ट्वा वा चातुर्मास्यव्रतान्युपेयात्।
टीका
यस्मिन्नहनि वैश्वदेवी क्रियते तस्मादपरस्मिन्नहनि पौर्णमासेनेष्ट्वा तदानीमेव वक्ष्यमाणानि तानि कर्तुमारभेत। पौर्णमासीयायवचनं व्रतारम्भकालविधानार्थं नित्यानामनित्या252नामनिवर्तकत्वारद्वकृतीनामिति।व्रतशब्देन मानसो नियम उच्यते। अतः केशनिवर्तनादीनि करिष्ये, मध्वादीनि वर्जविष्य इति दृढसंकल्पो भवेत्। एतद्व्रतरूपं निवर्तनादीनि च कुर्यात्, मध्वादीनि वर्जयेच्च। न केवलं संकल्पमात्रमेव।
विश्वास-प्रस्तुतिः
केशान्निवर्तयीत।
मूलम्
केशान्निवर्तयीत।
टीका
निव+र्तनं कर्तव्यम्।
_________________________________________________________________
*घ. - आर्तिकज्ययाजनानयोर्विरोध आर्त्विज्यमेव बलीय इत्यत्रदमेव शापकमिति सिद्धान्तभाष्ये।+घ. –निबर्तनं नाम ताम्रक्षुरेण केशव्यूहनमिति सिद्धान्तभाष्ये।
————————————————————————————————————
श्मश्रूणि वापयीताधः शयीत मधुमांसलवणरूपवलेखनानि वर्जयेत्।
केशप्रसाधनादीनि स्वैर253कर्माण्यवले*खनशब्देनोच्यन्ते। पूर्वाणि त्रीणि कार्याणि। पराणि पञ्च वर्जनीयानि। एतानि चातुर्मास्यव्रतानि। चातुर्मास्यब्रतवचनं सर्वेषां पर्वणामेतानि व्रतानि नैकस्यैव संनिहितस्य पर्वण इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
ऋतौ भार्यामुपेयात्।
मूलम्
ऋतौ भार्यामुपेयात्।
टीका
स्त्रीशब्देन प्रतिषिद्धस्य कालविशेषे प्रतिप्रसवोऽ+यम्।
विश्वास-प्रस्तुतिः
वापनं सर्वेषु पर्वसु।
मूलम्
वापनं सर्वेषु पर्वसु।
टीका
उत्तरविवक्षार्थोऽयमनुवादः।
विश्वास-प्रस्तुतिः
आद्योत्तमयोर्वा॥ १६॥
मूलम्
आद्योत्तमयोर्वा॥ १६॥
टीका
आद्योत्तमयोर्वा पर्वणोर्वापनं न मध्यमयोरित्यर्थः। अनुवादाभाव आद्य254न्तयोरेव पावनं स्यात्तच्च विकल्पेन मध्यमयोर्वापनप्रसङ्ग एव नास्तीति गम्यते। तेनाऽऽद्यन्तयोर्नित्यं वापनं मध्यमयोरनित्यमिति सिद्धं भवति॥ १६॥
विश्वास-प्रस्तुतिः
पञ्चम्यां पौर्णमास्यां वरुणप्रघासैः।
मूलम्
पञ्चम्यां पौर्णमास्यां वरुणप्रघासैः।
टीका
यस्यां पौर्णमास्यां वैश्वदेवी कृता तामारभ्य या पञ्चमी पौर्णमासी तस्यां वरुणप्रघासनामकैर्यष्टव्यमित्यर्थः।
पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य प्रेषितोऽग्निप्रणयनीयाः प्रति×पद्यते।
वेदेः पश्चादिति प्रदर्शनार्थम्। प्रणीयमानस्याग्नेःपश्चादित्यर्थः। प्रेषितवचनमुक्तप्रयोजनम्। अग्निप्रणयनीया अग्निप्रणयनार्थाः।
विश्वास-प्रस्तुतिः
प्र देवं देव्या धियेति तिस्र इलायास्त्वाप देव यमग्ने विश्वेभिः स्वनीक देवैरित्यर्धर्च आरभेत्। आसीनः प्रथमामन्वाहोपांशु सप्रणवाम्।
मूलम्
प्र देवं देव्या धियेति तिस्र इलायास्त्वाप देव यमग्ने विश्वेभिः स्वनीक देवैरित्यर्धर्च आरभेत्। आसीनः प्रथमामन्वाहोपांशु सप्रणवाम्।
टीका
उपविष्टस्यैवाऽऽसीन इतिवचनं व्रजत्स्वपि प्रथमामसमाप्य255माऽनुव्रजनायोत्तिष्ठेदित्येवमर्थम्। सप्रणवां समानप्रणवामित्यर्थः। प्रथमायास्तृतीयप्रण256वेऽवसानेऽपि त्रिमात्र एवेत्यर्थः।
_________________________________________________________________
*घ.अवलेपनं नाम श्मश्रुवापनं दन्तधावनं वासःप्रक्षालनं केशप्रसाधनं गात्रमर्दनादीति सिद्धान्तभाष्ये।+ घ. अज्ञातपुत्रश्चैदितिदेवत्रातभाष्यें। × प्रारभत इति देवत्रातभाष्ये।
————————————————————————————————————
विश्वास-प्रस्तुतिः
तत्र स्थानात्स्थानसंक्रमणे प्रणवेनावसायानुच्छ्र्व्स्योत्तरां प्रतिपद्यते।
मूलम्
तत्र स्थानात्स्थानसंक्रमणे प्रणवेनावसायानुच्छ्र्व्स्योत्तरां प्रतिपद्यते।
टीका
तत्र प्रणेवनावसायेत्येतावतैव सिद्धे स्थानात्स्थानसंक्रमण इति वचनमस्य विधेः सर्वार्थत्वाय।तत्रोपांशुस्वरस्थाना-त्स्वरान्तरस्थानसंक्रमणे प्रणवेनावसायानुच्छ्रस्यैवोत्तरामृचमारमेत। ऋगन्ते श्वासस्य प्राप्त्यभावे सत्यप्यनुच्छ्वास-वचनमवसानविधिबलादुच्छ्वासोऽपिप्राप्नोतीति तन्निवृत्त्यर्थमनुच्छ्वासविधानम्। तेनावसानविधानमुच्छ्रासार्थमिति साधितं भवति।अतो यत्रोच्छ्वासप्रतिषेधस्तत्रावसानमपि न कर्तव्यं भवेद्दगावानादौ। अग्निमन्थनाग्निप्रणयनादयो मन्द्रस्वरेण प्रयोक्तव्याः प्राथम्यात्तस्य स्वरस्य। तदतिक्रमणे कारणाभावात्257। आतो मन्द्रेणेत्यत्र पूर्वावधेरभावाच्च258।
विश्वास-प्रस्तुतिः
प्राणसंततं भवतीति विज्ञायते।
मूलम्
प्राणसंततं भवतीति विज्ञायते।
टीका
यदिदमवसायानुच्छ्वस्योत्तरामारभत इति तत्प्राणसंततं भवतीति विज्ञायते259श्रुतेत्यर्थः।
विश्वास-प्रस्तुतिः
उत्तरमग्निमनुव्रजन्नुत्तराः।
मूलम्
उत्तरमग्निमनुव्रजन्नुत्तराः।
टीका
अनुब्रूयादिति शेषः। द्वयोः प्रणीयमानत्वादुत्तरमिति विशेष्यते। अग्निद्वित्वेऽप्याहवनीयद्वित्वाभावान्मन्त्राणामूहो नास्ति।
विश्वास-प्रस्तुतिः
इमं महे विदध्याय शूपमयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये।
मूलम्
इमं महे विदध्याय शूपमयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये।
टीका
समानजातीयत्वादेवाऽऽभ्यां बाधः प्रदेवमित्यस्याः। अयं राजन्यवैश्ययोर्विशेषःअन्यत्समानम्।
विश्वास-प्रस्तुतिः
पश्चादुत्तरस्या वेदेरवस्थाय।
मूलम्
पश्चादुत्तरस्या वेदेरवस्थाय।
टीका
शेषं समापयेदितिशेषः। वेदिद्वित्वादुत्तरस्या इत्युच्यते।
विश्वास-प्रस्तुतिः
उत्तरवेदेस्तु सोमेषु।
मूलम्
उत्तरवेदेस्तु सोमेषु।
टीका
पश्चादवस्थाय समापयेदिति शेषः।
निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान्नि होता होतृपदनेविदान इति द्वे परिधाय तस्मिन्नेवाऽऽसन *उपविश्य भूर्भुवः स्वरितिवाचं विसृजेत।
अत्र निहितेऽग्नावित्युत्तरादानस्य निमित्तं नाध्वर्युसंप्रैपः। तस्मिन्नेवेति यस्मिन्निदमनुवचनमारब्धं तस्मिन्नेवेत्यर्थः।
————————————————————————————————————
* घः.–इदमुपवेशनं गौतममते समन्त्रकमाश्वलायनमते त्वमन्त्रकम्।
————————————————————————————————————
विश्वास-प्रस्तुतिः
अन्यत्रापि यत्रानुब्रुवन्ननुव्रजेत्260।
मूलम्
अन्यत्रापि यत्रानुब्रुवन्ननुव्रजेत्260।
टीका
तत्राप्येवं कर्तव्यमितिशेषः। अनुब्रुवन्नितिवचनमनुवचन एवैतत्स्यान्नाभिष्टवनाष्वित्येवमर्थम्।
विश्वास-प्रस्तुतिः
तिष्ठत्संप्रैषेषु261 तथैव वाग्विसर्गः॥
मूलम्
तिष्ठत्संप्रैषेषु261 तथैव वाग्विसर्गः॥
टीका
तिष्ठतः संप्रेषेषु तिष्ठत एव वाग्विसर्गो* भवति।
विश्वास-प्रस्तुतिः
अग्निमन्थनादिसमाना वैश्वदेव्या।
मूलम्
अग्निमन्थनादिसमाना वैश्वदेव्या।
टीका
इयमिष्टिर्वैश्वदेव्यासमाना भवति। द्वयोरपि मध्यमानयोरग्निद्वित्वं नास्ति, एकस्यैवायमग्नेर्विभाग इति कृत्वा। अनूहेनाऽऽहवनीया भिधायिनां प्रयोगसिध्द्यर्थमाश्नमन्थना दिसमानावचनम्।
विश्वास-प्रस्तुतिः
हविषां तु स्थाने षष्ठप्रभृतीनामिन्द्रामी मरुतो वरुणः कः।
मूलम्
हविषां तु स्थाने षष्ठप्रभृतीनामिन्द्रामी मरुतो वरुणः कः।
टीका
अयमत्र विशेषः। षष्ठ्याद्यास्तित्र उद्धृत्येन्द्राग्न्यादयश्चतस्रः262 कर्तव्या इति।
इन्द्राग्नीं अवसा गतं श्नथद्वत्रमुत सनोति वाजं मरुतो यस्य हिक्षयेऽरा इवेद चरमा अहेवेमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वन्दमानः कयानश्चित्र आभुवद्धिरण्यगर्भः समवर्तनाग्र इति प्रतिप्रस्थाता वाजिने तृतीयः।
उपहवयाचनेऽयं तृतीयो भवति। भक्षणे चतुर्थः। उपहवयाचनं होत्रादियजमानान्तम्। होतुरध्वर्य्वादि। यजमानस्याग्नीदन्तम्। भक्षणं तु होत्रादियजमानान्तमेवं। वैश्वदेव्यामष्वेवमेव।
विश्वास-प्रस्तुतिः
संस्थितायामवभृथं व्रजन्ति।
मूलम्
संस्थितायामवभृथं व्रजन्ति।
टीका
संस्थितायामिष्टाववभृथकर्मार्थमुदकं गच्छन्त्यध्वर्यव इत्यर्थः।
विश्वास-प्रस्तुतिः
तत्रावभृथेष्टिः कृताकृता।
मूलम्
तत्रावभृथेष्टिः कृताकृता।
टीका
कृतिरेव कृलम्। कृतं चाकृतं च यस्याः साकृताकृता। अनित्येत्यर्थः। इष्ट्यभावेयदन्यदप्यवधानादि तत्सर्वं263 न भवति।
विश्वास-प्रस्तुतिः
तामुपरिष्टाद्व्याख्यास्यामो द्वयोर्मासयोरैन्द्राग्नः पशुः॥ १७॥
मूलम्
तामुपरिष्टाद्व्याख्यास्यामो द्वयोर्मासयोरैन्द्राग्नः पशुः॥ १७॥
टीका
वरुणप्रघासपौर्णमासीमारभ्य तृतीयस्यां पौर्णमास्यामित्यर्थः। अनेन चातुर्मास्याङ्गत्वेन
विश्वास-प्रस्तुतिः
————————————————————————————————————————————
मूलम्
————————————————————————————————————————————
टीका
*घ. - देवत्रातभाष्ये तु ‘तिष्ठत्संप्रैषे तु’ इति तुशब्दसहितमेकवचनान्तपाठमङ्गीकृत्यतुशब्दो विशेषविध्यर्थं इति
व्याख्या।
————————————————————————————————————
पश्चन्तरं विधीयते। नानेन निरूढकालो264 विधीयते। अतो निरूढोऽपि स्वकाले कर्तव्यएव॥ १७॥
विश्वास-प्रस्तुतिः
तथा ततः साकमेधाः।
मूलम्
तथा ततः साकमेधाः।
टीका
यथा वरुणप्रघासेभ्य ऐन्द्राग्नस्तथैन्द्राग्नात्साकमेधाः। द्वयोर्मासयोरित्यर्थः। अनीकवदादीनामादित्यान्तानां साकमेधा इति नाम।
विश्वास-प्रस्तुतिः
पूर्वेद्युस्तिस्र इष्टऽयोनुसवनम्।
मूलम्
पूर्वेद्युस्तिस्र इष्टऽयोनुसवनम्।
टीका
यस्यां पौर्णमास्यां साकमेधा यष्टव्यास्तस्याः पूर्वेद्युः सवने सवन एकैकेष्टिः कार्या।
** प्रथमायामग्निरनीकवाननीकवन्तमूतयेऽग्निं गीर्भिर्हवामहे। सनःपर्षदतिद्विषः सैनानीकेन सुविदत्रोअस्मे इति। उत्तरस्यांवृधन्वन्तौमरुतः सांतपनाः सांतपना इदं हविर्योनो मरुतो अभिदुर्हृणायुरिति।मरुद्भ्यो गृहमेधेभ्य उत्तराऽऽज्यभागप्रभृतीलान्ता।**
मरुतो गृहमेधा देवताः। आज्यभागप्रभृतिश्च सेलान्ता चेत्याज्यभागप्रभृतीलान्ता।
गृहमेघास आगत प्रबुध्न्या व ईरते महांसीति।
आम्नातत्वादेते एव गृहमेधेभ्यो265 भवतः।
विश्वास-प्रस्तुतिः
पुष्टिमन्तौ विराजौ संयाज्ये अनिगदे।
मूलम्
पुष्टिमन्तौ विराजौ संयाज्ये अनिगदे।
टीका
इह विराजौ संयाज्येइत्युक्तम्। ते संयाज्ये अनिगदे निगदरहिते भवत इत्यर्थः।निगद् इति ‘अयालग्निः’ इत्यादि ‘जुषतां हविः’ इत्येवपन्तमुच्यते266।
विश्वास-प्रस्तुतिः
अन्यत्राप्यनावाहने।
मूलम्
अन्यत्राप्यनावाहने।
टीका
गृहमेधीयादन्यत्रापि यत्राऽऽवाहनं नास्ति तत्राप्यनिगदे संयाज्ये भवतः। अन्यत्रापीति योगविभागार्थमुच्यते। तस्य प्रयोजनमन्यत्रानावाहनेऽनिगदे भवत इह त्वावाहनेऽनावाहने वाऽनिगदे एवेत्येवमर्थम्। अत एवात्र पक्ष आवाहनमप्यस्तीति ज्ञापितं भवतीतिगम्यते। पूर्वसूत्रे संयाज्याग्रहणस्येदं प्रयोजनमिदमनिगदत्व विधानं संयाज्यामात्रस्य नविराज एवेति ज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
आवाहनेऽपि पित्र्यायां पशौच।
मूलम्
आवाहनेऽपि पित्र्यायां पशौच।
टीका
अनयोरावाहने सत्यप्यनिगदे एव267संयाज्ये भवतः।
विश्वास-प्रस्तुतिः
बहु चैतस्यां रात्र्यामन्नंप्रसुवीरन्।
मूलम्
बहु चैतस्यां रात्र्यामन्नंप्रसुवीरन्।
टीका
प्रसुवीरन्निति बहुवचनं लोके यष्टारो बहव इति। प्रसुवीरन्दद्युरित्यर्थः। एतस्यां रात्र्यामिति-वचनाद्रात्रावेवेष्टिःपरिसमाप्यत इति गम्यत इति।
विश्वास-प्रस्तुतिः
तस्या विवासे पौर्णदर्वंजुहुयुः।
मूलम्
तस्या विवासे पौर्णदर्वंजुहुयुः।
टीका
विवासो रात्र्या *पश्चाद्भागः। पौर्णदर्वमिति कर्मनाम। तत्तस्मिन्काले कर्तव्यम्।
विश्वास-प्रस्तुतिः
ऋषभे रवाणे।
मूलम्
ऋषभे रवाणे।
टीका
ऋषमे रुवति।
विश्वास-प्रस्तुतिः
स्तनयित्नौ वा।
मूलम्
स्तनयित्नौ वा।
टीका
मेघे वा रुवति।
विश्वास-प्रस्तुतिः
आग्नीध्रंहैके रावयन्ति ब्रह्मपुत्रं वदन्तः।
मूलम्
आग्नीध्रंहैके रावयन्ति ब्रह्मपुत्रं वदन्तः।
टीका
तस्याप्यमावे ब्रह्मपुत्रशब्देनाऽऽग्नीघ्रं संबोध्य रावयन्ति ब्रह्मपुत्र268रोरुहीत्येवम्।
यदि होतारं चोदयेयुस्तस्य याज्यानुवाक्ये। पूर्णादर्विपरापत सुपूर्णापुनरापत। वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो। देहि मे ददामि तेनि मे धेहि निते दधे। अपामिक्यमिव269 संमरकोऽम्बा ददते दददिति।
एतत्कुर्वन्तोऽध्वर्यको यदि होतारमपि चोदयेयुरनुब्रूहि यजेति तदैते याज्यानुवाक्येभवतः। शतक्रतुलिङ्गाच्छास्त्रान्तर ऐन्द्रं पौर्णदर्वमित्याम्नानाच्चेन्द्रोऽस्य देवता भवति।
विश्वास-प्रस्तुतिः
मरुद्भ्यः क्रीलिभ्य उत्तरा।
मूलम्
मरुद्भ्यः क्रीलिभ्य उत्तरा।
टीका
इष्टिरित्यर्थः।
विश्वास-प्रस्तुतिः
उत ब्रुवन्तु जन्तवोऽयं कृत्नुरगृमीत इति परोक्षवात्रघ्नौ।
मूलम्
उत ब्रुवन्तु जन्तवोऽयं कृत्नुरगृमीत इति परोक्षवात्रघ्नौ।
टीका
आज्यभागौ परोक्षवार्त्रघ्नौ भवतः।
विश्वास-प्रस्तुतिः
क्रीलं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्च270ः।
मूलम्
क्रीलं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्च270ः।
टीका
मरुतां क्रीलिनामेते आम्नाते। अकीलिनामप्येते याज्यानुवाक्ये भवतः।
विश्वास-प्रस्तुतिः
जुष्टोदमूना अग्ने शर्ध महते सौभगायेति संयाज्येवाजिनावभृथवर्जमाहेन्द्र्युक्ता वरुणप्रघासैः।
मूलम्
जुष्टोदमूना अग्ने शर्ध महते सौभगायेति संयाज्येवाजिनावभृथवर्जमाहेन्द्र्युक्ता वरुणप्रघासैः।
टीका
माहेन्द्रीतीष्टिनाम। आमिक्षाभावादेव वाजिनाभावे सिद्धे वाजिनप्रतिषेधं कुर्वन्वा-जिनस्यप्रधानधर्मसंबन्धं271 दर्शयति। तेन वाजिनस्य मध्यमः स्वरः साधितो भवति।
विश्वास-प्रस्तुतिः
हविषां तु सप्तमादीनां स्थान इन्द्रो वृत्रहेन्द्रो महेन्द्रो वा विश्वकर्मा।
मूलम्
हविषां तु सप्तमादीनां स्थान इन्द्रो वृत्रहेन्द्रो महेन्द्रो वा विश्वकर्मा।
टीका
वृत्रहाशब्द इन्द्रस्य गुणः। आद्या स्तिस्रो विकल्प्यन्ते272। विश्वकर्माऽन्त्यः273। अतोऽष्टावत्र देवताः।
————————————————————————————————————
* घ. प्रबोधकाल इति देवत्रातभाष्ये।
————————————————————————————————————
आतून इन्द्र वृत्रहन्ननु ते दायिमह इन्द्रियाय विश्वकर्मन्हविषावावृधानो या ते धामानि परमाणि यावमेति॥ १८॥
विश्वास-प्रस्तुतिः
दक्षिणाग्नेरग्निमतिप्रणीय पित्र्या।
मूलम्
दक्षिणाग्नेरग्निमतिप्रणीय पित्र्या।
टीका
दक्षिणानेरग्निमानीयातीत्य तं देशमन्यत्र निधाय तस्मिन्नग्नौ पित्र्यानाम कर्म कर्तध्यम्। अतिप्रणीयपित्र्येतिवचनात्तस्मिन्नेव पित्र्या भवेत्। नैमित्तिकं त्वाहवनीयादिष्वेव।आहवनीयोऽप्यत्र274 विहरणीयः, उत्तरत्रोषस्थानदर्शनात्।
विश्वास-प्रस्तुतिः
सा शंय्वन्ता।
मूलम्
सा शंय्वन्ता।
टीका
साग्रहणं योगविभागार्थम्। योगविभागप्रयोजनमनतिप्रणीतचर्यायामपि शंय्वन्तादिधर्मप्रापणार्थम्।
विश्वास-प्रस्तुतिः
लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिंकारवर्जम्।
मूलम्
लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिंकारवर्जम्।
टीका
जपशब्देनात्र केवलो जप एव न गृह्यते किंत्वनुमन्त्रणलोपप्रतिषेधाज्जपादीनांषण्णामुपलक्षणार्थमिति गम्यते नान्यस्योपांशुप्रयोज्यस्यापि। तेनेला निगदस्यालोपः सिद्धोभवति। लुप्ता जपा यस्याः सा लुप्तजपा। होतारमवृथेत्यस्य निगदैकदेशस्योपांशुत्वसि275ध्येर्थेन जपेदितिवचनेन जपशङ्कया लोपशङ्क। निवृत्त्यर्थं तद्वर्जनवचनमितरयोः प्राप्तस्यप्रतिषेधस्य प्रतिप्रसव एष।
विश्वास-प्रस्तुतिः
तस्यां प्राञ्चिकर्माणि दक्षिणा।
मूलम्
तस्यां प्राञ्चिकर्माणि दक्षिणा।
टीका
तस्यामिति वचनं कृत्स्नप्राप्त्यर्थम्। प्रकृत्याऽत ऊर्ध्वमित्यत्रापि प्रापणार्थम्। यानिप्रकृतौ प्राञ्चि कर्माणि प्राङ्मुखानीत्यर्थः। तान्यस्यां दक्षिणामुखानि कर्तव्यानीत्यर्थः।
विश्वास-प्रस्तुतिः
इतराणि तथान्वयम्।
मूलम्
इतराणि तथान्वयम्।
टीका
यानीतरदिङ्मुखानि प्रकृतौ तान्यस्यां निर्दिष्टदिक्कान्यनिर्दिष्टदिक्कानि च तथान्वयंकर्तव्यानि। दक्षिणां दिशं प्राचीं कृत्वा तदनुसारेणान्यदिङ्मुखानि कर्तव्यानीत्यर्थः।
विश्वास-प्रस्तुतिः
उशन्तस्त्वा निधीमहत्येतां त्रिरनवानं ताः सामिधेन्यः।
मूलम्
उशन्तस्त्वा निधीमहत्येतां त्रिरनवानं ताः सामिधेन्यः।
टीका
एतामृचं त्रिरनुच्छ्वसन्ननुब्रूयात्। ता इति वचनात्ता एव सामिधेन्यो न पुनरम्यसितव्या इत्यवगम्यते।
विश्वास-प्रस्तुतिः
तासामुत्तमेन प्रणवेनाऽऽवह देवान्वितन्यजमानायेति प्रतिपत्तिः।
मूलम्
तासामुत्तमेन प्रणवेनाऽऽवह देवान्वितन्यजमानायेति प्रतिपत्तिः।
टीका
तासां सामिधेनीनामुत्तमेन प्रणवेनाऽऽवह देवान्पितॄन्यजमानायेति प्रतिपत्तिरेव संधेया276तेनाग्ने महानित्यादि परिभूरसीत्यन्तं लुप्यत277। प्रतिपत्तिश्चैवंरूपाभवति पित्र्याद्यांप्रकृतौ देवां इज्यन्त इति278 तेषां संकीर्तनं कृतम्, इह तु279 देवाश्च पितरश्चेज्यन्त इति पितृशब्दोऽपि प्रयोक्तव्य इति। सर्वत्र देवशब्दवति मन्त्रे पितृशब्देऽपि प्रयोज्यत्वेन प्राप्ते स्वार्थएव देवशब्दपितृशब्दः280 प्रयोज्यो न परार्थ इति कृत्वाऽऽचार्योऽन्यत्र परार्थत्वादप्रयोगंमन्यमानस्तत्सहितं281 प्रतिपत्तिवाक्यं पठितवान्। तेनान्यत्र पितृशब्दो न प्रयोक्तव्य इतिसिद्धम्।
प्रतिपत्तिवाक्यमुक्त्वा ततो वक्ष्यमाणदेवता आवाहयेत्—
विश्वास-प्रस्तुतिः
अग्निं होत्रायाऽऽवह स्वं महिमानमावहेत्येतस्य स्थानेऽग्निं कव्यवाहनमावाहयेत्।
मूलम्
अग्निं होत्रायाऽऽवह स्वं महिमानमावहेत्येतस्य स्थानेऽग्निं कव्यवाहनमावाहयेत्।
टीका
आज्यपान्ता देवता आवाह्य प्राकृतस्य स्विष्टकृदावाहनस्योद्धारं कृत्वा तत्स्थानेऽग्निंकव्यवाहनमावाहयेत्।
विश्वास-प्रस्तुतिः
उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत्।
मूलम्
उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत्।
टीका
उत्तमे च प्रयाजे प्रागाज्यपेभ्योऽग्निं कव्यवाहनं निगनयेत्।
विश्वास-प्रस्तुतिः
सूक्तवाके चाग्निर्होत्रेणेत्येतस्य स्थाने।
मूलम्
सूक्तवाके चाग्निर्होत्रेणेत्येतस्य स्थाने।
टीका
निगमयेदिति वर्तते।
विश्वास-प्रस्तुतिः
नेह प्रादेशः।
मूलम्
नेह प्रादेशः।
टीका
कार्यार्थत्वान्मन्त्राणां मन्त्रलोपेऽपि कार्यस्थालोप इति कृत्वा कार्यस्यापि प्रतिषेधःक्रियते।
विश्वास-प्रस्तुतिः
न बर्हिष्मन्तौ प्रयाजानुयाजौनेलायां भक्षभक्षणम्।
मूलम्
न बर्हिष्मन्तौ प्रयाजानुयाजौनेलायां भक्षभक्षणम्।
टीका
भक्षेषु प्राणमक्षमिति प्राप्त इलायां भक्षणमेव नास्तिकः प्रसङ्गः प्राणभक्षस्येत्यर्थः।मक्षवचनं प्रकृताववान्तरेलाभक्षादन्य इलाभक्षोऽस्तीति ज्ञानार्थम्। इलायामिति सप्तमीनिर्देशादिलाविषयं282 यद्भक्षणमिति गम्यते नेलाया एव भक्ष इति। तेनावान्तरेलः भक्षणमिलाभक्षणं चात्र नास्तीति गम्यते।
विश्वास-प्रस्तुतिः
न मार्जनम्।
मूलम्
न मार्जनम्।
टीका
इलाभक्षणाङ्गत्वादेव मार्जनाभावे सिद्धे तदभाववचनं तदङ्ग283त्वज्ञापनार्थम्।
विश्वास-प्रस्तुतिः
न सूक्तवाके नामादेशः।
मूलम्
न सूक्तवाके नामादेशः।
टीका
सूक्तवाके यद्यजमाननाम तन्नाऽऽदेष्टव्यम्। सूक्तवाकवचनं स्रुगादापनादिष्वध्वर्य्यादिशब्दमसंङ्गनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
ईक्षितः सीद होतरिति बोक्त उपविशेत्।
मूलम्
ईक्षितः सीद होतरिति बोक्त उपविशेत्।
टीका
उत्तरस्योपवेशनस्येदंनिमित्तद्वयं विधीयते। प्रादेशकरणाद्यर्थत्वात्पूर्वस्य तदभावेऽभावः284प्रादेशस्याभाष285 उक्तः। अनुमन्त्रणमप्यत्र नास्ति। अनुमन्त्रणा प्यायनोपस्थानानां मन्त्रारूडरूपत्वास्क्रियायाः286, मन्त्राभावे क्रियाया अध्यभाव इति। तस्मादत्र पूर्वमुपवेशनं’नास्ति। मानुषशब्दप्रत्यास्नाय ईक्षणादिः287। तज्ज्ञात्वोपविशेदित्युक्तत्वादभिक्रमणादि सर्वन भवति निरसनोपवेशनबर्हिरुपस्पर्शनानि मन्त्ररहितानि कुर्यादेव।
विश्वास-प्रस्तुतिः
जीवातुमन्तौ सव्योत्तर्युपस्थाः प्राचीनावीतितो हविर्भिश्चरन्ति।
मूलम्
जीवातुमन्तौ सव्योत्तर्युपस्थाः प्राचीनावीतितो हविर्भिश्चरन्ति।
टीका
उपस्थविधानं येषां तदङ्गं तेषामेव हविग्रहणं प्रधानेष्वेवायं षर्म इति ज्ञापनार्थम्। तेनप्रधानमध्येऽपि यत्प्रायश्चित्तत्वेन प्राप्तं तस्यायं धर्मो न भवतीति गम्यते।
विश्वास-प्रस्तुतिः
दक्षिण आग्नीध्र उत्तरोऽध्वर्युर्द्वेद्वे अनुवाक्ये अध्यर्धामनवानम्।
मूलम्
दक्षिण आग्नीध्र उत्तरोऽध्वर्युर्द्वेद्वे अनुवाक्ये अध्यर्धामनवानम्।
टीका
अत्रानुवाक्याकार्यस्यैकत्तान्मध्ये प्रणवो * नास्ति।
विश्वास-प्रस्तुतिः
ओं स्वधेत्या श्रावणम्। अस्तु स्वधेति प्रत्याश्रावणम्। अनुस्वधरस्वधेति संप्रैषः।
मूलम्
ओं स्वधेत्या श्रावणम्। अस्तु स्वधेति प्रत्याश्रावणम्। अनुस्वधरस्वधेति संप्रैषः।
टीका
द्वावेतौ संप्रैषौ। अनुस्वधेत्येकः। स्वधेत्यपरः। एकवचनं जात्यभिप्रायम्। अनुस्वधास्वधति दीर्घः पठितव्यः।
विश्वास-प्रस्तुतिः
ये स्वधेत्यागूर्ये स्वधा मह इति वा स्वधा नम इति वषट्कारः।
मूलम्
ये स्वधेत्यागूर्ये स्वधा मह इति वा स्वधा नम इति वषट्कारः।
टीका
अत्रोंस्वधेत्यादयः स्वधाशब्दा दीर्घान्ता एव प्रयोक्तव्याः। अध्वर्युसंप्रैषपाठप्रयोजनं288तदेव श्रुत्वाऽस्य कार्यकरणार्थम्।
विश्वास-प्रस्तुतिः
नित्याः प्लुतयः।
मूलम्
नित्याः प्लुतयः।
टीका
उक्ताः प्लुतयः289 प्रकृतावाद्ये द्वितीय उपान्त्ये च यदक्षरस्था प्लुतिः, एतेष्वपि तदक्षरस्यैष कार्येत्यर्थः।
विश्वास-प्रस्तुतिः
पितरः सोमवन्तः सोमो वा पितृमान्पितरो बर्हिषदः पितरोऽग्निष्वात्ता यमः।
मूलम्
पितरः सोमवन्तः सोमो वा पितृमान्पितरो बर्हिषदः पितरोऽग्निष्वात्ता यमः।
टीका
पितॄणां सोमवत्ता गुणः। सोमस्य पितृमत्ता गुणः।बर्हिषदोऽग्निष्वात्ताइति चपितॄणामेव गुणः। आद्ये वैकल्पिके।
———————————————————————————————————
* घ द्विदेवत्यप्रणवेऽपीदं वक्ष्यते।
————————————————————————————————————
उदीरतामवर उत्परासस्त्वया हि नः पितरः सोम पूर्व उपहूताः पितरःसोम्यासस्त्वं सोम प्रचिकितो मनीषा सोमो धेनुं सोमो अर्वन्तमाशुंत्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यर्वागाहं पितॄन्सुविदत्रा अवित्सीदं पितृभ्यो नमो अस्त्वद्याग्निष्वात्ताः पितर एह गच्छतये चेह पितरो ये च नेहं ये अग्निदग्धा ये अनग्निदग्धा इमं यम प्रस्तरमाहि सीदेति द्वे परेयिवांसं प्रवतो महीरनु।
पञ्चानां तिस्रस्तिस्रऋचः।
विश्वास-प्रस्तुतिः
वैवस्वताय चेन्मध्यमा याज्या।
मूलम्
वैवस्वताय चेन्मध्यमा याज्या।
टीका
यदि यमो वैवस्वततॊ देवता तत उत्तमे त्रिके मध्यमा ऋग्याज्या भवति। प्रथमोत्तमेअनुवाक्ये इति।
विश्वास-प्रस्तुतिः
ये तातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाःसप्रत्नथा सहसाजायमान इति।
मूलम्
ये तातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाःसप्रत्नथा सहसाजायमान इति।
टीका
स्विष्टकृत इति शेषः।
विश्वास-प्रस्तुतिः
अग्निः स्विष्टकृत्कव्यवाहनः।
मूलम्
अग्निः स्विष्टकृत्कव्यवाहनः।
टीका
प्रकृतौ षोऽग्निः स्विष्टकृदिह तत्कार्यकरोऽग्निः कव्यवाहन इत्यर्थः। तेनात्र स्विष्टकृच्छब्दो न प्रयोक्तव्यः। *
विश्वास-प्रस्तुतिः
प्रकृत्यात ऊर्ध्वम्।
मूलम्
प्रकृत्यात ऊर्ध्वम्।
टीका
स्विष्टकृत ऊर्ध्वं प्रकृत्या भवति। सभ्योत्तर्युपस्थादयो290 न भवन्तीत्यर्थः। वचनामेदंस्विष्टकृत्यपि प्रापणार्थम्। अङ्गत्वादेवोत्तरत्र प्राप्त्यभावात्।
विश्वास-प्रस्तुतिः
वषट्कारक्रियायां चोर्ध्वमाज्यभागाभ्यामन्यन्मन्त्रलोपात्।
मूलम्
वषट्कारक्रियायां चोर्ध्वमाज्यभागाभ्यामन्यन्मन्त्रलोपात्।
टीका
मन्त्रलोपशब्देन पूर्वोक्ताः सर्वे विकारा लक्ष्यन्ते। तेभ्योऽन्येषां सव्योत्तर्युपस्थतादीनामभावाय प्रकृतिभावो विधीयते प्रधानेषु स्त्रिष्टकृति च स्वधाकारं वर्जयित्वा वषट्कारेणक्रिया चेत्। ऊर्ध्वमाज्य-भागाभ्यामितिवषट्कारक्रियास्थानलक्षणार्थम्। तेनाऽऽज्यभागाभ्यामूर्ध्वं स्विष्टकृत्पर्यन्ते स्थाने वषट्कारक्रियायां प्रकृत्या भवतीति गम्यते। तत्रमन्त्रलोपादिः पूर्वो विकारः सर्वप्रकारायां पित्र्यायामासमाप्तेर्भवत्येव।
———————————————————————————————————
* घ — देवत्रातस्तु – अग्निं स्विष्टकृतं कव्यवाहनमिति प्रयोगः। न चाऽऽवाहनान्यथात्वंदोषः। प्रकृतौ दर्शनात्। अग्निं होत्रायाऽऽवहेत्यावाहने। अग्निं स्विष्टकृतमिति याज्यायामित्याह।
————————————————————————————————————
एकैका * चानुवाक्या।
प्रकृतिर्भावादेवैकत्वे291 सिद्ध एकवचनमिदं तयोरवैक292स्याग्रहणार्थम्।
विश्वास-प्रस्तुतिः
यो अग्निः कव्यवाहनस्त्वमग्न ईलितो जातवेद इति संयाज्ये।
मूलम्
यो अग्निः कव्यवाहनस्त्वमग्न ईलितो जातवेद इति संयाज्ये।
टीका
वषट्कारक्रियायामेव।
विश्वास-प्रस्तुतिः
भक्षेषु प्राणभक्षान्भक्षयित्वा बर्हिष्यनुप्रहरेयुः। + संस्थितायांप्राग्वाऽऽनुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठन्ते।
मूलम्
भक्षेषु प्राणभक्षान्भक्षयित्वा बर्हिष्यनुप्रहरेयुः। + संस्थितायांप्राग्वाऽऽनुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठन्ते।
टीका
उभयतो विहारादनियमे प्राप्ते नियमार्थं दक्षिणावृद्वचनम्।
विश्वास-प्रस्तुतिः
अनावृत्त्याऽनतिप्रणीतचर्यायाम्।
मूलम्
अनावृत्त्याऽनतिप्रणीतचर्यायाम्।
टीका
x अनतिप्रणीतचर्यायां पित्र्यायामावर्तनमकृत्वैवोपतिष्ठन्ते तथैवाभिमुखत्वसंभवात्।
अयाविष्ठा जनयन्कर्वराणि स हि घृणिरुरुर्वराय गातुः। स प्रत्युदैद्धरुणं मध्वो अयं स्वां यत्तनूं तन्वामैरयतेति।
अयं दक्षिणाग्नेरुपस्थानमन्त्रः।
विश्वास-प्रस्तुतिः
आवृत्त्यत्वेवेतरौ।
मूलम्
आवृत्त्यत्वेवेतरौ।
टीका
अतिप्रणीतचर्यायां दक्षिणावृद्दक्षिणाग्नेरूपस्थाननुक्तम्293। अनतिप्रणीतचर्यायामनावृत्त्यंतस्यैवोपस्थानमुक्तम्। इदानीं गार्हपत्याहवनीययोरुपस्थानमुच्यते। तुशब्दो विशेषविध्यर्थः।एवशब्दोऽवधारणार्थः। अतिप्रणीत-चर्यायामनतिप्रणीतचर्यायां च गार्हपत्याहवनीययोरावृत्त्यैवोपस्थानमिति।
विश्वास-प्रस्तुतिः
आहवनीयं सुसंदृशं त्वेति पङ्क्त्या।
मूलम्
आहवनीयं सुसंदृशं त्वेति पङ्क्त्या।
टीका
पङ्क्तिवचनं प्रतीकसंदेहनिवृत्त्यर्थम्
विश्वास-प्रस्तुतिः
गार्हपत्यमग्निं तं मन्य = इति।
मूलम्
गार्हपत्यमग्निं तं मन्य = इति।
टीका
एकयर्चा न सूक्तेन, उत्तरत्र सूक्तवचनात्
विश्वास-प्रस्तुतिः
अथेनमभिसमायन्ति मा प्रगा माऽग्ने त्वं न इति जपन्तः।
मूलम्
अथेनमभिसमायन्ति मा प्रगा माऽग्ने त्वं न इति जपन्तः।
टीका
एते सूक्ते जपन्त एनं गार्हपत्यमभितः समायन्ति प्रादक्षिण्येन
————————————————————————————————————
*घ.- इह याज्यासंनिकर्षादनुवाक्ययोरुत्तरा ग्राह्या। एके पूर्वामिच्छन्तीति सिद्धान्तभष्ये। उत्तरैवेति देवत्रातः। + घ.–अन्तर्वेीति देवत्र.तभाष्ये। × घ. — सर्वंदक्षिणाग्निंनिरवशेषेण प्रणीय चरन्ति चेत्साऽनतिप्रणीतचर्येत्युच्यत इति सिद्धान्तभाष्ये। =घः —इहापिपङ्क्त्येत्यनुवृत्तेनिपादत्वेऽप्यृगेव न सूक्तमिति सिद्धान्तभाष्ये।
————————————————————————————————————
विश्वास-प्रस्तुतिः
पूर्वेण गार्हपत्यं सूक्ते समाप्य सव्यावृतस्त्र्यम्बकान्व्रजन्ति।
मूलम्
पूर्वेण गार्हपत्यं सूक्ते समाप्य सव्यावृतस्त्र्यम्बकान्व्रजन्ति।
टीका
गार्हपत्यस्य पुरस्ताद्यो देशस्तस्मिन्देशे यथा सूक्ते समाप्येते तथा समापयन्ति।सूक्तग्रहणमतं मन्य इत्यत्र ऋग्रहणार्थम्। यदीष्टिं समाप्योतिष्ठन्ते तदा ततस्त्र्यम्बकान्व्रजन्ति। यदा नूयाजाभ्यां प्राक्तदा समाप्योष्टं त्र्यम्बकार्यंव्रजेयुः। त्र्यम्बकनाम कर्मविशेषाः
विश्वास-प्रस्तुतिः
तत्राध्वर्यवः कर्माधीयते।
मूलम्
तत्राध्वर्यवः कर्माधीयते।
टीका
तत्र यदध्वर्युणोक्तं तदस्मदीयैरपि कर्तव्यमित्यर्थः।
विश्वास-प्रस्तुतिः
प्रत्येत्याऽऽदित्यया चरन्ति।
मूलम्
प्रत्येत्याऽऽदित्यया चरन्ति।
टीका
अदितिरत्र देवता नाऽऽदित्यः। आदित्यानां याज्यानुवाक्यानाम्ना294नात्।
विश्वास-प्रस्तुतिः
पुष्टिमन्तौ धाय्ये विराजौ॥ १९॥
पञ्चम्यां पौर्णमास्यां शुनासीरीयया।
मूलम्
पुष्टिमन्तौ धाय्ये विराजौ॥ १९॥
पञ्चम्यां पौर्णमास्यां शुनासीरीयया।
टीका
साकमेधकालमारभ्य या पञ्चमी पौर्णमासी तस्यां शुनासीरीया कर्तव्या। शुनासीरीयेति कर्मनाम।
विश्वास-प्रस्तुतिः
अर्बाग्यथोपपत्ति वा।
मूलम्
अर्बाग्यथोपपत्ति वा।
टीका
पञ्चम्याः पौर्णमास्या अर्वागपि यत्र काले कर्तुं संभवति तत्र वेत्यर्थः। ततो द्व्यहे त्र्यह इति शास्त्रान्तरोक्त इत्यर्थः*।
वाजिनवर्जसमाना वैश्वदेव्या। हविषां तु स्थाने पष्ठप्रभृतीनां वायुनियुत्वान्वायुर्वा शुनासौरविन्द्रो वा शुनासीर इन्द्रो वा शुनः सूर्यउत्तमः।
नियुत्वानिति वायोर्गुणः। शुनासीरः शुनश्चेन्द्रस्य गुणौ। प्रथमद्वितीयौ वैकल्लिकौ। पुनस्त्रयो295 विकल्प्यन्ते296। सूर्यस्योत्तमवचनं देवतान्तरप्रवेशेऽपि सूर्य उत्तम एव अन्यत्रऋमान्तरमपि भवतीत्येवमर्थम्।
आ वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छ स त्वंनो देव मनसेशानाय प्रहुतिं यस्त आनद्शुनासीराविमां वाचं जुषेथां
———————————————————————————————————————
*घ. देवत्रातभाष्ये – अध्वर्यूणामप्युक्तम्। ततो द्व्यहे चतुरहेऽर्धमासे मासि चतुर्षु वामासेष्विति।
————————————————————————————————————
विश्वास-प्रस्तुतिः
शुनं नः फाला विकृषन्तु भूमिमिन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे।स वाजेषु प्रनोविषत्। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेममघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः।
मूलम्
शुनं नः फाला विकृषन्तु भूमिमिन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे।स वाजेषु प्रनोविषत्। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेममघवानमिन्द्रमश्वायन्तो गव्यन्तो वाजयन्तस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः।
टीका
याज्यानुवाक्याग्रहणं या अस्मिन्प्रकरण आम्नाता याज्यानुवाक्यास्ता एवैतत्प्रकरणसंबन्धिनीनां देवतानां शास्त्रान्तरादागतानामपि कथंचिदपि संभवे ग्रहीतज्या नान्या इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
समाप्य सोमेन यजेताशक्तौ पशुना।
मूलम्
समाप्य सोमेन यजेताशक्तौ पशुना।
टीका
चातुर्मास्यानामेतावङ्गभूतौ पशुसोमो निरूढज्योतिष्टोमप्रकृतिकौ समाप्तिनिमित्तत्वादनयोः।
विश्वास-प्रस्तुतिः
चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः॥ २०॥
इत्याश्वलायनश्रौत्रसूत्रे पूर्वषट्के द्वितीयोऽध्यायः॥ २॥
मूलम्
चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः॥ २०॥
इत्याश्वलायनश्रौत्रसूत्रे पूर्वषट्के द्वितीयोऽध्यायः॥ २॥
विश्वास-प्रस्तुतिः
———————
मूलम्
———————
टीका
चातुर्मास्यैरित वक्तव्येऽन्यथावचनं नेमानि तदङ्गभूतानीति ज्ञापयितुम्। तेन पुनरपितान्येवा-भ्यसितव्यानीति गम्यते। अभ्यासपक्षे समाप्तावपि नैव पशुसोमौ कर्तव्यौ। तस्यपक्षस्य पूर्वाभ्यां सह वैकल्पिकत्वात्। वरुणप्रघासेषूह उच्यते। अग्निद्वित्वाभावादग्निवाचिनामनूहः। ‘घृतवतीम्’ इत्यत्र ‘अध्वर्यू आस्येयांविश्ववारा297’ इत्यूहः। ‘वेदोऽसि’ इत्यत्र वेदविषयाणां पदानामूहः। अन्यदप्येवं रूपमस्ति चेत्तद्न्वेषणीयम्॥ २०॥
इत्याश्वज्ञायनश्रौतसूत्रवृत्तौ नारायणीयायां द्वितीयोऽध्यायः समाप्तः॥ २॥
———————
अथ तृतीयोऽध्यायः
———————
-
“घ. च. °न्तरविहि° ।” ↩︎
-
“घ. च.ध्यन्तरापे° ।” ↩︎
-
“ख. ग. ङ. झ. °थाऽऽहं । घ. च. थाईम् ।” ↩︎
-
“च. साध्या य° ।” ↩︎
-
“घ. च.°हे स्थिता° ।” ↩︎
-
“ध. च. ‘न्तरवि’ ।” ↩︎
-
“क. ‘ब्दस्य त° ।” ↩︎
-
“च. ‘था व्य° ।” ↩︎
-
“क. झ. तत्र । ङ. अत्र ।” ↩︎
-
“ख. ग. झ. °त्र च वि° ।” ↩︎
-
“ख ग घ ङ. च. झ. स चाति° । " ↩︎
-
“ख. ग. ‘मव न्या° । घ. च. मेषां न्या°।” ↩︎
-
“ङझ॰ ‘घ्नाज्य° ।” ↩︎
-
“ख. ग. °ति दर्शपू° ।” ↩︎
-
“ख. ग. ङ. °क्षा इति तत्रा° ।” ↩︎
-
“ख. ग. झ. °चिद्वचनाद्वा° ।” ↩︎
-
“क. ख. ग. ध. °स्य यस्मि° ।” ↩︎
-
“ख. ग. ङ. तेनास° ।” ↩︎
-
“ख. ग. ङ. °नां च न्यायादेव तन्त्रनियमः सि° ।” ↩︎
-
“ङ. तत्र ।” ↩︎
-
" क. ङ. झ. °दीनि । रा° ।” ↩︎
-
“झ॰ वाच्येव ।” ↩︎
-
“ख. झ. ग. ङ. °हीत्वा पु° ।” ↩︎
-
“ख. ग. °णैवावग°।” ↩︎
-
“ख. ग. °र्थः । अस्मिन्कः का° ।” ↩︎
-
“घ. च. °पदासूत्त’ ।” ↩︎
-
“क. घ. च. ते पर्वणि ब्रा ।” ↩︎
-
“घ च °णि वाऽग्न्या ।” ↩︎
-
“ख. झ. ग. यमाधाने का° ।” ↩︎
-
“ख. ग॰ ॰णकर्तृक्रमा ° ।” ↩︎
-
“ख झ. ग. अत्यन्ताप ° ।” ↩︎
-
“झ. न स्वा॰ ।” ↩︎
-
“घ. च. °श्चिद्वसन्त इ° ।” ↩︎
-
“ख॰ झ॰ ग. व. च. सूत्र उत्त° ।” ↩︎
-
“घ. ङ. च. नावेक्षे° ।” ↩︎
-
“क. झ. °णोऽपि ।” ↩︎
-
“क. °वेक्ष्यमा° ।” ↩︎
-
“घ. पेक्ष्यमा ।” ↩︎
-
“ङ च तथा ।” ↩︎
-
“ख. ग. झ. न्तमग्न्याधेयभि°।” ↩︎
-
“ख. ग. णस्यासं।” ↩︎
-
“क. नत्वेष ।” ↩︎
-
“ख. झ. ग. °ध्यस्य चान॰।” ↩︎
-
“क्यार्थान्तराश्रयणाच्चे ।” ↩︎
-
“घ. ङ. च. ॰ति । तत्राऽऽधा ।” ↩︎
-
“ख. ग. झ. °ति । नैत’ ।” ↩︎
-
“ख. ग. झ. °रेणेति सि° ।” ↩︎
-
“ख. ग. यद्यप्यासा ° ।” ↩︎
-
“घ. ङ. च. ब्दस्तु साधानादिषु विशे॰” ↩︎
-
“ख. ग. ङ. एतदाधा॰ । घ. च. एवं ययाधा° ।” ↩︎
-
“ख. ग. °स्माकमृतुसा ।” ↩︎
-
“क ख. ग. तत्साध्यसाधनरू° ।” ↩︎
-
“क. °माननि° ।” ↩︎
-
“ख. झ. ग. ड. °नां चाऽऽ ।” ↩︎
-
“झ. ‘थाऽगदः सो° ।” ↩︎
-
" ख. ग. झ. घ. ड. काश्चिद्दे॰ ।" ↩︎
-
“ख. ग. °वता इ° ।” ↩︎
-
“क. °कृतौ चा° ।” ↩︎
-
“ख. झ.ग. जातय ।” ↩︎
-
“ख. ग. कार्या इ° ।” ↩︎
-
“क. ड. ‘थमस्यां द्वि॰ ।” ↩︎
-
“ख. ग. ङ. झ. दुर्भणस्त ।” ↩︎
-
“घ. ङ. ॰मासका ° ।” ↩︎
-
“ख. झ. ग. °न्यत्रोपका॰ ।” ↩︎
-
“ख. ग, म्नातं वि॰ ।” ↩︎
-
" घ. च. ॰र्वे वाप्र॰ ।" ↩︎
-
“घ. °दपि वि° । " ↩︎
-
“ख. ग. ङ. झ. °दशरात्रमे°।” ↩︎
-
“ख. ग. झ. °कालत्वेन गा°।” ↩︎
-
“ख. झ. ग. °स्य मर्त्यस्य द्र° ।” ↩︎
-
“ख. झ..ग. ‘त्प्रज्वाल° ।” ↩︎
-
“ख. ग. ङ. च. °र्मन्थ्यस्त° ।” ↩︎
-
“ख. ग. झ. ॰वाहवनीयमेवाभि॰ ।” ↩︎
-
“क. ॰र्ध्वमाग्नि॰ ।” ↩︎
-
“ख. ग. झ. ‘रान्हविःश्रपणार्थमुद’ ।” ↩︎
-
“क. ध ‘णार्थाम् ।” ↩︎
-
“ग. घ. च. ‘संवाद’ ।” ↩︎
-
“क. घ. च. ‘त्रद्र ।” ↩︎
-
“ख. ग. ग्रामः प्र’ ।” ↩︎
-
“क. घ. च. °णं दध्यादी°।” ↩︎
-
“क. घ. ङ. च. झ. °नाद्येनो°।” ↩︎
-
“ङ. °णात् ।” ↩︎
-
“ख. ग. °पवचना॰ ।” ↩︎
-
“च. समुद्धृतोऽ° ।” ↩︎
-
“ङ. झ. °म् । द्रव्यस्य प° ।” ↩︎
-
“ख. ग. व. ङ. च. °संबन्धप्र° ।” ↩︎
-
“च. स्रुवमा ° ।” ↩︎
-
“ख. ग. झ. प्रविश्याप ° ।” ↩︎
-
“ख. ग. ङ. च. °मवत्त्वा° ।” ↩︎
-
“ङ. अग्र्यगग्र्यमि° ।” ↩︎
-
“ख. म. °नीये ने° ।” ↩︎
-
“°त्तरो वा ।” ↩︎
-
“च. ‘श्चोत्पद्य° ।” ↩︎
-
“ख. ग. ॰णं गुह्येऽप्यस्य प्रा ।” ↩︎
-
“घ. ङ. ॰तेर्भूयो॰ ।” ↩︎
-
“ख. ग. झ. ‘न्त्रयते । य° ।” ↩︎
-
“ख. ग. ङ. च. झ. यां च सा° ।” ↩︎
-
“ख. ग. र्तृत्वनि ।” ↩︎
-
“ख. ग. झ॰ ङ. च. °ति विनि॰ । " ↩︎
-
“क॰ च. च. ‘वोप॰ ।” ↩︎
-
“घ. ङ. च. °नीयस ° ।” ↩︎
-
“ख. ग. झ. ङ्गुलाभि॰ ।” ↩︎
-
“झ. हुतिस्तूणी॰ ।” ↩︎
-
“ख. ग. घ. च. यत इत्यसं॰ ।” ↩︎
-
“ख. ग. ङ. च. °णधर्म° ।” ↩︎
-
“क. ख. ग. च °पमित्य° ।” ↩︎
-
“ख. ग. °र्षो वा द्र° ।” ↩︎
-
“ख. ग. झ. °स्मात्मेत्य ग्रामा° ।” ↩︎
-
“व. ङ. च. °क्रम्य स° ।” ↩︎
-
“ग. इमम° ।” ↩︎
-
“ख. ग. छ. परिय° ।” ↩︎
-
“घ. च. °पन्यमाह° ।” ↩︎
-
“घ. च. ‘नीयं चेक्ष° ।” ↩︎
-
“क. घ. च. ततः प्र° ।” ↩︎
-
“च॰ ॰भ्योऽदू ।” ↩︎
-
“ख. ग. ङ. प्राग्यतवागेव ।” ↩︎
-
“ख. ग. झ. °स्तं देशं प्रा° ।” ↩︎
-
“ख. ग. झ॰ य । आगच्छेदिति शेषः । य° ।” ↩︎
-
“ख. ग. घ. झ. कृत्वा गतः स्या° ।” ↩︎
-
“ख. ग. झ.°स्याद्देवाद्वा मा॰ ।” ↩︎
-
“क. ख. ग. °मभिमुखउप° । ङ. °मग्नीनुप ° ।” ↩︎
-
“ख. ग. ° स्थायाऽऽग° ।” ↩︎
-
“ख. ग. झ. श्रुत्वा ।” ↩︎
-
“ख. ग. °त्य तन्नैमि° ।” ↩︎
-
“ख. ग. झ. जुहोति मनो° ।” ↩︎
-
“घ. च. °पमः स्त्र° ।” ↩︎
-
“छ. °वीक्ष्यना° ।” ↩︎
-
“ङ. प्रप° ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. होत्रहो ° ।” ↩︎
-
“ख. ग. ङ. झं. ‘क्तस्य याजमानस्यानुमन्त्रणत्वाद॰ ।” ↩︎
-
“ख. ग. °ताग्नेरिहै° ।” ↩︎
-
“ख. ग. झ. °त्येतावदे° ।” ↩︎
-
“क. घ. च. तत्राप° ।” ↩︎
-
“ख. ग. ॰थ्ये यजनीय एवाह ।” ↩︎
-
“ख. ग. अवाशि°।” ↩︎
-
“ख. ग. ङ. झ. °रि पतिता° ।” ↩︎
-
“क. ख. ग. ङ. च. °म् । दक्षिणाग्नौ°।” ↩︎
-
“झ. ‘स्तीर्य ज्यार्यंस ।” ↩︎
-
“घ. च. विलीयन°।” ↩︎
-
“ख. ग. °थाविधिक° । झ. °थार्थविधिक° ।” ↩︎
-
“क. घ. ङ. °हाकारं वा ।” ↩︎
-
“च. ख. ग. °क्षे यत्र विपर्यासो य°।” ↩︎
-
“झ. पर्यासो य° ।” ↩︎
-
“ख. ग. °त्वा परेभ्यः प्रे° !” ↩︎
-
“ख. ग. °प्रयुक्ता य° ।” ↩︎
-
“ङ. °तीयादित्य° । च. घ. °तीयाद्दद्यादित्य° ।” ↩︎
-
“ख॰ ग॰ त्त्यैवानुच्छ्वा॰ ।” ↩︎
-
“ख. ग. ‘क्त्यनुसारेणानु॰ ।” ↩︎
-
“ख. ग. विवृत्तिस्तु । ङ. व्यक्तिविवृत्तिः । प्र° ।” ↩︎
-
“झ °दिसम॰।” ↩︎
-
“घ ङ. च. झ. °व्यो वका॰ ।” ↩︎
-
“घ. च. °चनं द° ।” ↩︎
-
“ख. ग. °व नेत° ।” ↩︎
-
“ख. ग. ॰प्रकृतिनि॰ ।” ↩︎
-
“च. ॰ते ता॰ ।” ↩︎
-
“ख. ग. ॰ज्ञा नोक्वाऽ ।” ↩︎
-
“ख. ग.॰दाहाप॰ ।” ↩︎
-
“ख. ग. ॰णीयाम’ ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. ॰देशकं ।” ↩︎
-
“ख. ग. °त्वे पुरुषे संबन्धमपि सं॰ ।” ↩︎
-
“ख. ग. ङ. च. °बन्धमपी°।घ. झ. ‘बद्धम्पी ।” ↩︎
-
“क. घ. °क्तव्याः, किं ।” ↩︎
-
“झ.°त्वा द्वा° ।” ↩︎
-
“ङ. °पठिष्यति ।” ↩︎
-
“ख. ग. झ. °योरेवावि° ।” ↩︎
-
“ख. ग. °ग्निरग्न° ।” ↩︎
-
“क. काले चो° ।” ↩︎
-
“ख. ग. झं. व्रीह्यादिभ्योऽन्य° ।” ↩︎
-
“ख. ग. ङ. °होत्रार्था ।” ↩︎
-
“क. घ. च. °नदैव° ।” ↩︎
-
“क. घ. ङ. च. ज. °वसेन° ।” ↩︎
-
“क. घ.च. °क्षणव°” ↩︎
-
“क. घ. च. राजग्र° ।” ↩︎
-
“घ. च. °नेता दे° ।” ↩︎
-
“घ. च. °ह्यन्ते । य° ।” ↩︎
-
“ख. ग. झ. °यणं तस्या° ।” ↩︎
-
“ख. ग. °मृध्यगु° । घ. मृध्योऽर्थगु°।च. °मृध्यार्थगु° ।” ↩︎
-
“क. घ. च. ते॰ या॰ ।” ↩︎
-
“ख. ग. मघवा ।” ↩︎
-
" ङ. °मैवास्याः । अ° ।” ↩︎
-
“ख. ग. ‘त्वं न भ° ।” ↩︎
-
“ख. ग. °रयतीति ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. ‘तस्रः स ° ।” ↩︎
-
“ख.’ ग. ‘र्नौ आदितिः रा° ।” ↩︎
-
“घ. ङ. च. पूर्वयोक्त° ।” ↩︎
-
“ख. ग. °मिष्टिरिति ।” ↩︎
-
“ख. ग. झ. °तिक्रमसि°।” ↩︎
-
“क. घ. ङ. च. °नम् । इ° ।” ↩︎
-
“ख.ग. °त्प्रागेव भ° ।” ↩︎
-
“ख. ग. एव न्याय्यः । अत्रापि प्र° ।” ↩︎
-
“झ. ‘द्देश्यतया प्र°।” ↩︎
-
“झ. रविष्णुशि।” ↩︎
-
“झ. यथो°।” ↩︎
-
“झ. ‘र्थरूपमभिप्र° ।” ↩︎
-
“च. मेवात्रानुवा° ।” ↩︎
-
“च. म्नानम्” ↩︎
-
“झ. ‘दोर्याज्या’ ।” ↩︎
-
“झ शं कृत्स्नेनसूक्तेनोपतिष्ठेतेत्येवं वा स ।” ↩︎
-
“ख. ग. ध. च. °नात्सामा °’ ।” ↩︎
-
“झ. घ °कारे भा° । च. °कारेऽभावास्याल° ।” ↩︎
-
“च. तन्त्रप्र° ।” ↩︎
-
“घ. च.°पि तन्त्रेऽस्यै’ ।” ↩︎
-
“ङ. °दे तन्त्रेऽस्यै° ।” ↩︎
-
“क. ख. ग. घ. ङ. च. परार्थे ।” ↩︎
-
“ङ. च. °ति ।नाम्रा ।” ↩︎
-
“ख. ग. इदमा ° ।” ↩︎
-
“च. रभमाणस्त ।” ↩︎
-
“ख. ग. घ.च. °रपार्ज° ।” ↩︎
-
“झ. °लद्वयद° ।” ↩︎
-
“ख. ग. घ. च. °ववरु’ ।” ↩︎
-
“घ. ङ. च. ॰गन्तैश्च ऋ॰ ।” ↩︎
-
“घ. ङ. च. ‘गार्द्यंश्र्वप्लुतैरन्यः ।” ↩︎
-
“झ. प्लुतैरन्यः ।” ↩︎
-
“ख. ग. ‘ते । यो य॰ ।” ↩︎
-
“ङ. ॰तनाद्यतन॰।” ↩︎
-
“ख. ग. ॰देव्यां य° ।” ↩︎
-
“ख. ग. ॰म्नातम् ।” ↩︎
-
“ख. ग. ॰म्नातेऽपि ।” ↩︎
-
“ख. ग. झ. °रामाददीत ।” ↩︎
-
“झ, ऋगष° ।” ↩︎
-
“ख. ग. स्मिन्कर्मणि ।” ↩︎
-
“ग. °णः । अपूर्वत्वं च पूर्वत्वेका° । घ. °णः । अपूर्व° । ङ. झ. °णः । अपूर्ववत्त्वं व पूर्व° ।” ↩︎
-
“झ. °ते वाऽत°।” ↩︎
-
" झ °ते वान्वा° ।” ↩︎
-
“क.ख. ग.घ. च. झ. द्यद्यत्कि° ।” ↩︎
-
“ख. ग. झ. °शितत्व°।” ↩︎
-
“क. घ. ङ च °त । त चा ।” ↩︎
-
“ख. ग. °ष्टशेषं वा° ।” ↩︎
-
“क. च. °न्याचते° ।” ↩︎
-
“ख. ग. ङ. च. °तत्स° ।” ↩︎
-
" घ. च. °ति । अति° ।” ↩︎
-
“ख ग. ङ. च. झ. °चिर° " ↩︎
-
“घ, ङ. च. झ. स्वैरिक° । " ↩︎
-
“ख. ग. आद्योत्तपयोरे° ।” ↩︎
-
“ख. ग. ङ च. प्य मानु° ।” ↩︎
-
“ण. °णवाक° ।” ↩︎
-
“१ घ. च. ०त् । अतो मन्द्रस्वरेगे० ।” ↩︎
-
“क. ख. ग. घ. च. °वात् प्रा०” ↩︎
-
“ख. ग.ङ. च. झ. ०ते श्रूयत इत्य० । घ. ०ते श्रूय दित्य० ।” ↩︎
-
" ख. ग. च० °द्धृत्यैन्द्रा°” ↩︎
-
“क्र. घ. च. °र्वं भ्र°” ↩︎
-
“ङ. °ढस्य का°” ↩︎
-
“ङ. °मेधिभ्योऽपि भ° । झ. °मेधे भ°” ↩︎
-
“ख. ग. ङ. °न्त उच्य°” ↩︎
-
“ख ग घ ङ. च. झ °व भ°” ↩︎
-
“झ. °त्र रुवीही°” ↩︎
-
" ङ. च. °मित्थमि°” ↩︎
-
“क. घ. च. °नसं°” ↩︎
-
“ख. ग. ङ. च. झ. °कल्पते°” ↩︎
-
“झ °र्माऽन्यः । अ°।” ↩︎
-
“°नीयादयोऽ°” ↩︎
-
" ख. ग. च. च. °दूध्यर्थं न°” ↩︎
-
" ङ. °या ना°" ↩︎
-
“ङ, °तेऽत्रतत् । प्र° ।” ↩︎
-
“घ. च. इतरेषां” ↩︎
-
“घ. ङ. च. च” ↩︎
-
“ङ. झ. शब्दे पि° । ख. ग. ध ध. °शब्दः प्र°” ↩︎
-
“घ. °तं प्रहितं प्र°” ↩︎
-
" च. °यं तद्भ°" ↩︎
-
“झ. °दनङ्गः° " ↩︎
-
“ख ग °वेनायं प्रा° ।” ↩︎
-
“ख. ग. °भावः । अ°।” ↩︎
-
“ख. ग. ध. च. °यायां न° ।” ↩︎
-
“ख. ग. घ. घ. ङ, च. झ. °दि । त° ।” ↩︎
-
" घ. च. °यया प्र° ।” ↩︎
-
“ख.ग.व.ङ.च. °यःप्र° ।” ↩︎
-
“घ. ङ. च. °पस्थताद° ।” ↩︎
-
“ङ. °भाव एक°” ↩︎
-
“ख. ग.. भ. व. च. °रेंकैक° " ↩︎
-
“झ °नमन्त्रम् । अ° ।” ↩︎
-
" झ. °नामनाम्ना°” ↩︎
-
" ख. ग. ङ. च. झ. °योऽपि वि°। " ↩︎
-
“ख. म. झ. °कल्पन्ते° ।” ↩︎
-
" झ. °वारावित्यू° ।" ↩︎