विश्वास-प्रस्तुतिः
अथैतस्य समाम्नायस्य विताने योगापत्तिं वक्ष्यामः।
मूलम्
अथैतस्य समाम्नायस्य विताने योगापत्तिं वक्ष्यामः।
टीका
लोके यानि प्रत्याम्नायं प्रयोगशास्त्राणि स्मर्यन्ते तान्यनुष्ठां1नोपयुक्ततयाऽध्ययनविध्याक्षिप्तत्वात्प्रत्याम्नायमङ्गत्वं प्रतिपन्नानि। तत्राङ्गाङ्गिनोरनुष्ठानकृतमानन्तर्यमथशब्दो द्योतयति। एतस्येतिशब्दो निवित्प्रैषपुरोरुक्कुन्तापवालखिल्यमहानाम्न्यैतरेयब्राह्मणसहितस्य शाकलस्य बाष्कलस्य चाऽऽम्नायद्वयस्यैतदाश्वलायनसूत्रं नाम प्रयोगशास्त्रमित्यध्येतृप्रसिद्ध2संबन्धविशेषं द्योतयति। *समाम्नायस्येत्युच्यते, एतस्यैव सम्यगभ्यासयुक्तस्येदं शास्त्रं न खिलानां सम्यगभ्यासरहितानामिति। वितता अग्नयो यस्मिन्निति श्रौतं कर्म+जातमग्निहोत्रादि वितानशब्देनोच्यते। समाम्नायस्य वितान इति विशेषणाच्छ्रौतेष्वेव खिलरहि-
______________________________________________________________
*अत्रेयं कपुस्तकस्था टिप्पनी – गवादिदेवपत्न्यन्तः शब्दसमुदायः समाम्नाय उच्यते। समाङ्पूर्वस्य म्नातेरम्भासार्थस्य कर्मणि कारके सनाम्नाय। समभ्यस्पते मर्यादयाऽयमिते समाम्नायः। इति निरुक्तभाष्ये। + क. क्रियासामान्यम्।
______________________________________________________________
तत्त्वं गार्ह्येषु सखिलत्वमेवेति ज्ञायते। योगापत्तिः प्रयोगापत्तिः प्रयोगपरिणतिः प्रयोगस्वरूपमित्यर्थः। तां वक्ष्याम इति ब्रुवन्निदमेव शास्त्रप्रतिपाद्यमिति दर्शयति। तेन च्छन्दोगप्रत्ययप्राप्तस्य तृचादेः स्तोत्रियत्वादिकार्यसंबन्ध एवात्र विहितत्वेन ग्रहीतव्यो न तृचादेःस्वरूपमपि तत्प्रत्ययमेवेति प्रयोग एव शास्त्रस्य व्यापारोन तूचादेः प्रयोज्यस्वरूपेऽपीति। एतदुक्तं भवति – अध्ययनविधित एवोक्तलक्षणसमाम्नायमधिगम्यानन्तरं श्रौते कर्मण्येताहक्समाम्ना- यविहित प्रयोगज्ञानायेदमपि शास्त्रमधिगन्तव्यमिति।
श्रौतेषु कर्मस्वेतादृक्समाम्नायविहितां3 प्रयोगापत्तिं वक्ष्याम इत्युक्तम्। इदानीं तेष्वा हिताग्नेरेवाधिकार इत्याह—
विश्वास-प्रस्तुतिः
अग्न्याधेयप्रभृतीन्याह वैतानिकानि।
मूलम्
अग्न्याधेयप्रभृतीन्याह वैतानिकानि।
टीका
अग्न्याधेयं प्रभृतिरादिरुपक्रमो येषां तान्यग्न्याधेयप्रभृतीन्यग्निहोत्रादीनि कर्माण्याधानं कृत्वैव कर्तव्यानीत्यर्थः। तत्र हेतुमाह — वैतानिकानीति। वितानेषु भवानि वैतानिकानि वितानसाध्यानीत्यर्थः। वितानशब्दोऽस्मिन्सूत्रे *भावसाधनोऽनीनां विस्तारवाची पूर्वस्मिंस्त्वधिकरणसाधनो-ऽग्निहोत्रादिकर्मवचनः। एतदुक्तं भवति - गार्हपत्यादिभिरग्निभिः साध्यानि श्रौतानि कर्माणि, अग्नयस्त्वाधानसाध्यास्तस्मादाधानप्रभृतित्वं सिद्धम्। श्रौतानां कर्मणां बहुवचनं सर्वश्रौतपरिग्रहार्थम्। सर्वाणि श्रौतान्याघाना दूर्ध्वमेव कर्तव्यानि न किंचिदपि श्रौतमाघानादर्वागिति। अनेन प्रकारेणाऽऽधानस्य कर्मार्थत्वनिराकरणेनाग्न्यर्थत्वमर्थात्साधितं भवति। तद्यादि4कर्मार्थ स्यात्प्रतिकर्म क्रियेत। तत्र कस्यचित्परस्तादपि स्यात्। यस्य परस्तादाधानं स्यात्तस्याग्न्याधेयप्रभ्भृतित्वं विहन्येत। आधानस्याग्न्यर्थत्वे च नायं दोषः। अतो बहुवचनेनाऽऽधानस्याग्न्यर्थत्वं साधितं भवति। तस्माद् + नाहिताग्नेः xक्षाम वत्यादयो न भवन्ति। ÷अवकीर्णि5ना पश्चाद्यर्थं चाऽऽधानं न कर्तव्यं6 भवति7। आहेत्यनेन सर्वमिदं शास्त्रं श्रुतिमूलमिति दर्शयति। तेनास्मिशास्त्रे यददृष्टमूलं तदाम्नायान्तरमूलमितिसाधितं भवति। अस्मिंस्तु शास्त्रेऽनिबद्धस्य स्वाम्नाय8 दृश्यमानस्य श्रुतित एव प्रयोगसिद्धिर्भवते श्रुतेः स्वातन्त्र्यसंकीर्तनादिति।
आधानस्य प्रथमानुष्ठेयत्वात्प्रथमं तदेव वक्तव्यमित्यत आह —
विश्वास-प्रस्तुतिः
दर्शपूर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य तत्राऽऽम्नातत्वात्।
मूलम्
दर्शपूर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य तत्राऽऽम्नातत्वात्।
टीका
—————————————————————————————————————————————
* वितन्यन्त इति वितानाः। + ङ. चरवः। X छ इष्टयः। ÷ क.ब्रह्मचर्य व्रतभ्रष्टेनवार्गेना. ङ. — यो ब्रह्मचारी स्त्रिमुपेषात्स गर्दभ पशुनालभेतेति च।
______________________________________________________________
दर्शपूर्णमासशब्दौ यथासंख्येन सूर्याचन्द्रमसोरत्यन्तसंनिकृष्टविप्रकृष्टदेशस्थितिक्ष9णवचनौ तद्योगादहोरात्रवचनौ तद्योगादेव कर्मवचनौ। अत्र तु कर्मवचनौ। पश्चात्प्रयोज्यो10ऽपि दर्शशब्दोऽल्पाचतरत्वात्पूर्वं निपात्यते। तुशब्दो विशेषद्योतकः।तन्त्रमङ्गसंहतिर्विध्यन्तं इत्यर्थः। स चावस्थानादिः संस्थाजपान्तः। प्रधानस्य तन्त्रणात्तन्त्रमित्युच्यते। तच्च दर्शपूर्णमासयोरेवाऽऽम्नातं नान्यास्विष्टिषु। अतस्तत्सापेक्षत्वादन्यासां तावेव पूर्वं व्याख्यातव्यौ स्याताम्। एतदुक्तं भवति — आधानस्य प्रथमं प्रयोज्यत्वात्तस्मिन्नेव प्रथमं व्याख्यातव्ये सति तत्साध्यस्य गार्हत्यादेः पवमानेष्टिसापेक्षत्वात्ता अपि तत्रैव वक्तव्याः स्युः। उक्ता अपि विध्यन्तसापेक्षत्वात्तस्य च दर्शपूर्णमासयोरेवाऽऽम्नात11त्त्वात्तद्व्याख्यानमन्तरेण तज्ज्ञानाभावात्प्रयोक्तुं नैव शक्यन्ते। अतोऽनेन विशेषेण तावेव पूर्वं व्याख्यास्यामो नाऽऽधानमिति सूत्रस्यार्थः।
इदानीं दर्शपूर्णमासयोर्व्याख्यानमारभते12—
विश्वास-प्रस्तुतिः
दर्शपूर्णमासयोर्हविःष्वासन्नेषु होताऽऽमन्त्रितः प्रागुदगाहवनीयादवस्थाय
प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः।
मूलम्
दर्शपूर्णमासयोर्हविःष्वासन्नेषु होताऽऽमन्त्रितः प्रागुदगाहवनीयादवस्थाय
प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः।
टीका
दर्शपूर्णमासयोरित्यधिकारार्थमाऽध्यायपरिसमाप्तेः। वाक्येन शेषिविशेषासंयुक्तस्यो *मयार्थत्वाय हविरासादनमामन्त्रणं चोमयं संहत13मेवैष्टिकस्य प्रवेशस्य निमित्तम्। हौत्रमित्यृग्वेदस्य समाख्या, तद्वेदविहितानां पदार्थानां कर्ता होतेत्युच्यते। प्राङ्मुखत्वं स्थनाचमनाभ्यां संबध्यते मध्यगतस्य विशेषाग्रहणात्। यज्ञोपवीतं तावदाचमनार्थतया न विधेयं स्मृतिप्राप्तत्वात्। अन्यार्थं च न संभवति संबन्धाभावात्। एकवाक्यगतत्वात्कर्त्रा संबध्यमानस्य च प्रयोजनाभावः स्मृतिप्राप्तत्वादेव। अतः स्मृतिप्राप्तमिहानूद्यते। स्मार्तानां स्नानाचमनयज्ञोपवीतादीनां श्रौतकर्माविरुद्धानामस्मिन्शास्त्रे प्राप्तिप्रदर्शनार्थमिदमाचमनं कर्माङ्गं विधीयते शौचार्थस्य गृहप्रवेशात्प्रागेव कृतत्वात्। तदुक्तम्—
विश्वास-प्रस्तुतिः
मनःप्रसादात्सत्योक्त्या तपसा स्नानकर्मणा।
आचान्त्या चाऽऽत्मनः शुद्धिं कृत्वा कर्म समारभेत्॥ इति।
मूलम्
मनःप्रसादात्सत्योक्त्या तपसा स्नानकर्मणा।
आचान्त्या चाऽऽत्मनः शुद्धिं कृत्वा कर्म समारभेत्॥ इति।
टीका
दक्षिणावृन्नाम यो दक्षिणं पार्श्वं मध्ये कृत्वा वर्तते स दक्षिणावृत्। विहियन्तेऽङ्गयो यस्मिन्देशे स विहारः। उत्करो नामोत्कीर्यन्ते वेदिपांसवो यस्मिन्देशे स उत्करः।
————————————————————————————————————
* ख. दर्शपूर्णमासोभयार्थत्वाय।
______________________________________________________________
प्रणीता नामाऽऽपो मन्त्रसंस्कृता आहवनीयस्योत्तरतो निहिताः। उत्करं प्रणीताश्चान्तरेणयो देशस्तेन विहारं प्रपद्यते। एतदुक्तं भवति - स्नात्वाऽऽचम्प यज्ञोपवीती भूत्वा हविःष्वासन्नेष्वामन्त्रितश्च सन्होता प्रागुदगाहवनीयाद्यो देशस्तस्मिन्प्राङ्मुखोऽवस्थाय निष्क्रम्य प्राङ्मुख एव भूत्वाऽऽचम्य दक्षिणावृद्भूत्वा पूर्वेणोत्करमपरेण प्रणीता यो देशस्तेन विहारंप्रपद्यत इति। उत्करप्रणीता ग्रहणादेव विहारप्रत्यये सिद्धे यद्विहारग्रहणं तत्सर्वः कर्तासर्वकर्माणि विहारप्रपदनं कुर्वन्दक्षिणावृद्धृत्वैतेन पथा प्रपद्यत14 इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
इध्ममपरेणाप्रणीते।
मूलम्
इध्ममपरेणाप्रणीते।
टीका
यदनौषधिहविष्कं कर्म तदप्रणीतमिहोच्यते। हविः श्रपणार्थत्वात्प्रणीतानाम्। तस्मिन्निध्ममपरेण प्रपद्यते प्रणीतास्तत्र न सन्तीति।
विश्वास-प्रस्तुतिः
चात्वालं चात्वालवत्सु।
मूलम्
चात्वालं चात्वालवत्सु।
टीका
चात्वालो नामावटः पशुसोमादिष्वस्ति येषूत्तरवेद्यर्थं भृद्यत्र15 खात्वा ह्रियते तद्वत्सुतेषु तमपरेण प्रपद्यते। सर्वोत्करः पश्चिमावधिः।
विश्वास-प्रस्तुतिः
एतत्तीर्थमित्याचक्षते।
मूलम्
एतत्तीर्थमित्याचक्षते।
टीका
एतमध्वानं तीर्थमित्याचक्षते वेदविदः। आचक्षत इति ब्रुव वैदिकीयं संज्ञा न पारिभापिकीति दर्शयति। उत्कराद्यभावेऽपि स देशस्तीर्थसंज्ञक एव देशलक्षणार्थत्वा16दुत्करादीनांग्रहणस्येति। अतोऽग्निहोत्रादिष्वपि तेनैव पथा प्रपदनं सिद्धं भवति।
विश्वास-प्रस्तुतिः
तस्य नित्याः प्राञ्चश्चेष्टाः।
मूलम्
तस्य नित्याः प्राञ्चश्चेष्टाः।
टीका
षट्सूत्राणि सर्वार्थानि तदर्थं तस्येतिविशेषणं कृतम्। * असत्यस्मिन्होतुः प्रकृतत्वात्तस्यैवेमे विधयः स्युः। अस्मिस्तु सति17 संनिकृष्टविषयत्वात्सर्वनाम्नस्तीर्थेन विहारप्रपदनाहोंयः कर्ता विहितस्तस्यैवेमे विधयो भवन्तीति तस्येतिविशेषणं कृतवानाचार्यः।नित्या इत्थनेन प्राक्चेष्टताया नित्यत्वं न विधातव्यं विहितत्वादेव + स्वरूपनित्यत्वयोरपि सिद्धत्वात्। अतस्तस्यैषोऽर्थः - तस्य बाह्यानां चेष्टानामुपरमेऽपि मनोवाक्काय X यन्त्रणादयो नित्या एवेति। प्राञ्च इतिशब्दः पूर्वदिग्वाची पुंसि बहुवचनान्तः। चेष्टा इतिक्रियावाची स्त्रियां बहुवचनान्तः। तत्र प्राञ्च इत्यत्र पुंसः प्राक्त्वेन संबन्धात्कर्तुः प्राङ्मुखत्वंविधीयते। चेष्टाशब्दगतबहुवचनेनास्य बहुत्वस्य सामानाधिकरण्यादेव चेष्टानां प्राक्त्वं विधीयते। तासाममूर्तस्वात्स्वतः प्राक्त्वासंभवात्तत्साधनेषु प्रागग्रता तासां च प्राच्येवापवर्ग इत्येवंविधिबलाद्भवति। एतदुक्तं भवति - यो यस्तीर्थेन विहारं प्रपन्नस्तस्य तस्य प्रानिष्क्रमणान्मनोवाक्काययन्त्रणादयो नित्याः स्युः, कर्तुश्च प्राङ्मुखत्वं, चेष्टानां च प्रागपवर्गता, तत्साधनानां च प्रागग्रतेति विषमसूत्रप्रणयनेन ’ व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्’ इत्येषा परिभाषा संगृहीता भवति।
_______________________________________________________________
* क. तच्छब्दे।+ क. चेष्टा।X क. नियमनम्।
______________________________________________________________
विश्वास-प्रस्तुतिः
अङ्कधारणा च।
मूलम्
अङ्कधारणा च।
टीका
अङ्कमूरूपस्थस्तस्य करणं दक्षिणोत्तरिणोपस्थेनेति वक्ष्यमाणरूप धारणेत्युच्यते। सा च नित्या भवेत्। उपवेशनकालादारभ्याऽऽ कर्मपरिसमाप्तेरविच्छेदेन कार्येत्यर्थः। अङ्कधारणस्योपवेशनाङ्गत्वेन प्राप्तस्यादृष्टार्थतापरिहारायैव नित्यत्वेऽपि प्राप्ते तन्नित्यतावचनं18‘न पत्नीसांयाजिके अनिरस्य तृणम्’इत्येवमादिषूपवेशनेषु मन्त्रनिषेधेऽपि वक्ष्यमा णस्योपवेशनप्रकारस्य नित्यत्वेन प्रापणार्थं मन्त्रविध्यसंबन्धे19ष्वप्यग्निहोत्रादिषु वक्ष्यमाणलक्षणस्यैवोपवेशनस्य प्रापणार्थं च।
विश्वास-प्रस्तुतिः
यज्ञोपवीतशौचे च।
मूलम्
यज्ञोपवीतशौचे च।
टीका
पूर्वस्य यज्ञोपवीतग्रहणस्य स्मार्तानां प्रा20पणार्थत्वान्निवीतप्राचीनावीतयोर्मानुषपैतृकयोकर्मणोः स्मार्तत्वेन प्राप्तौ सत्यां नियमार्थमिदमुच्यते। यत्र निवीतप्राचीनावीते विधीयेते तत्रैव ते भवतो न मानुषं पैतृकं वा कर्म दृष्ट्येति तयोर्विध्यभावे यज्ञोपवीतमेवेति नियम्यते। देशस्याङ्गप्रधानांर्थत्वादिडादिभक्षणादेश्चाङ्गत्वादस्य च विहार21देशे प्राप्तौ सत्यामेवं शौचग्रहणेन नियम्यते – ऋत्वर्थमप्यशुचित्वसंपादि यत्तद्विहारान्निष्क्रम्य * बहिः कर्तव्यमन्तर्विहारे शुचिरेव नित्यं स्यादिति।
विश्वास-प्रस्तुतिः
विहाराव्यावृत्तिश्च तत्र चेत्कर्म।
मूलम्
विहाराव्यावृत्तिश्च तत्र चेत्कर्म।
टीका
व्यावृत्तिः पृष्ठतः कृतिः। न विहारं पृष्ठतः कुर्यात्तत्र चेद्विहारे कर्म कुर्वन्भवेत्। प्रयोगमध्येऽपि कर्म कुर्वतामेवायं नियमो नोपरतकर्मणामित्यर्थः। अतो विहारव्यावृत्तिनिषेधात् ‘पश्चादस्योपविश्य पश्चात्स्वस्य धिष्ण्यस्योपविशति’ इति ‘पश्चादुत्तरदेरुपविश्याध्वर्युः’ इत्येवमादौ मध्यरेखाया अपऋम्योत्तरत उपविशेत्। चशब्दस्त्रिषु सूत्रेषु नित्यत्वानुकर्षणार्थः। तत्र चेत्कर्मेतिवचनाद्ब्रह्मणोऽप्ययं नियमो भवेत्। उत्तरसूत्राङ्गं चेदं पदत्रयम्। तेन ब्रह्मणो दक्षिणाङ्गव्यापारः सिद्धो भवति।
विश्वास-प्रस्तुतिः
एकाङ्गवचने दक्षिणं प्रतीयात्।
मूलम्
एकाङ्गवचने दक्षिणं प्रतीयात्।
टीका
एकशब्दः कैवल्यवचनः। एकं च तदङ्गं चैकाङ्गम्। सव्यदक्षिणभेदेन द्वित्वयोगि
————————————————————————————————————
* ङ – षट्त्रिंशन्मते – शणपुष्पं शाल्मलं च करनिर्मथितं दधि। बहिर्वेदि पुरोडाशंनग्ध्वा नायादहर्निशम्। लौकिकाग्नौ पुरोडाशः कृतः। विरुद्धवचनगतः।
————————————————————————————————————
यदङ्गं हस्तादि तस्य द्वित्वेन विना वचने सति दक्षिणमेवाङ्गं साधनं विद्यात्। द्वित्वयोगे * द्वाभ्यां कुर्यात्। एकवचनबहुवचने कर्त्रैकत्वबहुत्वापेक्षे। एकत्वादीनामन्यत्रोपयोगात्केवलाङ्गवचनमेव दक्षिणप्रत्ययस्य निमित्तमित्यर्थः। हस्तेन वा पादेन वेत्युदाहरणम्।
विश्वास-प्रस्तुतिः
अनादेशे।
मूलम्
अनादेशे।
टीका
द्वित्वयोगिनोऽङ्गस्यानादेशे क्रियामात्रविधान इत्यर्थः22। तत्रापि दक्षिणं विद्यात्। प्रपद्यतेऽभिक्रम्या+ङ्गुलीरङ्गुलीभिरित्युदाहरणानि। चक्षुरादेरनङ्गत्वात्तेष्वयं नियमो नास्ति। अवयवविशेषाश्रया हि शक्तयश्चक्षुरादय उच्यन्ते नावयवा इति।
विश्वास-प्रस्तुतिः
कर्मचोदनायां होतारम्।
मूलम्
कर्मचोदनायां होतारम्।
टीका
कर्तृरहिते क्रियाविधौ होतारं कर्तारं विद्यात्। कर्तसहिते स एव कर्ता मवेद्येन सहितं तत्कर्म स्यात्। कर्तृरहितोऽपि गुणविधिः सर्वार्थ एव कर्मचोदनायामिति विशेषणात्। नेदं होतुः प्रापकं किं तर्हि प्राप्तस्य नियामकं तेनेष्टिपशुसोमेभ्योऽन्यत्र न होतुरेव कर्तृत्वनियम इति।
विश्वास-प्रस्तुतिः
ददातीति यजमानम्।
मूलम्
ददातीति यजमानम्।
टीका
स्वत्वव्यावृत्तिपूर्वके परस्वत्वापादनपर्यन्ते ददातिविधौ यजमानं कर्तारं विद्यात्।
विश्वास-प्रस्तुतिः
जुहोति जपतीति प्रायश्चित्ते ब्रह्माणम्।
मूलम्
जुहोति जपतीति प्रायश्चित्ते ब्रह्माणम्।
टीका
तृतीयाध्यायगोचरे प्रायश्चित्तप्रकरणे जुहोतिजपति23कर्तारं ब्रह्माणं विद्यात्। जपशब्देनात्र साहचर्याज्जादिषट्कं गृह्यते तस्मिन्प्रकरणे मुख्यस्य जपस्याभावात्। एवं च सति कर्मकरणत्वेन होममन्त्रस्यापि ग्रहणे सिद्धे यज्जु24होतिग्रहणं तज्जपग्रहणेन होममन्त्रा न गृह्यन्तइत्येवमर्थम्। तेन पित्र्यायां X जपादिलोपेऽपि होममन्त्रा न लुप्यन्ते।
विश्वास-प्रस्तुतिः
ऋचं पादग्रहणे।
मूलम्
ऋचं पादग्रहणे।
टीका
पादशब्दोऽत्र25मूलवाची। ÷ ऋचो मूलग्रहण ऋचं विद्यान्नान्त= मध्ययोर्ग्रहणे। ‘प्रवो वाजा अभिद्यवः’ ‘अग्निता स्वं सोम क्रतुभिः’ इत्युदाहरणा26नि।
————————————————————————————————————
* ङ—युवतयः पृथक्पाणिभ्यां तस्याध्यं सौ पाणी हृत्वेत्यादौ। + ङ. – इडायां द्विदेवत्यभक्षणे। × ङ. —पित्र्यायां प्राक्पयाजेभ्य इत्येतत्प्रायश्चित्तं पतति तदा मा तप आहं यज्ञ इति मन्त्रद्वयस्य लोपो भवति। सहस्रशृङ्ग इति होममन्त्रस्य न लोपः। एवं सर्वत्र योजनीयम्। अया.श्वेत्यादि च सर्वप्रायश्चित्तहोमो न भवति संस्थाजपाभावात्। यत्र संस्थाजपस्तत्र प्रायश्रित्तानीतिः संबन्धकरणात्। यत्र प्रायश्चित्तहोमस्तत्र संस्थाजप इत्यर्थो न भवति। ÷ ङ. यथा पाद इति। = ङ. अन्तर्मृत्युं दुघतां पर्वतेनेत्युत्तरतोऽग्निरित्यादौ।
————————————————————————————————————
विश्वास-प्रस्तुतिः
सूक्तं सूक्तादौहीने पादे।
मूलम्
सूक्तं सूक्तादौहीने पादे।
टीका
अत्र पादशब्दो गायत्र्यादीनां भागवाची। सूक्तादौ हीने पादे गृह्यमाणे सूक्तं विद्यात्। ‘त्वमग्ने वसू ’ ‘त्वं हि क्षैतवत्’ इत्याद्युदाहरणानि।
विश्वास-प्रस्तुतिः
अधिके तृचं सर्वत्र।
मूलम्
अधिके तृचं सर्वत्र।
टीका
अधिके पादे गृह्यमाणे तृचं विद्यात्सर्वत्र सूक्तादावसूक्तादौ चेस्वर्थः। ‘अग्न आ याहि बीतये गृणानः’ ‘ईलेऽन्यो नमस्यस्तिरः’ इत्यायुदाहरणानि।
विश्वास-प्रस्तुतिः
जपानुमन्त्रणाप्यायनोपस्थानान्युपांशु।
मूलम्
जपानुमन्त्रणाप्यायनोपस्थानान्युपांशु।
टीका
सर्वत्र*शब्दोऽत्रापि संबध्यते मध्यगतस्य विशेषाग्रहणात्प्रयोजनवत्त्वाच्च। अस्मिञ्शास्त्रे यानि जपादीनि तान्यु+पांशु प्रयोक्तव्यानि।
विश्वास-प्रस्तुतिः
मन्त्रा X श्च कर्मकरणाः।
मूलम्
मन्त्रा X श्च कर्मकरणाः।
टीका
चशब्देनात्र सर्वत्रेत्युपांश्चिति चानुकृष्यते। मन्त्राः कर्मकरणाश्च सर्वत्रोपांशु प्रयोक्तव्याः। उपांशुत्वस्येदं लक्षणम्– करणवदशब्दममनःप्रयोग27उपांश्चिति। जपादीनां षण्णां लक्षणमुच्यते—
विश्वास-प्रस्तुतिः
जप28मुच्चारणं विद्यात्त्वर्थमपि तद्भवेत्।
अर्थतः कार्यलाभश्चेदर्थ एव क्रतोर्भवेत्॥
मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत्।
शेषिणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम्॥
एतदेवाभिमन्त्रस्य लक्षणं29 चेक्षणाधिकम्।
अद्भिः संस्पर्शनाधिक्यात्तदेवाऽऽप्यायनं स्मृतम्॥
उपस्थानं तदेव स्यात्प्रणतिस्थानसंयुतम्।
बाह्यं कार्यं यदेतेषु मन्त्रकाले क्रियेत तत्॥
कर्मणः करणास्ते स्युर्विहितार्थप्रकाशनात्।
मन्त्रेण कृत्वा मन्त्रान्ते क्रियते कर्म येषु तु॥
इदं कार्यभनेनेति न क्वचिद्दृश्यते विधिः।
लिङ्गा÷देवेदमर्थत्वं येषां ते मन्त्रसंज्ञिताः30॥
मूलम्
जप28मुच्चारणं विद्यात्त्वर्थमपि तद्भवेत्।
अर्थतः कार्यलाभश्चेदर्थ एव क्रतोर्भवेत्॥
मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत्।
शेषिणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम्॥
एतदेवाभिमन्त्रस्य लक्षणं29 चेक्षणाधिकम्।
अद्भिः संस्पर्शनाधिक्यात्तदेवाऽऽप्यायनं स्मृतम्॥
उपस्थानं तदेव स्यात्प्रणतिस्थानसंयुतम्।
बाह्यं कार्यं यदेतेषु मन्त्रकाले क्रियेत तत्॥
कर्मणः करणास्ते स्युर्विहितार्थप्रकाशनात्।
मन्त्रेण कृत्वा मन्त्रान्ते क्रियते कर्म येषु तु॥
इदं कार्यभनेनेति न क्वचिद्दृश्यते विधिः।
लिङ्गा÷देवेदमर्थत्वं येषां ते मन्त्रसंज्ञिताः30॥
टीका
अनुमन्त्रणग्रहणेनाभिमन्त्रणमपि गृह्यते। अनुमन्त्रणाप्यायनोपस्थानानां कर्मकरणत्वा विशे-
————————————————————————————————————
* घझ. दर्शपूर्णमासातिरिक्तंदर्विहोमार्थम् \। + घ. शनैरुच्चारयेन्मन्त्रं मन्दमोष्ठौ प्रचालयेत्। अपरैरश्रुतः किंचित्य उपांशुजपः स्मृतः \। X घ. कर्म क्रियते यैस्ते कर्मकरणाः। ÷ घ. प्रमाणात्।
————————————————————————————————————
षेऽपि यत्पृथग्ग्रहणं तत्तन्मन्त्रान्ते कर्मारम्भ इति कर्मकरणधर्मो यः स तेषु न भवतीत्येवमर्थम्। तेन मन्त्रोच्चारणसमकालमेव तेषु *क्रिया भवति।
विश्वास-प्रस्तुतिः
+प्रसङ्गादपवादो बलीयान्।
मूलम्
+प्रसङ्गादपवादो बलीयान्।
टीका
सामान्यविधेर्विशेषविधिर्बलीयानित्यर्थः। लोकवेदप्रसिद्धस्य न्यायस्य वचननयोजनं सर्वेऽपवादाः प्रसङ्गस्यैव बाधका नापवादाःसावकाशत्वे परस्परं बाधका इत्येत्रमर्थम्। अंतः स्वादुष्किलीयास्वाहावोत्तरयोः प्रणवयोर्यौमद्वत्प्रतिगरौ तयोः प्रणवरूपप्रतिगरौन बाधकौ भवतः।
विश्वास-प्रस्तुतिः
प्रपद्याभिहृततरेण पादेन वेदिश्रोण्योत्तरया पार्णीं समां निधाय प्रपदेन बहिराक्रम्य संहितौपाणी धारयन्नाकाशवत्यङ्गुली हृदयसंमितावङ्कसंमितौ वा द्यावापृथिव्योः संधिमीक्षमाणः।
मूलम्
प्रपद्याभिहृततरेण पादेन वेदिश्रोण्योत्तरया पार्णीं समां निधाय प्रपदेन बहिराक्रम्य संहितौपाणी धारयन्नाकाशवत्यङ्गुली हृदयसंमितावङ्कसंमितौ वा द्यावापृथिव्योः संधिमीक्षमाणः।
टीका
तिष्ठेदिति शेषः। तीर्थेन विहारं प्रपद्यत इत्युक्तम्। तच्चैकेन पदविशेषेण बहिर्विहारा दन्तर्विहारप्रपदनं कर्तुं31 शक्यं दक्षिणाङ्गप्रत्ययश्च सिद्ध एव। इदानीं प्रपद्येत्युच्यते, आवेदि श्रोण्या यत्प्रपदनं तस्य सर्वस्य विहितत्वसिध्द्यर्थम्। अभिहृततरेणेतितरपो वचनमनेकपदविक्षेपसाध्यत्वादस्य प्रपदनस्य सर्वेषु च पदविक्षेपेषु दक्षिण32स्याग्रतो हरणसिध्द्यर्थन्। वेदेरपराश्रयोः श्रोणिरिति संज्ञा, पूर्वाश्योरंस इति। पादस्यापरी भागः पाणिः, पूर्वः प्रपदः33। उत्तरया श्रोण्या दक्षिणस्य पादस्य पाणीं समां निधाय तस्यैव प्रपदेन वेद्यामास्तीर्ण बर्हिराक्रम्प बहिदि सव्यं निघायाऽऽत्मनः सव्यदक्षिणौ हस्तौ पृथक्पृथग्विरलाङ्गुलि34को कृत्वा पुनस्तथाभूतावेव तौ पाणी परस्परंसंहितौ35 च कृत्वा तौ हृदयसंमितावङ्कसभितौ वा धारयन्द्यावापृथिव्योः संघिमीक्षमाणो नोर्ध्वमधस्तिर्यगवेक्षमाण ऊर्ध्वः प्राङ्मुखस्तिष्ठेत्।
विश्वास-प्रस्तुतिः
एतद्धोतुः स्थानम्।
मूलम्
एतद्धोतुः स्थानम्।
टीका
अयं स्थानशब्दो भावसाधनो नाधिकरणसाधनः। एतच्छब्देन श्रोणिदेशेन हस्तपादादियन्त्रणेन च विशिष्टं यत्पूर्वसूत्रोक्तं तदत्र स्थानशब्देनोच्यत इति प्रदर्श्यते। यत्र होतुः स्थानं चोद्यते तत्रैतत्स्थानं भवतीत्यर्थः। होतृग्रहणमुत्तरसूत्रस्य सर्वार्थत्वाय।
विश्वास-प्रस्तुतिः
आसनं वा सर्वत्रैवंभूतः।
मूलम्
आसनं वा सर्वत्रैवंभूतः।
टीका
अयं वाशब्दश्चशब्दस्यार्थेवर्तते। स्थानं चाऽऽसनं च सर्वत्र सर्वः कर्तैवभूतः
————————————————————————————————————
* घ. – कर्मकणमन्त्रेषु मन्त्रोच्चारणसमकालं कर्म भवति ‘होतृषदनमन्मिन्त्रयेत्’ भूमौ प्रादेशं कुर्णत्।’ इत्यादि + ङ– प्रसङ्ग इव प्रसङ्गोऽववादः। अपवादयोर्विरोधे ‘बहुविषयापवादमल्पविषयपवादो बाधते।
————————————————————————————————————
कुर्यात्। पूर्वोक्तहस्तपादादियन्त्र36णावशिष्टो37 न श्रोणिदेशविशिष्ट इत्यर्थः। श्रोण्यादिषु सर्वेषु प्राप्तेषु श्रोणिदेशवर्जनेन कर्तृशरीरविशेषणानामेव प्रापणार्थमेवंभूतवचनम्।
विश्वास-प्रस्तुतिः
वचनादन्यत्।
मूलम्
वचनादन्यत्।
टीका
उक्तस्यान्याभावो यावन्मात्रस्य वचनं तावन्मात्रस्यैव न तत्संबन्धिनोऽन्यस्थापीति। तेन होमादौ क्रियमाणे दक्षिणस्य पाणेरपायेऽपि सव्यो38 हृदयान्नापैतीति सिद्धम्।
विश्वास-प्रस्तुतिः
प्रेषितो जपति॥ १॥
मूलम्
प्रेषितो जपति॥ १॥
टीका
अत्रान्यार्थस्य39प्रेषस्याभावात्सामिधेन्यर्थं प्रेषितो होता॥ १॥
विश्वास-प्रस्तुतिः
नमः प्रबक्त्रे नम उपद्रवे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चाऽऽपश्चौषधयश्च वाक्समस्थितयज्ञ। साधु च्छन्दांसि प्रपद्येऽहमेव माममुमिति स्वं नामाऽऽदिशेत भूते भविष्यति जाते जनिष्यमाण आभजाम्यपाव्यं वाचो अशान्तिं वहेत्यङ्गुल्यग्राण्यवकृष्य जातवेदो रमया पशून्मयीति प्रतिसंदध्याद्वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु तिरश्चिकाः। तदद्य वाचः प्रथमं मसीयेति।
मूलम्
नमः प्रबक्त्रे नम उपद्रवे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चाऽऽपश्चौषधयश्च वाक्समस्थितयज्ञ। साधु च्छन्दांसि प्रपद्येऽहमेव माममुमिति स्वं नामाऽऽदिशेत भूते भविष्यति जाते जनिष्यमाण आभजाम्यपाव्यं वाचो अशान्तिं वहेत्यङ्गुल्यग्राण्यवकृष्य जातवेदो रमया पशून्मयीति प्रतिसंदध्याद्वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु तिरश्चिकाः। तदद्य वाचः प्रथमं मसीयेति।
टीका
नमः प्रवक्त्र इत्यादि होत्रं जुषध्वमित्यन्तं जपेत्सामिधेन्यर्थम्। प्रैषोत्तरकालवर्तित्वादयं जपः सामिधेन्यर्थो भवति। अत्रामुमितिशब्दस्य स्थाने द्वितीयया विभक्त्या स्वं40 नामाऽऽत्मनाम निर्दिशेत्। स्वग्रहणात्प्रतिनिधित्वेन प्रवृत्तस्यापि जपकर्तुरेव नाम निर्देष्टव्यं न होतुरिति लभ्यते। अशान्ति वहेति जपैकदेशमुच्चारयन्नङ्गुल्यप्राण्यवर्षेत्। मयीति चोच्चारयन्प्रतिसंध्यात्तेनावकर्षणसंधाने जपाङ्गे41, तत्कुर्वतो विधानात्।
विश्वास-प्रस्तुतिः
समाप्य सामिधेनीरन्वाह।
मूलम्
समाप्य सामिधेनीरन्वाह।
टीका
समाप्येत्यनेन नमः प्रवकइत्यादेर्होत्रं जुषध्वमित्यन्तस्यैकजपत्वं दर्शयति। तेनान्तरा यत्कार्यद्वयमवकर्षणं संधानं च तज्जपकर्तुः संस्कार एव भवति न कार्यान्तरम्। अतः पित्र्यायां जपलोपे न कर्तव्यं भवति। अग्नेः समिन्धनार्था ऋचः सामिधेन्यः। ता अन्वाहानुब्रूदित्यर्थः।
विश्वास-प्रस्तुतिः
हिं42३इति हिंकृत्य भूर्भुवः स्वरो३मिति जपति।
मूलम्
हिं42३इति हिंकृत्य भूर्भुवः स्वरो३मिति जपति।
टीका
हिंकारस्य नानारूपत्वादिष्टपरिग्रहार्थः पाठः।
विश्वास-प्रस्तुतिः
एषोऽभिहिंकारः।
मूलम्
एषोऽभिहिंकारः।
टीका
जपसाहतस्य हिंकारस्याभिहिंकार इति संज्ञा विधीयते।
विश्वास-प्रस्तुतिः
भूर्भुवः स्वरित्येव जपित्वा कौत्सो हिं करोति।
मूलम्
भूर्भुवः स्वरित्येव जपित्वा कौत्सो हिं करोति।
टीका
एवेत्यवधारणान्न केवलं व्युत्क्रममात्रं प्रणवरहितत्वं चेति दर्शयति। आचार्यग्रहणं विकल्पार्थम्।
विश्वास-प्रस्तुतिः
न च पूर्वं जपं जपति।
मूलम्
न च पूर्वं जपं जपति।
टीका
कौत्स इति शेषः। पूर्वमिति। नमः प्रवक्त्र इत्यादि जुषध्वमित्यन्तमित्यर्थः।
विश्वास-प्रस्तुतिः
अथ सामिधेन्यः प्रवो वाजा अभिद्यवोऽग्न आयाहि वीतये गृणान ईलेऽन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे।
मूलम्
अथ सामिधेन्यः प्रवो वाजा अभिद्यवोऽग्न आयाहि वीतये गृणान ईलेऽन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे।
टीका
अथशब्द ऋचामेव सामिधेनीत्वं दर्शयति। पूर्वं सामिधेनीग्रहणं सामिधेन्याद्यङ्गानां मध्येऽभिहिंकारः सामिधेन्यादीनामासन्नतरमङ्गमिति दर्शयति। तेन वैश्वदेवशस्त्रे दिग्ध्यानोत्तरकाल43मभिहिंकारः कर्तव्य इति गम्यते।
विश्वास-प्रस्तुतिः
ता एकश्रुति संततमनुब्रूयात्।
मूलम्
ता एकश्रुति संततमनुब्रूयात्।
टीका
या एता उक्ता ऋचस्ता एवमनुब्रूयादित्यर्थः।
विश्वास-प्रस्तुतिः
उदात्तानुदात्तस्वरितानां परः संनिकर्ष ऐकश्रुत्यम्।
मूलम्
उदात्तानुदात्तस्वरितानां परः संनिकर्ष ऐकश्रुत्यम्।
टीका
ऐकश्रुस्यलक्षणमुच्यते। उदात्तानुदात्तस्वरितानामभिव्यञ्जका ये प्रयत्ना * आयामविस्रम्भाक्षेपास्तेषामन्यतमस्यैकस्यैवात्यन्त44संनिकर्षणासजातीयप्रयत्नाव्यवधानेनयदुच्चारणं तदैकश्रुत्यमित्यर्थः।
विश्वास-प्रस्तुतिः
स्वरादिमृगन्त45मोकारं त्रिमात्रं मकारान्तं कृत्वोत्तरस्या अर्धर्चेऽवस्येत्तत्संततम्।
मूलम्
स्वरादिमृगन्त45मोकारं त्रिमात्रं मकारान्तं कृत्वोत्तरस्या अर्धर्चेऽवस्येत्तत्संततम्।
टीका
इदं संततलक्षणम्। स्वराद्यृगन्तपदयोष्टिप्रदेशोपलक्षणार्थत्वादृगन्तो यः स्वरादिः स्वर एव वा केवलस्त46मोकारं त्रिमात्रं कृत्वा तेन प्रणवेनोत्तरामृचं संधाय तस्या अर्ध-
————————————————————————————————————
* क. पुस्तकस्थेयं टिप्पनी – आयामो नाम वायुनिमित्तमूर्ध्वगमनं गात्राणां तेन व उच्यते स उदात्तः। आ ये। विसम्भो नामाधो गमनं गात्राणां वायुनिमित्तम्। नः। नौ। आक्षेपो नाम तिर्यग्गमनं गात्राणां वायुनिमित्तम्। न्यक्। क्व।
————————————————————————————————————
र्चेऽवस्येत्। मकारान्तं त्रिमात्रमिति व्युत्क्रमेण योजना।समुदायस्य त्रिमात्रताया47 इष्टत्वात्। अत एवं भवति। ओकारोऽर्धतृतीयमात्रः, मकारोऽर्धमात्र इति त्रिमात्रत्वं प्रणवस्य। उत्तरवचनमावृत्तिनोऽनावृत्तिनश्चोमयथा गृह्यते। यत्प्रणवेनोत्तरासंधानमात्रं विधीयते तत्संततमित्युच्यते।
* एतदवसानम्।
सामिधेनीष्वनूच्यानामृचामर्धर्चेऽवसानस्य पूर्वसूत्रेणैव सिद्धत्वादिदमवसानविधानमा+द्यायामृचि प्रापणार्थम्। अन्यत्र च जपादिष्वपीति।
विश्वास-प्रस्तुतिः
उत्तरादानमविप्रमोहे।
मूलम्
उत्तरादानमविप्रमोहे।
टीका
आदानमारम्भः। विप्रमोहो विभ्रेषः। पूर्वस्योच्छ्वासस्याविप्रमोह एवोत्तरमुच्छ्रवासमारभेतेत्यर्थः। विप्रमोहे पूर्वमेव सम्यक्पुनः पुनर्ब्रूयादित्यर्थः। अस्मिन्ध्रेष इदमेव प्रायश्चित्तं नान्यदिति सूत्रस्य प्रयोजनम्।
विश्वास-प्रस्तुतिः
समाप्तौ प्रणवेनावसानम्48।
मूलम्
समाप्तौ प्रणवेनावसानम्48।
टीका
अर्थप्राप्तस्य विधानं विहित एवायमर्थो नार्थप्राप्त इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
चतुर्मात्रोऽवसाने।
मूलम्
चतुर्मात्रोऽवसाने।
टीका
यवदसानं विहितमेव नार्थप्राप्तं तस्मिन्नवसाने चतुर्मात्रः प्रणवो न त्रिमात्रः।
विश्वास-प्रस्तुतिः
तस्यान्तापत्तिः।
मूलम्
तस्यान्तापत्तिः।
टीका
तस्य प्रणवस्य योऽन्तो मकारस्तस्य वर्णान्तरापत्तिर्वक्ष्यत इत्यर्थः।
विश्वास-प्रस्तुतिः
स्पर्शेषु स्ववर्ग्यमुत्तमम्।
मूलम्
स्पर्शेषु स्ववर्ग्यमुत्तमम्।
टीका
स्पर्शेषु परेषु यः स्पर्शो मकारात्परस्तस्य स्ववर्ग्यमुत्तममापद्यते मकारः। समिध्यसोन्तं49 मर्जयन्तेत्यादिनिदर्शनम्।
विश्वास-प्रस्तुतिः
अन्तस्थासु तां तामनुनासिकाम्।
मूलम्
अन्तस्थासु तां तामनुनासिकाम्।
टीका
रेफस्यानुनासिकत्वासंभवाद्यवला एवात्रान्तस्था गृह्यन्ते। तासु या या पराऽन्तस्था तां तामनुनासिकां मकार आपद्यते। तत्र सानुनासिका पूर्वा, उत्तरा शुद्धा, एवमत्र50 संयोगः। विदधानि प्रचोदयोँवाजी51 वाजेष्विति निदर्शनम्।
————————————————————————————————————
* ङ. पुस्तकस्थेयं टिप्पनी – सिद्धान्ते त्वेतत्सूत्रमुत्तरार्थं पूर्वस्यावसानस्याविप्रमोह उत्तरस्यावसानस्याऽऽरम्भः कार्य इत्यवसानाधिकारार्थमेकैवमवसानमविमूढं ब्रूयादित्यर्थः। नैकैकमृचमेंकैकमचर्धर्चम्। + ङ. शस्त्रानुवचनादौ।
————————————————————————————————————
विश्वास-प्रस्तुतिः
रेफोष्मस्वनुस्वारम्।
मूलम्
रेफोष्मस्वनुस्वारम्।
टीका
एतेषु मकारोऽनुस्वारमापद्यते। अनुस्वारो नाम नासिकास्थानोऽस्पृष्टकरणश्च। अस्य यज्ञस्य सुक्रतों समिध्यमानो अध्वर इत्यादि।
विश्वास-प्रस्तुतिः
त्रिः प्रथमोत्तमे अन्वाहाध्यर्धकारम्।
मूलम्
त्रिः प्रथमोत्तमे अन्वाहाध्यर्धकारम्।
टीका
** ** अध्यर्धकारमध्यर्धीकृत्येत्यर्थः। प्रथमोत्तमे ऋचौ त्रिरध्यर्धकारं ब्रूयात्।
विश्वास-प्रस्तुतिः
अध्यर्धामुक्त्वाऽवस्येदथ द्वे।
मूलम्
अध्यर्धामुक्त्वाऽवस्येदथ द्वे।
टीका
ग्रथमायामे52वमध्यर्धकारं भवति। पूर्वामध्यर्धामुक्त्वाऽवसाय ततो द्वे ऋचौ ब्रूयात्। द्वे इतिवचन53मर्धर्चचतुष्काभिप्रायम्। पूर्वस्मिन्नुच्छ्वासे प्रथमायामावृत्तौ द्वावर्धर्चौ द्वितीयायामेकश्चेति त्रयोऽर्धर्चा उक्ताः। अस्मिंस्तूच्छ्रवासे द्वितीयतृतीययोरावृत्त्योरूयोऽर्धर्चा उत्तरस्या ऋच एकोऽर्धर्च इत्येवं चत्वारोऽर्धर्चा वक्तव्या भवेयुः। अध्यर्धकारविधेरुत्तरया संधाना विरोधादिति। अथशब्दोऽस्य सूत्रस्यान्यार्थत्वप्रतिभासनिवृत्त्यर्थः।
विश्वास-प्रस्तुतिः
द्वे प्रथममुत्तमस्यामथाध्यर्धाम्।
मूलम्
द्वे प्रथममुत्तमस्यामथाध्यर्धाम्।
टीका
पूर्वेण संधानाविरोधादुत्तमायामेवं भवति। अथशव्दश्च पूर्ववत्।
विश्वास-प्रस्तुतिः
ताः पञ्चदशाभ्यस्ताभिः।
मूलम्
ताः पञ्चदशाभ्यस्ताभिः।
टीका
एकादशानामृचां द्वयोस्त्रिरभ्यासे कृते ता अभ्यस्ताभिः सह पञ्चदशैव भवन्तीत्यर्थः54। प्राप्त एवायमर्थः। अस्य वचनस्येदं प्रयोजनं सर्वत्राभ्यस्ताभिः सह विहितसंख्यापूरणं कर्तव्यमिति।
एतेन शस्त्रयाज्यानि*ऋगदानुवचनाभि+ष्टवनसंस्त×वनानि।
शंसत्यादिशब्दचोदितानि शस्त्रादीनि भवन्ति। एतेनेति सामिधेन्यनुवचनमुच्यते। शस्त्रादीनि च तत्र तत्र विहितानि। तेषां धर्मापेक्षाऽस्ति। तत्रैतेन तानीत्युक्त एतद्धर्मकाणि तानीति गम्यते। अनेन प्रकारेण तेषां सामिधेनीधर्मातिदेश उक्तो भवति।
सर्वधर्मप्राप्तौ कतिपयधर्मनिषेधार्थमाह —
विश्वास-प्रस्तुतिः
न त्वन्यत्राध्यर्धकारं, न जपः प्रागभिहिंकारात्, नाभिहिंकारात्,नाभिहिंकाराभ्यासावबहुषु प्रकृत्या।
मूलम्
न त्वन्यत्राध्यर्धकारं, न जपः प्रागभिहिंकारात्, नाभिहिंकारात्,नाभिहिंकाराभ्यासावबहुषु प्रकृत्या।
टीका
अन्यत्रेत्येतावदनुवर्तते। तस्य सामिधेनीभ्योऽन्यत्रेत्ययमर्थः। अतः = पित्र्यायामभि-
————————————————————————————————————
* ङ॰ अग्ने महां असीत्यादि। + ङ. अथ ग्राब्णोऽभिष्टुयात्। × ङ. संस्तुयादनभिहिंकृत्य यान्वो नर इत्यादि। = ङ. उशन्तस्त्वा।
————————————————————————————————————
हिंकारः सिद्धो भवति। अभ्यासनिवृत्त्यर्थं तत्रैव ताग्रहणं करिष्यति। तेनाम्यासो न भवति। प्रकृत्येतिशब्दोऽम्यासेन बहुष्वपि ‘पुरीण्यासो अग्नयः’ इत्येवमादिषु तयोरभावं दर्शयति।
*नावच्छेदादौ।
अवच्छेदो नाम यत्र शस्त्रादिषु मध्ये समाप्यावस्येदित्येवमादिभिः शब्दैरवसानं विहितं समाप्य प्रणवेनेत्येवमादिषु सोऽवच्छेदस्तत्रापि तौ न स्तः।
विश्वास-प्रस्तुतिः
शस्त्रेष्वेव होत्रकाणामभिहिंकारः।
मूलम्
शस्त्रेष्वेव होत्रकाणामभिहिंकारः।
टीका
अस्मिञ्शास्त्रे मुख्यवर्जिता द्वादशर्विजो होत्रका इत्युच्यन्ते न सप्त वा त्रयो वा। तेन ग्रावस्तुतोऽभिहिंकारनिषेधः सिद्धो भवति।
विश्वास-प्रस्तुतिः
सामिधेनीनामुत्तमेन प्रणवेनाग्ने महां असि ब्राह्मणभारतेति निगदेऽवसाय॥ २॥
मूलम्
सामिधेनीनामुत्तमेन प्रणवेनाग्ने महां असि ब्राह्मणभारतेति निगदेऽवसाय॥ २॥
टीका
प्रणवेन निगदं संधाय निगदेऽवस्येदित्यर्थः॥ २॥
विश्वास-प्रस्तुतिः
यजमानस्याऽऽर्षे+यान्मणीते यावन्तः स्युः।
मूलम्
यजमानस्याऽऽर्षे+यान्मणीते यावन्तः स्युः।
टीका
तत्रावसायाऽऽर्षेयान्प्रवृणीते यावन्तो यजमानस्य ते भवन्ति। ते च प्रवराम्नाये व्याख्याताः।
विश्वास-प्रस्तुतिः
परं परं प्रथमम्।
मूलम्
परं परं प्रथमम्।
टीका
अस्येम आर्षेया इत्यन्तः, अयं परः, अयमपरः,इत्येवमादिस्मृत्यनुसारेण प्रवराम्नाय एव वरणप्रकारःपठितः स एवेदानीम्। इयन्तो वरीतव्या इत्थं वरीतव्या इति विधानमन्यक्षेत्रजातद्व्यामुष्यायणार्थम्।
विश्वास-प्रस्तुतिः
पौरोहित्यान्राजविशाम्।
मूलम्
पौरोहित्यान्राजविशाम्।
टीका
पुरोहितस्य य आर्षेयास्तानेव राजन्यवैश्ययोः प्रवृणीते। बहुवचनं त्रैवर्णिकस्त्रीजातानामनुलोमानां संग्रहार्थम्।
————————————————————————————————————
* ङ. पुस्तकस्थेयं टिप्पनी – यत्र ऋगन्ता वसानेऽध्वर्युप्रैषवशादनुवचनान्तरत्वं इयेनेन योनिमित्यादौ प्राप्तयोरभिहिंकाराभ्यासयोः प्रतिषेधः। आदिग्रहणादन्त्येऽभ्यासो भवतीति देवत्रातसिद्धान्तभाष्ये। प्रवर्म्ये याज्यया भक्षणेन च विच्छिन्नत्वाच्छयेनेन योनिमिति पुनरारम्भेऽभिहिंकाराभ्यासयोर्निवृत्त्यर्थमिति। तृ°। + क. पुस्तकस्येयं टिप्पनी — आर्षेयद्व्यामुष्यायणपक्ष इतरस्यैक इतरस्य द्वाविति। पञ्चार्वेयपक्ष इतरस्य द्वौ इतरस्य त्रय इति। परं परं प्रथममिति। द्वयामुष्यायणार्थमिदं सूत्रम्। अन्येषां प्रवराध्याये पठित एव क्रमः। मुख्यो द्वितीयस्तृतीय। इति सर्वेऽसमानगोत्राः स्युरित्यस्मिन्खण्डेऽनेनैव क्रमेण सूत्रकारेण पठिताः। तेनैव क्रमेण यजमानस्याऽऽर्षेयवरणकाले पठितव्या इति भावः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
राजर्षीन्वा राज्ञाम्।
मूलम्
राजर्षीन्वा राज्ञाम्।
टीका
मानवैलपौरूरवसेत्येवं वा पौरोहित्यान्वा।
विश्वास-प्रस्तुतिः
सर्वेषां मानवेति संशये।
मूलम्
सर्वेषां मानवेति संशये।
टीका
अज्ञाने संशये च त्रयाणां वर्णानां मानवेत्ययं शब्दः प्रवरो भवेत्।
विश्वास-प्रस्तुतिः
देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्तोहोता तूर्णिर्हव्यवालित्यवसायाऽऽस्पात्रं जुहूर्देवानां चमसो देवपानो राँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान्यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्यादेशमादेशमावहेत्यावाहयत्यादिं प्लावयन्।
मूलम्
देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्तोहोता तूर्णिर्हव्यवालित्यवसायाऽऽस्पात्रं जुहूर्देवानां चमसो देवपानो राँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान्यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्यादेशमादेशमावहेत्यावाहयत्यादिं प्लावयन्।
टीका
निगदेऽवसायेति नगद इति सप्तमी निर्देशात्पूर्वापरीभूतो निगदो न परिसमाप्त इति गम्यते। अतः प्रवरोऽपि तस्यैव शेषः। क्वचिन्मन्त्राम्नाये भारतशब्दानन्तरमसावसाविति प्रवरप्रकृतेः पठितत्त्वाच्च संबुद्धिसामानाधिकरण्याच्च। देवेद्ध इति निवित्पदनिगदः। चतुर्दश निवित्पदानि परिभूरसीत्येवमन्तानि। आवह देवान्यजमानायेत्यादि55 सुयजा यजेत्यन्तं56मावाहननिगदः। सामिधेन्यादय एते मन्त्रा आहवनीयाभिधायिनः। तत्र भारतेत्यवस्येत्प्रवरान्ते च निवित्पदानामेकादशे च। चतुर्दशेनाऽऽवाहननिगदं संधाय यजमानायेत्यवस्येत्, प्रतिपद्यावसायेत्यध्याहारात्। प्रतिपद्येतिवचनमस्य वाक्यस्य प्रतिपत्तिसंज्ञाकरणार्थम्। तेन पित्र्यायां प्रतिपत्त्यन्तरविधान एतन्न भवति। तत्र स्थित्वा देवता वक्ष्यमाणा द्वितीयया विभक्त्याऽऽदिश्याऽऽदिश्यानन्तरमावहेत्यावाहयत्यावहशब्दस्याऽऽदिं प्लावयन्। द्वितीयाविधानं सर्वार्थम्। अत्र पाठादेव द्वितीया सिद्धेति तेन देवतामादिश्य प्रणुयाद्यजेच्चेत्यत्र द्वितीयैव भवति। विभक्त्यन्तरविधाने तु तदेव भवति। ‘आवह देवान्’ ‘होत्रा याऽऽवह’ ‘आवह जातवेदः’ इत्येतेषु त्रिषु प्लुतावसाने न57स्तः।
विश्वास-प्रस्तुतिः
अग्न आवहेति तु प्रथमदेवताम्।
मूलम्
अग्न आवहेति तु प्रथमदेवताम्।
टीका
प्रथमदेवतायामयं विशेषः। तुशब्देन यष्टव्यदेवता58वाहनशब्दयोर्मध्येऽग्नेशव्दं ब्रूयात्।
विश्वास-प्रस्तुतिः
अग्निंसोममित्याज्यभागौ।
मूलम्
अग्निंसोममित्याज्यभागौ।
टीका
यागयोरियमाख्या तत्संबन्धाद्देवतयोरपीति।
विश्वास-प्रस्तुतिः
अग्निमग्नीषोमाविति पौर्णमास्याम्।
मूलम्
अग्निमग्नीषोमाविति पौर्णमास्याम्।
टीका
विशेषाभावात्सोमयाजिनोऽसोमयाजिनश्च प्रधानदेवते एते।
विश्वास-प्रस्तुतिः
अग्नीषोमयो स्थान इन्द्राग्नी अमावास्यायामसंनयतः।
मूलम्
अग्नीषोमयो स्थान इन्द्राग्नी अमावास्यायामसंनयतः।
टीका
पौर्णमास्याः प्रथमाम्ना59नात्सैव प्रथमं प्रयोज्या। स्थानशब्दः पौर्णमास्याधर्माणां प्रथमसंबन्धं दर्शयति। प्राप्तावविशेषेऽपि प्रयोगावस्थायां विशेषग्रहणादिति। तेनेदं बोधितं भवति - असमाम्नातानामसति चोदनालिङ्गविशेषे पौर्णमासमेव तन्त्रमिति दधिपयोभ्यां यागं कुर्वन्संनयन्नित्युच्यते। यो न संनयति तस्येन्द्राग्नी द्वितीया।
विश्वास-प्रस्तुतिः
इन्द्रं महेन्द्रं वा संनयतः।
मूलम्
इन्द्रं महेन्द्रं वा संनयतः।
टीका
संनयतोऽमावास्यायामिन्द्रं महेन्द्रं वाऽग्नीषोमस्थान आवाहयेत्।
विश्वास-प्रस्तुतिः
अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः।
मूलम्
अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः।
विश्वास-प्रस्तुतिः
अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कंचन।
मूलम्
अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कंचन।
टीका
उभयोरपि पर्वणोः कंचनोपांशुयाजमेके नेच्छन्ति।
विश्वास-प्रस्तुतिः
अन्येषामप्युपांशुनामावह स्वाहाऽयाट्प्रिया धामानीदं हविर्महो ज्याय इत्युच्चैः।
मूलम्
अन्येषामप्युपांशुनामावह स्वाहाऽयाट्प्रिया धामानीदं हविर्महो ज्याय इत्युच्चैः।
टीका
अन्येषामपीति पित्र्यादीनामङ्गोपांशूनां संग्रहार्थम्। आवाहनादिषु चतुर्षु निगदेषु यान्युपांशुयाजसंबन्धीनि षट् पदान्या62वहादीनि तेषामुच्चैरिति संज्ञामात्रं विधीयते। ‘तन्त्रस्वराण्युपांशोरुच्चानि’ इत्यनेन सर्वेषामुच्चसंज्ञानां तन्त्रस्वरो विधीयते।
विश्वास-प्रस्तुतिः
येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा।
मूलम्
येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा।
टीका
येऽन्य इति सर्वनाम्नः संनिहितविषयत्वात्तेष्वेव निगदेष्विति गम्यते। तद्वचना उपांशु याजवचनाः। परोक्षास्ते, येषां पदान्तरसंनिधानादेव63विशेषनिष्ठताऽवसीयते न स्वतः। अजुषतादयः क्रियावचना इत्यर्थः। तेषामुपांशुत्वं प्राप्तमनूद्यते। उच्चैःसंज्ञा विकल्पेन विधीयते।
*प्रत्यक्षमुपांशु।
यागं प्रति चोदितं देवतानामधेयं प्रत्यक्षमित्युच्यते। तस्य प्राप्तमुपांशुत्वं नियमार्थं विधीयते। तस्यैवोपांशुत्वं भवेत्। उपांशुदेवतायाः प्राथम्येऽपि प्रथमदेवतायाः संबन्धी योऽग्निशब्द आवाहनस्विष्टकृन्निगदयोर्न तस्यापीति। अत्र किंचिदुच्यते - उपांशु यष्टव्यमितिवचनादुपांशुत्वं यागधर्मतयाऽव+गम्यमानं तत्रासंभवादानर्थक्यात्तदङ्गन्यायेन तत्संब-
————————————————————————————————————
* घ. यत्प्रत्यक्षं देवता नाम विष्णूरग्रीषोमौ प्रजापतिरिति। + क. ज्ञायमानम्
————————————————————————————————————
न्धिनः’*शब्दान्परिगृह्य तिष्ठति। तत्राऽऽवहादीनामागू64रादीनां च होता यक्षदित्यस्य चोपांशुत्वं निवर्त्य तन्त्रस्वरोऽनुज्ञातः। परोक्षाणामजुषतादीनां विकल्पेन तन्त्रस्वर65 उक्तः। प्रत्यक्षस्य विष्ण्वादे66र्याज्यादीनां चोपांशुत्वनियमादन्यस्य सर्वस्य तन्त्रस्वरे प्राप्ते याज्यानुवाक्ययोरागूरादिभिः प्राणसंतानविधानादुपांशुत्वमेव स्थितम्।
विश्वास-प्रस्तुतिः
प्रतिचोदनमावाहनम्।
मूलम्
प्रतिचोदनमावाहनम्।
टीका
चोदनां चोदनां प्रतीति प्रतिचोदनम्। चोदना देवताचोदना। यावत्यो देवताश्चोदितास्तावन्त्यावाहनानि भिन्नानीत्यर्थः। प्रत्यावाहनमुच्छ्वास67निश्वाससिद्धयर्थमिदं भेदसाधनम्।
विश्वास-प्रस्तुतिः
सर्वा आदिश्य सकृदेकप्रदानाः।
मूलम्
सर्वा आदिश्य सकृदेकप्रदानाः।
टीका
यत्र बहुभिर्हविर्भिरेकया याज्यया बह्वीभ्यो देवताभ्यो युगपद्यागाः क्रियन्ते त एकप्रदाना यागाः। तत्संबन्धाद्देवता अप्येकप्रदाना इत्युच्यन्ते। सर्वा इति बहुवचनं सर्वासांपृथगादेशार्थम्। आदिश्यवचनं सर्वा आदिश्यान्त आवहशब्दप्रयोगार्थम्। सकृद्वचनमन्तेऽपि सकृदेव वक्तव्यो न यावद्दैवतमित्येवमर्थम्।
विश्वास-प्रस्तुतिः
तथोत्तरेषु निगमेष्वेकामिव संस्तुयात्।
मूलम्
तथोत्तरेषु निगमेष्वेकामिव संस्तुयात्।
टीका
एकाभिवेतिवचनं यथैकस्या देवतायाः पुरस्तात्स्वाहायाट्शब्दावजुषतादयश्चैकवचनेन तथैतास्वपीति।
विश्वास-प्रस्तुतिः
समानां देवतां समानार्थाम्।
मूलम्
समानां देवतां समानार्थाम्।
टीका
निगमेष्वेकामिव संस्तुयादित्यत्रापि संबध्यते विशेषाग्रहणात्प्रयोजनवत्वात्संप्रदायाच्च। समानामिति। एकशब्दामित्यर्थः। समानार्थामिति। एकप्रयोजनामित्यर्थः।
विश्वास-प्रस्तुतिः
अव्यवहितां सकृन्निगमेषु।
मूलम्
अव्यवहितां सकृन्निगमेषु।
टीका
अव्यवहितामन्यया देवतया निगमेषु सकृद्ब्रूयादेकवचनेनैव।
विश्वास-प्रस्तुतिः
ओह्लास्वावापिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायाऽऽवह स्वं महिमानमावहाऽऽवह जातवेदः सुयजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्युह्य तृणानि भूमौ प्रादेशं कुर्यात्। अदितिर्माताऽस्यान्तरिक्षान्मा च्छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण च्छन्दसाऽग्निष्टोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं हन्मीति।
मूलम्
ओह्लास्वावापिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायाऽऽवह स्वं महिमानमावहाऽऽवह जातवेदः सुयजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्युह्य तृणानि भूमौ प्रादेशं कुर्यात्। अदितिर्माताऽस्यान्तरिक्षान्मा च्छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण च्छन्दसाऽग्निष्टोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं हन्मीति।
टीका
————————————————————————————————————
* क. मन्त्रान्।
————————————————————————————————————
आवापिका आवापोद्धारयोग्याः प्रधानदेवता इत्यर्थः। तासु कृतावाहनासु देवानाज्यपानावायोत्स्वष्टकृतं च। पाठोऽनुनासिकलाभाय नकारलोपाय च होत्रायाऽऽवहशब्दयोः स्विष्टकृदावाहनप्रयोगाय च। किंच पठितवाहनानां पाठादेवोत्तरेष्वपि निगमेषु निगमनसिद्धिर्लक्ष्यत इत्येवमर्थम्। आज्यपाः प्रयाजानूयाजदेवताः। अग्निं होत्रायाऽऽवह स्वं महिमानमावहेत्येतावत्स्विष्टकृदावाहनार्थम्। आवह जातवेद इत्यादिः सुयजायजेत्यन्तो निगदशेषः। आवाह्यवचनं सुयजायजेत्यन्तस्याऽऽवाहननिगदत्वाय।सामिधेन्यर्थं यथास्थितस्तथोर्ध्वजानुरूपविश्योद68ग्वेदेर्व्युह्य वेद्या69स्तीर्णानि तृणानि वेद्यां भूमौ प्रादेशं कुर्याददितिर्मातेति मन्त्रेण।
विश्वास-प्रस्तुतिः
आश्रावयिष्यन्तमनुमन्त्रयेताऽऽश्रावय यज्ञं देवेष्वाश्रावय मां मनुष्येषु कीर्त्यैयशसे ब्रह्मवर्चसायेति। प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निंहोत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति। मानुष इत्यध्वर्योःश्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्थामगृताँ अन्वित्युत्तिष्ठेत्।
मूलम्
आश्रावयिष्यन्तमनुमन्त्रयेताऽऽश्रावय यज्ञं देवेष्वाश्रावय मां मनुष्येषु कीर्त्यैयशसे ब्रह्मवर्चसायेति। प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निंहोत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति। मानुष इत्यध्वर्योःश्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्थामगृताँ अन्वित्युत्तिष्ठेत्।
टीका
अध्वर्युग्रहणमुत्तरार्थम्।
विश्वास-प्रस्तुतिः
षष्टिश्चाध्वर्यो नवतिश्च पाशा अग्निं होतारमन्तरा विचृत्ताः। सिनन्ति पाकमतिधीर एतीत्युत्थाय।
मूलम्
षष्टिश्चाध्वर्यो नवतिश्च पाशा अग्निं होतारमन्तरा विचृत्ताः। सिनन्ति पाकमतिधीर एतीत्युत्थाय।
टीका
ब्रूयादिति शेषः। नायमुत्थानमन्त्रः पूर्वेणैव निरपेक्षत्वात्। अत ईदृशो मन्त्रोमन्त्रसंज्ञकः।
विश्वास-प्रस्तुतिः
ऋतस्य पन्थामन्वेभिहोतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना।
मूलम्
ऋतस्य पन्थामन्वेभिहोतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना।
टीका
अत्राध्वर्युग्रहणेन प्रयोजनमभिक्रमणान्वारम्भणे अध्व70र्योरेव71 कुर्यान्न प्रतिप्रस्था72तुरित्ये तत्। जत्रुब’होःसंधिरंसस्तस्मिन्देशेऽध्वर्युमन्वारभेत। पार्श्वस्थेन पाणिना। पार्श्वेन तिष्ठतीति पार्श्वस्थः कनिष्ठिकाप्रदेशे न स्थितो न न्यग्भूनो नोत्तान इत्यर्थः। तेनान्वारभेताध्वर्युम्।
विश्वास-प्रस्तुतिः
आग्नीध्रमङ्कदेशेन सव्येन वा।
मूलम्
आग्नीध्रमङ्कदेशेन सव्येन वा।
टीका
सव्येन पाणिना पार्श्वस्थेनास एवाङ्केनोरुणा वा।
विश्वास-प्रस्तुतिः
इन्द्रमन्वारमामहे होतृवूर्ये पुरोहितम्।येनाऽऽयन्नुत्तमं स्वर्देवा अङ्गीरसो दिवमिति।
मूलम्
इन्द्रमन्वारमामहे होतृवूर्ये पुरोहितम्।येनाऽऽयन्नुत्तमं स्वर्देवा अङ्गीरसो दिवमिति।
टीका
उभयोः साधारणो मन्त्रः। अतो नाऽऽवर्तते नोह्यते च।
विश्वास-प्रस्तुतिः
संमार्गतृणैस्त्रिरभ्यात्मं मुखं सं73मृजीत संमार्गोऽसि सं मां प्रजया पशुभिर्मृड्ढीति।
मूलम्
संमार्गतृणैस्त्रिरभ्यात्मं मुखं सं73मृजीत संमार्गोऽसि सं मां प्रजया पशुभिर्मृड्ढीति।
टीका
इध्मसंनहनानि संमार्गशब्देनोच्यन्तेऽग्निसंमार्जनसाधनत्वात्तेषाम्। तैस्तृणैरभ्यात्मं मुखं संमृजीत। तृणैरितिवचनात्तृणभूतैरेव तैः संमृजीत न ग्रन्थिभूतैः पाशभूतैर्वेति गम्यते। अभ्यात्ममात्माभिमुखं पाणितलमवागपवर्गंच संमार्जनमिति।
विश्वास-प्रस्तुतिः
सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवंकर्मावृत्तौ।
मूलम्
सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवंकर्मावृत्तौ।
टीका
सकृन्मन्त्रेण द्विस्तूष्णीमित्येतत्सर्वत्र भवत्येवंप्रकारस्य कर्मण आवृत्तौ सत्यामिति। एवंप्रकारशब्देन संस्कारकर्मत्वमुच्यते। एतदुक्तं भवति – यत्र संस्कारकर्मणि74 त्रिरावृत्तिर्विधीयते तत्र सकृन्मन्त्रेण द्विस्तूष्णीमिति न प्रधानकर्मणि।
विश्वास-प्रस्तुतिः
स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इति।
मूलम्
स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इति।
टीका
होतृषदनमपरेण स्थित्वा प्राङ्मुखोऽभिमन्त्रयेत। इदमुदकोपस्पर्शनं पूर्वाङ्गम्।अग्निसंमार्जनतृणैरात्मनो मुखसंमार्जनादात्मनो यद्दौ75ष्ट्यं तच्छान्त्यर्थत्वेनास्य दृष्टार्थत्वं भवति।
अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेन्निरस्तः परावसुरितीदमहमर्वावसोः सदने सीदामीत्युपविशेद्दक्षिणोत्तरिणोपस्थे *न।
दक्षिणं च तदुत्तरं च दक्षिणोत्तरम्। तद्वानुपस्थो दक्षिणोत्तरी तेनोपविशेत्।
विश्वास-प्रस्तुतिः
एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमोपवेशनेऽपि समाने।
मूलम्
एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमोपवेशनेऽपि समाने।
टीका
एते इति प्रकारमन्त्रविशिष्टयोर्ग्रहणार्थम्। ते च सर्वेषां सर्वासनेषु प्रथमोपवेश76ने भवतः, न द्वितीयादिप्रयोगं इत्येकोऽर्थः। समानेऽप्यासनेऽहर्गणेष्वहरहः प्रथमोपवेशने भवतः,
————————————————————————————————————
* क दक्षिणं चोपत्रिश्योरुं वामगुल्फोपरि न्यसेत्। वामोरुं दक्षिणं गुल्फं तच्चोपस्थमुदीरितम्।
————————————————————————————————————
अयमपरोऽर्थः। समानेऽपि स्थाने प्रयोगावृत्तौ पुनः पुनरावर्त्येते प्रवर्ग्यादिषु। अयं चापरोऽपि शब्दाल्लभ्यते। अस्य विधेर्दर्शपूर्णमासप्रकरणे पठितत्वात्तदतिदिष्टेष्वेवेष्टिपशुसोमेषु भवतो नाग्निहोत्रादिष्विति। अङ्कधारणं भवत्येव।
विश्वास-प्रस्तुतिः
द्विरिति गौतमः॥ ३॥
मूलम्
द्विरिति गौतमः॥ ३॥
टीका
अस्याऽऽचार्यस्य द्विः। द्वितीयेऽपि प्रयोगे भवतीत्यभिप्रायः॥ ३॥
विश्वास-प्रस्तुतिः
ब्रह्मौदने प्राशिष्यमाणेऽग्न्याधेये ब्रह्मा।
मूलम्
ब्रह्मौदने प्राशिष्यमाणेऽग्न्याधेये ब्रह्मा।
टीका
द्विरित्यनुवर्तते। क्रियमाणस्य कर्मणो दक्षिणत उपविष्टः सन्पुनः प्राशनकालेद्वि77तीये निरसनोपवेश78ने कुर्यात्। अग्न्याधेये ब्रह्मौदने द्वितीयविधानसामर्थ्यादेवेष्टिपशुसोमेभ्योऽन्यत्रापि ब्रह्मणो निरसनोपवेशनप्राप्तिरिति गम्यते। अग्न्याधेयग्रहणमश्वमेधे यद्ब्रह्मौदनं तत्र79नैवं कर्तव्यमिति।
विश्वास-प्रस्तुतिः
बहिष्पवमानात्प्रत्येत्य सोमे।
मूलम्
बहिष्पवमानात्प्रत्येत्य सोमे।
टीका
आहवनीयस्य दक्षिणत उपविष्टः सन्वहिष्पवमानं गत्वा ततः प्रत्येत्य पूर्वासने पुनः कुर्यात्। सोमग्रहणं सर्वेषु सोमेषु प्रापणार्थम्। इतरथाऽऽधानाधिकारात्त80त्संबन्ध एव सोमे स्यान्न सर्वसोमेष्विति।
विश्वास-प्रस्तुतिः
प्रसृप्य होता।
मूलम्
प्रसृप्य होता।
टीका
पश्चर्थमुपविष्ट एवाऽऽसने सदःप्रसर्पणं कृत्वा तत्रैव पुनः कुर्यात्। होतृग्रहणं ब्रह्माधिकारनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
सुगादापने पशौ।
मूलम्
सुगादापने पशौ।
टीका
स्वाहाकृत्यर्थे स्रुगादापने पुनः कुर्यात्।
विश्वास-प्रस्तुतिः
न पत्नीसांयाजिके।
मूलम्
न पत्नीसांयाजिके।
टीका
पत्नीसंयाजार्थ उपवेशने नैव81कुर्यात्।
विश्वास-प्रस्तुतिः
नान्यत्र होतुरिति कौत्सः।
मूलम्
नान्यत्र होतुरिति कौत्सः।
टीका
होतुरन्येषामेते न भवत इति कौत्सो मन्यते।
विश्वास-प्रस्तुतिः
उपविश्य देव बहिः स्वासस्थं त्वाध्यासदेयमिति।
मूलम्
उपविश्य देव बहिः स्वासस्थं त्वाध्यासदेयमिति।
टीका
उपविश्यानन्तरं ब्रूयादित्यर्थः।
विश्वास-प्रस्तुतिः
अभिहिष होतः प्रतरां बर्हिषद्भवेति जानुशिरसा बहिरुपस्पृश्यात ऊर्ध्वं जपेत्।
मूलम्
अभिहिष होतः प्रतरां बर्हिषद्भवेति जानुशिरसा बहिरुपस्पृश्यात ऊर्ध्वं जपेत्।
टीका
जानुशिरो जान्वग्रम्। अत ऊर्ध्वग्रहणमुपस्पृशतो न जपः स्यादिति। तेनान्यत्रैवंरूपे शब्देऽसति कुर्वन्नेव कुर्यादिति गम्यते ‘अरणी संस्पृश्य मन्थयेत्’ इत्यादिषु।
भूपतये नमो भुवनपतये नमो भूतानां पतये नमो भूतये नमः प्राणं प्रपद्येऽपानं प्रपद्ये व्यानं प्रपद्ये वाचं प्रपद्ये चक्षुः प्रपद्ये श्रोत्रं प्रपद्ये मनः प्रपद्य आत्मानं प्रपद्ये गायत्रीं प्रपद्ये त्रिष्टुभं प्रपद्ये जगतीं प्रपद्येऽनुहुभं प्रपद्ये छंदांसि प्रपद्ये सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यो विश्वे देवाः शास्त न मा यथेहाराधि होता निपदा यजीयांस्तदद्य वाचः प्रथमं मसीयेति समाप्य प्रदीप्त इध्मे सुचावादापयेन्निगदेन।
समाप्य प्रदीप्त इत्युभयस्य स्रुगादापनावसरप्रदर्शनार्थत्वाज्जपसमाप्तिरपि प्रदीप्त82 एवेति गम्यते। अनेन निगदेनाऽऽदापये83दध्वर्युम्।
विश्वास-प्रस्तुतिः
अग्निर्होता वेत्त्वग्नेर्होत्रं वेत्तु प्रावित्रं साधु ते यजमान देवता यो अग्निमित्यवसाय होतारमवृथा इति जपेत्।
मूलम्
अग्निर्होता वेत्त्वग्नेर्होत्रं वेत्तु प्रावित्रं साधु ते यजमान देवता यो अग्निमित्यवसाय होतारमवृथा इति जपेत्।
टीका
अवसायेतिवचनं निगदमध्य उच्छ्वासलाभार्थम्। जपेदिति निगदमध्य उपांशुत्वलाभार्थम्।
विश्वास-प्रस्तुतिः
अथ समापयेद्घृतवतीमध्वर्योःसुचमास्यस्व देवयुवं विश्ववारे ईकामहैदेवाँ ईलेऽन्यान्नमस्याम नमस्यान्यजाम यज्ञियानिति।
मूलम्
अथ समापयेद्घृतवतीमध्वर्योःसुचमास्यस्व देवयुवं विश्ववारे ईकामहैदेवाँ ईलेऽन्यान्नमस्याम नमस्यान्यजाम यज्ञियानिति।
टीका
अथेतिक्चनमत्राप्युच्छ्वासलाभार्थम्। समाप्तिवचनमग्निर्होतेत्यादेर्यज्ञियानित्यन्तस्यैक-निगदत्वसूचनार्थम्।
विश्वास-प्रस्तुतिः
समाप्तेऽस्मिन्निगदेऽध्वर्युराश्रावयति।
मूलम्
समाप्तेऽस्मिन्निगदेऽध्वर्युराश्रावयति।
टीका
अध्वर्युकर्मविधानं प्रत्याश्रावणस्येदं निमित्तमिति84 ज्ञापनार्थम्। समाप्तिवचनमाश्रावणेकृते85ऽपि समाप्त एव निगदे प्रत्याश्रावणं86 कुर्यादित्येवमर्थम्।
विश्वास-प्रस्तुतिः
प्रत्याश्रावयेदाग्नीध्र उत्करदेशे तिष्ठन्स्फ्यमिध्मसंनहनानीत्यादाय दक्षिणामुख इति शाट्यायनकमस्तु श्रौ ३ पलित्यौकारं प्लावयन्॥ ४॥
मूलम्
प्रत्याश्रावयेदाग्नीध्र उत्करदेशे तिष्ठन्स्फ्यमिध्मसंनहनानीत्यादाय दक्षिणामुख इति शाट्यायनकमस्तु श्रौ ३ पलित्यौकारं प्लावयन्॥ ४॥
टीका
शाट्यायनग्रहणं विकल्पार्थम्। अतः प्राङ्मुखत्वमपि लभ्यते। प्लावयन्प्लुतं कुर्वन्नित्यर्थः॥ ४॥
विश्वास-प्रस्तुतिः
——
मूलम्
——
विश्वास-प्रस्तुतिः
प्रयाजैश्चरन्ति।
मूलम्
प्रयाजैश्चरन्ति।
टीका
वक्ष्यमाण87लक्षणा यागाः प्रथाजा इत्युच्यन्ते तैश्चरन्ति यजन्तीत्यर्थः।
विश्वास-प्रस्तुतिः
पञ्चैते भवन्ति।
मूलम्
पञ्चैते भवन्ति।
टीका
पञ्चवचनं नराशंसस्तनूनपा88द्वा, द्व्यामुष्यायणस्थापि पञ्चैव भवन्ति न पडित्येवमर्थम्। एत इति वचनमत्र89 पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्च भवन्ति नाप90ठितेन सहेत्येवमर्थम्।
विश्वास-प्रस्तुतिः
एकैकं प्रेषितो यजति।
मूलम्
एकैकं प्रेषितो यजति।
टीका
न सकृत्प्रेषितः सर्वान्यजति।
विश्वास-प्रस्तुतिः
आगूर्याज्यादिरनुयाजवर्जम्।
मूलम्
आगूर्याज्यादिरनुयाजवर्जम्।
टीका
सर्वत्र सर्वासामनुयाजवर्जितानां याज्यानामादावागूर्भवति।
कोऽयमागूरित्याह-
विश्वास-प्रस्तुतिः
ये३ यजामह इत्यागूः, वषट्कारोऽन्त्यः सर्वत्र।
मूलम्
ये३ यजामह इत्यागूः, वषट्कारोऽन्त्यः सर्वत्र।
टीका
अनुयाजानामपीति सर्वत्रवचनम्।
विश्वास-प्रस्तुतिः
उच्चैस्तरां बलीयान्याज्यायाः।
मूलम्
उच्चैस्तरां बलीयान्याज्यायाः।
टीका
अत्रोच्चैस्तरत्वमेकयमातिशयमात्रं, बलीयस्त्वं व्यक्ततरोच्चारणमेतदुभयं याज्याया एव।
विश्वास-प्रस्तुतिः
तयोरादी प्लावयेत्।
मूलम्
तयोरादी प्लावयेत्।
टीका
तयोरागूर्वषट्कारयोराद्योः91 प्लुतिः कार्या।
विश्वास-प्रस्तुतिः
याज्यान्तं च।
मूलम्
याज्यान्तं च।
टीका
पावयेदिति शेषः।
विश्वास-प्रस्तुतिः
विविच्य संध्यक्षराणामकारं न चेद्वैवचनो व्यञ्जनान्तो वा।
मूलम्
विविच्य संध्यक्षराणामकारं न चेद्वैवचनो व्यञ्जनान्तो वा।
टीका
न चेत्प्रगृह्य इति पठितव्ये न चेद्वैवचन इति प्रमादपाठः। ऋगन्ते यान्यक्षराणि92प्रगृह्याणि तेषां स्वरूपेणैव सर्वत्र प्लुतिः कार्या न विवेकः कर्तव्यः। यान्य93प्रगृह्याणि संध्यक्षराणि तानि विविच्याकारमेव प्लावयेदिति*। एकारैकारयोरा३ इ इति। ओकारौ-
———————————————————————————————————
* झ॰ पुस्तके प्लावयेदितीत्यस्याग्रे – ‘प्रगृह्य इति पाठे युष्मे अस्मे त्वे इत्यादिसंग्रहः।नाभिमस्मे इति’ अयं ग्रन्थो वर्तते।
————————————————————————————————————
कारयोरा३ उ इत्येवं विविच्य प्लुतिः कार्या। ज्येष्ठश्च मन्त्रो विश्वचर्षण३ इ वौपडित्यादिदृष्टान्तः। इन्दुं समह्यन्पीतये समस्मा३ इ वौ इति निदर्शनम्। एकारस्य प्रगृह्यस्य स्वरूपेणैव प्लुतिः कार्या। अधिश्रियं शुक्रपिशं दधाने३ वौ० इत्यादिदृष्टान्तः। ओकारस्य तु प्रगृह्यसंज्ञाया अनित्यत्वान्नित्यानित्यसंयोगविरोधात्तस्य सर्वदाऽपि विविच्यैव प्लावनं कर्तव्यम्। कविःकविभियक्षसि प्रयज्या३ उ वौ० इत्यादिनिदर्शनम्। तथैवौकारस्थापि सहस्रस्थूणं विभृथः सह द्वा३ उ वौ ० इति। व्यञ्जनान्तो वा। व्यञ्जनान्तानां संध्यक्षराणां सर्वदा स्वरूपेणैव प्लुतिः कार्या न विवेकः कर्तव्यः94। स ते जानाति• भिद्यौ३द्वौषट्। त्रीणि पदा विचक्रमे० अतो धर्माणि धारया३न् वौ० इत्यादिदृष्टान्तः।
विश्वास-प्रस्तुतिः
विसर्जनीयोऽनत्यक्षरोपधो रिफ्यते।
मूलम्
विसर्जनीयोऽनत्यक्षरोपधो रिफ्यते।
टीका
अनत्यक्षरोपधोऽनवर्णोपध इत्यर्थः। स वषट्कारेण संधीयमानो रिफ्यते। पिबा सोममभि95शवोभीर्वौ०इत्यादि निदर्शनम्।
विश्वास-प्रस्तुतिः
इतरश्च रेफी।
मूलम्
इतरश्च रेफी।
टीका
इतरः, अवर्णोपधः। स च रेफिसंज्ञी चेद्रिफ्यते96। महोपोवर्जमितरोयथोक्तमित्यत्र रेफिसंज्ञाऽधिगन्तव्या \। उतत्यं चमसं नवं०अकर्त चतुरः पुनार्वौ०इत्यादि निदर्शनम्।
विश्वास-प्रस्तुतिः
लुप्यते रेफी।
मूलम्
लुप्यते रेफी।
टीका
अवर्णोषघो यो विसर्जनीयो रोफिसंज्ञश्च न भवति स लुप्यत एव वषट्कारसंधौ। अर्वाङेहि सोमकामं ० हूयमाना वौ० इत्यादि निदर्शनम्।
विश्वास-प्रस्तुतिः
प्रथमः स्वं तृतीयम्।
मूलम्
प्रथमः स्वं तृतीयम्।
टीका
वर्गाणां यो यः प्रथमः स स स्वं तृतीयमापद्यते97। विदर्वाग्वौ ० उदाहृतिः।
विश्वास-प्रस्तुतिः
नित्यं मकारे।
मूलम्
नित्यं मकारे।
टीका
अन्तस्थासु तां तामित्यनेनोक्तमित्यर्थः।
विश्वास-प्रस्तुतिः
ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू३ वौ३षलिति वषट्कारः।
मूलम्
ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू३ वौ३षलिति वषट्कारः।
टीका
वौषट्शब्दो वषट्कार इत्यर्थः।
विश्वास-प्रस्तुतिः
इति प्रथमः।
मूलम्
इति प्रथमः।
टीका
अयं प्रथमः प्रयाज इत्यर्थः।
विश्वास-प्रस्तुतिः
वागोजः सह ओजो मयि प्राणापानाविति वषट्कारमुक्त्वोक्त्वाऽनुमन्त्रयते।
मूलम्
वागोजः सह ओजो मयि प्राणापानाविति वषट्कारमुक्त्वोक्त्वाऽनुमन्त्रयते।
टीका
सर्वस्यायं विधिः स्यादित्येवमर्था वीप्सा।
विश्वास-प्रस्तुतिः
दिवा कीर्त्यो वषट्कारः।
मूलम्
दिवा कीर्त्यो वषट्कारः।
टीका
वृथा रात्रौ न प्रयोक्तव्य इत्यर्थः। किंच वषट्कारसंबन्धि यत्कर्म तद्विध्यन्तराविरोधे सति दिवैव कर्तव्यमिति।
विश्वास-प्रस्तुतिः
तथाऽनुमन्त्रणम्।
मूलम्
तथाऽनुमन्त्रणम्।
टीका
दिवा कीर्त्यभित्यर्थः। तच्चोक्तार्थमेव।
विश्वास-प्रस्तुतिः
एतद्याज्यानिदर्शनम्।
मूलम्
एतद्याज्यानिदर्शनम्।
टीका
यदिदं याज्यायाः पुरस्तादागूस्त98स्य चाऽऽदौ याज्यते च प्लुतिःस्यादुपरिष्टाच्च वषट्कारस्तस्य चाऽऽदौ प्लुतिस्ततोऽनुमन्त्रणम्। इत्येतद्याज्यास्वरूपनिदर्शनम्। अनुमन्त्रणस्य याज्यान्तर्भाववचनं तदन्तं वाग्यमना99र्थम्।
विश्वास-प्रस्तुतिः
तनूनपादग्न आज्यस्य वेत्त्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्यश्वराजन्येभ्यः।
मूलम्
तनूनपादग्न आज्यस्य वेत्त्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्यश्वराजन्येभ्यः।
टीका
वसिष्ठादिभ्योऽन्येषामयं द्वितीयः।
विश्वास-प्रस्तुतिः
नराशंसो अग्न आज्यस्य वेत्त्विति तेषाम्।
मूलम्
नराशंसो अग्न आज्यस्य वेत्त्विति तेषाम्।
टीका
वसिष्ठादीनामयं द्वितीयः।
विश्वास-प्रस्तुतिः
इलो अग्न आज्यस्य व्येन्त्विति तृतीयः।
मूलम्
इलो अग्न आज्यस्य व्येन्त्विति तृतीयः।
टीका
सर्वेषामिति शेषः।
विश्वास-प्रस्तुतिः
बर्हिरग्नआज्यस्य वेत्त्विति चतुर्थः। आगूर्य पञ्चमे स्वाहाऽमुं स्वाहाऽमुमितियथावाहितमनुद्रुत्य देवता यथाचोदितमनावाहिताः स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति।
मूलम्
बर्हिरग्नआज्यस्य वेत्त्विति चतुर्थः। आगूर्य पञ्चमे स्वाहाऽमुं स्वाहाऽमुमितियथावाहितमनुद्रुत्य देवता यथाचोदितमनावाहिताः स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति।
टीका
पञ्चम एवं कृत्वा तेनैव यज्ञेदिति शेषः। आगूर्ये100तिवचनं क्रमार्थम्। प्रतिदेवतं स्वाहाशब्दाभ्यासार्थं वीप्सावचनम्।यथावाहितग्रहणं प्रमादादावाहिताया अस्थानिन्या अपि ग्रहणार्थम्। अनावाहिता इत्येनन101याः स्थानिन्योऽपि देवताः प्रमादादनावाहिताः स्युस्तासामप्यत्र यथाचोदिते क्रमे निगमनार्थम्। प्रयाजाद्यनुयाजान्तेत्यादिषु यथाचोदितंतदीयानां देवतानां निगमनार्थं च। इदमेव प्रकारद्वयमनावाहितग्रहणाद्गृह्यते102 नान्यथा। यथावाहितग्रहणेन पठितावाहना न गृह्यन्ते। तासां पाठादेव निगमनं नान्यथेत्यर्थः। स्वाहा देवा इति103 यथासूत्रं मन्त्रशेषः।
विश्वास-प्रस्तुतिः
आऽतो मन्द्रेण।
मूलम्
आऽतो मन्द्रेण।
टीका
* इतः पूर्वं यत्तन्मन्द्रेण प्रयोक्तव्यम्। अत्र पूर्वावधेरमावादन्यत्रैतत्पूर्वमग्निमन्थनादि यद्भवति तदपि मन्द्रेण प्रयोक्तव्यमिति गम्यते। त्रीणि वाचः स्थानानि मन्द्रमध्यमोत्तमसंज्ञकानि। तेषु च सप्त सप्त यमा भवन्ति। यमो नामावस्था।तत्र सप्तमयमेन वषट्कारः प्रयोक्तव्यः। तत एकावरोहेण याज्या। एवं सर्वत्रैकैकयमा104वरोहेण वषट्कारःप्रयोक्त105न्त्रः।
विश्वास-प्रस्तुतिः
ऊर्ध्वं च शंयुवाकात्।
मूलम्
ऊर्ध्वं च शंयुवाकात्।
टीका
मन्द्रेण प्रयोक्तव्यम्।
विश्वास-प्रस्तुतिः
मध्यमेन हवींष्यास्विष्टकृतः।
मूलम्
मध्यमेन हवींष्यास्विष्टकृतः।
टीका
सर्वत्राऽऽकारोऽभिविधावेव। अत्र स्वाभिविधौ मर्यादायां वा भवत्यध्वर्युवशात्। अत्र स्विष्टकृन्मध्यमेनोत्तमेन वाऽध्वर्युवशास्प्रयोक्तव्यः106। प्रयाजेम्य ऊर्ध्वमा स्विष्टकृतो मध्यमेन प्रयोगः।हविर्ग्रहणं स्थानान्तरेऽपि प्रधानहविषां मध्यमस्वर एवेति।
विश्वास-प्रस्तुतिः
उत्तमेन शेषः।
मूलम्
उत्तमेन शेषः।
टीका
इलादिः स्विष्टकृदादिर्वा शंयुवाकान्तः शेष इत्युच्यते स उत्तमेन प्रयोज्यः।
** अग्निर्वृत्राणि जङ्घनदिति पूर्वस्याऽऽज्यभागस्यानुवाक्या। त्वं सोमासि सत्पतिरित्युत्तरस्य जुषाणो अग्निराज्यस्य वेत्त्विति पूर्वस्य याज्या जुषाणःसोम आज्यस्य हविषो वेत्त्वित्युत्तरस्य। तावागूर्याऽऽदेशं यजति।**
तावित्याज्यभागसंप्रत्ययार्थम्। आगूर्येति देवतादेशस्य क्रमविधानार्थम्। यजतीति देवतादेशस्य याज्यया संधानार्थम्। तावाज्यभागसंज्ञकौ यागावागूर्यानन्तरं द्वितीयया विभक्त्या देवतामादिश्यादिश्य याज्यया संधाय यजतीत्यर्थः।
विश्वास-प्रस्तुतिः
सर्वाश्चानुवाक्यावत्योऽप्रैषाअन्या+अन्वायत्याभ्यः।
मूलम्
सर्वाश्चानुवाक्यावत्योऽप्रैषाअन्या+अन्वायत्याभ्यः।
टीका
————————————————————————————————————
*ग. पञ्चमप्रयाजपर्यन्तमादित आरभ्य। + अन्वादात्यस्वरूपमन्वायात्यशब्दचोदितत्वमेवेति। चातुर्मास्यसूत्रे वाजिनयागप्रवृत्तावपि विस्तरेण विचारितम्।
————————————————————————————————————
या अन्वायातशब्देनानुनिर्वापशब्देन वा चोदितास्ता अन्वायात्याः। ताभ्योऽन्या या देवता अनुवाक्यावत्योऽप्रैषाश्च ताः सर्वा आदिश्य यष्टव्याः। अन्वायात्यानामनुवाक्यारहितानां च सप्रैषाणां चाऽऽदेशो न कर्तव्य इत्यर्थः। सर्वग्रहणमाज्यभागयोरपि सवैषयोरादेशनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
सौमिकीभ्यश्च या अन्तरेण वैश्वानरीयं पत्नीसंयाजांश्च।
मूलम्
सौमिकीभ्यश्च या अन्तरेण वैश्वानरीयं पत्नीसंयाजांश्च।
टीका
सौमिक्यः107, सोम उत्पन्ना न सोमे प्रयोज्या अपि। तत्रोत्पन्नानामेव तत्र भवत्वसंभवात्। वैश्वानरीयपत्नीसंयाजानां तच्छब्दचोदितानामेव ग्रहणं युक्तम्। अत एतस्मिन्नेवा108ऽऽसने वैश्वानरीयस्य यजतीत्येतदेव गृह्यते। पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ती109त्येतदेव च। अन्या इत्यनुवर्तते। अङ्गप्रधानरूपे सोमकर्मणि यौ110 तौ वैश्वानरीयपत्नी संयाजशब्दचोदितौ पदार्थौतयोर्मध्ये यास्तत्रैवोत्पन्ना देवतास्ताभ्योऽप्यन्या देवता आदिश्य यष्टव्याः। न ता आदिश्य यष्टव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
एतौ वार्त्रघ्नौपौर्णमास्याम्।
मूलम्
एतौ वार्त्रघ्नौपौर्णमास्याम्।
टीका
यावेतौ पौर्णमास्याज्यभागौ तौ वार्त्रघ्नसंज्ञौभवत इत्यर्थः।
सनिमित्तेयं संज्ञेत्याह—
विश्वास-प्रस्तुतिः
अनुवाक्यालिङ्गविशेषान्नामधेयान्यत्वं ततो विचारः।
मूलम्
अनुवाक्यालिङ्गविशेषान्नामधेयान्यत्वं ततो विचारः।
टीका
अनुवाक्यात एव विचारावग111मोऽन्यत्वमित्यर्थः।
विश्वास-प्रस्तुतिः
नित्ये याज्ये।
मूलम्
नित्ये याज्ये।
टीका
उक्ते एवैते112 सर्वत्र याज्ये नानुवाक्यावदेतयोरन्यत्वमित्य113र्थः।
वृधन्वन्तावमावास्यायाम्।अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति। आऽऽतोवाग्यमनम्।
आदित आरभ्याऽऽज्यभागपर्यन्तं वाग्यमनं भवति।
अन्तरा च याज्यानुवाक्ये।निगदानुवचनाभिष्टवनशस्त्रजपानां चाऽऽरभ्याऽऽ समाप्तेः।
अत्राभिष्टवनसंस्तवनशस्त्रेति संस्तवनशब्दः पठितव्यः। आरभ्येतिवचनमन्यदपि यद्याज्यादिभ्यस्तदारभ्याऽऽ समाप्तेर्वाग्य114मनसिद्ध्यर्थं होतुरधिकारात्कर्त्रन्तरस्थापि प्रापणार्थं चेति।
विश्वास-प्रस्तुतिः
अन्यद्यज्ञस्य साधनात्।
मूलम्
अन्यद्यज्ञस्य साधनात्।
टीका
यज्ञसाधनवचसोऽन्यत्र वाग्यमनं नियम्यते। यज्ञसाधनवचो नाम यद्यज्ञसंपादनार्थं तद्भ्रेषपरिहारार्थं च।
विश्वास-प्रस्तुतिः
आपद्यातो देवा अवन्तु न इति जपेत्।
मूलम्
आपद्यातो देवा अवन्तु न इति जपेत्।
टीका
आपद्येति। नियममतिक्रम्येत्यर्थः।
विश्वास-प्रस्तुतिः
अपि वाऽन्यां वैष्णवीम्॥ ५॥
मूलम्
अपि वाऽन्यां वैष्णवीम्॥ ५॥
टीका
अन्यामपीतिवचनं पूर्वोक्ताया अपि वैष्णवीत्वप्रतिपत्त्यर्थम्॥ ५॥
विश्वास-प्रस्तुतिः
उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्धा भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुविचक्रमे त्रिर्देवः पृथिवीमेष एतामग्निषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतं गीर्मिविप्रः प्रमतिमिच्छमान एन्द्रसानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति।
मूलम्
उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्धा भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुविचक्रमे त्रिर्देवः पृथिवीमेष एतामग्निषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतं गीर्मिविप्रः प्रमतिमिच्छमान एन्द्रसानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति।
टीका
उक्तसंकीर्तनं देवताविधिक्रपस्मरणार्थम्। तासां याज्यानुवाक्या वक्ष्यमाणा लिङ्गक्रमाभ्यां योजनीया इति। इदमप्युक्तसंकीर्तनस्य प्रयोजनं यत्र देवताविधाना115नन्तरमृचो विधीयन्ते तत्र तासां देवतानां ता एव याज्यानुवाक्या इति सार्वत्रिकोऽयं विधिरित्येतज्ज्ञाप116यितुम्। अयमग्निरिति गायत्र्यपि याज्यानन्तरमुक्तत्वाद्याज्यैव भवति। सा तु गायत्रीसामान्यादाधान एव भवति। यद्यग्नीषोमीय इति व्युत्क्रम्यान्ते पठन्नसंशयार्थमुक्तवानाचार्यः।
विश्वास-प्रस्तुतिः
अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या।
मूलम्
अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या।
टीका
अथशब्दः प्रधानानन्तरं स्विष्टकृतो यागः स्यान्नाऽऽवाहनक्रमेणेति। अनुवाक्यावचनं सर्वत्र पूर्वमनुवाक्या पश्चाद्याज्येति प्रदर्शनार्थम्।
विश्वास-प्रस्तुतिः
ये ३ यजामहेऽग्निं स्विष्टकृतमयालग्निरित्युक्त्वा षष्ठ्याविभक्त्या देवतामादिश्य प्रियाधामान्ययालित्युपसंतनुयात्।
मूलम्
ये ३ यजामहेऽग्निं स्विष्टकृतमयालग्निरित्युक्त्वा षष्ठ्याविभक्त्या देवतामादिश्य प्रियाधामान्ययालित्युपसंतनुयात्।
टीका
आगूर्विधानं निगदादावेव स्यान्नर्गादाविति। अग्निं स्विष्टकृतमितिवचनमाग्निंहोत्रायशब्देनाऽऽदेशो न स्यादिति। षष्ठीविधानं द्वितीयाया निवृत्त्यर्थम्। देवतामादिश्य प्रियाधामानिशब्दमुपसंतनुयात्। अयाट्शब्दः पूर्वपठित एवोत्तरेण सूत्रेण तस्यास्तस्या देवतायाः पुरस्तादतिदेशरूपेण विधीयते। देवताया उपरिष्टाद्विधीयमानेन प्रियाधामानिशब्देन संधानार्थं प्रियाधामान्ययालिति संततं पठितम्। अतोऽत्र प्रतिदेवतमेक एवायाट्शब्दः प्रयोक्तव्यो न द्वितीय इति स्थितम्।
विश्वास-प्रस्तुतिः
एवमुत्तरा अयालयालिति त्वेव तासां पुरस्तात्।
मूलम्
एवमुत्तरा अयालयालिति त्वेव तासां पुरस्तात्।
टीका
उत्तरासामयं विशेषः। अयाट्शब्द एव तासां पुरस्तात्प्रयोज्यो नाग्निशब्दोऽपीति। एतदुक्तं भवति– प्रथमदेवतायाः पुरस्तादयालग्निशब्दः, उत्तरासामयाट्शब्द एव, सर्वासामुपरिष्टात्प्रियाधामानिशब्दः, सर्वे च संतता वक्तव्या इति।
विश्वास-प्रस्तुतिः
आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुःप्रिया धामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्ने यदद्य विशो अध्वरस्य होतरित्यनवानं यजति।
मूलम्
आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुःप्रिया धामानि यक्षत्स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्ने यदद्य विशो अध्वरस्य होतरित्यनवानं यजति।
टीका
आज्यपान्तमिति प्रसिद्धक्रमसंग्रहादवाहनोऽत्रापि परिगृह्यते तेनास्थानिन्या निगमनमिहापि स्यात्। आज्यपान्तमेवमुक्त्वा तदनन्तरेण प्रियाधामानिशब्देन यक्षदिति संधाय यथासूत्रमुक्त्वा जुषतां हविरग्ने यदद्येत्यृचाऽनुच्छ्वसन्यजेत्। सर्वत्रानुच्छ्वासः कर्तव्योऽस्यां याज्यायाम्।
विश्वास-प्रस्तुतिः
प्रकृत्या वा॥ ६॥
मूलम्
प्रकृत्या वा॥ ६॥
टीका
अर्धर्चे वोच्छ्वसेत्॥ ६॥
विश्वास-प्रस्तुतिः
प्रदेशिन्याः पर्वणी उत्तमे अञ्जयित्वौष्ठयोरभ्यात्मं निमार्ष्टि।
मूलम्
प्रदेशिन्याः पर्वणी उत्तमे अञ्जयित्वौष्ठयोरभ्यात्मं निमार्ष्टि।
टीका
प्रदेशिनी नामाङ्गुलिविशेषः। पर्वणी सन्धी।उत्तमे इति। अग्रतो द्वे पर्वणी इत्यर्थः। अध्वर्युणा ते पर्वणी अञ्जयित्वाऽभ्यात्ममात्माभिमुखं पाणितलं कृत्वौष्ठयोरखागपवर्गं निमार्ष्टि।
विश्वास-प्रस्तुतिः
वाचस्पतिना ते हुतस्येषे प्राणाय प्राश्नामीत्युत्तरमुत्तरे मनसस्पतिना ते हुतस्योर्जेऽपानाय प्राश्नामीत्यधरमधरे।
मूलम्
वाचस्पतिना ते हुतस्येषे प्राणाय प्राश्नामीत्युत्तरमुत्तरे मनसस्पतिना ते हुतस्योर्जेऽपानाय प्राश्नामीत्यधरमधरे।
टीका
अने117नेदमस्मिन्नित्यनयोरर्थः।
विश्वास-प्रस्तुतिः
स्पृष्ट्वोदकमञ्जलिनेलां प्रतिगृह्य सव्ये पाणौकृत्वा पश्चादस्या उदगङ्गुलिं पाणिमुपधायावान्तरेलामवदापयीत।
मूलम्
स्पृष्ट्वोदकमञ्जलिनेलां प्रतिगृह्य सव्ये पाणौकृत्वा पश्चादस्या उदगङ्गुलिं पाणिमुपधायावान्तरेलामवदापयीत।
टीका
द्विहस्तसंयोगोऽञ्जलिस्तं कृत्वा तेनेलां गृहीत्वा सव्ये पाणौ कृत्वा निधायेत्यर्थः। अस्या इति। इलाया इत्यर्थः। या हस्तेऽवदीयते साऽवान्तरेला। अवदापयीताध्वर्युम्।
विश्वास-प्रस्तुतिः
अन्तरेणाङ्गुष्ठमङ्गुलीश्चस्वयं द्वितीयमाददीत।
मूलम्
अन्तरेणाङ्गुष्ठमङ्गुलीश्चस्वयं द्वितीयमाददीत।
टीका
अङ्गुल्यङ्गुष्ठयोर्मध्येन प्रदेशेन स्वयमिलाया अवान्तरेलामाददीत।
विश्वास-प्रस्तुतिः
प्रत्यालब्धामङ्गुष्ठेनाभिसंगृह्य118।
मूलम्
प्रत्यालब्धामङ्गुष्ठेनाभिसंगृह्य118।
टीका
प्रत्यालब्धां स्पृष्टामध्वर्युणेत्यर्थः119।
प्रत्याहृत्याङ्गुलीरमुष्टिं कृत्वा दक्षिणत इलां परिगृह्याऽऽस्य संमितामुपह्वयते प्राणसंमितां वा।
अमुष्टिं कृत्वाऽङ्गुलीभ्यो बहिरङ्गुष्ठमकृत्वेत्यर्थः। सव्ये हस्ते निहितामिलां दक्षिणेन हस्तेन गृहीत्वाऽवान्तरे120लातो दक्षिणतः परिगृह्याऽऽस्यसंमितां प्राणसंमितां वेलां कृत्वा तामुपह्वयते। प्राणसंमितां नासिकासंमितामित्यर्थः।
केन मन्त्रेणेत्याह-
इलोपहूता सह दिवा बृहताऽऽदित्येनोपास्माँ इला ह्वयतां सह दिवा बृहताऽऽदित्येनेलोपहूता सहान्तरिक्षेण वामदेव्येन वायुनोपास्माँ इला ह्वयतां सहान्तरिक्षेण वामदेव्येन वायुनेलोपहूता सह पृथिव्या रथन्तरेणाग्निनोपास्माँ इला हवयतां सह पृथिव्या रथन्तरेणाग्निना उपहूता गावःसहाशिर उपमां गावःसहाशिरा ह्वयन्तामुपहृता धेनुः सह ऋष भोपमां धेनुः सह ऋषमा ह्वयतामुपहूता गौर्घृतपद्युतमां गौर्घृतपदी ह्वयतामुपहूता दिव्याः सप्त होतार उप मां दिव्याः सप्त होतारो ह्वयन्तामुपहूतः सखाभक्ष उप मां सखामक्षो ह्वयतामुपहूतेला वृष्टिरुपमाभिला वृष्टिर्ह्वयताभित्युपांश्वथोच्चैः। इलोपहूतोपहूतेलोपास्माँ इलाह्वयतामिलोपहूता। मानवी घृतपदी मैत्रावरुणी ब्रह्मदेवकृतमुपहूतं दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः।य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानुपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे। उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करण इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूत इति।
इलोपहूतेति121 सह दिवेत्यादिना तस्मिन्नुपहूत इत्यन्तेन। इत्युपांश्वित्यनेन निगदाना तन्त्रस्वरत्वादप्राप्तमुपांशुत्वं विधीयते। तेनैकश्रुत्यमनुपरतमेवेति स्थितम्। अथोच्चैरित्यनेनोत्तरस्य निगदभागस्य तन्त्रस्व122रस्यानपगमः कथ्यते। प्राप्तत्वान्नापूर्वं विधीयते123। अतस्तस्मिन्ननुच्यमाने संशयः स्यान्निगदमध्य उपांशुत्वमुच्यमानं किं सर्वस्य निगदस्य, आहो स्वित्पूर्वस्य भागस्य परस्य वेति। अस्मिंस्तूच्यमाने पूर्वस्यैव भागस्योपांशुत्वं विहितं भवति नोत्तरस्य भवतीति नात्र संशयः। इलोपहूता मनुष्या देवी देवपुत्रे इति त्रीण्यवसानानि।
विश्वास-प्रस्तुतिः
उपहूयावान्तरेलां प्राश्नीयादिले भागं जुषस्व नः पिन्वगाजिन्वार्वतो रायस्पोषस्येशिषे तस्य नो रास्व तस्य नोदास्तस्यास्ते भागमशीमहि। सर्वात्मानः सर्वतनवः सर्ववीराः सर्वपूरुपाःसर्वपुरुषा इति वा॥ ७॥
मूलम्
उपहूयावान्तरेलां प्राश्नीयादिले भागं जुषस्व नः पिन्वगाजिन्वार्वतो रायस्पोषस्येशिषे तस्य नो रास्व तस्य नोदास्तस्यास्ते भागमशीमहि। सर्वात्मानः सर्वतनवः सर्ववीराः सर्वपूरुपाःसर्वपुरुषा इति वा॥ ७॥
टीका
उपहूयेत्यनुच्यमाने हविर्जुषन्तामिति निगदान्तः स्यात्। तस्मिन्नुपहूत इत्यवान्तरेलाभक्षणमन्त्रः स्यादिले ‘भागमिति वा, अनयोर्विकल्पार्थो वाशब्दः। सर्वपूरुषाः सर्वपुरुषा इति पदद्वयविशिष्टश्च मन्त्र इत्येते दोषाः स्युः। एतस्मिंस्तूच्यमाने तस्मिन्नुपहूत इत्येवमन्तो निगदः स्यात्। पूर्व124 इति शब्दो निगदैकदेशः स्यात्। वाशब्दश्च मन्त्रावयवविकल्पार्थ एव स्यात्। सर्वपुरुषा इत्यन्त125 इति शब्दानैतावानेव च मन्त्रः स्यादित्येवं सर्वं समञ्जसं भवति। होताऽवान्तरेलां भक्षयित्वेलामपि भक्षयेत्। सर्वे च सयजमाना इलां भक्षयेयुः। इला सर्वेषामिति पशुविभागे दर्शनात्, शास्त्रान्तरे च यजमानपञ्चमा इलां भक्षयेयुरिति दर्शनाच्च॥ ७॥
विश्वास-प्रस्तुतिः
मार्जयित्वाऽनुयाजैश्चरन्ति।
मूलम्
मार्जयित्वाऽनुयाजैश्चरन्ति।
टीका
मार्जनमिलाभक्षणाङ्गम्। पित्र्यायामिलाभक्षणामावे मार्जनस्याप्यभावदर्शनात्। भक्षयितुर्मार्जनेन दृष्टश्चोपकारोऽस्ति शुद्धिर्नाम126। अत इलान्तकर्मस्वपि मार्जनमस्त्येव। नैतदनुयाजाङ्गं चतुर्धाकरणदक्षिणादानाभ्यां व्यवहितत्वात्। पित्र्ययामनुयाजसत्तायामपि तदभावदर्शनाच्च। अतो मार्जयित्वाऽनुयाजैश्चरन्तीतिवचनं चतुर्धाकरणदक्षिणादानयोरनित्यत्वसूचनार्थम्। तथा ह्यनाग्नेयेषु चतुर्धाकरणं नास्ति। अङ्गभूतेषु दक्षिणादानं नास्तीति।
विश्वास-प्रस्तुतिः
परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनम्।
मूलम्
परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनम्।
टीका
आहवनीयस्य परिस्तरणैः। भक्षणार्थंनिष्क्रम्य पुनः प्रविष्टानां प्रथमप्राप्तत्वात्तेषामासे-चयतेऽपोऽर्थात्सहकारिणा।
विश्वास-प्रस्तुतिः
देवादयोऽनुयाजाः।
मूलम्
देवादयोऽनुयाजाः।
टीका
देवादयो देवशब्दादय इत्यर्थः। पुनरनुयाजग्रहणमुत्तरस्य सूत्रस्य प्रयाजानुयाजार्थत्वाय।
विश्वास-प्रस्तुतिः
वीतवत्पदान्ताः।
मूलम्
वीतवत्पदान्ताः।
टीका
वीतवत्पदान्तत्वं प्रयाजानुयाजयोर्गुणःस्यात्।
विश्वास-प्रस्तुतिः
त्रयः।
मूलम्
त्रयः।
टीका
तेऽनुयाजास्त्रयो भवन्ति।
विश्वास-प्रस्तुतिः
एकैकं प्रेषितो यजति।
मूलम्
एकैकं प्रेषितो यजति।
टीका
देवान्यजेति प्रथमसंप्रेषस्य सर्वार्थत्वे सत्यपि पुनः पुनः प्रेषित एव यजेत्। त इमेऽनुयाजाः।
देवं बर्हिर्वसुवने वसुधेयस्य वेतु।देवो नराशंसो वसुवने वसुधेयस्य वेतु।देवो अग्निः स्विष्टकृत्सुद्रविणामन्त्रः127 कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्नेयान्देवानयाड्याँ अपि प्रेर्ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा॥ ८॥
अमत्सतेत्यत्रावसाय वाऽनवसाय वा यजेत्।
सूक्तवाकाय संप्रेषित इदं द्यावापृथिवी भद्रमभूदार्ध्मसूक्तवाकमुत नमोवाकमृध्यास्म सूक्तोच्यमग्ने त्वं सूक्तवागसि। उपश्रुती दिवस्पृथिव्यो रोमन्वती तेऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्ताम्। शंगयीजीरदानू अत्रस्नू अप्रवेदे उरुगव्यूती अभयंकृतौ। वृष्टिद्यावारीत्यापाशं भुवौ मयोभुवा ऊर्जस्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदीत्यवसाय प्रथमया विभक्त्याऽऽदिश्य देवतामिदं हविरजुषतावीवृधत महो ज्यायोऽकृतेत्युपसंतनुयात्।
असि, स्ताम्, अभयंकृतौ, विदि, अकृतेति च। अक्रातामक्रतेत्येवम्।यजमानस्यनामनी। मानुषा इत्यवसानानि सर्वाणि निगदे। अत्र तु प्रथमाविधानं द्वितीयानिवृत्त्यर्थम्। आविदीत्यत्रावसाय प्रथमया विभक्त्याऽऽदिश्य देवतामिदं हविरित्युपसंतनुयात्।
विश्वास-प्रस्तुतिः
एवमुत्तराः।
मूलम्
एवमुत्तराः।
टीका
उत्तरा अपि देवता आदिश्येदं हविरित्येवमुपसंतनुयात्।
विश्वास-प्रस्तुतिः
अक्रातामक्रतेति यथार्थम्।
मूलम्
अक्रातामक्रतेति यथार्थम्।
टीका
द्विद्वैवतबहुदैवतयोरेवमूहः कर्तव्यः। यथार्थवचनमर्थवशेनाभिधानमित्येवमर्थम्।
विश्वास-प्रस्तुतिः
उक्तमुपांशोः।
मूलम्
उक्तमुपांशोः।
टीका
आवह स्वाहेत्युक्तमित्यर्थः। उक्तस्य वचनमस्य निगदस्य पशावपीष्टिवदेव प्रयोगार्थं न सूक्तवाकप्रैषवदजुषतादीनामुपांशुत्वं भवति।
विश्वास-प्रस्तुतिः
आवापिकान्तमनुद्रुत्य देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रताग्निर्होत्रेणेदं हविरजषतावीवृधत महोज्यायोऽकृत। अस्या मृधेद्धोत्रायां देवंगमायामाशास्तेऽयं यजमानोऽसावसावित्यस्याऽऽदिश्य नामनी उपांशु संनिधौ गुरोः। आयुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पोपमाशास्ते सजातवनस्यामाशास्त उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाऽऽमस्ते विश्वं प्रियमाशास्ते यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवारासन्तां तदग्निर्देवो देवेभ्योऽवनते वयमग्नेर्मानुषाः। इष्टं च वित्तं चोमे च नो द्यावापृथिवी अंहसःस्पातामेह गतिर्वामस्येदं नमो देवेभ्य इति॥ ९॥
मूलम्
आवापिकान्तमनुद्रुत्य देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रताग्निर्होत्रेणेदं हविरजषतावीवृधत महोज्यायोऽकृत। अस्या मृधेद्धोत्रायां देवंगमायामाशास्तेऽयं यजमानोऽसावसावित्यस्याऽऽदिश्य नामनी उपांशु संनिधौ गुरोः। आयुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पोपमाशास्ते सजातवनस्यामाशास्त उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाऽऽमस्ते विश्वं प्रियमाशास्ते यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवारासन्तां तदग्निर्देवो देवेभ्योऽवनते वयमग्नेर्मानुषाः। इष्टं च वित्तं चोमे च नो द्यावापृथिवी अंहसःस्पातामेह गतिर्वामस्येदं नमो देवेभ्य इति॥ ९॥
टीका
आवापिकान्तमित्येतदावापिकदेवताक्रमप्राप्त्यर्थम्। तेनास्थानिन्यत्रापि निगद्यते। देवा आज्यपा इति यथासूत्रम्। असावसावित्यत्र यजमाननामनी प्रथमया विभक्त्या निर्दिशेत्। सांव्य128वहारिकं नाक्षत्रं129 च। होतुर्गुरुश्चेद्यजमानः स्यात्तत्संनिधावुपांशु नामनी ब्रूयात्॥ ९॥
विश्वास-प्रस्तुतिः
शंयुवाकाय संप्रेषितस्तच्छंयोरावृणीमह इत्याहानुवाक्यावदप्रणवाम्।
मूलम्
शंयुवाकाय संप्रेषितस्तच्छंयोरावृणीमह इत्याहानुवाक्यावदप्रणवाम्।
टीका
अनुवाक्यावद्वचनमैकश्रुत्यप्रापणार्थम्। अप्रणवामिति प्रणवो निषिध्यते।
विश्वास-प्रस्तुतिः
वेदमस्मै प्रयच्छत्यध्वर्युः।
मूलम्
वेदमस्मै प्रयच्छत्यध्वर्युः।
टीका
वेदग्रहणकालज्ञापनार्थमेतत्सूत्रम्। अतोऽध्वर्युणा दत्ते गृह्णीयात्। अदत्तेऽपि स्वयमेव गृह्णीयात्।
विश्वास-प्रस्तुतिः
तं गृह्णीयाद्वेदोऽसि वेदो विदेयेति।
मूलम्
तं गृह्णीयाद्वेदोऽसि वेदो विदेयेति।
टीका
तमिति विस्पष्टार्थम्। यदा द्वौ दद्यात्तदा तं तं गृह्णीयादित्यर्थः। यदि द्वौ युगपद्दद्यात्तदोहेन मन्त्रं ब्रूयाद्वरुणप्रघासादिषु।
विश्वास-प्रस्तुतिः
उदायुषेत्येतेनोपोत्थाय पश्चाद्गार्हपत्यस्योपविश्य सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमित्याज्येन यजन्ति।
मूलम्
उदायुषेत्येतेनोपोत्थाय पश्चाद्गार्हपत्यस्योपविश्य सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमित्याज्येन यजन्ति।
टीका
एतेनेतिवचनं प्रकृतिविकारा130भावेऽपि कृत्स्नस्य मन्त्रस्य प्रापणार्थम्। आज्यवचनं यत्राऽऽज्येन सोम इज्यते तत्रैते याज्यानुवाक्ये भवतो नान्यहविष्के सोम इति। यजन्तीतिवचनं याग एव तासां देवतानां न निगमेष्वनुवृत्तिरिति।
आप्यायस्व समेतु ते सं ते पयांसि समुयन्तु वाजा इह त्वष्टारमग्रियं तन्नस्तुरीपमधपोषयित्नुदेवानां पत्नीरुशतीरवन्तु न इति द्वे अग्निर्होता गृहपतिः स राजा हव्यवालग्निरजरःपिता न इति पत्नीसंयाजाः।
इदं संज्ञाविधानार्थम्।
विश्वास-प्रस्तुतिः
अथ प्रजाकामो राकां सिनीवालीं कुहूमिति प्राग्गृहपतेर्यजेत।
मूलम्
अथ प्रजाकामो राकां सिनीवालीं कुहूमिति प्राग्गृहपतेर्यजेत।
टीका
अथशब्दःपक्षान्तरपरिग्रहार्थः। अथ चेद्यजमानः प्रजाकामःस्यात्तदैवैता देवता यजेतेति। प्राग्गृहपतेरिति देशविधानेन पूर्वाभिः समुच्चयं दर्शयति।
विश्वास-प्रस्तुतिः
राकामहं सिनीवालि कुहूमहमिति द्वे द्वे याज्यानुवाक्ये।
मूलम्
राकामहं सिनीवालि कुहूमहमिति द्वे द्वे याज्यानुवाक्ये।
टीका
याज्यानुवाक्यावचनं प्रजाकामो यजेतेत्यनेन यजमाने संनिहितेऽपि होतैव कर्ता स्यान्न यष्टा स्यादिति। याज्यानुवाक्ययोर्होतृकर्तृत्वमन्यतः प्रसिद्धमिति।
कुहूमहमितिप्रतीके गृहीतेऽपि स्वयमेव पठति -
कुहूमहं सुवृतं विद्म नाप समस्मिन्यज्ञे सुहवां जोहवीमि। सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम। कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषःशृणोतु। संदाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधात्विति।आज्यं पाणितलेऽवदापयीतेलामुपहूय सर्वां प्राश्नीयात्।
पर्वाञ्जनाद्युपह्वानान्तं कार्यम्।नात्रावान्तरेला।पाणितलस्थमाज्यमिलेत्युच्यते। ततः सर्वां प्राश्नीयादित्युच्यते।
** शंयुवाको भवेन्न वा॥ १०॥**
आज्येलाया ऊर्ध्वं शंयुवाको भवति न भवति वेत्यध्वर्यूणां संस्थाप्रकाराः सन्तीति तत्सूचनार्थमेतत्सूत्रं यदि स्याद्धोताऽपि तथा कुर्यादित्येवमर्थम्॥ १०॥
—— ——
वेदं पत्न्यै प्रदाय वाचयेद्धोताऽध्वर्युर्वा वेदोऽसि वित्तिरसि विदेयकर्मासि करणमसि क्रियासंसनिरसि सनितासि सनेयं घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं वेदो ददातु वाजिनं यं बहव उपजीवन्ति यो जनानामसद्वशी। तं विदेय प्रजां विदेय कामाय त्वेति।
पत्न्यै वेदं प्रदाय तां वाचयति होताऽध्वर्युर्वा वेदोऽसीत्यादिकामाय स्वेत्येवमन्तं मन्त्रम्।वाचनमन्त्रस्योच्चैः प्रयोगोऽर्थात्सिध्यति। कार्यं तु लिङ्गजनितमेव।
विश्वास-प्रस्तुतिः
वेदशिरसा नाभिदेशमालभेत प्रजाकामा चेत्।
मूलम्
वेदशिरसा नाभिदेशमालभेत प्रजाकामा चेत्।
टीका
यदि पत्नी प्रजा मे स्यादिति कामयेत तदा वेदस्य जानुसदृशेन प्रदेशेन पत्नी स्वनाभिमालभेत। कामाभावेऽपि वाचनं भवत्येव।
विश्वास-प्रस्तुतिः
अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशादिति।
मूलम्
अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशादिति।
टीका
अथेति संबन्धार्थः131। यद्यनन्तरं योक्त्रविमोकः स्यात्तदैव वाचनमपीति कामाभावे वाचनानन्तरं योक्त्रविमोकः स्यान्न त्वालम्भनमपीति। अस्या इति योक्त्रविमोचनं होतृकर्तृकमिति दर्शयति।
विश्वास-प्रस्तुतिः
तत्प्रत्यग्गार्हपत्याद्विगुणं प्राक्पाशं निधायोपरिष्टाद्स्योद्गग्राणि वेदतृणानि करोति।
मूलम्
तत्प्रत्यग्गार्हपत्याद्विगुणं प्राक्पाशं निधायोपरिष्टाद्स्योद्गग्राणि वेदतृणानि करोति।
टीका
तद्योक्त्रं द्विगुणं कृत्वा गार्हपत्यात्प्रत्यक्प्राक्पाशं प्राद्दमूलाग्रप्रदेशमित्यर्थः, तन्निदध्यात्। योक्त्रस्य मूलप्रदेशः पाशः।पाशशब्दोऽत्र मूलाग्रयोः प्रदर्शनार्थः। अस्य योक्त्रस्यो परिष्टाद्वेदतृणान्युदगग्राणि निदध्यात्।
विश्वास-प्रस्तुतिः
पुरस्तात्पूर्णपात्रं संश्लिष्टं वेदतृणैः।
मूलम्
पुरस्तात्पूर्णपात्रं संश्लिष्टं वेदतृणैः।
टीका
तृणेभ्यः पुरस्तात्तृणैः संश्लिष्टं * पूर्णपात्रं निदध्यात्।
** अभिमृश्य वाचयेत्पूर्णमसि पूर्णं मे भूयाःसुपूर्णमसि सुपूर्णं मे भूयाः सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूया अक्षितिरसि मा मे क्षेष्ठा इति।**
अभिमृश्यामिमृशन्नित्यर्थः। तां चाभिमृशन्तीं वाचयेत्प्रत्यगाशीष्ट्वान्मन्त्रस्य+।
विश्वास-प्रस्तुतिः
अथैनां पूर्णपात्रात्प्रतिदिशमुदकमुदुक्षन्नुदुक्षन्तीं वाचयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणस्यां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापतिर्मार्जयतां मार्जयन्तामिति वा।
मूलम्
अथैनां पूर्णपात्रात्प्रतिदिशमुदकमुदुक्षन्नुदुक्षन्तीं वाचयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणस्यां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापतिर्मार्जयतां मार्जयन्तामिति वा।
टीका
पूर्णपात्रादुदकं गृहीत्वा तदुदुक्षंस्तां चैवंकुर्वतीं वाचयति। अत्रोदक्षणमकुर्वत्या वाचने मन्त्रलिङ्गस्य विरोधाभावादुदुक्षणमपि विधीयते। पूर्वत्र तन्मन्त्रलिङ्गादेवाभिमर्शनमकुर्वत्या
————————————————————————————————————
* घ. पात्रपूर्णमुदकं पूर्णपात्रमिति रुद्रदत्तः। + क. मन्त्रगताशिषः प्रत्येकगामित्वात्।
————————————————————————————————————
मन्त्रोच्चारणं न संभवतीति न तस्या अभिमर्शनं विहितम्। मार्जयन्तामिति वेति पदद्वयमात्रविकल्पः।
विश्वास-प्रस्तुतिः
अथास्या उत्तानमञ्जलिमधस्ताद्योक्त्रस्य निधायाऽऽत्मनश्च सव्यं पूर्णपात्रं निनयन्वाचयेन्माऽहं प्रजां परासिचं या नः सयावरी स्थन। समुद्रे वो निनयानि स्वं पाथो अपीथेति।
मूलम्
अथास्या उत्तानमञ्जलिमधस्ताद्योक्त्रस्य निधायाऽऽत्मनश्च सव्यं पूर्णपात्रं निनयन्वाचयेन्माऽहं प्रजां परासिचं या नः सयावरी स्थन। समुद्रे वो निनयानि स्वं पाथो अपीथेति।
टीका
** ** योक्त्रस्याधस्तात्पत्न्यञ्जलिमुत्तानमात्मनश्च सव्यं पाणिमुत्तानं निधाय पूर्णपात्रं निनयन्माऽहं प्रजामिति तां वाचयेत्।यथा तन्निनीयमानमुदकं हस्तेष्वेव पतेत्तथा निनयेत्। प्राङ्मुखत्वमत्र नाऽऽद्रियते, अधस्तादञ्जलिनिधानस्यादृष्टार्थत्वप्रसङ्गात्। अत्र पत्नीद्वित्वबहुत्वे सर्वासां वाचनं कर्तव्यम्। प्रतिपत्नि योक्त्रविमोचनमावर्तते। सर्वेषां योक्त्राणां द्विगुणीकृत्य निधानं भवति। निनयनेन सर्वासां132 स्वयोक्त्रसंपृक्तोदकलाभायोदुक्षणेऽपि सर्वासामन्वयः।वाचने वाच्यमन्त्रलिङ्गजनितकार्याभावेऽपि वाच्यस्य पुरुषस्यैवायं संस्कार इत्यवगन्तव्यम्। य एते पत्नीसंबद्धा133ःपदार्थास्ते सर्वे परस्पर संबद्धा अथशब्देन तच्छब्देनान्येन वा। अतस्ते सर्वे सहैव कर्तव्या नैकैकशः।
विश्वास-प्रस्तुतिः
वेदतृणान्यग्रे गृहीत्वाऽविधून्वन्त्संततं स्तृणन्त्सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन्रजसो भानुमन्विहीति।
मूलम्
वेदतृणान्यग्रे गृहीत्वाऽविधून्वन्त्संततं स्तृणन्त्सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन्रजसो भानुमन्विहीति।
टीका
वेदबन्धस्य मुक्तत्वात्तृणानीत्युच्यन्ते134। तानि दक्षिणेन हस्तेनाग्रप्रदेशे गृहीत्वाऽविधून्वन्वि+ष्वक्त्वेनाकम्पयन्गार्हपत्यादरभ्य सव्येन हस्तेन संततं स्तृणन्नाहवनीयं गच्छति। तन्तुं तन्वन्नित्यास्तरणमन्त्रो न गमनमन्त्रः। ततो मन्त्रान्ते स्तरणारम्भः।
विश्वास-प्रस्तुतिः
शेषं निधाय प्रत्यगुदगाहवनीयादवस्थाय स्थाल्याःस्रुवेणाऽऽदाय सर्वप्रायश्चित्तानि जुहुयात्स्वाहाकारान्तैर्मन्त्रैर्न चेन्मन्त्रे पठितः।
मूलम्
शेषं निधाय प्रत्यगुदगाहवनीयादवस्थाय स्थाल्याःस्रुवेणाऽऽदाय सर्वप्रायश्चित्तानि जुहुयात्स्वाहाकारान्तैर्मन्त्रैर्न चेन्मन्त्रे पठितः।
टीका
शेषं निधायेतिवचनात्तानि सर्वाणि न स्तरितव्यानि नियमेन शेषितव्यानीति गम्यते। आज्यस्थाल्याः स्रुवेणाऽऽज्यमादायाऽऽहवनीये स्रुवेणैव जुहुयात्। आहवनीयात्प्रत्यगुदगवस्थाय सर्वप्रायश्चित्तानीति संज्ञैषां होमानाम्। स्वाहाकारान्तैर्मन्त्रैर्मन्त्रान्ते स्वाहाकारं कृत्वेत्यर्थः। न चेन्मन्त्रे यत्र क्वापि स्वाहाकारो न पठितस्तदाऽन्ते स्वाहाकारः कर्तव्यः। यत्र क्वापि पठितश्चेत्स एव प्रदानार्थो भवति।
विश्वास-प्रस्तुतिः
यत्किंचाप्रेषितो यजेदन्यत्रापि।
मूलम्
यत्किंचाप्रेषितो यजेदन्यत्रापि।
टीका
यः कश्चनास्भिशास्त्रे देवतोद्देशेन द्रव्यत्यागात्मको व्यापारो यागो होमोऽभ्याधानं बलिहरणादयो वा मन्त्रेण साध्यते135 तत्र सर्वत्र स्वाहाकारः कर्तव्य इति सूत्रार्थः।
————————————————————————————————————
- क. समन्तात्वेन
————————————————————————————————————
अन्यत्रेतिवचनं गार्ह्येष्वपि प्रापणार्थम्। अप्रेषित इति वषट्कारसमुच्चयनिवृत्त्यर्थम्।
विश्वास-प्रस्तुतिः
एवंभूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च।
मूलम्
एवंभूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च।
टीका
एवं136भूतो नामैवंप्रकारः। आहवनीयात्प्रत्यगुदग्देशे स्थित आज्यं स्रुवेणाऽऽदायाऽऽहवनीय इत्येवंप्रकारविशिष्टः कर्तैवंभूत इत्युच्यते। विशेषण परोऽयं निर्देशः। अव्यक्तशब्देनाविहितविशेष उच्यते। यत्र होमाभ्याधानोपस्थानान्यविहितविशेषा137णि विधीयन्ते तत्रानेन प्रकारेण कर्तत्र्यानीत्यर्थः। एकदेशविशेषे चाप्यपेक्षितमात्रमस्माद्गृह्यते।
अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि। अयासावयसा कृतोऽयासन्हव्यमूहिषे या नो धेहि भेषजं स्वाहा। अतो देवा अवन्तु न इति द्वाभ्यां व्याहृतिमिश्च भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेति।
एकमन्त्राणि कर्माणीति न्यायेन द्वाभ्यां द्वे आहुती होतव्ये। व्याहृतिभिरितिनिर्देशं कृत्वा पुनः पठि138तेन ज्ञायते व्याहृत्युपदेशे139न क्रमेणैवैते चत्वार इति।
विश्वास-प्रस्तुतिः
हुत्वा संस्थाजपेनोपस्थाय तीर्थेन निष्क्रम्यानियमः।
मूलम्
हुत्वा संस्थाजपेनोपस्थाय तीर्थेन निष्क्रम्यानियमः।
टीका
स्यादिति शेषः। हुत्वेतिवचनं संस्थाजपेन होमस्य संबन्धार्थं यत्र संस्थाजपोऽस्ति तत्र प्रायश्चित्तहोमोऽपि भवतीति। अतः खण्डेष्टिष्वपि संस्थाजपस्य प्रयोज्यत्वात्प्रायश्चित्तहोमोऽपि प्रयोज्य एव \। उपस्थायान्ते तीर्थेनैव निष्क्रामेत्। निष्क्रम्यानियम इति अर्थलुप्ता नियमा इत्यर्थः। अर्थलुप्तत्वे सत्यप्यनियमविधानं कर्ममध्येऽपि तीर्थेन निष्क्रान्तस्याव्यावृत्त्यादयो नियमा140 न भवन्तीति। तेन प्रयोगमध्ये मार्गान्तरेण निष्क्रान्तस्यापि नियमा भवन्त्येवेति विज्ञायते।
ओं च मे स्वरश्च मे यज्ञोप च ते नमश्च। यत्ते न्यूनं तस्मै ते उप यत्तेऽतिरिक्तं तस्मै ते नम इति संस्थाजपः।
अन्वर्थसंज्ञेयं तेनायं सोमेष्टिषु141 न भवति।
विश्वास-प्रस्तुतिः
इति होतुः॥ ११॥
मूलम्
इति होतुः॥ ११॥
टीका
इतिशब्देनात्रैतावत्त्वमुच्यते, एतावदेव होतुर्नान्यदिति। होतृग्रहणं होतुरेवैतावत्142, आग्नीध्रस्यान्यदपीति॥ ११॥
विश्वास-प्रस्तुतिः
–—–—
मूलम्
–—–—
विश्वास-प्रस्तुतिः
अथ ब्रह्मणः।
मूलम्
अथ ब्रह्मणः।
टीका
अथशब्दोऽधिकारार्थः। इदानीं ब्रह्मणोऽपि विधयो वक्ष्यन्त इत्यर्थः।
विश्वास-प्रस्तुतिः
होत्राचमनयज्ञोपवीतशौचानि।
मूलम्
होत्राचमनयज्ञोपवीतशौचानि।
टीका
व्याख्यातानीत्यर्थः। स्नानाचमनादिना शुचिर्भूत्वा ब्रह्मत्वं करिष्यामीत्यागुरितो विहारंप्रविश143न्प्राङ्मुख आचमनं कुर्यात्। कर्माङ्गत्वाद्यज्ञोपवीतग्रहणम्। पैतृकमानुषयोरपि कर्मणोर्वचनादृते यज्ञोपवीत्येव स्यादिति। शौचग्रहणं144 ऋत्वर्थमप्यशुचित्वसंपादि यत्तद्विहाराद्बहिः कर्तव्यमिति। एतच्चाप्राप्तं विधीयते। अय*****मपि तीर्थेन विहारं प्रपन्न इति प्राक्चेष्टताऽस्य145नेष्यते146। यज्ञमना इति कर्माभिमुख्य एव यज्ञमनस्त्वोपपत्तेः। अङ्कधारणमुपवेशाङ्गतया प्राप्तमदृष्टार्थतापरिहारायैव यावदासनमनुवर्तते। तत्र चेत्कर्मेत्यस्यापि कर्मसंबन्धादव्यावृत्तिरविशिष्टैव। दक्षिणाङ्गता147 च तत्र चेत्कर्मेत्यस्योत्तरा-ङ्गत्वेनाविशेषादस्यापि भवति।
विश्वास-प्रस्तुतिः
नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा।
मूलम्
नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा।
टीका
अन्यतः प्राप्तस्य ब्रह्मणोऽयं नियम उच्यते। ध्रुवाणां व्रजतां च पुरुषाणां यानि कर्माणि तेषां दक्षिणतो नित्यो भवेत्। प्राकृतानामप्राकृतानां च ध्रुवाणां नित्यं दक्षिणत्वं ध्रुवणैव कर्तुं शक्यत इति ध्रुवेषु ध्रुव एव भवेत्। व्रजतां कर्मसु नित्यं दक्षिणत्वाय व्रजन्नेव भवेत्। ध्रुवाणां व्रजतामिति कर्तृविशेषणं न कर्मणाम्। नित्यत्वमत्रोपक्रमप्रभृत्या परिसमाप्तेर्दक्षिणत्वसिद्ध्यर्थम्। वाशब्दःसमुच्चयार्थः। क्वचित्कर्मणि कश्चित्तिष्ठति कश्चिद्व्रजति तत्र भूयसां धर्मः परिगृह्यते।
विश्वास-प्रस्तुतिः
बहिर्वेद यां दिशं व्रजेयुः सैव तत्र प्राची।
मूलम्
बहिर्वेद यां दिशं व्रजेयुः सैव तत्र प्राची।
टीका
यत्र बहिर्वेदि वसतीवरीग्रहणादि कर्तुं यां दिशमभिमुखा व्रजन्ति ऋत्विजस्तत्र तामेव दिशं प्राचीं कृत्वा दक्षिणतो भवेत्। सैव तत्रेतिवचनात्ति148ष्ठतामभिमुखत149 एव प्राची भवेत्।
विश्वास-प्रस्तुतिः
चेष्टास्वमन्त्रासु स्थानासनयोर्विकल्पः।
मूलम्
चेष्टास्वमन्त्रासु स्थानासनयोर्विकल्पः।
टीका
अमन्त्रेषु कर्मसु स्थानमासनं वा भवेत्। वाशब्देनैव विकल्पे सिद्धे विकल्पवचनमव्यवस्थया विकल्पसिद्ध्यर्थम्। तेनैकस्मिन्नपि प्रयोगे क्वचिदासनं क्वचित्स्थानमिति लभ्यते।
————————————————————————————————————
* घ. पुस्तकान्तरे तु नायं तीर्थेनेति पाठः।
————————————————————————————————————
विश्वास-प्रस्तुतिः
तिष्ठद्धोमाश्च येऽवषट्काराः।
मूलम्
तिष्ठद्धोमाश्च येऽवषट्काराः।
टीका
तिष्ठतां ये होमा वषट्काररहिताश्च तेषु च स्थानमासनं वा भवेत्।
विश्वास-प्रस्तुतिः
आसीतान्यत्र।
मूलम्
आसीतान्यत्र।
टीका
** **अन्यत्रेति। अनन्तरसूत्रद्वयविषयादन्यत्रेत्यर्थः।
विश्वास-प्रस्तुतिः
समस्तपाण्यङ्गुष्ठोऽग्रेणाऽऽहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत्।
मूलम्
समस्तपाण्यङ्गुष्ठोऽग्रेणाऽऽहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत्।
टीका
समस्तौ पाणी अङ्गुष्ठौ च यस्य सोऽयं समस्तपाण्यङ्गुष्ठः। सव्येन पाणिना दक्षिणं पाणितलप्रदेशं गृह्णीयात्। दक्षिणेन सव्याङ्गुष्ठम्। एवंकृते पाणी अङ्गुष्ठौ च समस्तौ भवतः।
एवंभूतोऽग्रेणाऽऽहवनीयं परीत्य तरय दक्षिणतः कुशेषूपविशेत्। निरसनं कृत्वा कुशग्रहणात्सति संभवे त एवाऽऽसने प्रकल्पते150। दक्षिणत इति पुनर्वचनमाहवनीयस्यैव दक्षिणतो न क्रियमाणस्य कर्मण इत्येवमर्थम्।
विश्वास-प्रस्तुतिः
बृहस्पतिर्ब्रह्मा ब्रह्मसदन आशिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत्।
मूलम्
बृहस्पतिर्ब्रह्मा ब्रह्मसदन आशिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत्।
टीका
उपविश्यग्रहणं सकृदुपविश्य पुनरपि कर्मण एव दक्षिणतो न भवेत्। आ समाप्तेस्तत्रैवीपविशेदिति।
विश्वास-प्रस्तुतिः
एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौयत्रोपवेशनम्।
मूलम्
एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौयत्रोपवेशनम्।
टीका
एषमन्त्रो ब्रह्मजपसंज्ञो भवति। स चातिदेशशब्दमनरेक्ष्य सर्वेषु यज्ञेषु भवति। तन्त्रग्रहणं पाकयज्ञेष्वपि प्रापणार्थं पाकयज्ञानामेतत्तन्त्रमिति तन्त्रशब्दत्वात्तेपामिति। साग्नौ यत्रोपवेशनमित्यग्निप्रणयनेन साग्नि151कत्वे कर्मणः प्रतिपन्ने यत्रोपवेशनं विहितं तत्रायं जपो भवति। एतदुक्तं भवति - एषजपः सर्वेषु यज्ञेषु प्रविष्टमात्रे भवेत्। अग्निप्रणयनवत्स्वग्निप्रणयनान्त एव भवति।
विश्वास-प्रस्तुतिः
उपविष्टमतिसर्जयते।
मूलम्
उपविष्टमतिसर्जयते।
टीका
अनुज्ञालाभार्थं152 मन्त्रेणाऽऽमन्त्रयतेऽध्वर्युरित्यर्थः। उपविष्टग्रहणं प्रवेशकालज्ञापनार्थम्। यस्मिन्काल उपविष्टस्योपवेशनानन्तरमध्वर्युणाऽतिसर्जनं संभवति तस्मिन्काले प्रविशेदित्यर्थः।
विश्वास-प्रस्तुतिः
ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वोंप्रणयेत्यतिसृजेत्सर्वत्र।
मूलम्
ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वोंप्रणयेत्यतिसृजेत्सर्वत्र।
टीका
अध्वर्युमन्त्रपाठेऽप्शब्दसहितेऽपि याच्ञावचने प्रणयेत्येवानुजानीयान्नापः प्रणयेत्यपि153।श्रुत्वेतिवचनं श्रुत्वा पश्चाज्जपेन्न सहेति। जपित्वेति पूर्वस्योपांशुत्वायोत्तरस्य च तन्त्रस्वरत्वाय। अतिसृजेदनुजानीयात्। सर्वत्रेति सर्वेष्वनुज्ञावचनेष्वस्य विधेः प्रापणार्थम्।
विश्वास-प्रस्तुतिः
यथाकर्मत्वादेशाः।
मूलम्
यथाकर्मत्वादेशाः।
टीका
प्राप्तस्यायं विशेषविधिः। यस्मै कर्मणेऽनुज्ञामिच्छति तदेवानुजानीयान्न प्रणयेत्ये154व। यथाकर्म। कर्मानुरूपमादेशाः कर्तव्या इत्यर्थः।
विश्वास-प्रस्तुतिः
प्रणवाद्युच्चैः।
मूलम्
प्रणवाद्युच्चैः।
टीका
उत्तरविवक्षार्थम्।
विश्वास-प्रस्तुतिः
ऊर्ध्वं वा प्रणवात्।
मूलम्
ऊर्ध्वं वा प्रणवात्।
टीका
उच्चैर्भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं वाग्यत आस्त आ हविष्कृत उद्वादनात्।
मूलम्
अत ऊर्ध्वं वाग्यत आस्त आ हविष्कृत उद्वादनात्।
टीका
प्रणीताप्रणयनोपलक्षितात्कालादूर्ध्वमा हविष्कृन्मन्त्रोच्चारणाद्वाग्यतो भवति। आस्त इति वचनममन्त्रेष्वपि कर्मस्वरिमन्नवसर आसनमेवेति नियमार्थम्।
विश्वास-प्रस्तुतिः
आ मार्जनात्पशौ।
मूलम्
आ मार्जनात्पशौ।
टीका
पशावग्निप्रणयनमारभ्याऽऽचात्वालमार्जनाद्वाग्यतो भवेत्।
विश्वास-प्रस्तुतिः
सोमे घर्मादि चातिप्रैषादि चाऽऽसुब्रह्मण्यायाः।
मूलम्
सोमे घर्मादि चातिप्रैषादि चाऽऽसुब्रह्मण्यायाः।
टीका
धर्ममारभ्यातिप्रैषं चाऽऽरभ्याऽऽ सुब्रह्मण्याया वाङ्नियमः। सोमग्रहणं पश्चधिकारात्पशुनामक एव सोमे स्यादिति तन्नि155वर्त्य सर्वसोमेषु प्रापणार्थम्।
विश्वास-प्रस्तुतिः
प्रातरनुवाकाद्याऽन्तर्यामात्।
मूलम्
प्रातरनुवाकाद्याऽन्तर्यामात्।
टीका
प्रातरनुवाकलक्षितात्कालादूर्ध्वमाऽन्तर्याम156ग्रहयागात्।
विश्वास-प्रस्तुतिः
हरिवतोऽनुसवनमेलायाः।
मूलम्
हरिवतोऽनुसवनमेलायाः।
टीका
तथा सवनत्रयेऽपि पुरोलाशप्रचारमारभ्याऽऽ पुरोलाशेलायाः।
विश्वास-प्रस्तुतिः
स्तोत्रेष्वतिसर्जनाद्या वषट्कारात्।
मूलम्
स्तोत्रेष्वतिसर्जनाद्या वषट्कारात्।
टीका
स्तोत्रादौ स्तुध्वमित्युपाकरणम्। तदाद्या शस्त्रयाज्यावषट्काराद्वा157ग्यतो भवेदित्यर्थः।
विश्वास-प्रस्तुतिः
ओदृचः पवमानेषु।
मूलम्
ओदृचः पवमानेषु।
टीका
पवमानस्तोत्रेषूपाकरणादारभ्यऽऽ, उदृचः। उदृगिति समाप्तिरुच्यते।
विश्वास-प्रस्तुतिः
यच्च किंच मन्त्रवत्।
मूलम्
यच्च किंच मन्त्रवत्।
टीका
सर्वत्र मन्त्रवति कर्मणि वाग्यमनं भवति।
विश्वास-प्रस्तुतिः
होत्रा शेषः।
मूलम्
होत्रा शेषः।
टीका
उक्तादन्यो यो विषय158स्तत्राप्यस्य वाग्यमनं होतूतुल्यं भवति। आतो वाग्यमनमित्यादिर्नियमोऽस्याप्यधिक्रियत इत्यर्थः।
विश्वास-प्रस्तुतिः
आपत्तिश्च।
मूलम्
आपत्तिश्च।
टीका
आपद्यातो देवा अवन्तु न इति अपेदित्युक्तत्वादेतत्प्रायश्चित्तमापत्तिरित्युच्यते। अनन्तरोत्तैर्नवभिः सूत्रैर्विहितस्य वाग्यमनस्य भ्रेष एतदेव प्रायश्चित्तमित्यर्थः। अन्य159त्रैव भूरित्याहुतिः।
विश्वास-प्रस्तुतिः
यत्र त्वग्निःप्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनम्।
मूलम्
यत्र त्वग्निःप्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनम्।
टीका
विहित एव वाग्यमने तदादित्वमात्रमत्र विधीयते तुशब्दसमन्वयात्। अपि ससोमे सोमसहितेऽपि। अग्नीष160ोमीयप्रणयनेऽपीत्यर्थः। तत्रवचनं यस्मिन्नहन्यग्निः प्रणीयते तस्मिन्नेवाहनि कर्मप्रवृत्तौ तदादि वाग्यमनं न पूर्वेयुः प्रगयने तदादित्वनियमः। तथा ह्यस161द्यस्कालेषु पूर्वेद्युः प्रणीयते वरुणप्रघासादिषु।
विश्वास-प्रस्तुतिः
दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तम्।
मूलम्
दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तम्।
टीका
सूतग्रहणं व्रजञ्जपतीति व्रजतो जपविधानाद्व्रजनसमाप्तावपि कृत्स्नसूक्तप्रयोगविधानार्थम्। दक्षिणतोव्रजनविधानं दक्षिणतो व्रजत एवायं जपः स्यान्नाग्निं सोमं वा162प्रणयतः। तदा ह्यग्रेण गच्छतीति।
विश्वास-प्रस्तुतिः
समाप्योपवेशनाद्युक्तम्।
मूलम्
समाप्योपवेशनाद्युक्तम्।
टीका
समाप्येतिवचनं समाप्योपवेशनादि यदुक्तं तदेव कुर्यान्न सूक्तावृत्तिं गमनापरिसमाप्तावपीति। आदिग्रहणेन ब्रह्मजः परिगृह्यते। उपवेशनग्रहणेन निरसनमपि गृह्यते। सहचारित्वादेतत्रयमग्निप्रणयनाग्नीषोमप्रणयनयोरन्ते विधीयते163। तेन सूत्रेण साग्नौ यत्रोपवेशनमित्यनेन साग्निप्रणयनेषु पश्चादिकर्मस्वग्निप्रणयनान्त एव ब्रह्मजपो नान्यत्रेति नियम्यते।
विश्वास-प्रस्तुतिः
न तु सौमिके प्रणयने ब्रह्मजपः।
मूलम्
न तु सौमिके प्रणयने ब्रह्मजपः।
टीका
सोमे यदग्निप्रणयनं तदन्ते न ब्रह्मजपो भवति। तत्र निरसनोपवेशने एव भवतः।
विश्वास-प्रस्तुतिः
अन्यत्र विसृष्टबागबहुभाषी + यज्ञमनाः।
मूलम्
अन्यत्र विसृष्टबागबहुभाषी + यज्ञमनाः।
टीका
यज्ञमनाः क्रियमाणपदार्थपरामर्शी। विसृष्टवागपि यज्ञमनाः स्यादिति योगविभागः कृतः।
————————————————————————————————————
- घ यज्ञ एव मनो यस्य यज्ञमनाः। इदं कर्मैवं भवतीति, एतदेवमपि कर्तव्यं नान्यदिति भाष्ये।
————————————————————————————————————
** विपर्यासेऽन्त*रिते मन्त्रे कर्मणि वाऽऽख्याते वोपलक्ष्य वा जान्वाच्याऽऽहुतिं जुहुयात्।**
विपर्यासो व्युत्क्रमः। अन्तरिते164ऽतिगमने। मन्त्रयोः कर्मणोर्वा विपर्यासेऽन्तरिते मन्त्रे कर्मणि वा स्वयमुपलक्ष्य परेण वाऽऽख्याते दक्षिणं जानु निपात्य वक्ष्यमाणेन मन्त्रेण वक्ष्यमाणेऽग्नावाहुती165र्जुहुयात्। सवत्र जानुनिपातनमुपस्थस्योत्तानत्वा विरोधेन कर्तव्यं न न्यग्भावेन केनचिद्गृह्यकारेण शांवक्या166दिना दोषनिबन्धनात्। आख्यातोपलक्षणग्रहणमन्यस्मिन्नपि विषये यथा कथंचिज्ज्ञात एतत्प्रायश्चित्तं भवतीत्येवमर्थम्। तेनैवमस्य सूत्रस्यार्थोऽवगन्तव्यः— सर्वेषु भ्रेषेश्वेतप्रायश्चित्तं सामान्यरूपेण भवति। यदन्यद्भेषविशेषे विहितं तदस्यापवादकं भवति। विपर्यासान्तरितयोरत्र भेदेन ग्रहणात्तद्विषये विशेषेणाप्यस्य समुच्चयो भवति। सर्वेषां नैमित्तिकानामयमुत्सर्गो निमित्तादनन्तरं कर्तव्यमिति। यस्यपुनर्बलवता प्रमाणेनानन्तरं कर्तुम संभवस्तस्य यावत्संभवमुत्कर्षो नात्यन्तमिति। वाशब्दस्य द्विरुच्चारणं ज्ञात एव निमित्त एतत्प्रायश्चित्तं न पूर्वोक्त सर्वप्रायश्चित्तवदज्ञातेऽपीति ज्ञापनार्थम्। आहुतिमित्येकवचनं बहुष्वपि निमित्तेषु युग१ज्ज्ञाते कैवाऽऽहुतिः कर्तव्या न प्रतिनिमित्तमिति ज्ञापनाय।
विश्वास-प्रस्तुतिः
ऋक्तश्चेद्भूरिति गार्हपत्ये यजुष्टो भुव इति दक्षिण आग्नीध्रीये सोमेषु।
मूलम्
ऋक्तश्चेद्भूरिति गार्हपत्ये यजुष्टो भुव इति दक्षिण आग्नीध्रीये सोमेषु।
टीका
प्रागाग्नीध्रीयप्रणयनात्सोमेऽपि दक्षिणाग्नावेव दक्षिणाग्न्यर्थत्वादाग्नीध्रीयप्रणयनस्य।
विश्वास-प्रस्तुतिः
सामतःस्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव।
मूलम्
सामतःस्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव।
टीका
यदा सर्वेभ्यो167 वेदेम्यो युगपद्भ्रेषा आगच्छेयुस्तदा समस्ताभिरेकाहुतिराहवनीय एव कार्या। एवकारग्रहणं समस्ताभिरेकाहुतिराहवनीय एवेति ज्ञानार्थम्। अविज्ञात इति स्मार्तानां शौचाचमनादीनां भ्रेषे168ऽस्य प्रापणार्थम्। एत ऋगादयः शब्दा वेदवचना न जातिवचनाः।
विश्वास-प्रस्तुतिः
प्राक्प्रयाजेभ्योऽङ्गारं बहिष्परिधिनिर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत्। नमस्ते अस्त्वाय ते नमो रुद्रपराय ते। नमो यत्र निषीदसीति।
मूलम्
प्राक्प्रयाजेभ्योऽङ्गारं बहिष्परिधिनिर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत्। नमस्ते अस्त्वाय ते नमो रुद्रपराय ते। नमो यत्र निषीदसीति।
टीका
————————————————————————————————————
* घ. लोपे।
————————————————————————————————————
प्राक्प्रयाजेभ्य इति स्रुगादापनात्प्राक्कृत्स्नं संगृह्यते। बहिष्परिधीत्यस्य परिधिशब्दस्य देशोपलक्षणार्थत्वात्सर्वतो निर्वृत्तं गृह्यते। तच्च वक्ष्यमाणैः सूत्रैः स्पष्टयति।
विश्वास-प्रस्तुतिः
अमुंमा हिंसीरमुंमा हिंसीरिति च प्रतिदिशमध्वर्युयजमानौपुरस्ताच्चेद्ब्रह्मयजमानौ दक्षिणतो होतृपत्नी यजमानात्पश्चात्। आग्नीध्रयजमाना उत्तरतः।
मूलम्
अमुंमा हिंसीरमुंमा हिंसीरिति च प्रतिदिशमध्वर्युयजमानौपुरस्ताच्चेद्ब्रह्मयजमानौ दक्षिणतो होतृपत्नी यजमानात्पश्चात्। आग्नीध्रयजमाना उत्तरतः।
टीका
अध्वर्युं मा हिंसीर्यजमानं मा हिंसीरित्येवमन्तेन मा तप इत्यनेन पुरस्तान्निर्गतमभिनिदध्यात्। एवमुत्तरेष्वपि प्रयोगो द्रष्टव्यः। चशब्दोऽमुमादेःपूर्वेण समुच्चयार्थः। दिगनुक्रमे169णैव प्रतिदिशशब्दार्थेसिद्ध एव यत्प्रतिदिशग्रहणं करोति तज्ज्ञापयति सर्वदिक्संबद्धं170कर्मानेन क्रमेण कर्तव्यमिति।
विश्वास-प्रस्तुतिः
अथैनमनुप्रहरेदाहं यज्ञं ददे171 निर्ऋतेरुपस्थात्तं देवेषु परिददामि विद्वान्। सुप्रजास्त्वंशतहि172 मामदन्त इह नो देवा मयि शर्म यच्छतेति।
मूलम्
अथैनमनुप्रहरेदाहं यज्ञं ददे171 निर्ऋतेरुपस्थात्तं देवेषु परिददामि विद्वान्। सुप्रजास्त्वंशतहि172 मामदन्त इह नो देवा मयि शर्म यच्छतेति।
टीका
न स्वाहाकारान्तम्।
विश्वास-प्रस्तुतिः
तमभिजुहुयात्सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्त्सुप्रतीकः। मा नो हिंसीद्धिंसितो173 नेत्वा जहामि गोपोषं च नो वीरपोषं च यच्छ स्वाहेति॥ १२॥
मूलम्
तमभिजुहुयात्सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्त्सुप्रतीकः। मा नो हिंसीद्धिंसितो173 नेत्वा जहामि गोपोषं च नो वीरपोषं च यच्छ स्वाहेति॥ १२॥
टीका
तमिति। प्रहृत174मेवाङ्गारमभिजुहुयादित्यर्थः॥ १२॥
** प्राशित्रमाह्रियमाणमीक्षते मित्रस्य त्वा चक्षुषाप्रतीक्ष इति। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति कुशेषु प्राग्दण्डं निधायाङ्गुष्ठोपकनिष्ठिकाभ्यामसंखादन्प्राश्नीयाद्नेवास्येन प्राश्नामि बृहस्पतेर्मुखेनेत्याचम्यान्वाऽऽचामेत्सत्येन त्वाऽभिजिघर्मि या अण्वन्तर्देवतास्ता इदं शमयन्तु चक्षुः श्रोत्रं प्राणान्मे मा हिंसीरितीन्द्रस्य त्वा जठरे दुधामीति*नाभिमालभेत प्रक्षाल्य प्राशित्रहरणं त्रिरनेनाभ्यात्ममपो निनयते।**
————————————————————————————————————
* घ. अस्मिन्नवसर इलाभक्षणं ततोऽपो निनयनम्।
————————————————————————————————————
तदित्याहृतस्य175प्राशित्रस्य प्रतिग्रहणार्थं नाऽऽह्रियमाणस्येति। अन्तर्वेदि कुशेषु प्राग्दण्डं प्राशित्रहरणं निधायासंखादन्प्राश्नीयात्। असंखादन्दन्तैरपीडयन्नित्यर्थः। शौचार्थमाचमनं कृत्वा पश्चान्मन्त्रेणापः पिबेत्पुनरपि प्राग्वच्छौचार्थमाचमनं कुर्यात्। अनेन प्रक्षालितेन प्राशित्रहरणेनाऽऽत्मानमभिमुखेन हस्तेन च तथाभूतेनाऽऽत्मनः पुरतस्त्रिरपः सिञ्चेत्।
विश्वास-प्रस्तुतिः
मार्जयित्वाऽस्मिन्ब्रह्मभागं निदध्यात्।
मूलम्
मार्जयित्वाऽस्मिन्ब्रह्मभागं निदध्यात्।
टीका
सर्वैः176 कर्तृभिरिलाभक्षणस्यानुष्ठेयत्वात्तदङ्गत्वाच्च मार्जनस्यास्मिन्नवसरेऽयमपीलां भक्षयित्वा मार्जनं च कृत्वा ततः पश्चाच्चतुर्धाकरणे कृते ब्रह्मण आनीतं ब्रह्ममागं प्राशित्रहरणे निदध्यादित्यर्थः।
विश्वास-प्रस्तुतिः
पश्चात्कुशेषु यजमानभागम्।
मूलम्
पश्चात्कुशेषु यजमानभागम्।
टीका
यस्मिन्देशे प्राशित्रहरणं निहितं तस्य पश्चात्कुशेषु यजमानभागं निदध्यान्न प्राशित्रहरण इत्यर्थः।
अन्वाहार्यमवेक्षेत प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वानक्षितिरसि मा भेक्षेष्ठा अस्मिंश्च लोकेऽमुष्मिंश्च।
इतिकाराध्याहारेण सूत्रच्छेदः।
प्राणापानौमे पाहि कामाय त्वेत्यस्पृशन्नवघायाङ्गुष्ठोपकनिष्ठिकाभ्यां शिष्टं गृहीत्वा ब्रह्मभागे निदध्यात्।
अन्येनाङ्गेनास्पृशन्नवजिघ्रेदन्वाहार्थंप्राणापानावित्यादिना।शिष्टं पुला177ककलामात्रमित्यर्थः। तन्मात्रमन्वाहार्यागृहीत्वा ब्रह्मणो भागे निदध्यात्।
ब्रह्मन्प्रस्थास्याम इति श्रुत्वा बृहस्पतिर्ब्रह्मा ब्रह्मसदन आशिष्ट बृहस्पते यज्ञमजूगुपः स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि।
अध्वर्युमन्त्रपाठः प्रस्थास्यामः प्रस्थास्यामीति वा श्रुत्वा प्रतिष्ठेत्येवानुज्ञावचनं ब्रूयादित्येवमर्थम्।
** भूर्भुवःस्वर्बृहस्पति प्रसूत इति जपित्वों प्रतिष्ठेति समिधमनुजानीयात्। संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात्तमितरेऽन्वालभेरन्।**
भूर्भुवः स्वरित्यादेः पाठः समुच्चयार्थः। समिद्ग्रहणं समिदाधानानुज्ञा178वचनमपि सत्प्रतिष्ठेत्येवंरूपमेव भवति नाऽऽधेहीत्येवरूपम्। ऋत्विजां कर्मसु संस्थितेषूपरतेष्वनुपरतेयजमानकर्माणि जघन्यः सन्त्सर्वप्रायश्चित्तानि जुहुयात्। अत्राऽऽग्नीध्रोऽन्वारभेत ब्रह्माणम्। बहुवचनं विकृत्यर्थम्।
विश्वास-प्रस्तुतिः
होतारं वा।
मूलम्
होतारं वा।
टीका
होतारं वेतरेऽन्वारभेरन्।
विश्वास-प्रस्तुतिः
एतयोर्नित्यहोमः।
मूलम्
एतयोर्नित्यहोमः।
टीका
होम एवैतयोः कार्यो179 नान्वारम्भः परस्परमित्यर्थः।
सर्वे संस्थाजपेनोपतिष्ठन्त उपतिष्ठन्ते॥ १३॥
इत्याश्वलायनश्रौतसूत्रे पूर्वषट्के प्रथमोऽध्यायः॥ १॥
सर्वे होमकर्तारोऽन्वारम्भकर्तारश्चेत्यर्थः॥ १३॥
इत्याश्वलायनश्रौतसूत्रवृत्तौ नारायणीयायां प्रथमोऽध्यायः॥ १॥
——
अथ द्वितीयोऽध्यायः।
——
-
“क. ग.घ . ङ. च. °ष्ठानौपथिकत ।” ↩︎
-
“ङ. च. सिद्धं सं ।” ↩︎
-
“च हितानां प्र’ ।” ↩︎
-
“ख. ग. झ. विहिक° ।” ↩︎
-
“ङ.झ.°र्णिव°। " ↩︎
-
“ध. ङ.. व्यं साधितं भ” । " ↩︎
-
“ग. झ. °ति न परस्तात् । आ° ।” ↩︎
-
“ङ॰ °येहवृ° ।” ↩︎
-
“ख. ग. घ. ङ. च. तिलक्ष” ↩︎
-
“क. घ. ङ. च. झ. ‘योज्यवचनोऽपि । " ↩︎
-
“ङ.म्नानात्त ° । " ↩︎
-
“ङ. रभ्यते ।” ↩︎
-
“झ. संगत ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. पद्येतेत्ये।” ↩︎
-
“मृ खा° । " ↩︎
-
“च. शरक्ष°।” ↩︎
-
“ख. ग. सत्यसं ।” ↩︎
-
“ख. °नं प° ।” ↩︎
-
“झ. °बद्धेव ।” ↩︎
-
“झ. ख. ग. प्राप्त्यर्थ ।” ↩︎
-
" ४. ख. ग. ङ. झ. " ↩︎
-
“ख. ग. °र्थः । अत्रा° ।” ↩︎
-
“ख. ग. झ. °ति तत्र क° ।” ↩︎
-
“क. ग. ‘यद्भिन्नं जुहो’ ।” ↩︎
-
“ख. ग. °त्र ऋत्रमू° ।” ↩︎
-
“ख. ग. च. झ. °रणम् ।” ↩︎
-
“क. °गमुपा° ।” ↩︎
-
“ख. ग. ङ. झ. कर्तुमश° ।” ↩︎
-
“क्षिणङ्गस्य ।” ↩︎
-
“ख. ग. ङ. °दः । बहिर्वेद्यां स्तीर्णं तृणम् । उ॰।” ↩︎
-
“ङ, च. ॰ङ्गुलीयकौ । " ↩︎
-
“व. च. संहतौ ।” ↩︎
-
“ख. ग. व. ङ. च. ‘न्त्रणावि ।” ↩︎
-
“क. °शिष्टे न° ।” ↩︎
-
“ङ. च. सव्यं हृ° । " ↩︎
-
“घ. ङ. च. झ. °स्य प्रैष°।” ↩︎
-
“५ क. ख. ग. व. स्वमा ।” ↩︎
-
“क. व. च. पाङ्गं त° ।” ↩︎
-
“क. ख. ग. घ. ङ. झ. हुं इ०° । अत्र ङ. पुस्तके हुमित्यस्योपरि मन्त्र इति ठिप्पनी ।” ↩︎ ↩︎
-
“ख. ग. °लनामहिं°।” ↩︎
-
“क. ङ. त्यन्तः सं ° ।” ↩︎
-
“क. चं. स्तर्मोका” ↩︎
-
“ख. ग. °तायाऽदृष्ट° ।” ↩︎
-
“च. सोन्तम ° ।” ↩︎
-
“च. एवं मन्त्रसं ।” ↩︎
-
“ङ. वाजिवाजेषुरिति ।” ↩︎
-
“ख. ग. ‘मेवाध्य ।” ↩︎
-
“ख. ग. मध्यर्धच ।” ↩︎
-
“च. ‘त्यर्थप्रा ।” ↩︎
-
“ग॰ झ॰ ॰त्यादिः सु° । च. त्यादिषु य° ।” ↩︎
-
“ग. च. श. °न्त आ°।” ↩︎
-
“घ. °ने स्तः ।” ↩︎
-
“ङ. ‘तावहश’ ।” ↩︎
-
“च. ‘भ्रातत्वात्सै ।” ↩︎
-
“ङ. च. एवमु’ ।” ↩︎
-
“ट. ‘यागमु° ।” ↩︎
-
“क. च. ‘न्यावाहनादी ।” ↩︎
-
“ख. ग. °द निगदूताऽ°।” ↩︎
-
“क. घ. ङ. ‘मागुरा° ।” ↩︎
-
“झ . स्वरोऽनुज्ञातः । प्र° ।” ↩︎
-
“ख. ग. ङ. च. झ० देराददीनां ।” ↩︎
-
“क. °ससि ।” ↩︎
-
“ख. ग. घ. ङ. च. झ्. °दग्व्यूह्य ।” ↩︎
-
“ख. ग. ङ. झ. वेद्यां स्ती ।” ↩︎
-
“झ. ध्वर्युमेव ।” ↩︎
-
“च. रेवाध्वर्युमेव ।” ↩︎
-
“ब. ङ. च. झ. ‘स्थातारमित्ये ।” ↩︎
-
“ख. ग. ङ र्मणस्त्रिरा । " ↩︎
-
“ख. ग. ‘यदौच्छिष्टयं त । च. ‘यदौष्ण्यं त° ।” ↩︎
-
“ख. ग. °शनप्रयोगे भ” ↩︎
-
“ङ. झ. °तीयं नि° ।” ↩︎
-
“ङ. झ. शनं कु° ।” ↩︎
-
“क. नैव ।” ↩︎
-
“ख. ग. रात्सं ।” ↩︎
-
“झ. °व तत्कु° ।” ↩︎
-
“ख. ग. °प्त इध्म ए° ।” ↩︎
-
“ख. ग. ‘येत्स्रुचावध्व ।” ↩︎
-
“ख. ग. ‘त्तत्वामे ।” ↩︎
-
“ख. ग. तेऽकृतेऽपि ।” ↩︎
-
“झ. णं प्रतीयादि ।” ↩︎
-
“च. °णशाब्दल° ।” ↩︎
-
“ख. ग. पाद्वद्या ।” ↩︎
-
“ख. च. ग. ध. °मतः प° ।” ↩︎
-
“क. घ.नापाठि॰ ।” ↩︎
-
“ख॰ ग॰ ॰राद्ययोः प्लु° ।” ↩︎
-
“ख॰ ग॰ राद्ययोः प्लु° ।” ↩︎
-
“ख ग घ ङ. च. झ. °न्यप्रगृह्याणि सं ।” ↩︎
-
“ख. ग. घ. ङ. °व्यः वि ।” ↩︎
-
“ख. ग. ङ. ‘भियमित्या’ ।झ. °भियवो ।” ↩︎
-
“ख.ग. °ते । इतरम° । झ. °ते । नतेर्दन्त्यमूर्धन्यभावस्य ।हेतुभूतमक्षरं, अव इतरः, म° ।” ↩︎
-
“क॰ ङ॰ झ. च. °ते । श्चिद’ ।” ↩︎
-
“ख. ग. घ. ङ. च. झ °स्तस्याश्वाऽऽ ।” ↩︎
-
“ख. ग. मनलाभार्थ° ।” ↩︎
-
“आगुरोविधानं क्रु’ । घ. अगुरोविंधानं क्र ।” ↩︎
-
“क. व. ङ. ‘न यथास्था° ।” ↩︎
-
“च. °ते । अन्य° ।” ↩︎
-
“ख. ग. °ति शेषो यथासूत्रमेव । आ° ।” ↩︎
-
“च. झ. °भारो॰ ।” ↩︎
-
“ख. ग. घ. झ. ङ. °क्तव्यम् । प्र° ।” ↩︎
-
“ख ग घ ङ. झ. °योक्तव्यम् ।ह° ।” ↩︎
-
“क. ख. ग. घ. ङ. च. °मिकीभ्यः, सो° ।” ↩︎
-
“ख. ग. ‘वावसाने ।” ↩︎
-
“ख. ग. न्तीति त एव पत्नीसंजायाजा गुह्यन्ते, एत ।” ↩︎
-
" ख. ग. यौ वै° ।” ↩︎
-
“ङ. °चारः । विकारोऽन्य ।” ↩︎
-
“क ममेऽन्य° ।” ↩︎
-
“व. ङ. च. एवेमे स ° ।” ↩︎
-
" ख. ग. °र्थः । सति निमित्त संज्ञेत्याह-वृ° ।” ↩︎
-
“झ. °धाय देवतान° ।” ↩︎
-
“ङ. °पयति । अ° ।” ↩︎
-
“क. ङ. च. °नेनैकस्मि ।” ↩︎
-
“क. ख. ग. ङ. च. °र्थः । अङ्गु° ।” ↩︎
-
“च. घ. झ.°रेलान्तो द° ।” ↩︎
-
“ख. झ. ग. °तेत्या ।” ↩︎
-
“स्वरादप ° क. झ. °स्वरानप° ।” ↩︎
-
“क. व. ङ. °ते । तस्मि° ।” ↩︎
-
“च. झ. पूरुषा इ° ।” ↩︎
-
“ख. ग. घ. झ. °त्यत्रेति° ।” ↩︎
-
" च. र्नान्त इ° ।” ↩︎
-
“क. च. मन्द्रः ।” ↩︎
-
“ख. ग. सांव्याव॰ । घ. संव्यव॰ ।” ↩︎
-
“घ.॰त्रंवा हो॰ ।” ↩︎
-
“च. ‘कारभा’ ।” ↩︎
-
“झ. °र्थः । तेन का° ।” ↩︎
-
“क. च. °सां सयो°।” ↩︎
-
“क.घ. च. °बन्धाःप° ।” ↩︎
-
“च. °च्यते । ता° ।” ↩︎
-
“ख. च. ग. ङ.॰ध्यन्ते त° ।” ↩︎
-
“ग. घ. ङ. च. झ. ‘वं भावो ना° ।” ↩︎
-
“ख. ग. ‘शेषणानि वि°।” ↩︎
-
“ख. ग. झ. पठति तेन ।” ↩︎
-
“ङ. झ. °शेऽनेन ।” ↩︎
-
“ख. ग. ‘मा भ° ।” ↩︎
-
“ख. य. ष्टिष्वपि न ।” ↩︎
-
“ख. ग. °वत्तेनाऽऽग्नी।” ↩︎
-
“ख. ग. विश्य प्रा॰ ।” ↩︎
-
“ख. ग. झ. ॰णं तु क्र° ।” ↩︎
-
“ख. ग. झ. ॰स्य प्राप्ताऽपि ने॰ ।” ↩︎
-
“ख. ग. झ. ‘ते । तत्र हेतुर्यज्ञमना इत्युत्तरग्रन्थः । य ।” ↩︎
-
“च. ॰ङ्गताया च ।” ↩︎
-
“ख. ग. ङ. झ. नाद्बहिस्तिष्ठ ° ।” ↩︎
-
“ख ग घ ङ. च. झ. °ख ए° ।” ↩︎
-
“ख. ग. झ. ॰कल्प्यन्ते । " ↩︎
-
“च. झ. ॰ग्नित्वे । " ↩︎
-
“ख. ग. ॰भार्थभनेन म° ।” ↩︎
-
“ख. ग. ॰येत्येतदपि । ङ. झ. ‘येत्येवम् । श्रु॰ ।” ↩︎
-
“ख. ग. °त्येवं । य° ।” ↩︎
-
“ख. ग. न्निर्वर्त्य स ° ।” ↩︎
-
“ङ. महोमादित्यर्थः । ह° ।” ↩︎
-
“ख. ग. ‘रानुमन्त्रणाद्वा । ङ. ‘रादनुमन्त्रणाद्वा’ ।” ↩︎
-
“ख. ग. विशेवस्त° ।” ↩︎
-
“क. °न्यत्रेव ।झ. ‘न्यत्रैवं भू° ।” ↩︎
-
“झ. ‘षोमप्र ।” ↩︎
-
“घ. ह्यः स° । " ↩︎
-
“ङ. च । " ↩︎
-
“ख. ग. ङ. ते । अनेन ।” ↩︎
-
“ख. ग. ध. ङ. च. झ° ते निग° ।” ↩︎
-
“ख. ग. झ. °हुतिं जुहु° ।” ↩︎
-
“ग. ॰ण शाङ्ख्यादि॰ । झ. ॰ण शांवत्यादि ।” ↩︎
-
“च. ङ. ‘भ्यो देवेभ्यो ।” ↩︎
-
“ख ग घ. च. झ. भ्रेषस्य ।” ↩︎
-
“ख. ग. घ. ङ. च. झ. °क्रमणेन प्र° ।” ↩︎
-
“ख ग घ ङ. च. ‘बन्धं क° ।” ↩︎
-
“क. प्रकृत” ↩︎
-
“च. झ. °स्य प्र॰ ।” ↩︎
-
“च. ॰र्वैः कृतैरि॰ ।” ↩︎
-
“ङ. °लाकं क° ।” ↩︎
-
“ख. ग. घ. च.॰ज्ञानम्॰।” ↩︎
-
“घ. च. कार्येऽन्वा । " ↩︎