१३ अप्तोर्यामः

अप्तोर्यामः ।

प्रागाज्यशस्त्रादतिरात्रवत् ।

आज्यशस्त्रम्

अथाज्यशस्त्रम् ।

सुमत्पद्वग्दे पिता मातरिश्वाच्छिद्रापदाधादच्छिद्रोक्था कवयः शंसन् । सोमो विश्वविन्नीथा निनेषद् बृहस्पतिरुक्थामदानि शंसिषद् वागायुर्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यति इति जपित्वानभिहिंकृत्य शोंसावोमित्युच्चैराहूय तूष्णीं शंसं शंसेदुपांशु सप्रणवमसन्तन्वन् । शो३ंसावो३ं भूरग्निर्ज्योतिर्ज्योतिरग्नो३म् । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रो३म् । सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३म् । इति त्रिपदस्तूष्णीं शंसः । यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत् ।

अग्निर्देवेद्धः । अग्निर्मन्विद्धः । अग्निः सुषमित् । होता देववृतः । होता मनुवृतः । प्रणीर्यज्ञानाम् । रथीरध्वराणाम् । अतूर्तो होता । तूर्णिर्हव्यवाट् । आ देवो देवान् वक्षत् । यक्षदग्निर्देवो देवान् । सो अध्वरा करति जातवेदो३म्

[[३४४]]

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्यो३ं

तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यो३म्

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उप यन्ति वाजो३म्

प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । यत्रा नरः समासते सुजातो३ं

दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । न यं यावा तरति यातुमावो३म्

उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची । उप स्वैनमरमतिर्वसूयो३ं

विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् । प्र निस्वरं चातयस्वामीवो३म्

आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । उतो न एभि स्तवथैरिह स्यो३ं

वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा । उतो न एभिः सुमना इह स्यो३म्

इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः । ये मे धियं पनयन्त प्रशस्तो३म्

मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा । प्रजावतीषु दुर्यासु दुर्यो३ं

यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः । स्वजन्मना शेषसा वावृधानो३म्

पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः । त्वा युजा पृतनायूँरभि ष्यो३म्

सेदग्निरग्नीँरत्यस्त्वन्यान् यत्र वाजी तनयो वीळुपाणिः । सहस्रपाथा अक्षरा समेतो३ं

सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् । सुजातासः परि चरन्ति वीरो३म्

अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् । परि यमेत्यध्वरेषु होतो३ं

त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या । उभा कृण्वन्तो वहतू मियेधो३म्

इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तो३म्

मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।

मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थो३ं

नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।

रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नो३ं

त्वमग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि ।

मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन्नर्यो वि दासो३म्

मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।

मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्तो३ं

स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।

स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एतो३म्

महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् ।

[[३४५]]

येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीरो३ं

शो३ंसावो३ं नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।

रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नो३म् ॥ (७ । १ । १-२५) इति त्रिः परिदधाति ।

उक्थं वाचि घोषाय त्वा इति शस्त्वा जपेत् ।

ये३ यजामह अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोपयातममर्धन्ता सोमपेयाय देवा३ वौ३षट् ॥

[३ । २५ । ४] सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । समो भक्षविधिः ।

प्राकृतं प्रउगम् । होत्रकाणां शस्त्राणि । तत्र च्छन्दोगा गर्भाकारं स्तुवन्ति चेत् तदा स्तोत्रियानुरूपावपि गर्भाकारेण शंस्तव्यम् । महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्रीकारम् । तदभावे अनुरूपानन्तरं षडहस्तोत्रियादि समानम् ।

मैत्रावरुणशस्त्रम्

अथ मैत्रावरुणशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

स्तोत्रियः-

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतो३म् (इति त्रिः)

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रतो३ं

गृणाना जमादग्निना योनावृतस्य सीदतम् । पातं सोममृतावृधो३ं [३ । ६२ । १६-१८]

ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषो३म्

ऋतमृतेन सपन्तेषिरं दक्षमाशाते । अद्रुहा देवौ वर्धेतो३ं

वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । बृहन्तं गर्तमाशातो३म् [५ । ६८ । ३-६]

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतो३म्

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रतो३ं

गृणाना जमादग्निना योनावृतस्य सीदतम् । पातं सोममृतावृधो३ं [३ । ६२ । १६-१८]

अनुरूपः-

शो३ंसावो३म् आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । उपेमं चारुमध्वरो३ं

विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । ईशाना पिप्यतं धियो३म्

उप नः सुतमा गतं वरुण मित्र दाशुषः । अस्य सोमस्य पीतायो३ं [५ । ७१ । १-३]

ता नः स्तिपा तनूपा वरुण जरितॄणाम् । मित्र साशयतं धियो३ं

यदद्य सूर उदितेऽनागा मित्रो अर्यमा । सुवाति सविता भगो३ं

सुप्रावीरस्तु स क्षयः प्र नु यमन्त्सुदानवः । ये नो अंहोति पिप्रतो३म् [७ । ६६ । ३-६]

आ नो गन्तं रिशादसा वरुण मित्र बर्हणा । उपेमं चारुमध्वरो३ं

[[३४६]]

विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । ईशाना पिप्यतं धियो३म्

उप नः सुतमा गतं वरुण मित्र दाशुषः । अस्य सोमस्य पीतायो३ं [५ । ७१ । १-३]

नाभाकस्तृचो गायत्रीकारशस्यः-

शो३ंसावो३ं स क्षपः परि षस्वजे न्युस्रो मायया दधे । स विश्वं परि दर्शतो३ं

तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन् । नभन्तामन्यके समो३ं

यः ककुभो निधारयः पृथिव्यामधि दर्शतः । स माता पूर्व्यं पदो३ं

तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यः । नभन्तामन्यके समो३ं

यो धर्ता भुवनानां य उस्राणामपीच्या । वेद नामानि गुह्यो३ं

स कविः काव्या पुरु रूपं द्यौरिव पुष्यति । नभन्तामन्यके समो३म् (८ । ४१ । ३-५)

[ यः ककुभो निधारयः पृथिव्यामधि दर्शतः । स माता पूर्व्यं पदो३ं

तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यः । नभन्तामन्यके समो३ं

यो धर्ता भुवनानां य उस्राणामपीच्या । वेद नामानि गुह्यो३ं

स कविः काव्या पुरु रूपं द्यौरिव पुष्यति । नभन्तामन्यके समो३ं

यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता । त्रितं जूती सपर्यतो३ं

व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत । नभन्तामन्यके समो३म् (८ । ४१ । ४-६) इति वा ]

षडहस्तोत्रियाः-

मित्रं वयं हवामहे वरुणं सोमपीतये । जज्ञाना पूतदक्षसो३म्

ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवो३ं

वरुणः प्राविता भुवन् मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसो३म् (१ । २३ । ४-६)

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीं साधन्तो३म्

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथो३ं

कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसो३म् (१ । २ । ७-९)

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतं हवो३ं

राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । सहस्रस्थूण आसातो३ं

ता सम्राजा घृतासुती आदित्या दानुनस्पती । सचेते अनवह्वरो३म् (२ । ४१ । ४-६)

पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । मित्र वंसि वां सुमतो३ं

ता वां सम्यगद्रुह्वाणेषमश्याम धायसे । वयं ते रुद्रा स्यामो३म्

पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा । तुर्याम दस्यून्तनूभो३ं (५ । ७० । १-३)

काव्येभिरदाभ्या यातं वरुण द्युमत् । मित्रश्च सोमपीतयो३ं

[[३४७]]

दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा । पिबतं सोममातुजो३म्

आ यातं मित्रावरुणा जुषाणावाहुतिं नरा । पातं सोममृतावृधो३म् (७ । ६६ । १७-१९)

प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणं रिशादसो३ं

राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातयो३ं

शो३ंसावो३ं ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषं स्वश्च धीमहो३म् [७ । ६६ । १-९]

इति त्रिः परिदध्यात् । उक्थं वाचि इति शस्त्वा जपः ।

ये३ यजामह आ यातं मित्रावरुणा जुषाणावाहुतिं नरा पातं सोममृतावृधा३ वौ३षट् ॥ [७ । ६६ । १९]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

ब्राह्मणाच्छंसिशस्त्रम्

अथ ब्राह्मणाच्छंसिशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

स्तोत्रियः-

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषतो३म् इति त्रिः

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययो३म्

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभो३ं (१ । ७ । १,२,४)

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवो३ं

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसो३ं

केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथो३म् (१ । ६ । १-३)

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषतो३म्

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययो३म्

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभो३ं (१ । ७ । १,२,४)

अनुरूपः-

शो३ंसावो३म् आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । पिबा सु शिप्रिन्नन्धसो३म्

आ ते सिञ्चामि कुक्ष्योरनु गात्रा विधावतु । गृभाय जिह्वया मधो३ं

स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । सोमः शमस्तु ते ह्रुदो३ं [८ । १७ । ४-६]

आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । वाजेभिरुप नो हवो३म्

अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् । यं ते पूर्वं पिता हुवो३ं

तं त्वा वयं विश्ववाराशास्महे पुरुहूत । सखे वसो जरितृभ्यो३म् (१ । ३० । ८-१०)

आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । पिबा सु शिप्रिन्नन्धसो३म्

[[३४८]]

आ ते सिञ्चामि कुक्ष्योरनु गात्रा विधावतु । गृभाय जिह्वया मधो३ं

स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव । सोमः शमस्तु ते ह्रुदो३ं [८ । १७ । ४-६]

नाभाकस्तृचो गायत्रीकारशस्यः-

शो३ंसावो३म् पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः । सूनो हिन्वस्य हरिवो३ं

वस्वो वीरस्यापृचो या नु साधन्त नो धियः । नभन्तामन्यके समो३ं

तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् । उतो नु चिद्य ओजसो३ं

शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपः । नभन्तामन्यके समो३ं

तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् । उतो नु चिद्य ओहतो३म्

आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपः । नभन्तामन्यके समो३म् (८ । ४० । ९-११)

षडहस्तोत्रियाः-

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो ममो३म्

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नः शृणो३ं

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहो३म् [८ । १७ । १-३]

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा । मन्दू समानवर्चसो३म्

आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियो३ं

वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उस्रिया अनो३म् (१ । ६ । ७,४,५)

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नवो३म्

इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । तद्विदच्छर्यणावतो३म्

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहो३म् (१ । ८४ । १३-१५)

उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः । सोममिन्द्र चमू सुतो३म्

अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् । इन्द्र यद्दस्युहाभवो३ं

वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् । इन्द्रात्परि तन्वं ममो३म् (८ । ७६ । १०-१२)

भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भरो३ं

यद्वीळाविन्द्र यत् स्थिरे यत्पर्शाने पराभृतम् । वसु स्पार्हं तदा भरो३ं

यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भरो३म् (८ । ४५ । ४०-४२)

उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्यो३ं

नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधो३ं

शो३ंसावो३ं स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । उरुधारेव दोहतो३म् [८ । ९३ । १-३]

इति त्रिः परिदध्यात् । उक्थं वाचि इति शस्त्वा जपः ।

[[३४९]]

ये३ यजामह इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत पिबा वृषस्व तातृपी३ं वौ३षट् ॥ [३ । ४० । २]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

अच्छावाकशस्त्रम्

अथाच्छावाकशस्त्रम् ।

प्रस्तोत्रा एष इति प्रोक्त उद्गातुर्हिङ्कारे हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

स्तोत्रियः-

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषितो३म् इति त्रिः

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमं सुतो३म्

इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पतो३ं [३ । १२ । १-३]

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । कृष्णा कृणोति जिह्वयो३ं

य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपो३ं

ता नो वाजवतीरिष आशून् पिपृतमर्वतः । इन्द्रमग्निं च वोह्ळवो३म् (६ । ६० । १०-१२)

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषितो३म्

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमं सुतो३म्

इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पतो३ं [३ । १२ । १-३]

अनुरूपः-

शो३ंसावो३म् इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या अनो३म्

इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तूर्यं हितो३म्

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यो३ं [३ । १२ । ७-९]

आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् । रसा दधीत वृषभो३म्

ते जानत स्वमोक्यं सं वत्सासो न मातृभिः । मिथो नसन्त जामिभो३म्

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वो३म् (८ । ७२ । १३-१५)

इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या अनो३म्

इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तूर्यं हितो३म्

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यो३ं [३ । १२ । ७-९]

नाभाकस्तृचो गायत्रीकारशस्यः-

ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवो३म्

पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा । नभन्तामन्यके समो३म्

अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा । ययोर्विश्वमिदं जगो३म्

[[३५०]]

इयं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु । नभन्तामन्यके समो३म्

प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत । या सप्तबुध्नमर्णवो३ं

जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा । नभन्तामन्यके समो३म् (८ । ४० । ३-५)

षडहस्तोत्रियाः-

इन्द्रे अग्ना नमो बृहत् सुवृक्तिमेरयामहे । धिया धेना अवस्यवो३ं

ता हि शश्वन्त ईळत इत्था विप्रास ऊतये । सबाधो वाजसातयो३ं

ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवो३म्

ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । इन्द्राग्नी न मर्धतो३म्

उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ता नो मृळात ईदृशो३ं

हतो वृत्राण्यार्या हतो दासानि सत्पती । हतो विश्वा अप द्विषो३म् (६ । ६० । ४-६)

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनो३ं

शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियो३म्

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये । मनो रीरधतं निदो३म् [७ । ९४ । १-३]

इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत । पिबतं शम्भुवा सुतो३ं

या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरा गतो३ं

ताभिरा गच्छतं नरोपेदं सवनं सुतम् । इन्द्राग्नी सोमपीतयो३ं (६ । ६० । ७-९)

यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतो३ं

तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतो३म्

इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतो३म् (८ । ३८ । १-३)

इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा । मा नो दुःशंस ईशतो३ं

मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । इन्द्राग्नी शर्म यच्छतो३ं

शो३ंसावो३ं गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहो३म् [७ । ९४ । ७-९]

इति त्रिः परिदध्यात् । उक्थं वाचि इति शस्त्वा जपः ।

ये३ यजामह इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यमस्य पातं धियेषिता३ वौ३षट् ॥ [३ । १२ । १]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

माध्यन्दिनं सवनम्

अथ माध्यन्दिनं सवनम् ॥

मरुत्वतीयशस्त्रम् ।

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३म्

[[३५१]]

स्तोत्रियानुरूपौ-

आ त्वा रथं यथितये सुम्याय वर्तयामसि ।

तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पतो३ं इति त्रिः

तुविशुष्म तुविक्रतो शचीवो विश्वया मते । आ पप्राथ महित्वनो३ं

यस्य ते महिना महः परिज्मायन्तमीयतुः । हस्ता वज्रं हिरण्ययो३ं [८ । ६८ । १-३]

शो३ंसावो३म् इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन् ररिमा तो३ं

नृभिर्धूत्तः सुतो अश्नैरव्यो वारैः परिपूतः । अश्वो न निक्तो नदीषो३ं

तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । इन्द्र त्वास्मिन् त्सदमादो३ं [८ । २ । १-३]

इन्द्रनिहवः प्रगाथः-

शो३ंसावो३म् इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

आ शन्तम शन्तमाभिरभिष्टिभिरास्वापे स्वापिभो३म्

आ स्वापे स्वापिभिराजितुरं सत्पतिं विश्वचर्षणिम् । कृधि प्रजास्वाभगो३ं

कृधि प्रजास्वाभगं प्र सू तिरा शचीभिर्ये त उक्थिनः । क्रतुं पुनत आनुषो३ं [८ । ५३ । ५-६]

ब्राह्मणस्पत्यः प्रगाथः, एषां सकृत्पृथग्वा आह्वानम्-

शो३ंसावो३ं प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।

अच्छा वीरं नर्यं पड्क्तिराधसं देवा यज्ञं नयन्तु नो३ं

देवा यज्ञं नयन्तु नो यो वाघते ददाति सूनरं वसु । स धत्ते अक्षिति श्रवो३ं

स धत्ते अक्षिति श्रवस्तस्मा इळां सुवीरामा यजामहे । सुप्रतूर्तिमनेहसो३म् (१ । ४० । ३-४)

शो३ंसावो३म् उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।

उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचो३म्

इन्द्र प्राशूर्भवा सचा त्वामिद्धि सहसस्पुत्र मर्त्यः । उपब्रूते धने हितो३म्

उपब्रूते धने हिते सुवीर्यं मरुत आ स्वश्व्यम् । दधीत यो व आचको३ं (१-४० । १-२)

शो३ंसावो३म् प्र नूनं ब्रह्मणस्पतिं मन्त्रं वदत्युक्थ्यम् ।

यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरो३ं

देवा ओकांसि चक्रिरे तमिद्वोचेमा विदथेषु शम्भुवम् । मन्त्रं देवा अनेहसो३ं

मन्त्रं देवा अनेहसमिमां च वाचं प्रतिहर्यथा नरः । विश्वेद् वामा वो अश्नवो३ं [१ । ४० । ५-६]

धाय्याः-

शो३ंसावो३म् अग्निर्नेता भग इव क्षितीनाम् । दैवीनां देव ऋतुपा ऋतावो३ं

स वृत्रहा सनयो विश्ववेदाः । पर्षद्विश्वानि दुरिता गृणन्तो३ं [३ । २० । ४]

[[३५२]]

शो३ंसावो३ं त्वं सोम क्रतुभिः सुक्रतूर्भूः । त्वं दक्षैः सुदक्षो विश्ववेदो३ं

त्वं वृषा वृषत्वेभिर्महित्वा । द्युम्नेभिर्द्युम्न्यभवो नृचक्षो३ं [१ । ९१ । २]

शो३ंसावो३ं पिन्वन्त्यपो मरुतः सुदानवः । पयो घृतवद्विदथेष्वाभुवो३म्

अत्यं न मिहे विनयन्ति वाजिनम् । उत्सं दुहन्ति स्तनयन्तमक्षितो३ं [१ । ६४ । ६]

मरुत्वतीयः प्रगाथः, सकृत्पृथग्वाह्वानम्-

शो३ंसावो३ं प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।

वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणो३म्

अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।

अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वो३ं [८ । ८९ । ३-४]

शो३ंसावो३म् बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।

येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवो३म्

अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।

देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गणो३ं (८ । ८९ । १-२)

शो३ंसावो३म् नकिः सुदासो रथं पर्यास न रीरमत् ।

इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजो३ं

गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।

अस्माकं बोध्यविता रथानामस्माकं शूर नृणो३ं (७ । ३२ । १०-११)

शो३ंसावो३ं कया शुभा सवयसः सनीळाः । समान्या मरुतः सं मिमिक्षो३ं

कया मती कुत एतास एते । अर्चन्ति शुष्मं वृषणो वसूयो३ं

कस्य ब्रह्माणि जुजुषुर्युवानः । को अध्वरे मरुत आ ववर्तो३ं

श्येनाँ इव ध्रजतो अन्तरिक्षे । केन महा मनसा रीरमामो३ं

कुतस्त्वमिन्द्र माहिनः सन् । एको यासि सत्पते किं त इत्थो३ं

सं पृच्छसे समराणः शुभानैः । वोचेस्तन्नो हरिवो यत्ते अस्मो३म्

ब्रह्माणि मे मतयः शं सुतासः । शुष्म इयर्ति प्रभृतो मे अद्रो३म्

आ शासते प्रति हर्यन्त्युक्था । इमा हरी वहतस्ता नो अच्छो३म्

अतो वयमन्तमेभिर्युजानाः । स्वक्षत्रेभिस्तन्वः शुम्भमानो३म्

महोभिरेताँ उप युज्महे नु । इन्द्र स्वधामनु हि नो बभूथो३ं

क्व स्या वो मरुतः स्वधासीत् । यन्मामेकं समधत्ताहिहत्यो३म्

अहं ह्युग्रस्तविषस्तुविष्मान् । विश्वस्य शत्रोरनमं वधस्नो३म्

[[३५३]]

भूरि चकर्थ युज्येभिरस्मे । समानेभिर्वृषभ पौंस्येभो३म्

भूरीणि हि कृणवामा शविष्ठ । इन्द्र क्रत्वा मरुतो यद्वशामो३ं

वधीं वृत्रं मरुत इन्द्रियेण । स्वेन भामेन तविषो बभूवो३म्

अहमेता मनवे विश्वश्चन्द्राः । सुगा अपश्चकर वज्रबाहो३म्

अनुत्तमा ते मघवन्नकिर्नु । न त्वावाँ अस्ति देवता विदानो३ं

न जायमानो नशते न जातः । यानि करिष्या कृणुहि प्रवृद्धो३म्

एकस्य चिन्मे विभ्वस्त्वोजः । या नु दधृष्वान् कृणवै मनीषो३म्

अहं ह्युग्रो मरुतो विदानः । यानि च्यवमिन्द्र इदीश एषो३म्

अमन्दन्मा मरुत स्तोमो अत्र । यन्मे नरः श्रुत्यं ब्रह्म चक्रो३म्

इन्द्राय वृष्णे सुमखाय मह्यम् । सख्ये सखायस्तन्वे तनूभो३म्

एवदेते प्रति मा रोचमानाः । अनेद्यः श्रव एषो दधानो३ं

संचक्ष्या मरुतश्चन्द्रवर्णाः । अच्छान्त मे छदयाथा च नूनो३ं

को न्वत्र मरुतो मामहे वः । प्र यातन सखीँरच्छा सखायो३ं

मन्मानि चित्रा अ्रपवातयन्तः । एषां भूत नवेदा म ऋतानो३म्

आ यद्दुवस्याद्दुवसे न कारुः । अस्माञ्चक्रे मान्यस्य मेधो३म्

ओ षु वर्त्त मरुतो विप्रमच्छा । इमा ब्रह्माणि जरिता वो अर्चो३म्

एष व स्तोमो मरुत इयं गीः । मान्दार्यस्य मान्यस्य कारो३म्

एषा यासीष्ट तन्वे वयाम् । विद्यामेषं वृजनं जीरदानो३ं (१ । १६५ । १-१५)

निविद्धानीयम्-

शो३ंसावो३ं जनिष्ठा उग्रः सहसे तुराय । मन्द्र ओजिष्ठो बहुलाभिमानो३म्

अवर्धन्निन्द्रं मरुतश्चिदत्त्र । माता यद्वीरं दधनद्धनिष्ठो३ं

द्रुहो निषत्ता पुशनी चिदेवैः । पुरूशंसेन वावृधुष्ट इन्द्रो३म्

अभीवृतेव ता महापदेन । ध्वान्तात् प्रपित्वादुदरन्त गर्भो३म्

ऋष्वा ते पादा प्र यज्जिगासि । अवर्धन् वाजा उत ये चिदत्रोप्३ं

त्वमिन्द्र सालाव्रुकान् त्सहस्रम् । आसन् दधिषे अश्विना ववृत्यो३ं

समना तूर्णिरुप याहि यज्ञम् । आ नासत्या सख्याय वक्षो३ं

वसाव्यामिन्द्र धारयः सहस्रा । अश्विना शूर ददतुर्मघानो३ं

मन्दमान ऋतादधि प्रजायै । सखिभिरिन्द्र इषिरेभिरर्थो३म्

आभिर्हि माया उप दस्युमागात् । मिहः प्र तम्रा अवपत् तमांसो३ं

[[३५४]]

सनामाना चिद्ध्वसयो न्यस्मै । अवाहन्निन्द्र उषसो यथा नो३म्

ऋष्वैरगच्छः सखिभिर्निकामैः । साकं प्रतिष्ठा हृद्या जघन्थो३ं

शो३ंसावो३म् इन्द्रो मरुत्वान् त्सोमस्य पिबतु । मरुत्स्तोत्रो मरुद्गणः । मरुत्सखा मरुद्वृधः । घ्नन् वृत्रा सृजदपः । मरुतामोजसा सह । य ईमेनं देवा अन्वमदन् । अप्तूर्ये वृत्रतूर्ये । शम्बरहत्ये गविष्टौ । अर्चन्तं गुह्या पदा । परमस्यां परावति । आदीं ब्रह्माणि वर्धयन् । अनाधृष्टान्योजसा । कृण्वन् देवेभ्यो दुवः । मरुद्भिः सखिभिः सह । इन्द्रो मरुत्वाँ इह श्रवदिह सोमस्य पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

त्वं जघन्थ नमुचिं मखस्युम् । दासं कृण्वान ऋषये विमायो३ं

त्वं चकर्थ मनवे स्योनान् । पयो देवत्राञ्जसेव यानो३ं

त्वमेतानि पप्रिषे वि नाम । ईशान इन्द्र दधिषे गभस्तो३म्

अनु त्वा देवाः शवसा मदन्ति । उपरिबुध्नान् वनिनश्चकर्थो३ं

चक्रं यदस्याप्स्वा निषत्तम् । उतो तदस्मै मध्विच्चच्छद्यो३ं

पृथिव्यामतिषितं यदूधः । पयो गोष्वदधा ओषधीषो३म्

अश्वादियायेति यद्वदन्ति । ओजसो जातमुत मन्य एनो३ं

मन्योरियाय हर्म्येषु तस्थौ । यतः प्र जज्ञ इन्द्रो अस्य वेदो३ं

शो३ंसावो३ं वयः सुपर्णा उप सेदुरिन्द्रम् । प्रियमेधा ऋषयो नाधमानो३म्

अप ध्वान्तमूर्णुहि पूर्धि चक्षुः । मुमुग्ध्यस्मान् निधयेव बद्धो३म् [१० । ७३ । १-११] इति अक्षिणी मृजानस्त्रिः परिदध्याद् ध्यायन्नेन आत्मनः । उक्थं वाचीन्द्राय शृण्वते त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे ये त्वाहिहत्ये मघवन्नवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।

ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भी३ र्वौ३षट् ॥ [३ । ४७ । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ॥

निष्केवल्यशस्त्रम्

अथ निष्केवल्यशस्त्रम् ।

बृहद्वैराजबृहदित्येवं गर्भकारस्तोत्रम् एकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

स्तोत्रियानुरूपौ-

त्वामिद्धि हवामहे साता वाजस्य कारवः ।

त्वां वृत्रेषिन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतो३ं इति त्रिः

नरस्त्वां काष्ठास्वर्वतः स त्वं नश्चित्र वज्रहस्त धृष्णुया । महः स्तवानो अद्रिवो३ं

[[३५५]]

महस्तवानो अद्रिवो गामश्वं रथ्यमिन्द्र सं किर । सत्रा वाजं न जिग्युषो३ं [६ । ४६ । १-२]

पिबा सोममिन्द्र मन्दतु त्वा । यं तो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ सुषाव हर्यश्वाद्रिः ।

सोतुर्बाहुभ्यां सुयतो नार्वो३ं

यस्ते मदो युज्यश्चारुरस्ति । येनो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ वृत्राणि हर्यश्व हंसि ।

स त्वामिन्द्र प्रभूवसो ममत्तो३म्

बोधा सु मे मघवन्वाचमेमाम् । यां तो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्वो३ं (७ । २२ । १-३)

त्वामिद्धि हवामहे साता वाजस्य कारवः ।

त्वां वृत्रेषिन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतो३ं

नरस्त्वां काष्ठास्वर्वतः स त्वं नश्चित्र वज्रहस्त धृष्णुया । महः स्तवानो अद्रिवो३ं

महस्तवानो अद्रिवो गामश्वं रथ्यमिन्द्र सं किर । सत्रा वाजं न जिग्युषो३ं [६ । ४६ । १-२]

शो३ंसावो३ं त्वं ह्येहि चेरवे विदा भगम् वसुत्तये ।

उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टयो३म्

उदिन्द्राश्वमिष्टये त्वं पुरू शहस्राणि शतानि च । यूथा दानाय मंहसो३ं

यूथा दानाय मंहस आ पुरन्दरं चकृम विप्रवचसः । इन्द्रं गायन्तोऽवसो३म् [८ । ६१ । ७-८]

श्रुधी हवं विपिपानस्याद्रेः । बोधो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ विप्रस्यार्चतो मनीषाम् ।

कृष्वा दुवांस्यन्तमा सचेमो३ं

न ते गिरो अपि मृष्ये तुरस्य । न सो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ष्टुतिमसुर्यस्य विद्वान् ।

सदा ते नाम स्वयशो विवक्मो३म्

भूरि हि ते सवना मानुषेषु । भूरो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ मनीषी हवते त्वामित् ।

मारे अस्मन्मघवञ्ज्योक् को३ं (७ । २२ । ४-६)

त्वं ह्येहि चेरवे विदा भगम् वसुत्तये ।

उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टयो३म्

उदिन्द्राश्वमिष्टये त्वं पुरू शहस्राणि शतानि च । यूथा दानाय मंहसो३ं

यूथा दानाय मंहस आ पुरन्दरं चकृम विप्रवचसः । इन्द्रं गायन्तोऽवसो३म् [८ । ६१ । ७-८]

धाय्या-

शो३ंसावो३ं यद्वावान पुरुतमं पुराषाट् । आ वृत्रहेन्द्रो नामान्यप्रो३म्

अचेति प्रासहस्पतिस्तुविष्मान् । यदीमुश्मसि कर्तवे करत् तो३ं [१० । ७४ । ६]

सामप्रगाथाः सकृत्पृथग्वाह्वानम्-

[[३५६]]

शो३ंसावो३म् अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।

ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषो३ं

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।

अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहो३म् [७ । ३२ । २२-२३]

शो३ंसावो३म् उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।

स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मो३ं

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।

उ॒तोप॒मानां॑ प्रथ॒मो निषी॑दसि॒ सोम॑कामं॒ हि ते मनो३म् । [८ । ६१ । १-२]

शो३ंसावो३ं त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।

अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तो३म्

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।

विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सो३ं (८ । ९९ । ५-६)

शो३ंसावो३ं तदिदास भुवनेषु ज्येष्ठम् । यतो जज्ञ उग्रस्त्वेषनृम्णो३ं

सद्यो जज्ञानो नि रिणाति शत्रून् । अनु यं विश्वे मदन्त्यूमो३ं

वावृधानः शवसा भूर्योजाः । शत्रुर्दासाय भियसं दधातो३म्

अव्यनच्च व्यनच्च सस्नि । सं ते नवन्त प्रभृता मदेषो३ं

त्वे क्रतुमपि वृञ्जन्ति विश्वे । द्विर्यदेते त्रिर्भवन्त्यूमो३ं

स्वादोः स्वादीयः स्वादुना सृजा सम् । अदः सु मधु मधुनाभि योधो३म्

इति चिद्धि त्वा धना जयन्तम् । मदे मदे अनुमदन्ति विप्रो३म्

ओजीयो धृष्णो स्थिरमा तनुष्व । मा त्वा दभन् यातुधाना दुरेवो३ं

त्वया वयं शाशद्महे रणेषु । प्रपश्यन्तो युधेन्यानि भूरो३ं

चोदयामि त आयुधा वचोभिः । सं ते शिशामि ब्रह्मणा वयांसो३ं

स्तुषेय्यं पुरुवर्पसमृभु । अमिनतममाप्त्यमाप्त्यानो३म्

आ दर्षते शवसा सप्त दानून् । प्र साक्षते प्रतिमानानि भूरो३ं

नि तद्दधिषेऽवरं परं च । यस्मिन्नाविथावसा दुरोणो३म्

आ मातरा स्थापयसे जिगत्नू । अत इनोषि कर्वरा पुरूणो३म्

इमा ब्रह्म बृहद्दिवो विवक्ति । इन्द्राय शूषमग्रियः स्वर्षो३म्

महो गोत्रस्य क्षयति स्वराजः । दुरश्च विश्वा अवृणोदप स्वो३म्

एवा महान् बृहद्दिवो अथर्वा । अवोचत्स्वां तन्वमिन्द्रमेवो३ं

[[३५७]]

स्वसारो मातरिभ्वरीररिप्राः । हिन्वन्ति च शवसा वर्धयन्ति चो३ं (१० । १२० । १-९)

शो३ंसावो३म् इन्द्रस्य नु वीर्याणि प्रवोचम् । यानि चकार प्रथमानि वज्रो३म्

अहन्नहिमन्वपस्ततर्द । प्र वक्षणा अभिनत् पर्वतानो३म्

अहन्नहिं पर्वते शिश्रियाणम् । त्वष्टास्मै वज्रं स्वर्यं ततक्षो३ं

वाश्रा इव धेनवः स्यन्दमानाः । अञ्जः समुद्रमव जग्मुरापो३ं

वृषायमाणोऽवृणीत सोमम् । त्रिकद्रुकेष्वपिबत् सुतस्यो३म्

आ सायकं मघवादत्त वज्रम् । अहन्नेनं प्रथमजामहीनो३ं

यदिन्द्राहन् प्रथमजा महीनाम् । आन्मायिनाममिनाः प्रोत मायो३म्

आत् सूर्यं जनयन् द्यामुषासम् । तादीत्ना शत्रुं न किला विवित्सो३म्

अहन् वृत्रं वृत्रतरं व्यंसम् । इन्द्रो वज्रेण महता वधेनो३ं

स्कन्धांसीव कुलिशेना विवृक्णा । अहिः शयत उपपृक् पृथिव्यो३म्

अयोद्धेव दुर्मद आ हि जुह्वे । महावीरं तुविबाधमृजीषो३ं

नातारीदस्य समृतिं वधानाम् । सं रुजानाः पिपिष इन्द्रशत्रो३म्

अपादहस्तो अपृतन्यदिन्द्रम् । आस्य वज्रमधि सानौ जघानो३ं

वृष्णो वध्रिः प्रतिमानं बुभूषन् । पुरुत्रा वृत्रो अशयद्व्यस्तो३ं

नदं न भिन्नममुया शयानम् । मनो रुहाणा अति यन्त्यापो३ं

याश्चिद्वृत्रो महिना पर्यतिष्ठत् । तासामहिः पत्सुतःशीर्बभूवो३ं

शो३ंसावो३म् इन्द्रो देवः सोमं पिबतु । एकजानां वीरतमः । भूरिजानां तवस्तमः । हर्योःस्थाता । पृश्नेः प्रेता । वज्रस्य भर्ता । पुरां भेत्ता । अपां स्रष्टा । अपां नेता । सत्वनां नेता । निजघ्निर्दूरेश्रवाः । उपमातिकृद्दंसनावान् । इहोशन् देवो बभूवान् । इन्द्रो देव इह श्रवदिह सोमस्य पिबतु । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

नीचावया अभवद् वृत्रपुत्रा । इन्द्रो अस्या अव वधर्जभारो३म्

उत्तरा सूरधरः पुत्र आसीत् । दानुः शये सह वत्सा न धेनो३म्

अतिष्ठन्तीनामनिवेशनानाम् । काष्ठानां मध्ये निहितं शरीरो३ं

वृत्रस्य निण्यं विचर्न्त्यापः । दीर्घं तम आशयदिन्द्रशत्रो३ं

दासपत्नीरहिगोपा अतिष्ठन् । निरुद्धा आपः पणिनेव गावो३म्

अपां बिलमपिहितं यदासीत् । वृत्रं जघन्वाँ अप तद्ववारो३म्

अश्व्यो वारो अभवस्तदिन्द्र । सृके यत् त्वा प्रत्यहन् देव एको३म्

अजयो गा अजयः शूर सोमम् । अवासृजः सर्तवे सप्त सिन्धो३ं

[[३५८]]

नास्मै विद्युन्न तन्यतुः सिषेध । न यां मिहमकिरद्ध्रादुनिं चो३म्

इन्द्रश्च यद्युयुधाते अहिश्च । उतापरीभ्यो मघवा वि जिग्यो३म्

अहेर्यातारं कमपश्य इन्द्र । हृदि यत् तेजघ्नुषो भीरगच्छो३ं

नव च यन्नवतिं च स्रवन्तीः । श्येनो न भीतो अतरो रजांसो३ं

शो३ंसावो३म् इन्द्रो यातोऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहो३ं

सेदु राजा क्षयति चर्षणीनाम् । अरान् न नेमिः परि ता बभूवो३म् [३ । ३२ । १-१५] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्रायोपशृण्वते त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

सोतुर्बाहुभ्यां सुयतो नार्वा३ वौ३षट् ॥ [७ । २२ । १]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

मैत्रावरुणशस्त्रम् ।

वामदेव्यशाक्वरगर्भकारस्तोत्रम् चतुर्विंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

स्तोत्रियानुरूपौ-

कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृतो३ं

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळा चिदारुजे वसो३म्

अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभो३ं (४ । ३१ । १-३)

विदा मघवन् विदा गातुमनु शंसिषो दिशः

शिक्षा शचीनां पते पूर्वीणां पुरूवस

आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय ।

इन्द्र द्युम्नाय न इष एवा हि शक्रो

राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे

मंहिष्ठ वज्रिन्नृञ्जस आ याहि पिब मत्स्वो३ं

विदा राये सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु

मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणां

यो मंहिष्ठो मघोनां चिकित्वाँ अभि नो नय ।

इन्द्रो विदे तमु स्तुषे वशी हि शक्रस्-

तमूतये हवामहे जेतारमपराजितं

[[३५९]]

स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहो३म्

इन्द्रं धनस्य सातये हवामहे जेतारमपराजितं

स नः पर्षदति द्विषः स नः पर्षदति स्रिधः

पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो ।

पूर्तिः शविष्ठ शश्वत ईशे हि शक्रो

नूनं तं नव्यं मन्यसे प्रभो जनस्य वृत्रहन्

समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयो३म्

एवा ह्येवैवा ह्यग्ना३ इ । एवा ह्येवैवा हि विष्णा३ उ ।

एवा ह्येवैवा हीन्द्रा३ । एवा ह्येवैआ हि पूषा३न् । एवा ह्येवैवा हि देवा३ः ।

एवा हि शक्रो वशी हि शक्रो वशाँ अनु ।

आयो मन्याय मन्यव उपो मन्याय मन्यव उपेहि विश्वथ ।

विदा मघवन् विदो३ं [ऐ.आ.४]

कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृतो३ं

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळा चिदारुजे वसो३म्

अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभो३ं (४ । ३१ । १-३)

शो३ंसावो३ं कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भरो३

कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतयो३म्

अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् । प्रयन्ता बोधि दाशुषो३ं (८ । ९३ । १९-२१)

स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यो

या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।

प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसो

व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यो३म् (१ । ८४ । १०-१२)

उप नो हरिभिः सुतं याहि मदानां पत उप नो हरिभिः सुतं

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतं

त्वं हि वृत्रहन्नेषां पाता सोमानामस्युप नो हरिभिः सुतो३म् (८ । ९३ । ३१-३३)

इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरो रथीतमं रथीनां वाजानां सत्पतिं पतिं

सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । त्वामभि प्र णोनुमो जेतारमपराजितो३म्

[[३६०]]

पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयो यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघो३म् (१ । ११ । १-३)

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भरो३

कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतयो३म्

अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् । प्रयन्ता बोधि दाशुषो३ं (८ । ९३ । १९-२१)

ऐकाहिकः प्रगाथः-

शो३ंसावो३ं कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।

श्रद्धा इत्ते मघवन् पार्ये दिवि वाजी वाजं सिषासतो३म्

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।

तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरितो३म् (७ । ३२ । १४-१५)

सामप्रगाथः-

मो षु त्वा वाघतश्चनारे अस्मन्निरीरमन् ।

आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधो३म्

इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।

इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधू

रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवो३ं (७ । ३२ । १-३)

सामसूक्तम्-

शो३ंसावो३ं सत्रा मदासस्तव विश्वजन्याः । सत्रा रायोऽध ये पार्थिवासो३ं

सत्रा वाजानामभवो विभक्ता । यद्देवेषु धारयथा असुर्यो३म्

अनु प्र येजे जन ओजो अस्य । सत्रा दधिरे अनु वीर्यायो३ं

स्यूमगृभे दुधयेऽर्वते च । क्रतुं वृञ्जन्त्यपि वृत्रहत्यो३ं

तं सध्रीचीरूतयो वृष्ण्यानि । पौंस्यानि नियुतः सश्चुरिन्द्रो३ं

समुद्रं न सिन्धव उक्थशुष्माः । उरुव्यचसं गिर आ विशन्तो३ं

स रायस्खामुप सृजा गृणानः । पुरुश्चन्द्रस्य त्वमिन्द्र वस्वो३म्

पतिर्बभूथासमो जनानाम् । एको विश्वस्य भुवनस्य राजो३ं

स तु श्रुधि श्रुत्या यो दुवोयुः । द्यौर्न भूमाभि रायो अर्यो३म्

असो यथा नः शवसा चकानः । युगे युगे वयसा चेकितानो३म्

अहीनसूक्तम्-

आ सत्यो यातु मघवाँ ऋजीषी । द्रवन्त्वस्य हरय उप नो३ं

तस्मा इदन्धः सुषुमा सुदक्षम् । इहाभिपित्वं करते गृणानो३म्

[[३६१]]

अव स्य शूराध्वनो नान्ते । अस्मिन्नो अद्य सवने मन्दध्यो३ं

शंसात्युक्थमुशनेव वेधाः । चिकितुषे असुर्याय मन्मो३ं

कविर्न निण्यं विदथानि साधन् । वृषा यत्सेकं विपिपानो अर्चो३ं

दिव इत्था जीजनत्सप्त कारून् । अह्ना चिच्चक्रुर्वयुना गृणन्तो३ं

स्वर्यद्वेदि सुदृशीकमर्कैः । महि ज्योती रुरुचुर्यद्ध वस्तो३म्

अन्धा तमांसि दुधिता विचक्षे । नृभ्यश्चकार नृतमो अभिष्टो३ं

ववक्ष इन्द्रो अमितमृजीषी । उभे आ पप्रौ रोदसी महित्वो३म्

अतश्चिदस्य महिमा वि रेचि । अभि यो विश्वा भुवना बभूवो३ं

विश्वानि शक्रो नर्याणि विद्वान् । अपो रिरेच सखिभिर्निकामो३म्

अश्मानं चिद्ये बिभिदुर्वचोभिः । व्रजं गोमन्तमुशिजो वि वव्रो३म्

अपो वृत्रं वव्रिवांसं पराहन् । प्रावत्ते वज्रं पृथिवी सचेतो३म्

प्रार्णांसि समुद्रियाण्यैनोः । पतिर्भवञ्छवसा शूर धृष्णो३म्

अपो यदद्रिं पुरुहूत दर्दः । आविर्भुवत्सरमा पूर्व्यं तो३ं

स नो नेता वाजमा दर्षि भूरिम् । गोत्रा रुजन्नङ्गिरोभिर्गृणानो३म्

अच्छा कविं नृमणो गा अभिष्टौ । स्वर्षाता मघवन्नाधमानो३म्

ऊतिभिस्तमिषणो द्युम्नहूतौ । नि मायावानब्रह्मा दस्युरर्तो३म्

आ दस्युघ्ना मनसा याह्यस्तम् । भुवत्ते कुत्सः सख्ये निकामो३ं

स्वे योनौ नि षदतं सरूपा । वि वां चिकित्सदृतचिद्ध नारो३ं

यासि कुत्सेन सरथमवस्युः । तोदो वातस्य हर्योरीशानो३म्

ऋज्रा वाजं न गध्यं युयूषन् । कविर्यदहन् पार्याय भूषो३ं

कुत्साय शुष्णमशुषं नि बर्हीः । प्रपित्वे अह्नः कुयवं सहस्रो३ं

सद्यो दस्यून्प्र मृण कुत्स्येन । प्र सूरश्चक्रं वृहतादभीको३ं

त्वं पिप्रुं मृगयं शूशुवांसम् । ऋजिश्वने वैदथिनाय रन्धो३म्

पञ्चाशत्कृष्णा नि वपः सहस्रा । अत्कं न पुरो जरिमा वि दर्दो३ं

सूर उपाके तन्वं दधानः । वि यत्ते चेत्यमृतस्य वर्पो३म्

मृगो न हस्ती तविषीमुषाणः । सिंहो न भीम आयुधानि बिभ्रो३म्

इन्द्रं कामा वसूयन्तो अग्मन् । स्वर्मीळ्हे न सवने चकानो३ं

श्रवस्यवः शशमानास उक्थैः । ओको न रण्वा सुदृशीव पुष्टो३ं

तमिद्व इन्द्रं सुहवं हुवेम । यस्ता चकार नर्या पुरूणो३ं

[[३६२]]

यो मावते जरित्रे गध्यं चित् । मक्षू वाजं भरति स्पार्हराधो३ं

तिग्मा यदन्तरशनिः पताति । कस्मिञ्चिच्छूर मुहुके जनानो३ं

घोरा यदर्य समृतिर्भवाति । अध स्मा नस्तन्वो बोधि गोपो३म्

भुवोऽविता वामदेवस्य धीनाम् । भुवः सखावृको वाजसातो३ं

त्वामनु प्रमतिमा जगन्म । उरुशंसो जरित्रे विश्वध स्यो३म्

एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा । मघवद्भिर्मघवन् विश्व आजो३ं

द्यावो न द्युम्नैरभि सन्तो अर्यः । क्षपो मदेम शरदश्च पूर्वो३म्

एवेदिन्द्राय वृषभाय वृष्णे । ब्रह्माकर्म भृगवो न रथो३ं

नू चिद्यथा नः सख्या वियोषत् । असन्न उग्रोऽविता तनूपो३ं

नू ष्टुत इन्द्र नू गृणानः । इषं जरित्रे नद्यो न पीपो३म्

अकारि ते हरिवो ब्रह्म नव्यं । धिया स्याम रथ्यः सदासो३म् (४ । १६ । १-२१)

ऐकाहिकसूक्तम्-

एवा त्वामिन्द्र वज्रिन्नत्र । विश्वे देवासः सुहवास ऊमो३ं

महामुभे रोदसी वृद्धमृष्वम् । निरेकमिद्वृणते वृत्रहत्यो३म्

अवासृजन्त जिव्रयो न देवाः । भुवः स्म्राळिन्द्र सत्ययोनो३म्

अहन्ननिं परिशयानमर्णः । प्र वर्तनीररदो विश्वधेनो३म्

अतृप्णुवन्तं वियतमबुध्यम् । अबुध्यमाणं सुषुपाणमिन्द्रो३ं

सप्त प्रर्ति प्रवत आशयानम् । अहिं वज्रेण वि रिणा अपर्वो३म्

अक्षोदयच्छवसा क्षाम बुध्नम् । वार्ण वातस्तविषीभिरिन्द्रो३ं

दृह्ळान्यौभ्नादुशमान ओजः । अवाभिनत् ककुभः पर्वतानो३म्

अभि प्र दद्रुर्जनयो न गर्भम् । रथा इव प्र ययुः साकमद्रयो३म्

अतर्पयो विसृत उब्ज ऊर्मीन् । त्वं वृताँ अरिणा इन्द्र सिन्धो३ं

त्वं महीमवनिं विश्वधेनाम् । तुर्वीतये वय्याय क्षयन्तो३म्

अरमयो नमसैजदर्णः । सुतरणाँ अकृणोरिन्द्र सिन्धो३ं

प्राग्रुवो नभन्वो न वक्वाः । ध्वस्रा अपिन्वद् युवतीर्ऋतज्ञो३ं

धन्वान्यज्राँ अपृणक् तृषाणान् । अधोगिन्द्रः स्तर्यो दंसुपत्नो३ं

पूर्वीरुषसः शरदश्च गूर्ताः । वृत्रं जघन्वाँ असृजद्वि सिन्धो३ं

परिष्ठिता अतृणद्बद्बधानाः । सीरा इन्द्रः स्रवितवे पृथिव्यो३ं

वम्रीभिः पुत्रमग्रुवो अदानम् । निवेशनाद्धरिव आ जभर्थो३ं

[[३६३]]

व्यन्धो अख्याहिमाददानः । निर्भूदुखच्छित् समरन्त पर्वो३ं

प्र ते पूर्वाणि करणानि विप्र । आविद्वाँ आह विदुषे करांसो३ं

यथायथा वृष्ण्यानि स्वगूर्ता । अपांसि राजन् नर्याविवेषो३ं

शो३ंसावो३ं नू ष्टुत इन्द्र नू गृणानः । इषं जरित्रे नद्यो न पीपो३म्

अकारि ते हरिवो ब्रह्म नव्यम् । धिया स्याम रथ्यः सदासो३म् [४ । १९ । १-११] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामह उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।

पा इन्द्रस्य प्रति भृतस्य मध्वः समन्धसा ममदः पृष्ठ्येना३ वौ३षट् ॥ [४ । २० । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

ब्राह्मणाच्छंसिशस्त्रम् ।

नौधसवैरूपपृष्ठे श्यैतवैरूपे वा पृष्ठे गर्भकारस्तोत्रम् चतुश्चत्वारिंशत्स्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

स्तोत्रियानुरूपौ-

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३ं

सहस्रेणेव शिक्षति शतानीकेव प्र जिगाति धृष्णुया । हन्ति वृत्राणि दाशुषो३ं

हन्ति वृत्राणि दाशुषे गिरेरिव प्र रसा अस्य पिन्विरे । दत्राणि पुरुभोजसो३म् (८ । ४९ । १-२)

यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।

न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसो३ं

न जातमष्ट रोदसी आ पप्राथ महिना वृष्ण्या वृषन् । विश्वा शविष्ठ शवसो३म्

विश्वा शविष्ठ शवसास्माँ अव मघवन् गोमति व्रजे । वज्रिञ्चित्राभिरूतिभो३म् (८ । ७० । ५-६)

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३ं

सहस्रेणेव शिक्षति शतानीकेव प्र जिगाति धृष्णुया । हन्ति वृत्राणि दाशुषो३ं

हन्ति वृत्राणि दाशुषे गिरेरिव प्र रसा अस्य पिन्विरे । दत्राणि पुरुभोजसो३म्

शो३ंसावो३म् प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहतो३ं

सहस्रेणेव मंहते शतानीका हेतयो अस्य दुष्टराः । इन्द्रस्य समिषो महो३म्

[[३६४]]

इन्द्रस्य समिषो महीर्गिरिर्न भुज्मा मघवत्सु पिन्वते । यदीं सुता अमन्दिषो३ं (८ । ५० । १-२)

यदिन्द्र यावतस्त्वमेतावदहमीशीय ।

स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीयो३ं

न पापत्वाय रासीय शिक्षेयमिन्महयते दिवे दिवे । राय आ कुहचिद्विदो३ं

राय आ कुहचिद्विदे नहि त्वदन्यन्मघवन् न आप्यम् । वस्यो अस्ति पिता चनो३म् (७ । ३२ । १८-१९)

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहतो३ं

सहस्रेणेव मंहते शतानीका हेतयो अस्य दुष्टराः । इन्द्रस्य समिषो महो३म्

इन्द्रस्य समिषो महीर्गिरिर्न भुज्मा मघवत्सु पिन्वते । यदीं सुता अमन्दिषो३ं (८ । ५० । १-२)

ऐकाहिकप्रगाथः-

शो३ंसावो३म् उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इवो३ं

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।

इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरो३म् (८ । ३ । १५-१६)

सामप्रगाथः-

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।

च्छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यो३ं

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।

अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भवो३ं (६ । ४६ । ९-१०)

सामसूक्तम्-

शो३ंसावो३ं यो जात एव प्रथमो मनस्वान् । देवो देवान् क्रतुना पर्यभूषो३ं

यस्य शुष्माद्रोदसी अभ्यसेताम् । नृम्णस्य मह्ना स जनास इन्द्रो३ं

यः पृथिवीं व्यथमानामदृंहत् । यः पर्वतान् प्रकुपिताँ अरम्णो३ं

यो अन्तरिक्षं विममे वरीयः । यो द्यामस्तभ्नात् स जनास इन्द्रो३ं

यो हत्वाहिमरिणात्सप्त सिन्धून् । यो गा उदाजदपधा वलस्यो३ं

यो अश्मनोरन्तरग्निं जजान । संवृक् समत्सु स जनास इन्द्रो३ं

येनेमा विश्वा च्यवना कृतानि । यो दासं वर्णमधरं गुहाको३ं

श्वघ्नीव यो जिगीवाँ लक्षमादत् । अर्यः पुष्टानि स जनास इन्द्रो३ं

यं स्मा पृच्छन्ति कुह सेति घोरम् । उतेमाहुर्नैषो अस्तीत्येनो३ं

[[३६५]]

सो अर्यः पुष्टीर्विज इवा मिनाति । श्रदस्मै धत्त स जनास इन्द्रो३ं

यो रध्रस्य चोदिता यः कृशस्य । यो ब्रह्मणो नाधमानस्य कीरो३ं

युक्तग्राव्णो योऽविता सुशिप्रः । सुतसोमस्य स जनास इन्द्रो३ं

यस्याश्वासः प्रदिशि यस्य गावः । यस्य ग्रामा यस्य विश्वे रथासो३ं

यः सूर्यं य उषसं जजान । यो अपां नेता स जनास इन्द्रो३ं

यं क्रन्दसी संयती विह्वयेते । परेऽवर उभया अमित्रो३ं

समानं चिद्रथमातस्थिवांसा । नाना हवेते स जनास इन्द्रो३ं

यस्मान्न ऋते विजयन्ते जनासः । यं युध्यमाना अवसे हवन्तो३ं

यो विश्वस्य प्रतिमानं बभूव । यो अच्युतच्युत् स जनास इन्द्रो३ं

यः शश्वतो मह्येनो दधानान् । अमन्यमानाञ्छर्वा जघानो३ं

यः शर्धते नानुददाति शृध्याम् । यो दस्योर्हन्ता स जनास इन्द्रो३ं

यः शम्बरं पर्वतेषु क्षियन्तम् । चत्वारिंश्यां शरद्यन्वविन्दो३म्

ओजायमानं यो अहिं जघान । दानुं शयानं स जनास इन्द्रो३ं

यः सप्तरश्मिर्वृषभस्तुविष्मान् । अवासृजत् सर्तवे सप्त सिन्धो३ं

यो रौहिणमस्फुरद् वज्रबाहुः । द्यामारोहन्तं स जनास इन्द्रो३ं

द्यावा चिदस्मै पृथिवी नमेते । शुष्माच्चिदस्य पर्वता भयन्तो३ं

यः सोमपा निचितो वज्रबाहुः । यो वज्रहस्तः स जनास इन्द्रो३ं

यः सुन्वन्तमवति यः पचन्तम् । यः शंसन्तं यः शशमानमूतो३ं

यस्य ब्रह्म वर्धनं यस्य सोमः । यस्येदं राधः स जनास इन्द्रो३ं

यः सुन्वते पचते दुध्र आ चित् । वाजं दर्दर्षि स किलासि सत्यो३ं

वयं त इन्द्र विश्वह प्रियासः । सुवीरासो विदथमा वदेमो३म् (२ । १२ । १-१५)

अहीनसूक्तम्-

अस्मा इदु प्र तवसे तुराय । प्रयो न हर्मि स्तोमं माहिनायो३म्

ऋचीषमायाध्रिगव ओहम् । इन्द्राय ब्रह्माणि राततमो३म्

अस्मा इदु प्रय इव प्र यंसि । भराम्याङ्गूषं बाधे सुवृक्तो३म्

इन्द्राय हृदा मनसा मनीषा । प्रत्नाय पत्ये धियो मर्जयन्तो३म्

अस्मा इदु त्यमुपमं स्वर्षाम् । भराम्याङ्गूषमास्येनो३म्

मंहिष्ठमच्छोक्तिभिर्मतीनाम् । सुवृक्तिभिः सूरिं वावृधध्यो३म्

अस्मा इदु स्तोमं सं हिनोमि । रथं न तष्टेव तत्सिनायो३ं

[[३६६]]

गिरश्च गिर्वाहसे सुवृक्ति । इन्द्राय विश्वमिन्वं मेधिरायो३म्

अस्मा इदु सप्तिमिव श्रवस्या । इन्द्रायार्कं जुह्वा समञ्जो३ं

वीरं दानौकसं वन्दध्यै । पुरां गूर्तश्रवसं दर्माणो३म्

अस्मा इदु त्वष्टा तक्षद्वज्रम् । स्वपस्तमं स्वर्यं रणायो३ं

वृत्रस्य चिद् विदद् येन मर्म । तुजन्नीशानस्तुजता कियेधो३म्

अस्येदु मातुः सवनेषु सद्यः । महः पितुं पपिवाञ्चार्वन्नो३म्

मुषायद्विष्णुः पचतं सहीयान् । विध्यद् वराहं तिरो अद्रिमस्तो३म्

अस्मा इदु ग्नाश्चिद् देवपत्नीः । इन्द्रायार्कमहिहत्य ऊवो३म्

परि द्यावापृथिवी जभ्र उर्वी । नास्य ते महिमान्परिष्टो३म्

अस्येदेव प्र रिरिचे महित्वम् । दिवस्पृथिव्याः पर्यन्तरिक्षो३ं

स्वराळिन्द्रो दम आ विश्वगूर्तः । स्वरिरमत्रो ववक्षे रणायो३म्

अस्येदेव शवसा शुषन्तम् । वि वृश्चद् वज्रेण वृत्रमिन्द्रो३ं

गा न व्राणा अवनीरमुञ्चत् । अभि श्रवो दावने सचेतो३म्

अस्येदु त्वेषसा रन्त सिन्धवः । परि यद्वज्रेण सीमयच्छो३म्

ईशानकृद् दाशुषे दशस्यन् । तुर्वीतये गाधं तुर्वणिः को३म्

अस्मा इदु प्र भरा तूतुजानः । वृत्राय वज्रमीशानः कियेधो३ं

गोर्न पर्व वि रदा तिरश्चा । इष्यन्नर्णांस्यपां चरध्यो३म्

अस्येदु प्र ब्रूहि पूर्व्याणि । तुरस्य कर्माणि नव्य उक्थो३ं

युधे यदिष्णान आयुधानि । ऋघायमाणो निरिणाति शत्रो३म्

अस्येदु भिया गिरयश्च दृळ्हा । द्यावा च भूमा जनुषस्तुजेतो३म्

उपो वेनस्य जोगुवान ओणिम् । सद्यो भुवद्वीर्याय नोधो३म्

अस्मा इदु त्यदनु दाय्येषाम् । एको यद् वव्ने भूरेरीशानो३म्

प्रैतशं सूर्ये पस्पृधानम् । सौवश्व्ये सुष्विमावदिन्द्रो३म्

एवा ते हारियोजना सुवृक्ति । इन्द्र ब्रह्माणि गोतमासो अक्रो३म्

ऐषु विश्वपेशसं धियं धाः । प्रातर्मक्षू धियावसुर्जगम्यो३म् (१-६१ । १-१६)

ऐकाहिकसूक्तम्-

उदु ब्रह्माण्यैरत श्रवस्या । इन्द्रं समर्ये महया वसिष्ठो३म्

आ यो विश्वानि शवसा ततान । उपश्रोता म ईवतो वचांसो३म्

अयामि घोष इन्द्र देवजामिः । इरज्यन्त यच्छुरुधो विवोचो३ं

[[३६७]]

न हि त्वमायुश्चिकिते जनेषु । तानीदंहांस्यति पर्ष्यस्मो३ं

युजे रथं गवेषणं हरिभ्याम् । उप ब्रह्माणि जुजुषाणमस्थो३ं

वि बाधिष्ट स्य रोदसी महित्वा । इन्द्रो वृत्राण्यप्रती जघन्वो३म्

आपश्चित् पिप्युः स्तर्यो न गावः । नक्षन्नृतं जरितारस्त इन्द्रो३ं

याहि वायुर्न नियुतो नो अच्छा । त्वं हि धीभिर्दयसे वि वाजो३ं

ते त्वा मद इन्द्र मादयन्तु । शुष्मिणं तुविराधसो जरित्रो३म्

एको देवत्रा दयसे हि मर्तान् । अस्मिञ्च्छूर सवने मादयस्वो३ं

शो३ंसावो३म् एवेदिन्द्रं वृषणं वज्रबाहुम् । वसिष्ठासो अभ्यर्चन्त्यर्को३ं

स नः स्तुतो वीरवद्धातु गोमत् । यूयं पात स्वस्तिभिः सदा नो३म् ॥ [७ । २३] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामह ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।

युक्वा हरिभ्यामुप यासदर्वाङ् माध्यन्दिने सवने मत्सदिन्द्रा३ वौ३षट् ॥ [५ । ४० । ४]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

अच्छावाकशस्त्रम् ।

कालेयरैवते पृष्ठे गर्भकारस्तोत्रम् अष्ठाचत्वारिंशत्स्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शो३ंसावो३ं

स्तोत्रियानुरूपौ-

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।

बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणो३ं इति त्रिः

हुवे भरं न कारिणं न यं दुध्रा वरन्ते न स्थिरा मुरः । मदे सुशिप्रमन्धसो३ं

मदे सुशिप्र मन्धसो य आदृत्या शशमानाय सुन्वते । दाता जरित्र उक्थ्यो३म् [८ । ६६ । १-२]

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेमो३म्

आ घ त्वावान् त्मनाप्तः स्तोतृभ्यो धृष्णवियानः । ऋणोरक्षं न चक्र्यो३म्

आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभो३ं (१ । ३० । १३-१५)

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।

बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणो३ं

हुवे भरं न कारिणं न यं दुध्रा वरन्ते न स्थिरा मुरः । मदे सुशिप्रमन्धसो३ं

मदे सुशिप्र मन्धसो य आदृत्या शशमानाय सुन्वते । दाता जरित्र उक्थ्यो३म् [८ । ६६ । १-२]

[[३६८]]

शो३ंसावो३ं तरणिरित् सिषासति वाजं पुरन्ध्या युजा ।

आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वो३ं

नेमिं तष्टेव सुद्र्वं न दुष्टुती मर्त्यो विन्दते वसु । न स्रेधन्तं रयिर्नशो३ं

न स्रेधन्तं रयिर्नशत् सुशक्तिरिन्मघवन् तुभ्यं मावते । देष्णं यत् पार्ये दिवो३ं [७ । ३२ । २०-२१]

रेवाँ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः श्रुतस्यो३म्

उक्थं चन शस्यमानमगोररिरा चिकेत । न गायत्रं गीयमानो३म्

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । शिक्षा शचीवः शचीभो३ं (८ । २ । १३-१५)

तरणिरित् सिषासति वाजं पुरन्ध्या युजा ।

आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वो३ं

नेमिं तष्टेव सुद्र्वं न दुष्टुती मर्त्यो विन्दते वसु । न स्रेधन्तं रयिर्नशो३ं

न स्रेधन्तं रयिर्नशत् सुशक्तिरिन्मघवन् तुभ्यं मावते । देष्णं यत् पार्ये दिवो३ं [७ । ३२ । २०-२१]

ऐकाहिकः प्रगाथः-

शो३ंसावो३म् उदिन्वस्य रिच्यतेंऽशो धनं न जिग्युषः ।

य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनो३ं

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञेयेष्वा ।

पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवो३ं [७ । ३२ । १२-१३]

सामप्रगाथः-

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।

इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातयो३म्

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।

इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवो३ं (८ । ३ । ५-६)

सामसूक्तम्-

शो३ंसावो३म् अभूरेको रयिपते रयीणाम् । आ हस्तयोरधिथा इन्द्र कृष्टो३ं

वि तोके अप्सु तनये च सूरे । अवोचन्त चर्षणयो विवाचो३ं

त्वद् भियेन्द्र पार्थिवानि विश्वा । अच्युता चिच्च्यावयन्ते रजांसो३ं

द्यावाक्षामा पर्वतासो वनानि । विश्वं दृळ्हं भयते अज्मन्ना तो३ं

त्वं कुत्सेनाभि शुष्णमिन्द्र । अशुषं युध्य कुयवं गविष्टो३ं

दश प्रपित्वे अध सूर्यस्य । मुषायश्चक्रमविवे रपांसो३ं

त्वं शतान्यव शम्बरस्य । पुरो जघन्थाप्रतीनि दस्यो३म्

[[३६९]]

अशिक्षो यत्र शच्या शचीवः । दिवोदासाय सुन्वते सुतक्रे । भरद्वाजाय गृणते वसूनो३ं

स सत्यसत्वन् महते रणाय । रथमा तिष्ठ तुविनृम्ण भीमो३ं

याहि प्रपथिन्नवसोप मद्रिक् । प्र च श्रुत श्रावय चर्षणिभ्यो३ं (६ । ३१ । १-५)

अहीनसूक्तम्-

शासद्वह्निर्दुहितुर्नप्त्यं गात् । विद्वाँ ऋतस्य दीधितिं सपर्यो३म्

पिता यत्र दुहितुः सेकमृञ्जन् । सं शग्म्येन मनसा दधन्वो३ं

न जामये तान्वो रिक्थमारैक् । चकार गर्भं सनितुर्निधानो३ं

यदी मातरो जनयन्त वह्निम् । अन्यः कर्ता सुकृतोरन्य ऋन्धो३म्

अग्निर्जज्ञे जुह्वा रेजमानः । महस्पुत्राँ अरुषस्य प्रयक्षो३म्

महान् गर्भो मह्या जातमेषाम् । मही प्रवृद्धर्यश्वस्य यज्ञो३म्

अभि जैत्रीरसचन्त स्पृधानम् । महि ज्योतिस्तमसो निरजानो३ं

तं जानतीः प्रत्युदायन्नुषासः । पतिर्गवामभवदेक इन्द्रो३ं

वीळौ सतीरभि धीरा अतृन्दन् । प्राचाहिन्वन् मनसा सप्त विप्रो३ं

विश्वामविन्दन् पथ्यामृतस्य । प्रजानन्नित्ता नमसा विवेशो३ं

विदद् यदी सरमा रुग्णमद्रेः । महि पाथः पूर्व्यं सध्र्यक्को३म्

अग्रं नयत्सुपद्यक्षराणाम् । अच्छा रवं प्रथमा जानती गो३म्

अगच्छदु विप्रतमः सखीयन् । असूदयत् सुकृते गर्भमद्रो३ं

ससान मर्यो युवभिर्मखस्यन् । अथाभवदङ्गिराः सद्यो अर्चो३ं

सतः सतः प्रतिमानं पुरोभूः । विश्वा वेद जनिमा हन्ति शुष्णो३म्

प्र णो दिवः पदवीर्गव्युरर्चन् । सखा सखीँरमुञ्चन्निरवद्यो३ं

नि गव्यता मनसा सेदुरर्कैः । कृण्वानासो अमृतत्वाय गातो३म्

इदं चिन्नु सदनं भूर्येषाम् । येन मासाँ असिषासन्नृतेनो३ं

सम्पश्यमाना अमदन्न अभि स्वम् । पयः प्रत्नस्य रेतसो दुघानो३ं

वि रोदसी अतपद् घोष एषाम् । जाते निष्ठामदधुर्गोषु वीरो३ं

स जातेभिर्वृत्रहा सेदु हव्यैः । उदुस्रिया असृजदिन्द्रो अर्को३म्

उरूच्यस्मै घृतवद् भरन्ती । मधु स्वाद्म दुदुहे जेन्या गो३म्

पित्रे चिच्चक्रुः सदनं समस्मै । महि त्विषीमत्सुकृतो वि हि ख्यो३ं

विष्कभ्नन्तः स्कम्भनेना जनित्री । आसीना ऊर्ध्वं रभसं वि मिन्वो३म्

मही यदि धिषणा शिश्नथे धात् । सद्योवृधं विभ्वं रोदस्यो३ं

[[३७०]]

गिरो यस्मिन्ननवद्याः समीचीः । विश्वा इन्द्राय तविषीरनुत्तो३म्

मह्या ते सख्यं वश्मि शक्तीः । आ वृत्रघ्ने नियुतो यन्ति पूर्वो३म्

महि स्तोत्रमव आगन्म सूरेः । अस्माकं सु मघवन् बोधि गोपो३म्

महि क्षेत्रं पुरु श्चन्द्रं विविद्वान् । आदित् सखिभ्यश्चरथं समैरो३म्

इन्द्रो नृभिरजनद् दीद्यानः । साकं सूर्यमुषसं गातुमग्नो३म्

अपश्चिदेष विभ्वो दमूनाः । प्र सध्रीचीरसृजद् विश्वश्चन्द्रो३म्

मध्वः पुनानाः कविभिः पवित्रैः । द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रो३म्

अनु कृष्णे वसुधिती जिहाते । उभे सूर्यस्य मंहना यजत्रो३म्

परि यत्ते महिमानं वृजध्यै । सखाय इन्द्र काम्या ऋजिप्यो३म्

पतिर्भव वृत्रहन्त्सूनृतानाम् । गिरां विश्वायुर्वृषभो वयोधो३म्

आ नो गहि सख्येभिः शिवेभिः । महान् महीभिरूतिभिः सरण्यो३ं

तमङ्गिरस्वन्नमसा सपर्यन् । नव्यं कृणोमि सन्यसे पुराजो३ं

द्रुहो वि याहि बहुला अदेवीः । स्वश्च नो मघवन्त्सातये धो३म्

मिहः पावकाः प्रतता अभूवन् । स्वस्ति नः पिपृहि पारमासो३म्

इन्द्र त्वं रथिरः पाहि नो रिषः । मक्षू मक्षू कृणुहि गोजितो नो३म्

अदेदिष्ट वृत्रहा गोपतिर्गाः । अन्तः कृष्णाँ अरुषैर्धामभिर्गो३म्

प्र सूनृता दिशमान ऋतेन । दुरश्च विश्वा अवृणोदप स्वो३ं

शुनं हुवेम मघवानमिन्द्रम् । अस्मिन् भरे नृतमं वाजसातो३ं

शृण्वन्तमुग्रमूतये समत्सु । घ्नन्तं वृत्राणि संजितं धनानो३म् (३ । ३१ । १-२२)

ऐकाहिकसूक्तम्-

इमामू षु प्रभृतिं सातये धाः । शश्वच्छश्वदूतिभिर्यादमानो३ं

सुतेसुते वावृधे वर्धनेभिः । यः कर्मभिर्महद्भिः सुश्रुतो भो३म्

इन्द्राय सोमाः प्रदिवो विदानाः । ऋभुर्येभिर्वृषपर्वा विहायो३ं

प्रयम्यमानान् प्रति षू गृभाय । इन्द्र पिब वृषधूतस्य वृष्णो३ं

पिबा वर्धस्व तव घा सुतासः । इन्द्र सोमासः प्रथमा उतेमो३ं

यथापिबः पूर्व्या इन्द्र सोमान् । एवा पाहि पन्यो अद्या नवीयो३ं

महाँ अमत्रो वृजने विरप्शी । उग्रं शवः पत्यते धृष्ण्वोजो३ं

नाह विव्याच पृथिवी चनैनम् । यत् सोमासो हर्यश्व ममन्दो३ं

महाँ उग्रो वावृधे वीर्याय । समाचक्रे वृषभः काव्येनो३म्

[[३७१]]

इन्द्रो भगो वाजदा अस्य गावः । प्रजायन्ते दक्षिणा अस्य पूर्वो३ं

प्र यत् सिन्धवः प्रसवं यथायन् । आपः समुद्रं रथ्येव जग्मो३म्

अतश्चिदिन्द्रः सदसो वरीयान् । यदीं सोमः पृणाति दुग्धो अंशो३ं

समुद्रेण सिन्धवो यादमानाः । इन्द्राय सोमं सुषुतं भरन्तो३म्

अंशुं दुहन्ति हस्तिनो भरित्रैः । मध्वः पुनन्ति धारया पवित्रो३ं

ह्दाइव कुक्षयः सोमधानाः । समी विव्याच सवना पुरूणो३म्

अन्ना यदिन्द्रः पथमा व्याश । वृत्रं जघन्वाँ अवृणीत सोमो३म्

आ तू भर माकिरेतत् परिष्ठात् । विद्मा हि त्वा वसुपतिं वसूनो३म्

इन्द्र यत्ते माहिनं दत्रमस्ति । अस्मभ्यं तद्धर्यश्व प्र यन्धो३ं

शो३ंसावो३ं शुनं हुवेम मघवानमिन्द्रम् । अस्मिन् भरे नृतमं वाजसातो३ं

शृण्वन्तमुग्रमूतये समत्सु । घ्नन्तं वृत्राणि संजितं धनानो३म् [३ । ३६] इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय इति शस्त्वा जपः ।

ये३ यजामहे पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।

यथापिबः पूर्व्या इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीया३ न्वौ३षट् ॥ [३ । ३६ । ३]

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

तृतीयसवनम्

अथ तृतीयसवनम् ॥

वैश्वदेवशस्त्रम् ।

आर्भवपवमानस्तोत्रं त्रिणवस्तोमम् । होता सर्वादिशो ध्यायेच्छंसिष्यन् । यस्यां द्वेष्यो न ताम् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३ं

स्तोत्रियानुरूपौ (प्रतिपदनुचरौ)-

तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।

श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहो३म् इति त्रिः

अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यो३ं

स हि रत्नानि दाशुषे सुवाति सविता भगः । तं भागं चित्रमीमहे ॥ (५ । ८२ । १-३)

शो३ंसावो३म् अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्वप्न्यं सुवो३ं

विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुवो३म्

अनागसो अदितये देवस्य सवितुः सवे । विश्वा वामानि धीमहो३ं (५ । ८२ । ४-६)

[[३७२]]

सावित्रं निविद्धानम्-

शो३ंसावो३म् तद् देवस्य सवितुर्वार्यं महत् । वृणीमहे असुरस्य प्रचेतसो३ं

च्छर्दिर्यन दाशुषे यच्छति त्मना । तन्नो महाँ उदयान् देवो अक्तुभो३ं

दिवो धर्ता भुवनस्य प्रजापतिः । पिशङ्गं द्रापिं प्रति मुञ्चते कवो३ं

विचक्षणः प्रथयन्नापृणन्नुरु । अजीजनत् सविता सुम्नमुक्थ्यो३म्

आप्रा रजांसि दिव्यानि पार्थिवा । श्लोकं देवः कृणुते स्वाय धर्मणो३म्

प्र बाहू अस्राक् सविता सवीमनि । निवेशयन् प्रसुवन्नक्तुभिर्जगो३म्

अदाभ्यो भुवनानि प्रचाकशत् । व्रतानि देवः सविताभि रक्षतो३म्

प्रास्राग्बाहू भुवनस्य प्रजाभ्यः । धृतव्रतो महो अज्मस्य राजतो३ं

त्रिरन्तरिक्षं सविता महित्वना । त्री रजांसि परिभूस्त्रीणि रोचनो३ं

तिस्रो दिवः पृथिवीस्तिस्र इन्वति । त्रिभिर्व्रतैरभि नो रक्षति त्मनो३म्

बृहत्सुम्नः प्रसवीता निवेशनः । जगत स्थातुरुभयस्य यो वशो३ं

स नो देवः सविता शर्म यच्छतु । अस्मे क्षयाय त्रिवरूथमंहसो३ं

शो३ंसावो३ं सविता देवः सोमस्य पिबतु । हिरण्यपाणिः सुजिह्वः । सुबाहुः स्वङ्गुरिः । त्रिरहन्त् सत्यसवनः । यः प्रासुवद्वसुधिती । उभे जोष्ट्री सवीमनि । श्रेष्ठं सावित्रमासुवम् । दोग्ध्रीं धेनुम् । वोह्ळारमनड्वाहम् । आशुं सप्तिम् । पुरन्धिं योषाम् । जिष्णुं रथेष्ठाम् । सभेयम् युवानम् । परामीवांसाविषत् पराघशंसम् । सविता देव इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३म्

आगन्देव ऋतुभिर्वर्धतु क्षयम् । दधातु नः सविता सुप्रजामिषो३ं

स नः क्षपाभिरहभिश्च जिन्वतु । प्रजावन्तं रयिमस्मे समिन्वतो३ं (४ । ५३ । १-७)

धाय्या- शो३ंसावो३म् एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विंशत्या चो३ं

तिसृभिश्च वहसे त्रिंशता च । नियुद्भिर्वायविह ता विमिञ्चो३ं [आ.श्रौ.५ । १८ । ५]

द्यावापृथिवीयं निविद्धानम्-

शो३ंसावो३ं कतरा पूर्वा कतरापरायोः । कथा जाते कवयः को वि वेदो३ं

विश्वं त्मना बिभृतो यद्ध नाम । वि वर्तेते अहनी चक्रियेवो३म्

भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भमपदी दधातो३ं

नित्यं न सूनुं पित्रोरुपस्थे । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

अनेहो दात्रमदितेरनर्वम् । हुवे स्वर्वदवधं नमस्वो३ं

तद्रोदसी जनयतं जरित्रे । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

[[३७३]]

अतप्यमाने अवसावन्ती । अनु ष्याम रोदसी देवपुत्रो३म्

उभे देवानामुभयेभिरह्नाम् । द्यावा रक्षतं पृथिवी नो अभ्वो३ं

सङ्गच्छमाने युवती समन्ते । स्वसारा जामी पित्रोरुपस्थो३म्

अभिजिघ्रन्ती भुवनस्य नाभिम् । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

उर्वी सद्मनी बृहती ऋतेन । हुवे देवानामवसा जनित्रो३ं

दधाते ये अमृतं सुप्रतीके । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

उर्वी पृथ्वी बहुले दूरेअन्ते । उप ब्रुवे नमसा यज्ञे अस्मो३ं

दधाते ये सुभगे सुप्रतूर्ती । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

देवान्वा यच्चकृमा कच्चिदागः । सखायं वा सदमिज्जास्पतिं वो३म्

इयं धीर्भूया अवयानमेषाम् । द्यावा रक्षतं पृथिवी नो अभ्वो३म्

उभा शंसा नर्या मामविष्टाम् । उभे मामूती अवसा सचेतो३म्

भूरि चिदर्यः सुदास्तराय । इषा मदन्त इषयेम देवो३म्

ऋतं दिवे तदवोचं पृथिव्याः । अभिश्रावाय प्रथमं सुमेधो३म्

पातामवद्याद् दुरितादभीके । पिता माता च रक्षतामवोभो३ं

शो३ंसावो३ं द्यावापृथिवी सोमस्य मत्सताम् । पिता च माता च । पुत्रश्च प्रजननं च । धेनुश्च वृषभश्च । धन्या च धिषणा च । सुरेताश्च सुदुघाश्च । शम्भूश्च मयोभूश्च । ऊर्जस्वती च पयस्वती च । रेतोधाश्च रेतोभृच्च । द्यावापृथिवी इह श्रुतामिह सोमस्य मत्सताम् । प्रेमां देवी देवहूतिमवतां देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवताम् । चित्रे चित्राभिरूतिभिः । श्रुतां ब्रह्माण्यावसा गमो३ं

तद्राधो अद्य सवितुर्वरेण्यम् । वयं देवस्य प्रसवे मनामहो३म्

इदं द्यावापृथिवी सत्यमस्तु । पितर्मातर्यदिहोपब्रुवे वो३म्

भूतं देवानामवमे अवोभिः । विद्यामेषं वृजनं जीरदानो३ं (१ । १८५ । १-११)

धाय्या- शो३ंसावो३ं सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यवि द्यवो३ं (१ । ४ । १)

आर्भवं निविद्धानीयम्-

शो३ंसावो३म् अनश्वो जातो अनभीशुरुक्थ्यः । रथस्त्रिचक्रः परि वर्तते रजो३म्

महत् तद् वो देव्यस्य प्रवाचनम् । द्यामृभवः पृथिवीं यच्च पुष्यथो३ं

रथं ये चक्रुः सुवृतं सुचेतसः । अविह्वरन्तं मनसस्परि ध्ययो३ं

ताँ ऊ न्वस्य सवनस्य पीतये । आ वो वाजा ऋभवो वेदयामसो३ं

तद्वो वाजा ऋभवः सुप्रवाचनम् । देवेषु विभ्वो अभवन् महित्वनो३ं

जिव्री यत्सन्ता पितरा सनाजुरा । पुनर्युवाना चरथाय तक्षथो३म्

[[३७४]]

एकं वि चक्र चमसं चतुर्वयम् । निश्चर्मणो गामरिणीत धीतिभो३म्

अथा देवेष्वमृतत्वमानश । श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यो३म्

ऋभुतो रयिः प्रथमश्रवस्तमः । वाजश्रुतासो यमजीजनन्नरो३ं

विभ्वतष्टो विदथेषु प्रवाच्यः । यं देवासोऽवथा स विचर्षणो३ं

स वाज्यर्वा स ऋषिर्वचस्यया । स शूरो अस्ता पृतनासु दुष्टरो३ं

स रायस्पोषं स सुवीर्यं दधे । यं वाजो विभ्वाँ ऋभवो यमाविषो३ं

श्रेष्ठं वः पेशो अधि धायि दर्शतम् । स्तोमो वाजा ऋभवस्तं जुजुष्टनो३ं

धीरासो हि ष्ठा कवयो विपश्चितः । तान् व एना ब्रह्मणा वेदयामसो३ं

यूयमस्मभ्यं धिषणाभ्यस्परि । विद्वांसो विश्वा नर्याणि भोजनो३ं

द्युमन्तं वाजं वृषशुष्ममुत्तमम् । आ नो रयिमृभवस्तक्षता वयो३ं

शो३ंसावो३म् ऋभवो देवा सोमस्य मत्सन् । विष्ट्वी स्वपसः । कर्मणा सुहस्ताः । धन्या धनिष्ठाः । शम्या शमिष्ठाः । ये धेनुं विश्वजुवं विश्वरूपामरक्षन् । अरक्षद्धेनुमभवद्विश्वरूपी । अयुञ्जत हरी अयुर्देवाँ उप । अबुध्नन्त्संकनीनामदन्तः । संवत्सरे स्वपसो यज्ञियं भागमायन् । ऋभवो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३म्

इह प्रजामिह रयिं रराणाः । इह श्रवो वीरवत्तक्षता नो३ं

येन वयं चितयेमात्यन्यान् । तं वाजं चित्रमृभवो ददा नो३ं (४ । ३६ । १-९)

धाय्याः-

शो३ंसावो३म् अयं वेनश्चोदयत्पृश्निगर्भाः । ज्योतिर्जरायू रजसो विमानो३म्

इममपां सङ्गमे सूर्यस्य । शिशुं न विप्रा मतिभी रिहन्तो३ं (१० । १२३ । १)

शो३ंसावो३ं येभ्यो माता मधुमत्पिन्वते पयः । पीयूषं द्यौरदितिरद्रिबर्हो३म्

उक्थशुष्मान् वृषभरान्त्स्वप्नसः । ताँ आदित्याँ अनु मदा स्वस्तयो३ं (१० । ६३ । ३)

शो३ंसावो३म् एवा पित्रे विश्वदेवाय वृष्णे । यज्ञैर्विधेम नमसा हविर्भो३म्

बृहस्पते सुप्रजा वीरवन्तः । वयं स्याम पतयो रयीणो३ं (४ । ५० । ६)

वैश्वदेवम्-

शो३ंसावो३म् इदमित्था रौद्रं गूर्तवचाः । ब्रह्म क्रत्वा शच्यामन्तराजो३ं

क्राणा यदस्य पितरा मंहनेष्ठाः । पर्षत् पक्थे अहन्ना सप्त होतो३ं

स इद्दानाय दभ्याय वन्वन् । च्यवानः सूदैरमिमीत वेदो३ं

तूर्वयाणो गूर्तवचस्तमः । क्षोदो न रेत इतऊति सिञ्चो३म्

[[३७५]]

मनो न येषु हवनेषु तिग्मम् । विपः शच्या वनुथो द्रवन्तो३म्

आ यः शर्याभिस्तुविनृम्णो अस्य । अश्रीणीतादिशं गभस्तो३ं

कृष्णा यद् गोष्वरुणीषु सीदद् । दिवो नपाताश्विना हुवे वो३ं

वीतं मे यज्ञमा गतं मे अन्नम् । ववन्वांसा नेषमस्मृतध्रो३म्

प्रथिष्ट यस्य वीरकर्ममिष्णत् । अनुष्ठितं नु नर्यो अपौहो३म्

पुनस्तदा वृहति यत्कनायाः । दुहितुरा अनुभृतमनर्वो३म्

मध्या यत्कर्त्वमभवदभीके । कामं कृण्वाने पितरि युवत्यो३म्

मनानग्रेतो जहतुर्वियन्ता । सानौ निषिक्तं सुकृतस्य योनो३,

पिता यत्स्वां दुहितरमधिष्कन् । क्ष्मया रेतः संजग्मानो नि षिञ्चो३ं

स्वाध्योऽजनयन् ब्रह्म देवाः । वास्तोष्पतिं व्रतपां निरतक्षो३ं

स ईं वृषा न फेनमस्यदाजौ । स्मदा परैदप दभ्रचेतो३ं

सरत्पदा न दक्षिणा परावृक् । न ता नु मे पृशन्यो जगृभ्रो३म्

मक्षू न वह्निः प्रजाया उपब्दिः । अग्निं न नग्न उप सीददूधो३ं

सनितेध्मं सनितोत वाजम् । स धर्ता जज्ञे सहसा यवीयो३म्

मक्षू कनायाः सख्यं नवग्वाः । ऋतं वदन्त ऋतयुक्तिमग्मो३ं

द्विबर्हसो य उप गोपमागुः । अदक्षिणासो अच्युता दुदुक्षो३म्

मक्षू कनायाः सख्यं नवीयः । राधो न रेत ऋतमित् तुरण्यो३ं

शुचि यत्ते रेक्ण आयजन्त । सबर्दुघायाः पय उस्रियायो३म्

पश्वा यत्पश्चा वियुता बुधन्त । इति ब्रवीति वक्तरी रराणो३ं

वसोर्वसुत्वा कारवोऽनेहा । विश्वं विवेष्टि द्रविणमुप क्षो३ं

तदिन्वस्य परिषद्वानो अग्मन् । पुरू सदन्तो नार्षदं बिभित्सो३ं

वि शुष्णस्य सङ्ग्रथितमनर्वा । विदत् पुरुप्रजातस्य गुहा यो३म्

भर्गो ह नामोत यस्य देवाः । स्वर्ण ये त्रिषधस्थे निषेदो३म्

अग्निर्ह नामोत जातवेदाः । श्रुधी नो होतर्ऋतस्य होताध्रो३म्

उत त्या मे रौद्रावर्चिमन्ता । नासत्याविन्द्र गूर्तये यजध्यो३म्

मनुष्वद् वृक्तबर्हिषे रराणा । मन्दू हितप्रयसा विक्षु यज्यो३म्

अयं स्तुतो राजा वन्दि वेधाः । अपश्च विप्रस्तरति स्वसेतो३ं

स कक्षीवन्तं रेजयत्सो अग्निम् । नेमिं न चक्रमर्वतो रघुद्रो३ं

स द्विबन्धुर्वैतरणो यष्टा । सबर्धुं धेनुमस्वं दुहध्यो३ं

[[३७६]]

सं यन् मित्रावरुणा वृञ्ज उक्थैः । ज्येष्ठेभिरर्यमणं वरूथो३ं

तद्बन्धुः सूरिर्दिवि ते धियंधाः । नाभानेदिष्ठो रपति प्र वेनो३ं

सा नो नाभिः परमास्य वा घ । अहं तत् पश्चा कतिथश्चिदासो३म्

इयं मे नाभिरिह मे सधस्थम् । इमे मे देवा अयमस्मि सर्वो३ं

द्विजा अह प्रथमजा ऋतस्य । इदं धेनुरदुहज्जायमानो३म्

अधासु मन्द्रो अरतिर्विभावा । अव स्यति द्विवर्तनिर्वनेषो३म्

ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन् । मक्षू स्थिरं शेवृधं सूत मातो३म्

अधा गाव उपमातिं कनायाः । अनु श्वान्तस्य कस्य चित्परेयो३ं

श्रुधि त्वं सुद्रविणो नस्त्वं याट् । आश्वघ्नस्य वावृधे सूनृताभो३म्

अध त्वमिन्द्र विद्ध्यस्मान् । महो राये नृपते वज्रबाहो३ं

रक्षा च नो मघोनः पाहि सूरीन् । अनेहसस्ते हरिवो अभिष्टो३म्

अध यद्राजाना गविष्टौ । सरत्सरण्युः कारवे जरण्यो३ं

विप्रः प्रेष्ठः स ह्येषां बभूव । परा च वक्षदुत पर्षदेनो३म्

अधा न्वस्य जेन्यस्य पुष्टौ । वृथा रेभन्त ईमहे तदू नो३ं

सरण्युरस्य सूनुरश्वः । विप्रश्चासि श्रवसश्च सातो३ं

युवोर्यदि सख्यायास्मे । शर्धाय स्तोमं जुजुषे नमस्वो३ं

विश्वत्र यस्मिन्ना गिरः समीचीः । पूर्वीव गातुर्दाशत्सूनृतायो३ं (१० । ६१ । १-२५)

ये यज्ञेन दक्षिणया समक्ताः । इन्द्रस्य सख्यममृतत्वमानशो३ं

तेभ्यो भद्रमङ्गिरसो वो अस्तु । प्रति गृभ्णीत मानवं सुमेधसो३ं

य उदाजन् पितरो गोमयं वसु । ऋतेनाभिन्दन् परिवत्सरे वलो३ं

दीर्घायुत्वमङ्गिरसो वो अस्तु । प्रति गृभ्णीत मानवं सुमेधसो३ं

य ऋतेन सूर्यमारोहयन् दिवि । अप्रथयन् पृथिवीं मातरं वो३ं

सुप्रजास्त्वमङ्गिरसो वो अस्तु । प्रति गृभ्णीत मानवं सुमेधसो३म्

अयं नाभा वदति वल्गु वो गृहे । देवपुत्रा ऋषयस्तच्छृणोतनो३ं

सुब्रह्मण्यमङ्गिरसो वो अस्तु । प्रति गृभ्णीत मानवं सुमेधसो३ं

विरूपास इदृषयस्त इद्गम्भीरवेपसः ।

ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरो३ं

ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।

नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहतो३म्

[[३७७]]

इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् ।

सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रतो३म्

प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।

यः सहस्रं शताश्वं सद्यो दानाय मंहतो३ं

न तमश्नोति कश्चन दिव इव सान्वारभम् ।

सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथो३म्

उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । यदुस्तुर्वश्च मामहो३ं

सहस्रदा ग्रामणीर्मा रिषन्मनुः । सूर्येणास्य यतमानैतु दक्षिणो३ं

सावर्णेर्देवाः प्र तिरन्त्वायुः । यस्मिन्नश्रान्ता असनाम वाजो३ं (१० । ६२ । १-११)

स गृणानो अद्भिर्देववानिति । सुबन्धुर्नमसा सूक्तो३ं

वर्धदुक्थैर्वचोभिरा हि नूनम् । व्यध्वैति पयस उस्रियायो३ं

त ऊ षु णो महो यजत्राः । भूत देवास ऊतये सजोषो३ं

ये वाजाँ अनयता वियन्तः । ये स्था निचेतारो अमूरो३ं (१० । ६१ । २६-२७)

स्वस्ति नो मिमीतामश्विना भगः । स्वस्ति देव्यदितिरनर्वणो३ं

स्वस्ति पूषा असुरो दधातु नः । स्वस्ति द्यावापृथिवी सुचेतुनो३ं

स्वस्तये वायुमुप ब्रवामहै । सोमं स्वस्ति भुवनस्य यस्पतो३म्

बृहस्पतिं सर्वगणं स्वस्तये । स्वस्तय आदित्यासो भवन्तु नो३ं

शो३ंसावो३ं विश्वे देवाः सोमस्य मत्सन् । विश्वे वैश्वानराः । विश्वे हि विश्वमहसः । महि महान्तः । तक्वान्न्नेमतिथीवानः । आस्क्राः पचतवाहसः । वातात्मानो अग्निदूताः । ये द्यां च पृथिवीं चातस्थुः । अपश्च स्वश्च । ब्रह्म च क्षत्रं च । बर्हिश्च वेदिं च । यज्ञं चोरु चान्तरिक्षम् । ये स्थ त्रय एकादशाः । त्रयश्च त्रिंशच्च । त्रयश्च त्री च शता । त्रयश्च त्री च सहस्रा । तावन्तोऽभिपाचः । तावन्तोऽभिषाचः । तावतीः पत्नीः । तावतीर्ग्नाः । तावन्त उदरणे । तावन्तो निवेशने । अतो देवा भूयांसः स्थ । मा वो देवा अभिशसा मा परिशसा वृक्षि । विश्वे देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३ं

विश्वे देवा नो अद्या स्वस्तये । वैश्वानरो वसुरग्निः स्वस्तयो३ं

देवा अवन्त्वृभवः स्वस्तये । स्वस्ति नो रुद्रः पात्वंहसो३ं [५ । ५१ । ११-१३]

शो३ंसावो३म् अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रो३ं

विश्वे देवा अदितिः पञ्च जनाः । अदितिर्जातमदितिर्जनित्वो३म् इति द्विः पच्छः

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

[[३७८]]

विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वो३म् (१ । ८९ । १-१०) इति सकृदर्धर्चशो भूमिमुपस्पृशन् परिदद्यात् । उक्थं वाचीन्द्राय देवेभ्य आश्रुत्यै त्वा इति शस्त्वा जपेत् ।

ये३ यजामहे विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।

ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वा३ं वौ३षट् ॥ (६ । ५२ । १३)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । सर्वभक्षाश्चमसाः ।

आग्निमारुतशस्त्रम् ।

यज्ञायज्ञीयस्तोत्रं त्रयस्त्रिंशत्स्तोत्रम् । स्तोत्रोपाकरणकालादारभ्य प्रावृतशिरस्का भवेयुः । अथ होता स्वभ्यग्रम् (सत्वरितम्) आग्निमारुतं शंसेत् । तस्याद्यामृचमृगावानं शंसेत् । यदि सा पच्छः शस्या भवेत्तदा पादे पादेऽवसायानुच्छ्वसन्नेव शंसेत् ।

प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्

वैश्वानरीयं निविद्धानीयम्-

वैश्वानराय धिषणामृतावृधे । घृतं न पूतमग्नये जनामसो३

द्विता होतारं मनुषश्च वाघतः । धिया रथं न कुलिशः समृण्वतो३ं

स रोचयज्जनुषा रोदसी उभे । स मात्रोरभवत्पुत्र ईड्यो३ं

हव्यवाळग्निरजरश्चनोहितः । दूळभो विशामतिथिर्विभावसो३ं

क्रत्वा दक्षस्य तरुषो विधर्मणि । देवासो अग्निं जनयन्त चित्तिभो३ं

रुरुचानं भानुना ज्योतिषा महाम् । अत्यो वाजं सनिष्यन्नुप ब्रुवो३म्

आ मन्द्रस्य सनिष्यन्तो वरेण्यम् । वृणीमहे अह्रयं वाजमृग्मियो३ं

रातिं भृगूणामुशिजं कविक्रतुम् । अग्निं राजन्तं दिव्येन शोचिषो३म्

अग्निं सुम्नाय दधिरे पुरो जनाः । वाजश्रवसमिह वृक्तबर्हिषो३ं

यतस्रुचः सुरुचं विश्वदेव्यम् । रुद्रं यज्ञानां साधदिष्टिमपसो३म्

पावकशोचे तव हि क्षयं परि । होतर्यज्ञेषु वृक्तबर्हिषो नरो३म्

अग्ने दुव इच्छमानास आप्यम् । उपासते द्रविणं धेहि तेभ्यो३म्

आ रोदसी अपृणदा स्वर्महत् । जातं यदेनमपसो अधारयो३ं

सो अध्वराय परि णीयते कविः । अत्यो न वाजसातये चनोहितो३ं

नमस्यत हव्यदातिं स्वध्वरम् । दुवस्यत दम्यं जातवेदसो३म्

रथीर्ऋतस्य बृहतो विचर्षणिः । अग्निर्दवानामभवत्पुरोहितो३ं

तिस्रो यह्वस्य समिधः परिज्मनः । अग्नेरपुनन्नुशिजो अमृत्यवो३ं

[[३७९]]

तासामेकामदधुर्मर्त्ये भुजम् । उ लोकमु द्वे उप जामिमीयतो३ं

विशां कविं विश्पतिं मानुषीरिषः । सं सीमकृण्वन्त्स्वधितिं न तेजसो३ं

स उद्वतो निवतो याति वेविषत् । स गर्भमेषु भुवनेषु दीधरो३ं

स जिन्वते जठरेषु प्रजज्ञिवान् । वृषा चित्रेषु नानदन्न सिंहो३ं

वैश्वानरः पृथुपाजा अमर्त्यः । वसु रत्ना दयमानो वि दाशुषो३ं

वैश्वानरः प्रत्नथा नाकमारुहत् । दिवस्पृष्ठं भन्दमानः सुमन्मभो३ं

स पूर्ववज्जनयञ्जन्तवे धनम् । समानमज्मं पर्येति जागृवो३म्

ऋतावानं यज्ञियं विप्रमुक्थ्यम् । आ यं दधे मातरिश्वा दिवि क्षयो३ं

तं चित्रयामं हरिकेशमीमहे । सुदीतिमग्निं सुविताय नव्यसो३ं

शुचिं न यामन्निषिरं स्वर्दृशम् । केतुं दिवो रोचनस्थामुषर्बुधो३म्

अग्निं मूर्धानं दिवो अप्रतिष्कुतम् । तमीमहे नमसा वाजिन्बृहो३ं

शो३ंसावो३म् अग्निर्वैश्वानरः सोमस्य मत्सत् । विश्वेषां देवानां समित् । अजस्रं दैव्यं ज्योतिः । यो विड्भ्यो मानुषीभ्यो अदीदेत् । द्युषु पूर्वेषु दिद्युतानः । अजर उषसामनीके । आ योद्यां भात्या पृथिवीम् । ओर्वन्तरिक्षम् । ज्योतिषा यज्ञाय शर्म यंसत् । अग्निर्वैश्वानर इह श्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

मन्द्रं होतारं शुचिमद्वयाविनम् । दमूनसमुक्थ्यं विश्वचर्षणो३ं

रथं न चित्रं वपुषाय दर्शतम् । मनुर्हितं सदमिद्राय ईमहो३ं (३ । २ । १-१५)

धाय्या- शो३ंसावो३ं शं नः करत्यर्वते सुगं मेषाय मेष्ये । नृभ्यो नारिभ्यो गवो३ं (१ । ४३ । ६)

मारुतं निविद्धानीयम्-

शो३ंसावो३म् प्रयज्यवो मरुतो भ्राजदृष्टयः । बृहद्वयो दधिरे रुक्मवक्षसो३म्

ईयन्ते अश्वैः सुयमेभिराशुभिः । शुभं यातामनु रथा अवृत्सतो३ं

स्वयं दधिध्वे तविषीं यथा विद । बृहन्महान्त उर्विया वि राजथो३म्

उतान्तरिक्षं ममिरे व्योजसा । शुभं यातामनु रथा अवृत्सतो३ं

साकं जाताः सुभ्वः साकमुक्षिताः । श्रिये चिदा प्रतरं वावृधुर्नरो३ं

विरोकिणः सूर्यस्येव रश्मयः । शुभं यातामनु रथा अवृत्सतो३ं

आभूषेण्यं वो मरुतो महित्वनम् । दिदृक्षेण्यं सूर्यस्येव चक्षणो३म्

उतो अस्माँ अमृतत्वे दधातन । शुभं यातामनु रथा अवृत्सतो३ं

उदीरयथा मरुतः समुद्रतः । यूयं वृष्टिं वर्षयथा पुरीषिणो३ं

न वो दस्रा उप दस्यन्ति धेनवः । शुभं यातामनु रथा अवृत्सतो३ं

[[३८०]]

यदश्वान् धूर्षु पृषतीरयुग्ध्वं । हिरण्ययान् प्रत्यत्काँ अमुग्ध्वो३ं

विश्वा इत् स्पृधो मरुतो व्यस्यथ । शुभं यातामनु रथा अवृत्सतो३ं

न पर्वता न नद्यो वरन्त वः । यत्राचिध्वं मरुतो गच्छथेदु तो३म्

उत द्यावापृथिवी याथना परि । शुभं यातामनु रथा अवृत्सतो३ं

यत्पूर्व्यं मरुतो यच्च नूतनम् । यदुद्यते वसवो यच्च शस्यतो३ं

विश्वस्य तस्य भवथा नवेदसः । शुभं यातामनु रथा अवृत्सतो३ं

मृळत नो मरुतो मा वधिष्टन । अस्मभ्यं शर्म बहुलं वि यन्तनो३म्

अधि स्तोत्रस्य सख्यस्य गातन । शुभं यातामनु रथा अवृत्सतो३ं

शो३ंसावो३म् मरुतो देवाः सोमस्य मत्सन् । सुष्टुभः स्वर्काः । अर्कस्तुभो बृहद्वयसः । शूरा अनाधृष्टरथाः । त्वेषासः पृश्निमातरः । शुभ्रा हिरण्यखादयः । तवसो भन्ददिष्टयः । नभस्या वर्षनिर्णिजः । मरुतो देवा इह श्रवन्निह सोमस्य मत्सन् । प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवन्तु । चित्राश्चित्राभिरूतिभिः । श्रवन् ब्रह्माण्यावसा गमो३ं

यूयमस्मान् नयत वस्यो अच्छ । निरंहतिभ्यो मरुतो गृणानो३ं

जुषध्वं नो हव्यदातिं यजत्राः । वयं स्याम पतयो रयीणो३ं (५ । ५५ । १-१०)

स्तोत्रियानुरूपौ-

शो३ंसावो३ं यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे ।

प्र प्र वयममृतं जातवेदसम् प्रियं मित्रं न शंसिषो३म्

प्रियं मित्रं न शंसिषमूर्जो नपातं स हिनायमस्मयुः । दाशेम हव्यदातयो३ं

दाशेम हव्यदातये भुवद्वाजेष्वविता भुवद्वृधः । उत त्राता तनूनो३ं (६ । ४८ । १-२)

त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जनो३ं

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान् वक्षि यक्षि चो३ं

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो३ं (६ । १६ । १-३)

यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे ।

प्र प्र वयममृतं जातवेदसम् प्रियं मित्रं न शंसिषो३म्

प्रियं मित्रं न शंसिषमूर्जो नपातं स हिनायमस्मयुः । दाशेम हव्यदातयो३ं

दाशेम हव्यदातये भुवद्वाजेष्वविता भुवद्वृधः । उत त्राता तनूनो३ं (६ । ४८ । १-२)

शो३ंसावो३ं देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।

उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहतो३म्

आदिद्वो देव ओहते तं होतारमध्वरस्य प्रचेतसम् । वह्निं देवा अकृण्वतो३ं

[[३८१]]

वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यम् । अग्निर्जनाय दाशुषो३ं (७ । १६ । ११-१२)

त्वामीळे अध द्विता भरतो वाजिभिः शुनम् । ईजे यज्ञेषु यज्ञियो३ं

त्वमिमा वार्या पुरु दिवोदासाय सुन्वते । भरद्वाजाय दाशुषो३ं

त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । शृण्वन् विप्रस्य सुष्टुतो३ं (६ । १६ । ४-६)

देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।

उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहतो३म्

आदिद्वो देव ओहते तं होतारमध्वरस्य प्रचेतसम् । वह्निं देवा अकृण्वतो३ं

वह्निं देवा अकृण्वत दधाति रत्नं विधते सुवीर्यम् । अग्निर्जनाय दाशुषो३ं (७ । १६ । ११-१२)

जातवेदस्यं निविद्धानीयम्-

शो३ंसावो३म् इमं स्तोममर्हते जातवेदसे । रथमिव सं महेमा मनीषयो३म्

भद्रा हि नः प्रमतिरस्य संसदि । अग्ने सख्ये मा रिषामा वयं तवो३ं

यस्मै त्वमायजसे स साधति । अनर्वा क्षेति दधते सुवीर्यो३ं

स तूताव नैनमश्नोत्यंहतिः । अग्ने सख्ये मा रिषामा वयं तवो३ं

शकेम त्वा समिधं साधया धियः । त्वे देवा हविरदन्त्याहुतो३ं

त्वमादित्याँ आ वह तान् ह्युश्मसि । अग्ने सख्ये मा रिषामा वयं तवो३ं

भरामेध्मं कृणवामा हवींषि ते । चितयन्तः पर्वणा पर्वणा वयो३ं

जीवातवे प्रतरं साधया धियः । अग्ने सख्ये मा रिषामा वयं तवो३ं

विशां गोपा अस्य चरन्ति जन्तवः । द्विपच्च यदुत चतुष्पदक्तुभो३ं

चित्रः प्रकेत उषसो महाँ असि । अग्ने सख्ये मा रिषामा वयं तवो३ं

त्वमध्वर्युरुत होतासि पूर्व्यः । प्रशास्ता पोता जनुषा पुरोहितो३ं

विश्वा विद्वाँ आर्त्विज्या धीर पुष्यसि । अग्ने सख्ये मा रिषामा वयं तवो३ं

यो विश्वतः सुप्रतीकः सदृङ्ङसि । दूरे चित्सन्तळिदिवाति रोचसो३ं

रात्र्याश्चिदन्धो अति देव पश्यसि । अग्ने सख्ये मा रिषामा वयं तवो३ं

पूर्वो देवा भवतु सुन्वतो रथः । अस्माकं शंसो अभ्यस्तु दूढ्यो३ं

तदा जानीतोत पुष्यता वचः । अग्ने सख्ये मा रिषामा वयं तवो३ं

वधैर्दुःशंसाँ अप दूढ्यो जहि । दूरे वा ये अन्ति वा के चिदत्रिणो३म्

अथा यज्ञाय गृणते सुगं कृधि । अग्ने सख्ये मा रिषामा वयं तवो३ं

यदयुक्था अरुषा रोहिता रथे । वातजूता वृषभस्येव ते रवो३म्

आदिन्वसि वनिनो धूमकेतुना । अग्ने सख्ये मा रिषामा वयं तवो३ं

[[३८२]]

अध स्वनादुत बिभ्युः पतत्रिणः । द्रप्सा यत्ते यवसादो व्यस्थिरो३ं

सुगं तत्ते तावकेभ्यो रथेभ्यः । अग्ने सख्ये मा रिषामा वयं तवो३ं

अयं मित्रस्य वरुणस्य धायसे । अवयातां मरुतां हेळो अद्भुतो३म्

मृळा सु नो भूत्वेषां मनः पुनः । अग्ने सख्ये मा रिषामा वयं तवो३ं

देवो देवानामसि मित्रो अद्भुतः । वसुर्वसूनामसि चारुरध्वरो३ं

शर्मन् त्स्याम तव सप्रथस्तमे । अग्ने सख्ये मा रिषामा वयं तवो३ं

तत्ते भद्रं यत्समिद्धः स्वे दमे । सोमाहुतो जरसे मृळयत्तमो३ं

दधासि रत्नं द्रविणं च दाशुषे । अग्ने सख्ये मा रिषामा वयं तवो३ं

यस्मै त्वं सुद्रविणो ददाशः । अनागास्त्वमदिते सर्वतातो३ं

यं भद्रेण शवसा चोदयासि । प्रजावता राधसा ते स्यामो३ं

शो३ंसावो३म् अग्निर्जातवेदाः सोमस्य मत्सत् । स्वनीकश्चित्रभानुः । अप्रोषिवान् गृहपतिः । तिरस्तमांसि दर्शतः । घृताहवन ईड्यः । बहुलवर्मास्तृतयज्वा । प्रतीत्या शत्रून् जेतापराजितः । अग्ने जातवेदोऽभिद्युम्नमभि सह आयच्छस्व । समेद्धारं स्तोतारमंहसस्पाहि । अग्निर्जातवेदा इहश्रवदिह सोमस्य मत्सत् । प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । प्रेमं सुन्वन्तं यजमानमवतु । चित्रश्चित्राभिरूतिभिः । श्रवद्ब्रह्माण्यावसा गमो३ं

स त्वमग्ने सौभगत्वस्य विद्वान् । अस्माकमायुः प्र तिरेह देवो३ं

तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यो३ं (१ । ९४ । १-१६)

अथापोहिष्ठीये वियतं स्थित्वा स्थित्वा अपश्चोपस्पृशञ्च्छंसेत् । उद्गात्रादिष्वन्वारब्धेष्वपावृतशिरस्कः

शो३ंसावो३म् आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसो३ं

यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरो३ं

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नो३ं (१० । ९ । १-३)

शो३ंसावो३म् उत नोऽहिर्बुध्न्यः शृणोतु । अज एकपात्पृथिवी समुद्रो३ं

विश्वे देवा ऋतावृधो हुवानाः । स्तुता मन्त्राः कविशस्ता अवन्तो३ं (६ । ५० । १४)

शो३ंसावो३म् देवानां पत्नीरुशतीरवन्तु नः । प्रावन्तु नस्तुजये वाजसातयो३ं

याः पार्थिवासो या अपामपि व्रते । ता नो देवीः सुहवाः शर्म यच्छतो३म्

उत ग्ना व्यन्तु देवपत्नीः । इन्द्राण्यग्नाय्यश्विनी रो३म्

आ रोदसी वरुणानी शृणोतु । व्यन्तु देवीर्य ऋतुर्जनीनो३ं (५ । ४६ । ७-८)

शो३ंसावो३ं राकामहं सुहवां सुष्टुती हुवे । शृणोतु नः सुभगा बोधतु त्मनो३ं

सीव्यत्वपः सूच्या च्छिद्यमानया । ददातु वीरं शतदायमुक्थ्यो३ं

[[३८३]]

यास्ते राके सुमतयः सुपेशसः । याभिर्ददासि दाशुषे वसूनो३ं

ताभिर्नो अद्य सुमना उपागहि । सहस्रपोषं सुभगे रराणो३ं (२ । ३२ । ४-५)

शो३ंसावो३म् पावीरवी कन्या चित्रायुः । सरस्वती वीरपत्नी धियं धो३ं

ग्नाभिरच्छिद्रं शरणं सजोषाः । दुराधर्षं गृणते शर्म यंसो३ं । (६ । ४९ । ७)

शो३ंसावो३म् इमं यम प्रस्तरमा हि सीद । अङ्गिरोभिः पितृभिः संविदानो३म्

आ त्वा मन्त्राः कविशस्ता वहन्तु । एना राजन्हविषा मादयस्वो३ं (१० । १४ । ४)

शो३ंसावो३म् मातली कव्यैर्यमो अङ्गिरोभिः । बृहस्पतिर्ऋक्वभिर्वावृधानो३ं

यांश्च देवा वावृधुर्य च देवान् । स्वाहान्ये स्वधयान्ये मदन्तो३ं (१० । १४ । ३)

शो३ंसावो३म् उदीरतामवर उत्परासः । उन्मध्यमाः पितरः सोम्यासो३म्

असुं य ईयुरवृका ऋतज्ञाः । ते नोऽवन्तु पितरो हवेषो३ं (१० । १५ । १)

शो३ंसावो३म् आहं पितॄन्सुविदत्राँ अवित्सि । नपातं च विक्रमणं च विष्णो३म्

बर्हिषदो ये स्वधया सुतस्य । भजन्त पित्वस्त इहागमिष्ठो३ं (१० । १५ । ३)

शो३ंसावो३म् इदं पितृभ्यो नमो अस्त्वद्य । ये पूर्वासो य उपरास ईयो३ं

ये पार्थिवे रजस्या निषत्ताः । ये वा नूनं सुवृजनासु विक्षो३ं (१० । १५ । २)

शो३ंसावो३ं स्वादुष्किलायं मधुमाँ उतायम् । तीव्रः किलायं रसवाँ उतायो३म्

उतो न्वस्य पपिवांसमिन्द्रम् । न कश्चन सहत आहवेषो३म्

अयं स्वादुरिह मदिष्ठ आस । यस्येन्द्रो वृत्रहत्ये ममादो३म्

पुरूणि यश्चौत्ना शम्बरस्य । वि नवतिं नव च देह्यो हो३म्

शो३ंसावो३म् अयं मे पीत उदियर्ति वाचम् । अयं मनीषामुशतीमजीगो३म्

अयं षळुर्वीरमिमीत धीरः । न याभ्यो भुवनं कच्चनारो३म्

अयं स यो वरिमाणं पृथिव्याः । वर्ष्माणं दिवो अकृणोदयं सो३म्

अयं पीयूषं तिसृषु प्रवत्सु । सोमो दाधारोर्वन्तरिक्षो३ं (६ । ४७ । १-४)

शो३ंसावो३म् ययो रोजसा स्कभिता रजांसि । वीर्येभिर्वीरतमा शविष्ठो३ं

या पत्येते अप्रतीता सहोभिः । विष्णू अगन् वरुणा पूर्वहूतो३ं

विष्णोर्नु कं वीर्याणि प्र वोचम् । यः पार्थिवानि विममे रजांसो३ं

यो अस्कभायदुत्तरं सधस्थम् । विचक्रमाणस्त्रेधोरुगायो३ं (१ । १५४ । १)

शो३ंसावो३ं तन्तुं तन्वन्रजसो भानुमन्विहि । ज्योतिष्मतः पथो रक्ष धिया कृतो३म्

अनुल्बणं वयत जोगुवामपः । मनुर्भव जनया दैव्यं जनो३ं (१० । ५३ । ६)

शो३ंसावो३म् एवा न इन्द्रो मघवा विरप्शी । करत्सत्या चर्षणीधृदनर्वो३ं

[[३८४]]

त्वं राजा जनुषां धेह्यस्मे । अधि श्रवो माहिन्यज्जरित्रो३म् (४ । १७ । २०)

भूमिमुपस्पृशन्नस्या ऋचो मध्यमे वचन उत्तमं पादमवशिष्य स्थित्वा उत्तमेन वचनेन ध्रुवावनयनं काङ्क्षेत् । उक्थं वाचीन्द्राय देवेभ्य आश्रुताय त्वा इति शस्त्वा जपेत् ।

ये३ यजामहेऽग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।

पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजू३ र्वौ३षट् ॥ (५ । ६० । ८)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

उक्थ्यशस्त्राणि ॥

मैत्रावरुणशस्त्रम् ।

साकमश्वगूर्दस्तोत्रं गर्भाकारं त्रिणवस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्

स्तोत्रियानुरूपौ-

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभो३ं

यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसो३ं

नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसो३ं (६ । १६ । १६-१८)

अग्ने त्वं नो अन्तमः । उत त्राता शिवो भवा वरूथ्यो३ं

वसुरग्निर्वसुश्रवाः । अच्छा नक्षि द्युमत्तमं रयिं दो३ं

तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनमीमहे सखिभ्यो३म् (५ । २४ । १,२,४)

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभो३ं

यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसो३ं

नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसो३ं (६ । १६ । १६-१८)

शो३ंसावो३म् आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतो३ं

स हि विश्वानि पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतो३ं

स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत्ततन्थ भानुनो३ं (६ । १६ । १८-२१)

अग्ने भव सुषमिधा समिद्धः । उत बर्हिरुर्विया वि स्तृणीतो३म्

उत द्वार उशतीर्वि श्रयन्ताम् । उत देवाँ उशत आ वहेहो३म्

अग्ने वीहि हविषा यक्षि देवान् । स्वध्वरा कृणुहि जातवेदो३म् (७ । १७ । १-३)

आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतो३ं

स हि विश्वानि पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतो३ं

[[३८५]]

स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत्ततन्थ भानुनो३ं (६ । १६ । १८-२१)

महावालभित् पच्छः-

अभि प्र वः सुराधसमिन्द्रस्य समिषो महीः ।

शतानीका हेतयो अस्य दुष्टरा इन्द्रमर्च यथा विदो३ं

यो जरितृभ्यो मघवा पुरूवसुर्यदीं सुता अमन्दिषुः ।

गिरिर्न भुज्मा मघवत्सु पिन्वते सहस्रेणेव शिक्षतो३म्

इन्द्रो विश्वस्य गोपतिः ॥

प्र सु श्रुतं सुराधसं हन्ति वृत्राणि दाशुषे ।

शतानीकेव प्र जिगाति धृष्णुयार्चा शक्रमभिष्टयो३ं

यः सुन्वते स्तुवते काम्यं वसु दत्राणि पुरुभोजसः ।

गिरेरिव प्र रसा अस्य पिन्विरे सहस्रेणेव मंहतो३म्

इन्द्रो विश्वस्य भूपतिः ॥

आ त्वा सुतास इन्दवो मध्वः क्षरन्ति धीतयः ।

अनेहसं वो हवमानमूतये मदा य इन्द्र गिर्वणो३म्

आपो न वज्रिन्नन्वोक्यं सर उप स्तोत्रेषु दधिरे ।

आ त्वा वसो हवमानास इन्दवः पृणन्ति शूर राधसो३म्

इन्द्रो विश्वस्य चेतति ॥

यदीं सुतास इन्दवो मध्वः स्वादिष्ठमीं पिब ।

अनेहसं प्रतरणं विवक्षणमभि प्रियममन्दिषो३म्

आपो न धायि सवनं म आ वसो प्र क्षुद्रेव त्मना धृषत् ।

आ यथा मन्दसानः किरासि नो दुघा इवोप दाशुषो३म्

इन्द्रो विश्वस्य राजति ॥

आ नः स्तोममुप द्रवद् विभूतिं राधसो महः ।

प्र वीरमुग्रं विविचिं धनस्पृतं हियानो अश्वो न सोतृभो३ं

यं ते स्वधावन्त्स्वदयन्ति धेनवः सदा पीपेथ दाशुषे ।

उद्रीव वज्रिन्नवतो वसुत्वनेन्द्र कण्वेषु रातयो३म्

इन्द्रो विश्वं विराजति ॥

आ नः सोमे स्वध्वरो विभूतिमक्षितावसुम् ।

उग्रं न वीरं नमसोप सेदिमेयानो अत्यो न तोशतो३ं

[[३८६]]

यं ते स्वदावन्त्स्वदन्ति गूर्तयः क्षरन्तीन्द्र धीतयः ।

उद्रीव वज्रिन्नवतो न सिञ्चते पौरे च्छन्दयसे हवो३म्

प्रचेतन प्रचेतय ॥

यद्ध नूनं यद्वा यज्ञे ओजो वातस्य पिप्रति ।

रथिरासो हरयो ये ते अस्रिधो यद्वा पृथिव्यामधो३म्

अतो नो यज्ञमाशुभिर्महेमते येभिः स्वः परीयसे ।

येभिर्नि दस्युं मनुषो निघोषय उग्र उग्रेभिरा गहो३म्

इन्द्र द्युम्नाय न इषे ॥

यद्ध नूनं परावति वाता इव प्रसक्षिणः ।

अजिरासो हरयो ये त आशवो यद्वा पृथिव्यां दिवो३ं

युजान इन्द्र हरिभिर्महेमत येभिर्विश्वं स्वर्दृशे ।

येभिरपत्यं मनुषः परीयस ऋष्व ऋष्वेभिरा गहो३म्

राये वाजाय वज्रिवः ॥

एतावतस्त ईमहे दीर्घनीथे दमूनसि ।

यथा कण्वे मघवन् मेधे अध्वर इन्द्र सुम्नस्य गोमतो३ं

यथा प्रावो मघवन् मेध्यातिथिं मयि गोत्रं हरिश्रियम् ।

यथा गोशर्ये असिषासो अद्रिवो यथा नीपातिथिं धनो३ं

शविष्ठ वज्रिन्नृञ्जसे ॥

एतावतस्ते वसो यथा पक्थे दशव्रजे ।

यथा कण्वे मघवन् त्रसदस्यवि विद्याम शूर नव्यसो३ं

यथा प्राव एतशं कृत्व्ये धन इन्द्र गोमद्धिरण्यवत् ।

यथा गोशर्ये असनोर्ऋजिश्वनि यथा वशं दशव्रजो३म्

मंहिष्ठ वज्रिन्नृञ्जसे ॥

यथा मनौ सांवरणाविन्द्र सुवाने अमन्दथाः ।

पृषध्रे मेध्ये मातरिश्वनि सोममिन्द्रापिबः सुतो३ं

नीपातिथौ मघवन्मेध्यातिथौ स्यूमरश्मावृजूनसि ।

यथा सोमं दशशिप्रे दशोण्ये पुष्टिगौ श्रुष्टिगौ सचो३ं

चिकित्वाँ अभि नो नय ॥

यथा मनौ विवस्वति शयानं जिव्रिमुद्धितम् ।

[[३८७]]

पार्षद्वाणः प्रस्कण्वं समसादयत् सोमं शक्रापिबः सुतो३ं

यथा त्रिते च्छन्द इन्द्र जुजोषसि त्वोतो दस्यवे वृकः ।

सहस्राण्यसिषासद् गवामृषिरायौ मादयसे सचो३म्

इन्द्रो विदे तमु स्तुषे ॥

य उक्थेभिर्न विन्धते वाजे वाजिञ्छतक्रतो ।

यस्य त्वमिन्द्र स्तोमेषु चाकनश्चिकिद्य ऋषिचोदनो३म्

इन्द्रं तमच्छा वद नव्यस्या मति जुहूमसि श्रवस्यवः ।

तं त्वा वयं सुदुघामिव गोदुहोऽरिष्यन्तं न भोजसो३ं

तमूतये हवामहे ॥

य उक्था केवला दधे त्रिधातुमुत्तमे पदे ।

यस्मा अर्कं सप्तशीर्षाणमानृचुर्यः सोमं धृषितापिबो३ं

यस्मै विष्णुस्त्रीणि पदा विचक्रम आदिज्जनिष्ट पौंस्यम् ।

स त्विमा विश्वा भुवनानि चिक्रददुप मित्रस्य धर्मभो३ं

जेतारमपराजितम् ॥

यो नो दाता वसूनां स रायस्पोषमिन्वति ।

यस्मै त्वं वसो दानाय मंहस इन्द्रं तं हूमहे वयो३ं

विद्मा ह्यस्य सुमतिं नवीयसीं स्तोमैरिन्द्रं हवामहे ।

वसूयवो वसुपतिं शतक्रतुं गमेम गोमति व्रजो३ं

स नः पर्षदति द्विषः ॥

यो नो दाता स नः पिता स रायस्पोषमश्नुते ।

यस्मै त्वं वसो दानाय शिक्षसि महाँ उग्र ईशानको३म्

अयामन्नुग्रो मघवा पुरूवसुः सुतावन्तो हवामहे ।

तं त्वा वयं मघवन्निन्द्र गिर्वणो गोरश्वस्य प्र दातु नो३ं

क्रतुश्छन्द ऋतं बृहत् ॥

कदा चन स्तरीरसि शिक्षो शिक्षसि दाशुषे ।

यस्मै त्वं मघवन्निन्द्र गिर्वणो नेन्द्र सश्चसि दाशुषो३म्

उपोपेन्नु मघवन् भूय इन्नु ते कण्ववच्छृणुधी हवम् ।

अस्माकं गिर उत सुष्टुतिं वसो दानं देवस्य पृच्यतो३ं

स नः पर्षदति स्रिधः ॥

[[३८८]]

कदा चन प्र युच्छसि वधैः शुष्णं निघोषयन् ।

प्र यो ननक्षे अभ्योजसा क्रिविमुभे नि पासि जन्मनो३ं

तुरीयादित्य हवनं त इन्द्रियमादिज्जनिष्ट पार्थिवः ।

यदेदस्तम्भीत् प्रथयन्नमूं दिवमातस्थावमृतं दिवो३ं

पूर्वस्य यत्ते अद्रिवः ॥

यस्यायं विश्व आर्यः सं क्षोणी समु सूर्यम् ।

समिन्द्रो रायो बृहतीरधूनुत दासः शेवधिपा अरो३ं

तिरश्चिदर्ये रुशमे परीरवि सोमा इन्द्रममन्दिषुः ।

सं शुक्रासः शुचयः सं गवाशिरस्तुभ्येत्सो अज्यते रयो३ं

सुम्न आधेहि नो वसो ॥

अस्तावि मन्म पूर्व्यं विप्रासो अर्कमानृचुः ।

तुरण्यवो मधुमन्तं घृतश्चुतं ब्रह्मेन्द्राय वोचतो३म्

पूर्वीर्ऋतस्य बृहतीरनूषतास्मे सुवानास इन्दवः ।

अस्मे रयिः पप्रथे वृष्ण्यं शवः स्तोतुर्मेधा असृक्षतो३म्

पूर्तिः शविष्ठ शश्वते ॥

उपमं त्वा मघोनां येषां सुतेषु मन्दसे ।

नक्षन्त इन्द्रमवसे सुकृत्यया ज्येष्ठं च वृषभाणो३म्

पूर्भित्तमं मघवन्निन्द्र गोविदमेवास्मे इन्द्र मत्स्व ।

यथा संवर्ते अमदो यथा कृश ईशानं राय ईमहो३ं

नूनं तं नव्यं मन्यसे ॥

एतत्त इन्द्र वीर्यं वावृधानो दिवे दिवे ।

य आयुं कुत्समतिथिग्वमर्दयो गीर्भिर्गृणन्ति कारवो३ं

ते स्तोभन्त ऊर्जमावन् घृतश्चुतं वाजयन्तो हवामहे ।

तं त्वा वयं हर्यश्वं शतक्रतुं पौरासो नक्षन् धीतिभो३म्

प्रभो जनस्य वृत्रहन् ॥

आ नो विश्वेषां रसमवन्तु सप्त सिन्धवः ।

पूषा विष्णुर्हवनं मे सरस्वती मध्वः सिञ्चन्त्वद्रयो३ं

ये परावति सुन्विरे जनेष्वा शृणोतु पृथिवी हवम् ।

आपो वातः पर्वतासो वनस्पतिर्ये अर्वावतीन्दवो३ं

[[३८९]]

समन्येषु ब्रवावहै ॥

आ नो विश्वे सजोषसो विश्वे सन्वन्त्वा वसु ।

विश्वा द्वेषांसि जहि चाव चा कृधि देवासो गन्तनोप नो३ं

वसवो रुद्रा अवसे न आ गमन् यत्रा सोमस्य तृम्पसि ।

शीष्टेषु चित्ते मदिरासो अंशवः शृण्वन्तु मरुतो हवो३ं

शूरो यो गोषु गच्छति ॥

इन्द्र नेदीय एदिहि वाज आ वक्षि सुक्रतो ।

आजिपते नृपते त्वमिद्धि नो मितमेधाभिरूतिभो३म्

आ शंतम शंतमाभिरभिष्टिभिः ससवांसो वि शृण्विरे ।

वीती होत्राभिरुत देववीतिभिरा स्वापे स्वापिभो३ं

सखा सुशेवो अद्वयाः ॥

यदिन्द्र राधो अस्ति ते कृधि प्रजास्वाभगम् ।

आजितुरं सत्पतिं विश्वचर्षणिं माघोनं मघवत्तमो३ं

तेन नो बोधि सधमाद्यो वृधे क्रतुं पुनत आनुषक् ।

प्र सू तिरा शचीभिर्य त उक्थिनो भगो दानाय वृत्रहो३म्

एवा ह्येवैवा हि विष्णा३ उ ॥

यस्ते साधिष्ठोऽवसे त्वमस्माकं शतक्रतो ।

वयं त इन्द्र स्तोमेभिर्विधेम ते स्याम भरेषु तो३ं

वयं होत्राभिरुत देवहूतिभिः प्रस्कण्वाय नि तोशय ।

महि स्थूरं शशयं राधो अह्रयं ससवांसो मनामहो३म्

एवा ह्येवैवा हि पूषा३न् ॥

सन्ति ह्यर्य आशिष आजिं यामि सदोतिभिः ।

अहं हि ते हरिवो ब्रह्म वाजयुरिन्द्र आयुर्जनानो३म्

अस्मान् नक्षस्व मघवन्नुपावसे गव्युरग्रे मथीनाम् ।

त्वामिदेव तममे समश्वयुर्धुक्षस्व पिप्युषीमिषो३म्

एवा ह्येवैवा हि देवा३ः ॥

अर्धर्चशः-

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषो३ं

[[३९०]]

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३म्

इन्द्रो विश्वस्य गोपतिः ॥

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसो३ं

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहतो३म्

इन्द्रो विश्वस्य भूपतिः ॥

आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।

आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरो३म्

अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।

आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसो३म्

इन्द्रो विश्वस्य चेतति ॥

यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।

आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषो३म्

अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।

आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषो३म्

इन्द्रो विश्वस्य राजति ॥

आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।

उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषो३म्

प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।

यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयो३म्

इन्द्रो विश्वं विराजति ॥

आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।

उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयो३ं

उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।

यं ते स्वदावन्त्स्वदन्ति गूर्तयः पौरे च्छन्दयसे हवो३म्

प्रचेतन प्रचेतय ॥

यद्ध नून्यद्वा यज्ञे यद्वा पृथिव्यामधि ।

[[३९१]]

येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसो३ं

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।

अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहो३म्

इन्द्र द्युम्नाय न इषे ॥

यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।

येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशो३म्

अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।

युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहो३ं

राये वाजाय वज्रिवः ॥

एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियो३ं

यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।

यथा प्रावो मघवनं मेध्यातिथिं यथा नीपातिथिं धनो३ं

शविष्ठ वज्रिन्नृञ्जसे ॥

एतावतस्ते वसो विद्याम शूर नव्यसः ।

यथा गोशर्ये असनोर्ऋजिश्वनीन्द्र गोमद्धिरण्यवो३ं

यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे ।

यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजो३म्

मंहिष्ठ वज्रिन्नृञ्जसे ॥

यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।

यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसो३म्

पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।

नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचो३ं

चिकित्वाँ अभि नो नय ॥

यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।

सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृको३म्

पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।

यथा त्रिते च्छन्द इन्द्र जुजोषस्यायौ मादयसे सचो३म्

इन्द्रो विदे तमु स्तुषे ॥

[[३९२]]

य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।

तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवो३ं

यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।

इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसो३ं

तमूतये हवामहे ॥

य उक्था केवला दधे यः सोमं धृषितापिबत् ।

स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यो३ं

यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।

यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभो३ं

जेतारमपराजितम् ॥

यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।

वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहो३ं

यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।

विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजो३ं

स नः पर्षदति द्विषः ॥

यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।

तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहो३ं

यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।

अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नो३ं

क्रतुश्छन्द ऋतं बृहत् ॥

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।

अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवो३ं

यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।

उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यतो३ं

स नः पर्षदति स्रिधः ॥

कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।

यदेदस्तम्भीत् प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवो३म्

प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।

तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवो३म्

[[३९३]]

पूर्वस्य यत्ते अद्रिवः ॥

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।

सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषो३ं

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।

तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयो३ं

सुम्न आधेहि नो वसो ॥

अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवो३ं

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।

पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षतो३म्

पूर्तिः शविष्ठ शश्वते ॥

उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।

यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्वो३ं

नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।

पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहो३ं

नूनं तं नव्यं मन्यसे ॥

एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।

तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहो३ं

य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवे दिवे ।

ते स्तोभन्त ऊर्जमावन् घृतश्चुतं पौरासो नक्षन् धीतिभो३म्

प्रभो जनस्य वृत्रहन् ॥

आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।

आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवो३म्

पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।

ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवो३ं

समन्येषु ब्रवावहै ॥

आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।

शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसो३ं

विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।

[[३९४]]

वसवो रुद्रा अवसे न आ गमञ्च्छृण्वन्तु मरुतो हवो३ं

शूरो यो गोषु गच्छति ॥

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरो३म्

आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।

आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभो३ं

सखा सुशेवो अद्वयाः ॥

यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।

प्र सू तिरा शचीभिर्य त उक्थिनः क्रतुं पुनत आनुषो३म्

आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।

तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहो३म्

एवा ह्येवैवा हि विष्णा३ उ ॥

यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।

महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशयो३ं

वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहो३म्

एवा ह्येवैवा हि पूषा३न् ॥

सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।

त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनो३म्

अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।

अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषो३म्

एवा ह्येवैवा हि देवा३ः ॥

ऋक्शः-

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३ं

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।

गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषो३म्

इन्द्रो विश्वस्य गोपतिः ॥

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

[[३९५]]

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहतो३ं

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।

गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसो३म्

इन्द्रो विश्वस्य भूपतिः ॥

आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।

आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसो३म्

अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।

आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरो३म्

इन्द्रो विश्वस्य चेतति ॥

यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।

आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषो३म्

अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।

आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषो३म्

इन्द्रो विश्वस्य राजति ॥

आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।

यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयो३म्

प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।

उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषो३म्

इन्द्रो विश्वं विराजति ॥

आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।

यं ते स्वदावन्त्स्वदन्ति गूर्तयः पौरे च्छन्दयसे हवो३म्

उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।

उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयो३म्

प्रचेतन प्रचेतय ॥

यद्ध नून्यद्वा यज्ञे यद्वा पृथिव्यामधि ।

अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहो३ं

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।

येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसो३म्

इन्द्र द्युम्नाय न इषे ॥

[[३९६]]

यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।

युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहो३म्

अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।

येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशो३ं

राये वाजाय वज्रिवः ॥

एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।

यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धनो३ं

यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि ।

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियो३ं

शविष्ठ वज्रिन्नृञ्जसे ॥

एतावतस्ते वसो विद्याम शूर नव्यसः ।

यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजो३ं

यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे ।

यथा गोशर्ये असनोर्ऋजिश्वनीन्द्र गोमद्धिरण्यवो३म्

मंहिष्ठ वज्रिन्नृञ्जसे ॥

यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।

नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचो३म्

पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।

यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसो३ं

चिकित्वाँ अभि नो नय ॥

यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।

यथा त्रिते च्छन्द इन्द्र जुजोषस्यायौ मादयसे सचो३म्

पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।

सहस्राण्यसिषासद् गवामृषिस्त्वोतो दस्यवे वृको३म्

इन्द्रो विदे तमु स्तुषे ॥

य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।

इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसो३ं

यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।

तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवो३ं

[[३९७]]

तमूतये हवामहे ॥

य उक्था केवला दधे यः सोमं धृषितापिबत् ।

यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभो३ं

यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।

स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यो३ं

जेतारमपराजितम् ॥

यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।

विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजो३ं

यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।

वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहो३ं

स नः पर्षदति द्विषः ॥

यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।

अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नो३ं

यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।

तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहो३ं

क्रतुश्छन्द ऋतं बृहत् ॥

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।

उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यतो३ं

यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।

अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवो३ं

स नः पर्षदति स्रिधः ॥

कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।

तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवो३म्

प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।

यदेदस्तम्भीत् प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवो३म्

पूर्वस्य यत्ते अद्रिवः ॥

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।

तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयो३ं

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।

[[३९८]]

सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषो३ं

सुम्न आधेहि नो वसो ॥

अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।

पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मधा असृक्षतो३ं

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवो३म्

पूर्तिः शविष्ठ शश्वते ॥

उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।

पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहो३ं

नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।

यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्वो३ं

नूनं तं नव्यं मन्यसे ॥

एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।

ते स्तोभन्त ऊर्जमावन् घृतश्चुतं पौरासो नक्षन् धीतिभो३ं

य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवे दिवे ।

तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहो३म्

प्रभो जनस्य वृत्रहन् ॥

आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।

ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवो३म्

पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।

आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवो३ं

समन्येषु ब्रवावहै ॥

आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।

वसवो रुद्रा अवसे न आ गमञ्च्छृण्वन्तु मरुतो हवो३ं

विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।

शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसो३ं

शूरो यो गोषु गच्छति ॥

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभो३म्

[[३९९]]

आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।

वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरो३ं

सखा सुशेवो अद्वयाः ॥

यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।

तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहो३म्

आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।

प्र सू तिरा शचीभिर्य त उक्थिनः क्रतुं पुनत आनुषो३म्

एवा ह्येवैवा हि विष्णा३ उ ॥

यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहो३ं

वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।

महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशयो३म्

एवा ह्येवैवा हि पूषा३न् ॥

सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।

अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषो३म्

अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।

त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनो३म्

एवा ह्येवैवा हि देवा३ः ॥

अविहृतेन चतुर्थम्-

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षतो३ं

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।

गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसो३म्

आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।

आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसो३म्

अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।

आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषो३म्

आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।

यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयो३म्

[[४००]]

उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।

उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयो३ं

यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।

अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहो३म्

अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।

येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशो३म्

एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।

यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धनो३ं

यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे ।

यथा गोशर्ये असनोर्ऋजिश्वनीन्द्र गोमद्धिरण्यवत् ॥ (८ । ४९)

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहतो३ं

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।

गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषो३ं

यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।

आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषो३म्

अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।

आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरो३म्

आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।

यं ते स्वदावन्त्स्वदन्ति गूर्तयः पौरे च्छन्दयसे हवो३म्

प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।

उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषो३ं

यद्ध नून्परावति यद्वा पृथिव्यां दिवि ।

युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहो३ं

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।

येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसो३म्

एतावतस्ते वसो विद्याम शूर नव्यसः ।

यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजो३ं

यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि ।

[[४०१]]

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियो३ं (८ । ५०)

यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।

नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचो३म्

पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।

सहस्राण्यसिषासद् गवामृषिस्त्वोतो दस्यवे वृको३ं

य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।

इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसो३ं

यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।

स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यो३ं

यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।

विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजो३ं

यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।

तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहो३ं

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।

उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यतो३म्

प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।

यदेदस्तम्भीत् प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवो३ं

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।

तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयो३ं

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवो३ं (८ । ५१)

यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।

यथा त्रिते च्छन्द इन्द्र जुजोषस्यायौ मादयसे सचो३म्

पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।

यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसो३ं

य उक्था केवला दधे यः सोमं धृषितापिबत् ।

यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभो३ं

यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।

तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवो३ं

[[४०२]]

यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।

अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नो३ं

यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।

वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहो३ं

कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।

तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवो३ं

यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।

अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवो३म्

अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।

पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मधा असृक्षतो३ं

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।

सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषो३म् [८ । ५२]

उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।

पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहो३ं

य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवे दिवे ।

तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहो३म्

आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।

ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवो३ं

विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।

शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसो३म्

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभो३म्

आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।

प्र सू तिरा शचीभिर्य त उक्थिनः क्रतुं पुनत आनुषो३ं

यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहो३म्

अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।

त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनो३म् [८ । ५३]

एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।

[[४०३]]

ते स्तोभन्त ऊर्जमावन् घृतश्चुतं पौरासो नक्षन् धीतिभो३ं

नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।

यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्वो३म्

आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।

वसवो रुद्रा अवसे न आ गमञ्च्छृण्वन्तु मरुतो हवो३म्

पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।

आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवो३ं

यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।

तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहो३म्

आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।

वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरो३ं

सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।

अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषो३ं

वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।

महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशयो३म् (८ । ५४)

प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् । द्यौर्न प्रथिना शवो३ं

दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः । नित्याद्रायो अमंहतो३ं

शतं मे गर्दभानां शतमूर्णावतीनाम् । शतं दासाँ अति स्रजो३ं

तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । अश्वानामिन्न यूथ्यो३म्

अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः ।

अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत । दिवि सूर्यो अरोचतो३म् [८ । ५६]

भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति । राधस्ते दस्यवे वृको३ं

शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । मह्ना दिवं न तस्तभो३ं

शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।

शतं मे बल्बजस्तुका अरुषीणां चतुः शतो३ं

सुदेवाः स्थ काण्वायना वयो वयो विचरन्तः । अश्वासो न चङ्क्रमतो३म्

आदित् साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।

श्यावीरतिध्वसन् पथश्चक्षुषा चन संनशे ॥ (८ । ५५)

सौपर्णम्-

[[४०४]]

इमानि वां भागधेयानि सिस्रते । इन्द्रावरुणा प्र महे सुतेषु वो३ं

यज्ञे यज्ञे ह सवना भुरण्यथः । यत् सुन्वते यजमानाय शिक्षथो३ं

निष्षिध्वरीरोषधीराप आस्ताम् । इन्द्रावरुणा महिमानमाशतो३ं

या सिस्रतू रजसः पारे अध्वनः । ययोः शत्रुर्नकिरादेव ओहतो३ं

सत्यं तदिन्द्रावरुणा कृशस्य वाम् । मध्व ऊर्मिं दुहते सप्त वाणो३ं

ताभिर्दाश्वांसमवतं शुभस्पती । यो वामदब्धो अभि पाति चित्तिभो३ं

घृतप्रुषः सौम्या जीरदानवः । सप्त स्वसारः सदन ऋतस्यो३ं

या ह वामिन्द्रावरुणा घृतश्चुतः । ताभिर्धत्तं यजमानाय शिक्षतो३म्

अवोचाम महते सौभगाय । सत्यं त्वेषाभ्यां महिमानमिन्द्रियो३म्

अस्मान्त्स्विन्द्रावरुणा घृतश्चुतः । त्रिभिः साप्तेभिरवतं शुभस्पतो३म्

इन्द्रावरुणा यदृषिभ्यो मनीषाम् । वाचो मतिं श्रुतमदत्तमग्रो३ं

यानि स्थानान्यसृजन्त धीराः । यज्ञं तन्वानास्तपसाभ्यपश्यो३ं

दूरोहणम्-

शो३ंसावो३ं हंसः शुचिषद्वसुरन्तरिक्षसत् । होता वेदिषदतिथिर्दुरोणसो३ं

नृषद्वरसदृतसद् व्योमसत् । अब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।

नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्

नृषद्वरसदृतसद् व्योमसत् । अब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्

नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्

नृषद्वरसदृतसद् व्योमसत् । अब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।

नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

हंसः शुचिषद्वसुरन्तरिक्षसत् । होता वेदिषदतिथिर्दुरोणसो३ं [४ । ४० । ५]

नृषद्वरसदृतसद् व्योमसत् । अब्जा गोजा ऋतजा अद्रिजा ऋतो३ं

इन्द्रावरुणा सौमनसमदृप्तम् । रायस्पोषं यजमानेषु धत्तो३म्

प्रजां पुष्टिं भूतिमस्मासु धत्तम् । दीर्घायुत्वाय प्र तिरतं न आयो३म् (८ । ५९)

[[४०५]]

ऐकाहिकसूक्तम्-

आ वां राजानावध्वरे ववृत्याम् । हव्येभिरिन्द्रावरुणा नमोभो३म्

प्र वां घृताची बाह्वोर्दधाना । परि त्मना विषुरूपा जिगातो३ं

युवो राष्ट्रं बृहदिन्वति द्यौः । यौ सेतृभिररज्जुभिः सिनीथो३म्

परि नो हेळो वरुणस्य वृज्याः । उरुं न इन्द्रः कृणवदु लोको३ं

कृतं नो यज्ञं विदथेषु चारुम् । कृतं ब्रह्माणि सूरिषु प्रशस्तो३म्

उपो रयिर्दवजूतो न एतु । प्र ण स्पार्हाभिरूतिभिस्तिरेतो३म्

अस्मे इन्द्रावरुणा विश्ववारम् । रयिं धत्तं वसुमन्तं पुरुक्षो३म्

प्र य आदित्यो अनृता मिनाति । अमिता शूरो दयते वसूनो३ं

शो३ंसावो३म् इयमिन्द्रं वरुणमष्ट मे गीः । प्रावत्तोके तनये तूतुजानो३ं

सुरत्नासो देववीतिं गमेम । यूयं पात स्वस्तिभिः सदा नो३म् ॥ (७ । ८४ । १-५) इ्रति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपः ।

ये३ यजामह इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।

इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन् बर्हिषि मादयेथा३ं वौ३षट् ॥ (६ । ६८ । ११)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । चमसभक्षणम् ।

ब्राह्मणाच्छंसीशस्त्रम् ।

सौभरभद्रस्तोत्रं गर्भाकारं एकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३म्

स्तोत्रियानुरूपौ-

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वाजे चित्रं हवामहो३ं

वाजे चित्रं हवामह उप त्वा कर्मन्नूतये स नो युवा । उग्रश्चक्राम यो धृषो३ं

उग्रश्चक्राम यो धृषत्त्वामिद्ध्यवितारं ववृमहे । सखाय इन्द्र सानसो३ं ॥ (८ । २१ । १-२)

इमा नु कं भुवना सीषधाम । इन्द्रश्च विश्वे च देवो३ं

यज्ञं च नस्तन्वं च प्रजां च । आदित्यैरिन्द्रः सह चीक्ल्पातो३म्

आदित्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनो३ं (१०-१५७-३)

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वाजे चित्रं हवामहो३ं

वाजे चित्रं हवामह उप त्वा कर्मन्नूतये स नो युवा । उग्रश्चक्राम यो धृषो३ं

उग्रश्चक्राम यो धृषत्त्वामिद्ध्यवितारं ववृमहे । सखाय इन्द्र सानसो३ं ॥ (८ । २१ । १-२)

[[४०६]]

शो३ंसावो३ं यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे । सखाय इन्द्रमूतयो३ं

सखाय इन्द्रमूतये हर्यश्वं सत्पतिं चर्षणीसहम् । स हि ष्मा यो अमन्दतो३ं

स हि ष्मा यो अमन्दता तु नः स वयति गव्यमश्व्यम् । स्तोतृभ्यो मघवा शतो३ं ॥ (८ । २१ । ९-१०)

हत्वाय देवा असुरान्यदायन् । देवा देवत्वमभिरक्षमाणो३म्

प्रत्यञ्चमर्कमनयञ्छचीभिः । आदित्स्वधामिषिरां पर्यपश्यो३म्

अया वाजं देवहितं सनेम । मदेम शतहिमाः सुवीरो३ं

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु वः स्तुषे । सखाय इन्द्रमूतयो३ं

सखाय इन्द्रमूतये हर्यश्वं सत्पतिं चर्षणीसहम् । स हि ष्मा यो अमन्दतो३ं

स हि ष्मा यो अमन्दता तु नः स वयति गव्यमश्व्यम् । स्तोतृभ्यो मघवा शतो३ं ॥ (८ । २१ । ९-१०)

शो३ंसावो३म् अप प्राच इन्द्र विश्वाँ अमित्रान् । अपापाचो अभिभूते नुदस्वो३म्

अपोदीचो अप शूराधराचः । उरौ यथा तव शर्मन् मदेमो३ं

कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूयो३म्

इहेहैषां कृणुहि भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मो३ं

नहि स्थूर्यृतुथा यातमस्ति । नोत श्रवो विविदे सङ्गमेषो३ं

गव्यन्त इन्द्रं सख्याय विप्राः । अश्वायन्तो वृषणं वाजयन्तो३ं

युवं सुराममश्विना नमुचावासुरे सचा ।

विपिपाना शुभस्पती इन्द्रं कर्मस्वावतो३म्

पुत्रमिव पितरावश्विनोभा । इन्द्रावथुः काव्यैर्दंसनाभो३ं

यत्सुरामं व्यपिबः शचीभिः । सरस्वती त्वा मघवन्नभिष्णो३म्

इन्द्रः सुत्रामा स्ववाँ अवोभिः । सुमृळीको भवतु विश्ववेदो३म्

बाधतां द्वेषो अभयं कृणोतु । सुवीर्यस्य पतयः स्यामो३ं

तस्य वयं सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्यामो३ं

स सुत्रामा स्ववाँ इन्द्रो अस्मे । आराच्चिद् द्वेषः सनुतर्युयोतो३ं

वि हि सोतोरसृक्षत । नेन्द्रं देवममंसत ।

यत्रो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ मदद्वृषाकपो३ओ॒ओ॑ओ३मर्यः पुष्टेषु मत्सखा । विश्वस्मादिन्द्र उत्तरो३म् परा हीन्द्र धावसि । वृषाकपेरति व्यथिः ।

नो ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ ह प्र विन्दसो३ओ॒ओ॑ओ३मन्यत्र सोमपीतये । विश्वस्मादिन्द्र उत्तरो३ं किमयं त्वां वृषाकपिः । चकार हरितो मृगः ।

[[४०७]]

यस्मो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ इरस्यसीदो३ओ॒ओ॑ओ३ं न्वर्यो वा पुष्टिमद्वसु । विश्वस्मादिन्द्र उत्तरो३ं यमिमं त्वं वृषाकपिम् । प्रियमिन्द्राभिरक्षसि ।

श्वा न्वो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ स्य जम्भिषो३ओ॒ओ॑ओ३मपि कर्णे वराहयुः । विश्वस्मादिन्द्र उत्तरो३ं प्रिया तष्टानि मे कपिः । व्यक्ता व्यदूदुषत् ।

शिरो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ न्वस्य राविषो३ओ॒ओ॑ओ३ं न सुगं दुष्कृते भुवम् । विश्वस्मादिन्द्र उत्तरो३ं न मत् स्त्री सुभसत्तरा । न सुयाशुतरा भुवत् ।

न मो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ प्रतिच्यवीयसो३ओ॒ओ॑ओ३ं न सक्थ्युद्यमीयसी । विश्वस्मादिन्द्र उत्तरो३ं उवे अम्ब सुलाभिके । यथेवाङ्ग भविष्यति ।

भसो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ मे अम्ब सक्थि मो३ओ॒ओ॑ओ३ं शिरो मे वीव हृष्यति । विश्वस्मादिन्द्र उत्तरो३ं किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।

किं शो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ रपत्नि नस्त्वो३ओ॒ओ॑ओ३मभ्यमीषि वृषाकपिम् । विश्वस्मादिन्द्र उत्तरो३म् अवीरामिव मामयम् । शरारुरभि मन्यते ।

उतो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ हमस्मि वीरिणो३ओ॒ओ॑ओ३मिन्द्रपत्नी मरुत्सखा । विश्वस्मादिन्द्र उत्तरो३ं संहोत्रं स्म पुरा नारी । समनं वाव गच्छति ।

वेधो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ ऋतस्य वीरिणो३ओ॒ओ॑ओमिन्द्रपत्नी महीयते । विश्वस्मादिन्द्र उत्तरो३म् इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।

नह्यो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ स्या अपरं चनो३ओ॒ओ॑ओ३ं जरसा मरते पतिः । विश्वस्मादिन्द्र उत्तरो३ं नाहमिन्द्राणि रारण । सख्युर्वृषाकपेर्ऋते ।

यस्यो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ दमप्यं हवो३ओ॒ओ॑ओ३ं प्रियं देवेषु गच्छति । विश्वस्मादिन्द्र उत्तरो३ं वृषाकपायि रेवति । सुपुत्र आदु सुस्नुषे ।

घसो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ त्त इन्द्र उक्षणो३ओ॒ओ॑ओ३ं प्रियं काचित्करं हविः । विश्वस्मादिन्द्र उत्तरो३म् उक्ष्णो हि मे पञ्चदश । साकं पचन्ति विंशतिम् ।

उतो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ हमद्मि पीव ओ३ओ॒ओ॑ओ३मुभा कुक्षी पृणन्ति मे । विश्वस्मादिन्द्र उत्तरो३ं वृषभो न तिग्मशृङ्गः । अन्तर्यूथेषु रोरुवत् ।

मन्थो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ स्त इन्द्र शं हृदो३ओ॒ओ॑ओ३ं यं ते सुनोति भावयुः । विश्वस्मादिन्द्र उत्तरो३ं न सेशे यस्य रम्बते । अन्तरा सक्थ्या कपृत् ।

सेदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ शे यस्य रोमशो३ओ॒ओ॑ओ३ं निषेदुषो विजृम्भते । विश्वस्मादिन्द्र उत्तरो३ं न सेशे यस्य रोमशम् । निषेदुषो विजृम्भते ।

[[४०८]]

सेदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ शे यस्य रम्बतो३ओ॒ओ॑ओ३मन्तरा सक्थ्या कपृत् । विश्वस्मादिन्द्र उत्तरो३म् अयमिन्द्र वृषाकपिः । परस्वन्तं हतं विदत् ।

असो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ सूनां नवं चरो३ओ॒ओ॑ओ३माद्येधस्यान आचितम् । विश्वस्मादिन्द्र उत्तरो३म् अयमेमि विचाकशत् । विचिन्वन्दासमार्यम् ।

पिबो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ मि पाकसुत्वनो३ओ॒ओ॑ओ३मभि धीरमचाकशम् । विश्वस्मादिन्द्र उत्तरो३ं धन्व च यत्कृन्तत्रं च । कति स्वित्ता वि योजना ।

नेदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ यसो वृषाकपो३ओ॒ओ॑ओ३मस्तमेहि गृहाँ उप । विश्वस्मादिन्द्र उत्तरो३म् पुनरेहि वृषाकपे । सुविता कल्पयावहै ।

य ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ ष स्वप्ननंशनो३ओ॒ओ॑ओ३मस्तमेषि पथा पुनः । विश्वस्मादिन्द्र उत्तरो३ं यदुदञ्चो वृषाकपे । गृहमिन्द्राजगन्तन ।

क्व स्यो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ पुल्वघो मृगो३ओ॒ओ॑ओ३ं कमगञ्जनयोपनः । विश्वस्मादिन्द्र उत्तरो३म् पर्शुर्ह नाम मानवी । साकं ससूव विंशतिम् ।

भद्रो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ भल त्यस्या अभो३ओ॒ओ॑ओ३ं यस्या उदरमामयत् । विश्वस्मादिन्द्र उत्तरो३म्

इदं जना उपश्रुत । नराशंसस्तविष्यते ।

ष॒ष्टिं सहस्रा नवतिं च कौरम आरुशमेषु दद्महो३म्

उष्ट्रा यस्य प्रवाहिणो वधूमन्तो द्विर्दश ।

व॒र्ष्मा रथस्य नि जिहीळते दिव ईषमाणा उपस्पृशो३म्

एष इषाय मामहे शतं निष्कान् दश स्रजः ।

त्री॒णि शतान्यर्वतां सहस्रा दश गोनो३ं

वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।

नि॒ष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिवो३म्

प्र रेभासो मनीषया वृथा गाव इवेरते ।

अ॒मोतपुत्रका एषामुमोदका उपासतो३म्

प्र रेभ धियं भरस्व गोविदं वसुविदम् ।

दे॒वत्रेमां वाचं शृणीहीषुनी वीरास्तारो३ं

राज्ञो विश्वजनीनस्य यो देवो मर्त्या अ्रत ।

वै॒श्वानरस्य सुष्ट्रुतमा सुनोता परिक्षितो३म्

परिक्षिन्नः क्षेममकरत्तम अ्सनमा सरम् ।

[[४०९]]

अ॒राय्यं कुर्वन् कौरव्यः पतिर्वदति जाययो३ं

कतरत आ हराणि दधि मन्थां परिस्रुतम् ।

जा॒या पतिं विपृच्छति राष्ट्रे राज्ञः परिक्षितो३म्

अभीव स्वः प्र जिहीते यवः पक्वः पयो बिलम् ।

ज॒नः स भद्रमेधते राष्ट्रे राज्ञः परिक्षितो३म्

इन्द्रः कारुमबूबुधदुत्तिष्ठ विचरा चरन् ।

म॒मेदुग्रस्य चर्कृतिः सर्व इत्ते पृणादरो३म्

इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।

इ॒हो सहस्रदक्षिणासो वीरस्त्र्ता नि षीदतो३ं

नेमा इन्द्र गावो व्षिन्मो आसां गोपती रिषत् ।

मा॒साममित्रयुर्जन इन्द्र मा स्तेन ईशतो३म्

उप वो नर एमसि । सूक्तेन वचसा वयं भद्रेणा वचसा वयम् ।

च॒नो दधिष्व नो गिरो न व्ष्यिेम कदा चनो३ं

यः सभेयो विदथ्यः सुत्वा यज्वा च पूरुषः ।

सू॒र्यं चामू रिशादसं तद्देवाः प्रागकल्पयो३ं

यो जाम्याः प्रत्यमदद्यः सखायं निनित्सति ।

ज्ये॒ष्ठो यदप्रचेतास्तदाहुरधरागितो३ं

यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।

त॒द्विप्रो अब्रवीदुद्ग्गन्धर्वः काम्यं वचो३ं

योऽनाक्ताक्ष्यो अनभ्यक्तो मणीवो अहिरण्यवः ।

अ॒ब्रह्मा ब्रह्मणः पुत्रस्त्वोता कल्पेषु सम्मितो३ं

य आक्ताक्ष्यः स्वभ्यक्तः सुमणिः सुहिरण्ययः ।

सु॒ब्रह्मा ब्रह्मणः पुत्रस्त्वोता कल्पेषु सम्मितो३म्

अप्रपाणा च वेशन्ता रेवाँ अप्रचतिश्च यः ।

अ॒यभ्या कन्या कल्याणी त्वोता कल्पेषु सम्मितो३ं

सुप्रपाणा च वेशन्ता रेवाँ सुप्रचतिश्च यः ।

सु॒यभ्या कन्या कल्याणी त्वोता कल्पेषु सम्मितो३ं

परिवृक्ता च महिषी स्वस्त्या च युधिङ्गमः ।

स्वा॒शुरश्व आयामी त्वोता कल्पेषु सम्मितो३ं

[[४१०]]

वावाता च महिष्वणिस्या च युधिङ्गमः ।

अ॒नाशुरश्व आयामी त्वोता कल्पेषु सम्मितो३ं

यदिन्द्रादो दाशराज्ञेऽमानुषं विगाहथाः ।

वि॒रूपः सर्वस्मा आसीत् सदृगक्षाय वञ्चतो३ं

त्वं विषाक्षं मघवन्नम्रं पर्याकरोरभि ।

त्वं॒ रौहिणं व्यास्यस्त्वं वृत्रस्याभिनच्छिरो३ं

यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।

यो॒ वृत्रं वृत्रहन्नहन् तस्मा इन्द्र नमोऽस्तु तो३म्

प्रष्टिं धावन्तं हर्योरोच्चैःश्रवसमब्रवम् ।

स्व॒स्त्यश्व जैत्रायेन्द्र मा वहतो रथो३ं

यत्त्वा श्वेता उच्चैःश्रवसं हर्योर्युञ्जन्ति दक्षिणम् ।

मू॒र्धानमश्वं देवानां बिभ्रदिन्द्रं महीयतो३म्

एता अश्वा आप्लवन्ते । प्रतीपं प्रातिसत्वनम् । तासामेका हरिक्लिका । हरिक्लिके किमिच्छसि । साधुं पुत्रं हिरण्ययम् । क्वाह तं परास्यः । यत्रामूस्तिस्रः शिंशपाः । परि त्रयः पृदाकवः । शृङ्गं धमन्त आसते । अयं वहाते अवहि । स इत्था कं स एव कम् । स घा घ ते सघा घ मे । गोमी घ गोमिनीरभि । पुमां भूम्ने निनित्ससि । बल्बबथो इति । बल्बबो अथो इति । अजकोऽरकोऽविका । अश्वस्य वारो गोः शफः । केशिनी श्येनी एनीव । अनामयोपजिह्विका । को अम्ब हुलमायुनि । को अर्जुन्याः पयः । को असिक्न्याः पयः । एतं पृच्छ कुहं पृच्छ । कुहा कं पक्वकं पृच्छ । य आयन्ति श्वभिष्कुभिः । अब्जन्तः कुभायवः । आमनको मनस्थकः । देवत्तः प्रतिजूर्यः । पिनष्टि पर्तिका हविः । प्र बुद्बुधो मथायति । शुङ्ग उत्पत । मा त्वाति सखा नो वदत् । वशायाः पुत्रमायन् तम् । इरा चेन्द्रममन्दत । इयन्नियन्निति । अथो इयन्निति । अथो ज्यायस्तरो भुवत् । इयं यका शलाकका । आ मिनोति नि भज्यते । तस्या अनुनिभञ्जनम् । वरुणो याति बभ्रुभिः । शतं बभ्रोरभीशुभिः । शतं कशा हिरण्ययीः । शतं रथा हिरण्ययाः । आहलकुः शवर्तकः । आयवनेन तेजनी । शफेन पीव ओहते । वनिष्ठुनोप नृत्यति । इमं मह्यमदुरिति । ते वृक्षाः सह तिष्ठन्ति । पाकवलिः शतवलिः । अश्वत्थः खदिरो धवः । अरदुः परमः शये । हत इव पापपूरुषः । अदोहमित् पीयूषकम् । द्वौ च हस्तिनो दृती । अध्यर्धं च परस्वतः । आदलाबुकमेककम् । अलाबुकं निखातकम् । कर्करिको निखातकः । तद्वात उन्मथायति । कुलायं करवाँ इति । उग्रं वल्पदाततम् । न वल्पदनानतम् । क एषां कर्करिं लिखत् । क एषां दुन्दुभिं हनत् । यदीं हनत् कथं हनत् । दैलीं हनत् कथं हनत् । पर्याकारं पुनः पुनो३ं

[[४११]]

विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३म्

मातुष्टे किरणौ द्वौ नीवीतः पुरुषादृते । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३ं

निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमम् । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३म्

उत्तानायै शयानायै तिष्ठन्नेवाव गूहसि । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३ं

श्लक्ष्णायां श्लक्ष्णिकायां श्लक्णमेवाव गूहसि । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३म्

अव श्लक्ष्णमभ्रशदन्तर्लोमवति ह्रदे । न वै कुमारि तत्तथा यथा कुमारि मन्यसो३म्

इहेत्था प्रागपागुदगधरागरला उदभर्त्सतो३म् । इहेत्था प्रागपागुधगदराग् वत्साः प्रुपन्त आसतो३म् ।

इहेत्था प्रागपागुधगदराक् स्थालीपको विलीयतो३म् । इहेथा प्रागपागुधगदराक् सिलीपुच्छो विलीयतो३म् ।

भुगित्यभिगतः । शरित्यभिष्ठितः । फलित्यपक्रान्तः ।

वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्र चर । सुशस्तिरिद् गवामस्यति प्रखिदसो महत् ।

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।

तां ह जरितर्न प्रत्यायन् तामु ह जरितः प्रत्यायन् ।

तां ह जरितर्न प्रत्यगृभ्णन् तामु ह जरितः प्रत्यगृभ्णन् ।

अहानेतसन्नविचेतनानि जज्ञानेतसन्नपुरोगवासः ।

उत श्वेता आशुपत्वा उतो पद्याभिर्वसिष्ठः । उतेमाशुमानं पिपर्ति ।

आदित्या रुद्रा वसवस्त्वेळते इदं राधः प्रति गृभ्णीह्यङ्गिरः ।

इदं राधो बृहत्पृथु देवा ददत्वा वरम् ।

तद्वो अस्तु सुचेतनं युष्मे अस्तु दिवे दिवे । प्रत्येव गृभायतो३म् ।

त्वमिन्द्र शर्मन्नरिणा हव्यं परावतेभ्यः । विप्राय स्तुवते वसु ऋजुरिच्छ्रवसे वहो३ं

त्वमिन्द्र कपोताय च्छिन्नपक्षाय वञ्चते । श्यामाकं पक्वं विरुज वारस्मा अकृणोर्बहो३म्

आरङ्गरो वावदीति त्रेधा बद्धो वरत्ययाः । इरामु ह प्र शंसत्यनिरामप सेधतो३म्

यदस्याः अंहुभेद्याः । पृथु स्थूरमुपातसत् ।

मुष्को३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ इदस्या एजतो३ओ॒ओ॑ओ३ं गोशफे शकुलाविवो३ं

[[४१२]]

यदा स्थूरेण पससा । अणू मुष्का उपावधीत् ।

विश्वो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ चावस्यार्दतो३ओ॒ओ॑ओ३ं सिकतास्विव गर्दभो३ं

यदल्पिका स्वल्पिका । कर्कन्धुकेव पच्यते ।

वासो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ न्तिकमिव तेज३ओ॒ओ॑ओ३ं यभ्यमाना वि नम्यतो३ं

यद्देवासो ललाबुकं । प्र विष्टीमिनमाविषुः ।

सक्थ्नो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ ते दंश्यते नारो३ओ॒ओ॑ओ३ं सत्यस्याक्षी भगो यथो३म्

महानग्न्युप ब्रूते । अश्वस्या वेशितं पसः ।

ईदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ फलस्य वृक्षस्यो३ओ॒ओ॑ओ३ं शूर्पं शूर्पं भजेमहो३म्

महानग्न्यदृसं हि सः । अक्रन्ददस्तमासदत् ।

शक्नो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ कामना भुवो३ओ॒ओ॑ओ३ं मशकं सक्थ्युतो३म्

महानग्नुलूखलम् । अतिक्रामन्त्यब्रवीत् ।

यथो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ व ते वनस्पतो३ओ॒ओ॑ओ३मपि घ्नन्ति तथैव मो३ं

महानग्नी कृकवाकुम् । शम्यया परिधावति ।

इदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ न विद्म तेजनो३ओ॒ओ॑ओ३ं शीर्ष्णा भवति धानिको३म्

महानग्नी महानग्नम् । धावन्तमनु धावति ।

इमो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ स्तदस्य गा रक्षो३ओ॒ओ॑ओ३ं यम मामद्ध्योदनो३म्

महान् वै भदो बिल्वः । महान् पक्व उदुम्बरः ।

महो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ अभिज्ञु बाधतो३ओ॒ओ॑ओ३ं महतः साधु खोदनो३म्

कपृन्नरः कपृथमुद्दधातन । चोदयत खुदत वाजसातये ।

निष्टो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ ग्र्यः पुत्रमा च्यावयोतयो३ओ॒ओ॑ओ३मिन्द्रं सबाध इह सोमपीतयो३म्

यद्ध प्राचीरजगन्तोरो । मण्डूरधाणिकीः ।

हतो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ इन्द्रस्य शत्रवो३ओ॒ओ॑ओ३ं सर्वे बुद्बुधयाशवो३ं

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूंषि तारिषो३ं

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।

पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदो३म् (९-१०१-४)

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।

सोमः पती रयीणां सखेन्द्रस्य दिवे दिवो३म् (९-१०१-६)

[[४१३]]

सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।

वाचस्पतिर्मखस्यते विश्वस्येशान ओजसो३म् (९-१०१-५)

अव द्रप्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रो३म्

आवत्तमिन्द्रः शच्या धमन्तम् । अप स्नेहितीर्नृमणा अधत्तो३ं (८-९६-१३

द्रप्समपश्यं विषुणे चरन्तम् । उपह्वरे नद्यो अंशुमत्यो३ं

नभो न कृष्णमवतस्थिवांसम् । इष्यामि वो वृषणो युध्यताजो३म्

अध द्रप्सो अंशुमत्याः । उपस्थेऽधारयत्तन्वं तित्विषाणो३ं

विशो अदेवीरभ्याचरन्तीः । बृहस्पतिना युजेन्द्रः ससाहो३म् (८-९६-१५)

अच्छा म इन्द्रं मतयः स्वर्विदः । सध्रीचीर्विश्वा उशतीरनूषतो३म्

परि ष्वजन्ते जनयो यथा पतिम् । मर्यं न शुन्ध्युं मघवानमूतयो३ं

न घा त्वद्रिगप वेति मे मनः । त्वे इत्कामं पुरुहूत शिश्रयो३ं

राजेव दस्म नि षदोऽधि बर्हिषि । अस्मिन्त्सु सोमेऽवपानमस्तु तो३ं

विषूवृदिन्द्रो अमतेरुत क्षुधः । स इद्रायो मघवा वस्व ईशतो३ं

तस्येदिमे प्रवणे सप्त सिन्धवः । वयो वर्धन्ति वृषभस्य शुष्मिणो३ं

वयो न वृक्षं सुपलाशमासदन् । सोमास इन्द्रं मन्दिनश्चमूषदो३म्

प्रैषामनीकं शवसा दविद्युतत् । विदत्स्वर्मनवे ज्योतिरार्यो३ं

कृतं न श्वघ्नी वि चिनोति देवने । संवर्गं यन्मघवा सूर्यं जयो३ं

न तत्ते अन्यो अनु वीर्यं शकत् । न पुराणो मघवन्नोत नूतनो३ं

विशं विशं मघवा पर्यशायत । जनानां धेना अवचाकशद्वृषो३ं

यस्याह शक्रः सवनेषु रण्यति । स तीव्रैः सोमैः सहते पृतन्यतो३म्

आपो न सिन्धुमभि यत्समक्षरन् । सोमास इन्द्रं कुल्याइव ह्रदो३ं

वर्धन्ति विप्रा महो अस्य सादने । यवं न वृष्टिर्दिव्येन दानुनो३ं

वृषा न क्रुद्धः पतयद्रजः स्वा । यो अर्यपत्नीरकृणोदिमा अपो३ं

स सुन्वते मघवा जीरदानवे । अविन्दज्ज्योतिर्मनवे हविष्मतो३म्

उज्जायतां परशुर्ज्योतिषा सह । भूया ऋतस्य सुदुघा पुराणवो३ं

वि रोचतामरुषो भानुना शुचिः । स्वर्ण शुक्रं शुशुचीत सत्पतो३ं

गोभिष्टरेमामतिं दुरेवाम् । यवेन क्षुधं पुरुहूत विश्वो३ं

वयं राजभिः प्रथमा धनानि । अस्माकेन वृजनेना जयेमो३ं

शो३ंसावो३म् बृहस्पतिर्नः परि पातु पश्चात् । उतोत्तरस्मादधरादघायो३म्

[[४१४]]

इन्द्रः पुरस्तादुत मध्यतो नः । सखा सखिभ्यो वरिवः कृणोतो३म् (१० । ४३ । १-११) इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपति ।

ये३ यजामहे बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।

धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा ना३ वौ३षट् ॥ (७ । ९७ । १०)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । स्वेन प्रातःसवनकीयेन समो भक्षविधिः ।

अच्छावाकशस्त्रम् ।

नार्मेधस्तोत्रमेकविंशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे

हिम् भूर्भुवःस्वरो३म् । अध्वर्यो शोशो३ंसावो३ं

अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे । उदेव यन्त उदभो३ं

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वांसं चिदद्रिवो दिवे दिवो३ं

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । इन्द्रवाहा वचोयुजो३ं (८ । ९८ । ७-९)

प्र व इन्द्राय वृत्रहन्तमाय । विप्रा गाथं गायत यज्जुजोषो३म्

अर्चन्त्यर्कं देवतास्वर्काः । आ स्तोभति श्रुतो युवा स इन्द्रो३म्

उपप्रक्षेमधुमति क्षियन्तः । पुष्यन्तो रयिं धीमहे तमिन्द्रो३म्

अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे । उदेव यन्त उदभो३ं

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वांसं चिदद्रिवो दिवे दिवो३ं

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । इन्द्रवाहा वचोयुजो३ं (८ । ९८ । ७-९)

शो३ंसावो३म् इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । मन्दानो अस्य बर्हिषो वि राजसो३ं

नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे । रयिं न श्चित्रमा भरा स्वर्विदो३ं

स्तोता यत्ते विचर्षणिरतिप्रशर्धयद् गिरः । वया इवानु रोहते जुषन्त यो३ं (८ । १३ । ४-६)

विश्वतो दावन्विश्वतो न आ भर । यं त्वा शविष्ठमीमहो३ं

स सुप्रणीते नृतमः स्वराट् । असि मंहिष्ठो वाजसातयो३ं

त्वं ह्येक ईशिषे । अनादमृक्त ओजसो३म्

इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । मन्दानो अस्य बर्हिषो वि राजसो३ं

नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे । रयिं न श्चित्रमा भरा स्वर्विदो३ं

स्तोता यत्ते विचर्षणिरतिप्रशर्धयद् गिरः । वया इवानु रोहते जुषन्त यो३ं (८ । १३ । ४-६)

शो३ंसावो३म् प्र वो महे मतयो यन्तु विष्णवे । मरुत्वते गिरिजा एवयामरुत् ।

[[४१५]]

प्र शो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ र्धाय प्रयज्यवे सुखादयो३ओ॒ओ॑ओ३ं तवसे भन्ददिष्टये । धुनिव्रताय शवसो३म्

प्र ये जाता महिना ये च नु स्वयम् । प्र विद्मना ब्रुवत एवयामरुत् ।

क्रत्वो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ तद्वो मरुतो नाधृषे शवो ३ओ॒ओ॑ओ३ं दाना मह्ना तदेषाम् । अधृष्टासो नाद्रयो३म्

प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।

न यो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ षामिरी सधस्थ ईष्ट ओ३ओ॒ओ॑ओ३मग्नयो न स्वविद्युतः । प्र स्यन्द्रासो धुनीनो३ं

स चक्रमे महतो निरुरुक्रमः । समानस्मात्सदस एवयामरुत् ।

यदो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ युक्त त्मना स्वादधि ष्णुभो३ओ॒ओ॑ओ३ं विष्पर्धसो विमहसः । जिगाति शेवृधो नृभो३ं

स्वनो न वोऽमवान्रेजयद्वृषा । त्वेषो ययिस्तविष एवयामरुत् ।

येनो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ सहन्त ऋञ्जत स्वरोचिषो३ओ॒ओ॑ओ३ं स्थारश्मानो हिरण्ययाः । स्वायुधास इष्मिणो३म्

अपारो वो महिमा वृद्धशवसः । त्वेषं शवोऽवत्वेवयामरुत् ।

स्थातो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ रो हि प्रसितौ संदृशि स्थनो३ओ॒ओ॑ओ३ं ते न उरुष्यता निदः । शुशुक्वांसो नाग्नयो३ं

ते रुद्रासः सुमखा अग्नयो यथा । तुविद्युम्ना अवन्त्वेवयामरुत् ।

दीर्घो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ पृथु पप्रथे सद्म पार्थिवो३ओ॒ओ॑ओ३ं येषामज्मेष्वा महः । शर्धांस्यद्भुतैनसो३म्

अद्वेषो नो मरुतो गातुमेतन । श्रोता हवं जरितुरेवयामरुत् ।

विष्णो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ र्महः समन्यवो युयोतनो३ओ॒ओ॑ओ३ं स्मद्रथ्यो न दंसना । अप द्वेषांसि सनुतो३ं

गन्ता नो यज्ञं यज्ञियाः सुशमि । श्रोता हवमरक्ष एवयामरुत् ।

ज्येष्ठो३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ओ॒ओ॒ओ३ओ॒ओ॒ओ॒ सो न पर्वतासो व्योमनो३ओ॒ओ॑ओ३ं यूयं तस्य प्रचेतसः । स्यात दुर्धर्तवो निदो३म् (५-८७-९)

ऋतुर्जनित्री तस्या अपस्परि । मक्षू जात आविशद्यासु वर्धतो३ं

तदाहना अभवत्पिप्युषी पयः । अंशोः पीयूषं प्रथमं तदुक्थ्यो३ं

सध्रीमा यन्ति परि बिभ्रतीः पयः । विश्वप्स्न्याय प्र भरन्त भोजनो३ं

[[४१६]]

समानो अध्वा प्रवतामनुष्यदे । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्

अन्वेको वदति यद्ददाति तत् । रूपा मिनन्तदपा एक ईयतो३ं

विश्वा एकस्य विनुदस्तितिक्षते । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्

प्रजाभ्यः पुष्टिं विभजन्त आसते । रयिमिव पृष्ठं प्रभवन्तमायतो३म

असिन्वन्दंष्ट्रैः पितुरत्ति भोजनम् । यस्ताकृणोः प्रथमं सास्युक्थ्यो३म्

अधाकृणोः पृथिवीं संदृशे दिवे । यो धौतीनामहिहन्नारिणक्पथो३ं

तं त्वा स्तोमेभिरुदभिर्न वाजिनम् । देवं देवा अजनन्त्सास्युक्थ्यो३ं

यो भोजनं च दयसे च वर्धनम् । आर्द्रादा शुष्कं मधुमद्दुदोहिथो३ं

स शेवधिं नि दधिषे विवस्वति । विश्वस्यैक ईशिषे सास्युक्थ्यो३ं

यः पुष्पिणीश्च प्रस्वश्च धर्मणा । अधि दाने व्यवनीरधारयो३ं

यश्चासमा अजनो दिद्युतो दिवः । उरुरूर्वा अभितः सास्युक्थ्यो३ं

यो नार्मरं सहवसुं निहन्तवे । पृक्षाय च दासवेशाय चावहो३म्

ऊर्जयन्त्या अपरिविष्टमास्यम् । उतैवाद्य पुरुकृत् सास्युक्थ्यो३ं

शतं वा यस्य दश साकमाद्यः । एकस्य श्रुष्टौ यद्ध चोदमाविथो३ं

अरज्जौ दस्यून्त्समुनब् दभीतये । सुप्राव्यो अभवः सास्युक्थ्यो३ं

विश्वेदनु रोधना अस्य पौंस्यम् । ददुरस्मै दधिरे कृत्नवे धनो३ं

षळस्तभ्ना विष्टिरः पञ्च संदृशः । परि परो अभवः सास्युक्थ्यो३ं

सुप्रवाचनं तव वीर वीर्यम् । यदेकेन क्रतुना विन्दसे वसो३ं

जातूष्ठिरस्य प्र वयः सहस्वतः । या चकर्थ सेन्द्र विश्वास्युक्थ्यो३म्

अरमयः सरपसस्तराय कम् । तुर्वीतये च वय्याय च स्रुतो३ं

नीचा सन्तमुदनयः परावृजम् । प्रान्धं श्रोणं श्रवयन्त्सास्युक्थ्यो३म्

अस्मभ्यं तद्वसो दानाय राधः । समर्थयस्व बहु ते वसव्यो३म्

इन्द्र यच्चित्रं श्रवस्या अनु द्यून् । बृहद्वदेम विदथे सुवीरो३ं (२ । १३ । १-१३)

नू मर्तो दयते सनिष्यन् । यो विष्णव उरुगायाय दाशो३म्

प्र यः सत्राचा मनसा यजाते । एतावन्तं नर्यमाविवासो३ं

त्वं विष्णो सुमतिं विश्वजन्याम् । अप्रयुतामेवयावो मतिं दो३म्

पर्चो यथा नः सुवितस्य भूरेः । अश्वावतः पुरुश्चन्द्रस्य रायो३ं

त्रिर्दवः पृथिवीमेष एताम् । वि चक्रमे शतर्चसं महित्वो३म्

प्र विष्णुरस्तु तवसस्तवीयान् । त्वेषं ह्यस्य स्थविरस्य नामो३ं

[[४१७]]

वि चक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यो३ं

ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिं सुजनिमा चकारो३म्

प्र तत्ते अद्य शिपिविष्ट नाम । अर्यः शंसामि वयुनानि विद्वो३ं

तं त्वा गृणामि तवसमतव्यान् । क्षयन्तमस्य रजसः पराको३ं

किमित्ते विष्णो परिचक्ष्यं भूत् । प्र यद्ववक्षे शिपिविष्टो अस्मो३म्

मा वर्पो अस्मदप गूह एतत् । यदन्यरूपः समिथे बभूथो३ं

वषट् ते विष्णवास आ कृणोमि । तन्मे जुषस्व शिपिविष्ट हव्यो३ं

वर्धन्तु त्वा सुष्टुतयो गिरो मे । यूयं पात स्वस्तिभिः सदा नो३म् (७ । १०० । १-७)

भवा मित्रो न शेव्यो घृतासुतिः । विभूतद्युम्न एवया उ सप्रथो३म्

अधा ते विष्णो विदुषा चिदर्ध्यः । स्तोमो यज्ञश्च राध्यो हविष्मतो३ं

यः पूर्व्याय वेधसे नवीयसे । सुमज्जानये विष्णवे ददाशतो३ं

यो जातमस्य महतो महि ब्रवत् । सेदु श्रवोभिर्युज्यं चिदभ्यसो३ं

तमु स्तोतारः पूर्व्यं यथा विद । ऋतस्य गर्भं जनुषा पिपर्तनो३म्

आस्य जानन्तो नाम चिद्विवक्तन । महस्ते विष्णो सुमतिं भजामहो३ं

तमस्य राजा वरुणस्तमश्विना । क्रतुं सचन्त मारुतस्य वेधसो३ं

दाधार दक्षमुत्तममहर्विदम् । व्रजं च विष्णुः सखिवाँ अपोर्णुतो३म्

आ यो विवाय सचथाय दैव्यः । इन्द्राय विष्णुः सुकृते सुकृत्तरो३ं

वेधा अजिन्वत् त्रिषधस्थ आर्यम् । ऋतस्य भागे यजमानमाभजो३ं [१ । १५६ । १-६]

सं वां कर्मणा समिषा हिनोमि । इन्द्राविष्णू अपसस्पारे अस्यो३ं

जुषेथां यज्ञं द्रविणं च धत्तम् । अरिष्टैर्नः पथिभिः पारयन्तो३ं

या विश्वासां जनितारा मतीनाम् । इन्द्राविष्णू कलशा सोमधानो३म्

प्र वां गिरः शस्यमाना अवन्तु । प्र स्तोमासो गीयमानासो अर्को३म्

इन्द्राविष्णू मदपती मदानाम् । आ सोमं यातं द्रविणो दधानो३ं

सं वामञ्जन्त्वक्तुभिर्मतीनाम् । सं स्तोमासः शस्यमानास उक्थो३म्

आ वामश्वासो अभिमातिषाहः । इन्द्राविष्णू सधमादो वहन्तो३ं

जुषेथां विश्वा हवना मतीनाम् । उप ब्रह्माणि शृणुतं गिरो मो३म्

इन्द्राविष्णू तत्पनयाय्यं वाम् । सोमस्य मद उरु चक्रमाथो३म्

अकृणुतमन्तरिक्षं वरीयः । अप्रथतं जीवसे नो रजांसो३म्

इन्द्राविष्णू हविषा वावृधाना । अग्राद्वाना नमसा रातहव्यो३ं

[[४१८]]

घृतासुती द्रविणं धत्तमस्मे । समुद्र स्थः कलशः सोमधानो३म्

इन्द्राविष्णू पिबतं मध्वो अस्य । सोमस्य दस्रा जठरं पृणेथो३म्

आ वामन्धांसि मदिराण्यग्मन् । उप ब्रह्माणि शृणुतं हवं मो३म्

शो३ंसावो३म् उभा जिग्यथुर्न परा जयेथे । न परा जिग्ये कतरश्चनैनो३म्

इन्द्रश्च विष्णो यदपस्पृधेथाम् । त्रेधा सहस्रं वि तद्येरयेथो३म् ॥ (६ । ६९ । १-८) इति त्रिः परिदध्यात् ।

उक्थं वाचीन्द्राय देवेभ्यः इति शस्त्वा जपति ।

ये३ यजामह इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।

सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थै३ र्वौषट् ॥ (६ । ६९ । ३)

सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । स्वेन प्रातःसवनकीयेन समो भक्षविधिः ।

अतिरिक्तोक्थानि ॥

होतृशस्त्रम् ।

आकूपारस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-

हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्

जराबोध तद्विविड्ढि विशे विशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ (१-२७-१०)

स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतु ॥ (१-२७-११)

स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्टाृहद्भानुः ॥ (१-२७-१२)

जरमाणः समिध्यसे देवेभ्यो हव्यवाहन । तं त्वा हवन्त मर्त्याः ॥ (१०-११८-५)

तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । अदाभ्यं गृहपतिम् ॥ (१०-११८-६)

अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह । गोपा ऋतस्य दीदिहि ॥ (१०-११८-७)

अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ (८-३५-१)

विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ (८-३५-२)

विश्वैर्दवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥ (८-३५-३)

जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ (८-३५-४)

[[४१९]]

स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ (८-३५-५)

गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ (८-३५-६)

हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ (८-३५-७)

हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ (८-३५-८)

श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।

सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ (८-३५-९)

पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ (८-३५-१०)

जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ (८-३५-११)

हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥ (८-३५-१२)

मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ (८-३५-१३)

अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ (८-३५-१४)

ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥ (८-३५-१५)

ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ (८-३५-१६)

क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ (८-३५-१७)

धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥ (८-३५-१८)

अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।

[[४२०]]

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ (८-३५-१९)

सर्गा इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ (८-३५-२०)

रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।

सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ (८-३५-२१)

अर्वाग् रथं नि यच्छतं पिबतं सोम्यं मधु ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ (८-३५-२२)

नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ (८-३५-२३)

स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ (८-३५-२४)

आ भात्यग्निरुषसामनीकमुद् विप्राणां देवया वाचो अस्थुः ।

अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छो३ं

न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।

दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठो३म्

उता यातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।

दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततानो३म् ॥

इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।

आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्तो३ं

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानो३म् [५ । ७६ । १-५] [२०२]

क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।

गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥ (४-५७-१)

यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।

एवा नो अद्य समना समानानुशन्न अग्न उशतो यक्षि देवान् ॥ (६-४-१)

यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।

सर्वं तदिन्द्र ते वशे ॥ (८-९३-४)

[[४२१]]

यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।

उतो तत्सत्यमित्तव ॥ (८-९३-५)

ये सोमासः परावति ये अर्वावति सुन्विरे ।

सर्वांस्ताँ इन्द्र गच्छसि ॥ (८-९३-६)

उद् घेदभि श्रुतामघं वृषभं नर्यापसम् ।

अस्तारमेषि सूर्य ॥ (८-९३-१)

नव यो नवतिं पुरो बिभेद बाह्वोजसा ।

अहिं च वृत्रहावधीत् ॥ (८-९३-२)

स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।

उरुधारेव दोहते ॥ (८-९३-३)

आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।

दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥ (८-८-१)

आ नून्यातमश्विना रथेन सूर्यत्वचा ।

भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ (८-८-२)

आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।

पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ (८-८-३)

आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।

पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥ (८-८-४)

आ नो यातमुपश्रुत्यश्विना सोमपीतये ।

स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥ (८-८-५)

यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।

आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥ (८-८-६)

दिवश्चिद्रोचनादध्या नो गन्त्स्वर्विदा ।

धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥ (८-८-७)

किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।

पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥ (८-८-८)

आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।

अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥ (८-८-९)

आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।

[[४२२]]

विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥ (८-८-१०)

अतः सहस्रनिर्णिजा रथेना यातमश्विना ।

वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥ (८-८-११)

पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।

स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥ (८-८-१२)

आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।

कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ (८-८-१३)

यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।

अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥ (८-८-१४)

यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।

तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥ (८-८-१५)

प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।

यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥ (८-८-१६)

आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।

कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥ (८-८-१७)

आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।

राजन्तावध्वराणामश्विना यामहूतिषु ॥ (८-८-१८)

आ नो गन्तं मयोभुवा ऋश्विना शम्भुवा युवम् ।

यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥ (८-८-१९)

याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।

याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥ (८-८-२०)

याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।

ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥ (८-८-२१)

प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।

पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥ (८-८-२२)

त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।

कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥ (८-८-२३)

प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।

प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ (५-७७-१)

[[४२३]]

प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।

उतान्यो अस्मद्यजते वि चावः पूर्वः पूर्वो यजमानो वनीयान् ॥ (५-७७-२)

हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न आ रथो वर्तते वाम् ।

मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ (५-७७-३)

यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।

स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥ (५-७७-४)

समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।

आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ (५-७७-५)

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।

मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥ (४-५७-२)

यद्वावान पुरुतमं पुराषाळा वृत्रहेन्द्रो नामान्यप्राः ।

अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥ (१०-७४-६)

तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥ (६-४५-२२)

न घा वसुर्नि यमते दानं वाजस्य गोमतः । यत्सीमुप श्रवद् गिरः ॥ (६-४५-२३)

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । शचीभिरप नो वरत् ॥ (६-४५-२४)

स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने । नकिर्यं वृण्वते युधि ॥ (८-४५-२१)

अभि त्वा वृषभा सुते सुतं सृजामि पीतये । तृम्पा व्यश्नुही मदम् ॥ (८-४५-२२)

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । माकीं ब्रह्मद्विषो वनः ॥ (८-४५-२३)

आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।

प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥ (८-९-१)

यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु ।

नृम्णं तद्धत्तमश्विना ॥ (८-९-२)

ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।

एवेत्काण्वस्य बोधतम् ॥ (८-९-३)

अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।

अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥ (८-९-४)

[[४२४]]

यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।

तेन माविष्टमश्विना ॥ (८-९-५)

यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।

अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥ (८-९-६)

आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया ।

आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥ (८-९-७)

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।

आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥ (८-९-८)

यदद्य वां नासत्योक्थैराचुच्युवीमहि ।

यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥ (८-९-९)

यद्वां कक्षीवाँ उत यद् व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।

पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥ (८-९-१०)

यातं च्छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।

वर्तिस्तोकाय तनयाय यातम् ॥ (८-९-११)

यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।

यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥ (८-९-१२)

यदद्याश्विनावहं हुवेय वाजसातये ।

यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥ (८-९-१३)

आ नून्यातमश्विनेमा हव्यानि वां हिता ।

इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥ (८-९-१४)

यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।

तेन नूनं विमदाय प्रचेतसा च्छर्दिर्वत्साय यच्छतम् ॥ (८-९-१५)

अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।

व्यावर्दव्या मतिं वि रातिं मर्त्येभ्यः ॥ (८-९-१६)

प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।

प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥ (८-९-१७)

यदुषो यासि भानुना सं सूर्येण रोचसे ।

आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥ (८-९-१८)

यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।

[[४२५]]

यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥ (८-९-१९)

प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।

प्र दक्षाय प्रचेतसा ॥ (८-९-२०)

यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।

यद्वा सुम्नेभिरुक्थ्या ॥ (८-९-२१)

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना सङ्गतिं गोः ।

यः सूर्यां वहति वन्धुरायुर् गिर्वाहसं पुरुतमं वसूयुम् ॥ (४-४४-१)

युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।

युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥ (४-४४-२)

को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।

ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ (४-४४-३)

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।

पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ (४-४४-४)

आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।

मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥ (४-४४-५)

नू नो रयिं पुरुवीर्टाृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।

नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥ (४-४४-६)

इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।

उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ (४-४४-७)

मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।

क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥ (४-५७-३)

स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।

अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥ (६-५२-१७)

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूह्ळमस्य पांसुरो३ं

त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धामानि धारयो३ं

विष्णोः कर्माणि पश्यथ यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखो३ं

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततो३ं

[[४२६]]

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदो३म्

उत नो धियो गो अग्राः पूषन्विष्णवेवयावः । कर्ता नः स्वस्तिमतः ॥ (१-९०-५)

ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।

याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।

याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतो३ं

युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।

याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।

याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे ।

याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।

याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शुचन्ति धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।

याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।

याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।

याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीह्ळ् आजावजिन्वतम् ।

याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।

कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।

याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।

याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।

[[४२७]]

याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।

याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।

याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।

याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिरङ्गिरो मनसा निरण्यतोऽग्रं गच्छतो विवरे गो अर्णसः ।

याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षितम् ।

याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।

ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।

मधु प्रियं भरथो यत् सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।

याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतो३ं

याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।

याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म्

अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।

अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातो३ं

द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः ।

तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३ं [१ । ११२ । १-२५]

उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।

सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥ (१०-१०६-१)

उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः ।

दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥ (१०-१०६-२)

साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् ।

अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥ (१०-१०६-३)

[[४२८]]

आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।

इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् ॥ (१०-१०६-४)

वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता ।

वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥ (१०-१०६-५)

सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका ।

उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥ (१०-१०६-६)

पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा ।

ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत् क्षयद्रयीणाम् ॥ (१०-१०६-७)

घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् ।

पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ॥ (१०-१०६-८)

बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः ।

कर्णेव शासुरनु हि स्मराथोंऽशेव नो भजतं चित्रमप्नः ॥ (१०-१०६-९)

आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।

कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥ (१०-१०६-१०)

ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् ।

यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥ (१०-१०६-११)

दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया ।

क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः ॥ (१०-६६-१३)

परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।

उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥ (७-९९-१)

युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।

आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥ (८-५७-१)

युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।

अस्माकं यज्ञं सवनुाुषाणा पातं सोममश्विना दीद्यग्नी ॥ (८-५७-२)

पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।

सहस्रं शंसा उत ये गविष्टौ सर्वा इत्ताँ उप याता पिबध्यै ॥ (८-५७-३)

अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।

पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवत्खचीभिः ॥ (८-५७-४)

पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।

[[४२९]]

पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ (३-५८-६)

अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना ।

नासत्या तिरोअह्न्युाुषाणा सोमं पिबतमस्रिधा सुदानू ॥ (३-५८-७)

अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।

रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ (३-५८-८)

अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।

रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥ (३-५८-९)

सोमातिरेकप्रायश्चित्तम् ।

प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।

तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ (७-१००-५)

किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।

मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ (७-१००-६)

वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।

वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥ (७-१००-७)

प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।

यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ (१-१५४-२)

प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।

य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥ (१-१५४-३)

यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।

य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥ (१-१५४-४)

महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।

अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥ (६-१९-१)

इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् ।

अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥ (६-१९-२)

पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि ।

यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ ॥ (६-१९-३)

तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम ।

[[४३०]]

यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥ (६-१९-४)

धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः ।

सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः ॥ (६-१९-५)

शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् ।

विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥ (६-१९-६)

यस्ते मदः पृतनाषाळमृध्र इन्द्र तं न आ भर शूशुवांसम् ।

येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥ (६-१९-७)

आ नो भर वृषणं शुष्ममिन्द्र धनस्पृत्खूशुवांसं सुदक्षम् ।

येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन् ॥ (६-१९-८)

आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।

आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥ (६-१९-९)

नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः ।

ईक्षे हि वस्व उभयस्य राजन् धा रत्नं महि स्थूर्टाृहन्तम् ॥ (६-१९-१०)

मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।

विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥ (६-१९-११)

जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि ।

अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥ (६-१९-१२)

वयं त एभिः पुरुहूत सख्यैः शत्रोः शत्रोरुत्तर इत् स्याम ।

घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥ (६-१९-१३)

विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।

यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥ (१-१५४-१)

प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।

यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ (१-१५४-२)

प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।

य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥ (१-१५४-३)

यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।

य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥ (१-१५४-४)

तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।

उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥ (१-१५४-५)

[[४३१]]

ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।

अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥ (१-१५४-६)

या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।

प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥ (६-६९-२)

त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।

या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥ (१-१५५-२)