सवनीयपशोः प्रागग्निष्टोमवत् । सवनीयाश्चत्वारः पशव आग्नेय ऐन्द्राग्न ऐन्द्रः सारस्वती च । तत्र द्वौ छागौ तृतीयो मेषः सारस्वती मेषी ।
अथावाहने- आवह देवान् त्सुन्वते यजमानाय इत्यवसाय अग्निमग्न आ३वह । सोममा३वह । अग्निमावा३वह । इन्द्राग्नी आ३वह । इन्द्रमा३वह । सरस्वतीमा३वह । वनस्पतिमा३वह । इन्द्रं वसुमन्तमा३वह । इन्द्रं रुद्रवन्तमा३वह । इन्द्रमादित्यवन्तमृभुवन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमा३वह । देवाँ आज्यपाँ आ३वहेत्यादि । अध्रिग्वाद्यैन्द्रपर्यन्तं समानं षोडशिना । अथ सरस्वत्याः-
वपायागे प्रशास्ता- एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषायो३म् ॥ (७ । ९५ । २)
होता यक्षत् सरस्वतीं मेष्या वपाया मेदसो जुषतां हविर्होतर्यज ॥
होता- ये३ यजामहे प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्या३ वौ३षट् ॥ (७ । ९५ । १)
पशुपुरोडाशे प्रशास्ता- उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन् ।
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यो३म् ॥ (७ । ९५ । ४)
होता यक्षत् सरस्वतीं पुरोळाशस्य जुषतां हविर्होतर्यज ।
होता- ये३ यजामहे पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसा३द् वौ३षट् ॥ [६ । ४९ । ७]
हविर्यागे प्रशास्ता- सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्मो३म् ॥ (६ । ६१ । १४)
होता यक्षत् सरस्वतीं मेष्या हविष आददद्यमध्यतो मेद उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्यागृभः । घसन्नूनं घासे अज्राणां यवस प्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवो पवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोङ्गादङ्गादवत्तानां करदेव सरस्वती जुषतां हविर्होतर्यज ॥
[[१९१]]
होता- ये३ यजामहे यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे का३ वौ३षट् ॥ (१ । १६४ । ४९)
वनस्पतियागे विशेषः– होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्टया रशनयाधित । यत्राग्नेराज्यस्य हविषः प्रियाधामानि यत्र सोमस्याज्यस्य हविषः प्रियाधामानि यत्राग्नेश्छागस्य हविषः प्रियाधामानि यत्रेन्द्राग्न्योश्छागस्य हविषः प्रियाधामानि यत्रेन्द्रस्य मेषस्य हविषः प्रियाधामानि यत्र सरस्वत्या मेष्या हविषः प्रियाधामानि यत्र वनस्पतेः प्रियापाथांसि यत्र देवानामाज्यपानां प्रियाधामानि यत्राग्नेर्होतुः प्रियाधामानि तत्रैतान् प्रस्तुत्येवोपस्त्युत्येवोपावस्रक्षद् रभीयस इव कृत्वीकरदेवं देवो वनस्पतिर्जुषतां हविर्होतर्यज ।
स्विष्टकृत्प्रैषे विशेषः- होता यक्षदग्निं स्विष्टकृतमयाळग्निरग्नेराज्यस्य हविषः प्रियाधामान्ययाट् सोमस्याज्यस्य हविषः प्रियाधामान्ययाळग्नेश्छागस्य हविषः प्रियाधामान्ययाळिन्द्राग्न्योश्छागस्य हविषः प्रियाधामान्ययाळिन्द्रस्य मेषस्य हविषः प्रियाधामान्ययाट् सरस्वत्या मेष्या हविषः प्रियाधामान्ययाड् वनस्पतेः प्रियापाथांस्ययाड् देवानामाज्यपानां प्रियाधामानि यक्षदग्नेर्होतुः प्रियाधामानि यक्षत्स्वं महिमानामायजतामेज्या इषः कृणातु सो अध्वरा जातवेदा जुषतां हविर्होतर्यज ॥
केवल सारस्वती मेषी पक्षे अध्रिगौ विशेषः- दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपत्यै मेधाम् । प्रास्या अग्निं भरत स्तृणीत बर्हिरन्वेनां माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । उदीचीनाँ अस्याः पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरम् । एकधास्यास्त्वचमाच्छ्यतात् पुरा नाभ्या अपिशसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमस्या वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपे वांसाच्छिद्रे श्रोणी कवषोरूस्रे कपर्णाष्ठीवन्ता षड्विंशतिरस्या वंक्रयस्ता अनुष्ठ्यो च्यावयताद्गात्रं गात्रमस्या अनूनं कृणुतात् । ऊवध्यगोहं पार्थिवं खनतात् । (उपांशु) अस्ना रक्षः संसृजतात् । वनिष्ठुमस्या माराविष्टोरूकम्मन्यमाना नेद्वस्तोके तनये रवितारवत् (उपांशु) शमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ (उपांशु) अपाप । शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तत् इति समानमन्यत् आ षोडशिशस्त्रान्तम् । अविहृतविहृतषोडशिनोर्विकल्पः । षोडश्यन्ते मृगतीर्थसर्पणम् । षोडश्यकरणपक्षे न । ततः पर्यायसंज्ञकानि द्वादशशस्त्राणि । चतुः शस्त्राः पर्यायाः ।
प्रथमपर्यायः
अथ प्रथमपर्यायः ।
होतृशस्त्रम् ।
वैतहव्यं स्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
[[१९२]]
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनो३म् इति त्रिः
पुरुहूतं पुरुष्टुतं पुरुहूतं पुरुष्टुतम् ।
गाथान्यं सनश्रुतमिन्द्र इति ब्रवीतनो३म्
इन्द्र इन्नो महानामिन्द्र इन्नो महानाम् ।
दाता वाजानां नृतुर्महाँ अभिज्ञ्वा यमो३ं (८ । ९२ । १-३)
शो३ंसावो३म् अपादु शिप्र्यन्धसोऽपादु शिप्र्यन्धसः ।
सुदक्षस्य प्रहोषिण इन्दोरिन्द्रो यवाशिरो३म्
तम्वभि प्रार्चत तम्वभि प्रार्चत ।
इन्द्रं सोमस्य पीतये तदिद्ध्यस्य वर्धनो३म्
अस्य पीत्वा मदानामस्य पीत्वा मदानाम् ।
देवो देवस्यौजसा विश्वाभि भुवना भुवो३ं (८ । ९२ । ४-६)
शो३ंसावो३ं त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतयो३ं
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । नरमवार्यक्रतो३ं
शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम । अवा नः पार्ये धनो३म्
अतश्चिदिन्द्र ण उपा याहि शतवाजया । इषा सहस्रवाजयो३म्
अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे । जयेम पृत्सु वज्रिवो३ं
वयमु त्वा शतक्रतो गावो न यवसेष्वा । उक्थेषु रणयामसो३ं
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । अगन्म वज्रिन्नाशसो३ं
त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः । न त्वामिन्द्राति रिच्यतो३
स नो वृषन्त्सनिष्ठया सं घोरया द्रवित्न्वा । धियाविड्ढि पुरंध्यो३ं
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः । तेन नूनं मदे मदो३ं
यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । य ओजोदातमो मदो३ं
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः । विश्वासु दस्म कृष्टिषो३म्
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवो३म्
यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः । इन्द्रं सुते हवामहो३ं
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । तमिद्वर्धन्तु नो गिरो३म्
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यतो३ं
[[१९३]]
विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे । य इन्द्र जठरेषु तो३म्
अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरं धामभ्य इन्दवो३म्
अरमश्वाय गायति श्रुतकक्षो अरं गवे । अरमिन्द्रस्य धाम्नो३म्
अरं हि ष्मा सुतेषु णः सोमेष्विन्द्र भूषसि । अरं ते शक्र दावनो३म्
पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः । अरं गमाम ते वयो३म्
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनो३म्
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः । अधा चिदिन्द्र मे सचो३म्
मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतो३म्
मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् । त्वा युजा वनेम तो३ं
त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः । त्वमस्माकं तव स्मसो३ं
त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् । सखाय इन्द्र कारवो३म् (८ । ९२ । ७-३३)
अभि त्यं मेषं पुरुहूतमृग्मियम् । इन्द्रं गीर्भिर्मदता वस्वो अर्णवो३ं
यस्य द्यावो न विचरन्ति मानुषा । भुजे मंहिष्ठमभि विप्रमर्चतो३म्
अभीमवन्वन्त्स्वभिष्टिमूतयः । अन्तरिक्षप्रां तविषीभिरावृतो३म्
इन्द्रं दक्षास ऋभवो मदच्युतम् । शतक्रतुं जवनी सूनृतारुहो३ं
त्वं गोत्रमङ्गिरोभ्योऽवृणोरप । उतात्रये शतदुरेषु गातुवो३ं
ससेन चिद्विमदायावहो वसु । आजावद्रिं वावसानस्य नर्तयो३ं
त्वमपामपिधानावृणोरप । अधारयः पर्वते दानुमद्वसो३ं
वृत्रं यदिन्द्र शवसावधीरहिम् । आदित्सूर्यं दिव्यारोहयो दृशो३ं
त्वं मायाभिरप मायिनोऽधमः । स्वधाभिर्ये अधि शुप्तावजुह्वतो३ं
त्वं पिप्रोर्नृमणः प्रारुजः पुरः । प्र ऋजिश्वानं दस्युहत्येष्वाविथो३ं
त्वं कुत्सं शुष्णहत्येष्वाविथ । अरन्धयोऽतिथिग्वाय शम्बरो३म्
महान्तं चिदर्बुदं नि क्रमीः पदा । सनादेव दस्युहत्याय जज्ञिषो३ं
त्वे विश्वा तविषी सध्र्यग्घिता । तव राधः सोमपीथाय हर्षतो३ं
तव वज्रश्चिकिते बाह्वोर्हितः । वृश्चा शत्रोरव विश्वानि वृष्ण्यो३ं
वि जानीह्यार्यान्ये च दस्यवः । बर्हिष्मते रन्धया शासदव्रतो३ं
शाकी भव यजमानस्य चोदिता । विश्वेत्ता ते सधमादेषु चाकनो३म्
अनुव्रताय रन्धयन्नपव्रतान् । आभूभिरिन्द्रः श्नथयन्ननाभुवो३ं
वृद्धस्य चिद्वर्धतो द्यामिनक्षतः । स्तवानो वम्रो वि जघान संदिहो३ं
[[१९४]]
तक्षद्यत्त उशना सहसा सहः । वि रोदसी मज्मना बाधते शवो३म्
आ त्वा वातस्य नृमणो मनोयुजः । आ पूर्यमाणमवहन्नभि श्रवो३म्
मन्दिष्ट यदुशने काव्ये सचा । इन्द्रो वङ्कू वङ्कुतराधि तिष्ठतो३म्
उग्रो ययिं निरपः स्रोतसासृजत् । वि शुष्णस्य दृंहिता ऐरयत्पुरो३म्
आ स्मा रथं वृषपाणेषु तिष्ठसि । शार्यातस्य प्रभृता येषु मन्दसो३म्
इन्द्र यथा सुतसोमेषु चाकनः । अनर्वाणं श्लोकमा रोहसे दिवो३म्
अददा अर्भां महते वचस्यवे । कक्षीवते वृचयामिन्द्र सुन्वतो३म्
मेनाभवो वृषणश्वस्य सुक्रतो । विश्वेत्ता ते सवनेषु प्रवाच्यो३म्
इन्द्रो अश्रायि सुध्यो निरेके । पज्रेषु स्तोमो दुर्यो न यूपो३म्
अश्वयुर्गव्यू रथयुर्वसूयुः । इन्द्र इद्रायः क्षयति प्रयन्तो३ं
शो३ंसावो३म् इदं नमो वृषभाय स्वराजे । सत्यशुष्माय तवसेऽवाचो३म्
अस्मिन्निन्द्र वृजने सर्ववीराः । स्मत्सूरिभिस्तव शर्मन्त्स्यामो३म् ॥ (१ । ५१ । १-१५) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामह अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टी३ वौ३षट् ॥ (२ । १४ । १)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । मैत्रावरुणेन समो भक्षविधिः ।
मैत्रावरुणशस्त्रम् ।
शाक्त्यस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
प्र व इन्द्राय मादनं प्र व इन्द्राय मादनम् ।
हर्यश्वाय गायत सखायः सोमपाव्नो३ं
शंसेदुक्थं सुदानवे शंसेदुक्थं सुदानवे ।
उत द्युक्षं यथा नरश्चकृमा सत्यराधसो३ं
त्वं न इन्द्र वाजयुस्त्वं न इन्द्र वाजयुः ।
त्वं गव्युः शतक्रतो त्वं हिरण्ययुर्वसो३ं (७ । ३१ । १-३)
शो३ंसावो३म् प्र कृतान्यृजीषिणः प्र कृतान्यृजीषिणः ।
कण्वा इन्द्रस्य गाथया मदे सोमस्य वोचतो३ं
यः सृबिन्दमनर्शनिं यः सृबिन्दमनर्शनिम् ।
[[१९५]]
पिप्रुं दासमहीशुवं वधीदुग्रो रिणन्नपो३ं
न्यर्बुदस्य विष्टपं न्यर्बुदस्य विष्टपम् ।
वर्ष्माणं बृहतस्तिर कृषे तदिन्द्र पौंस्यो३ं (८ । ३२ । १-३)
शो३ंसावो३म् प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि । हुवे सुशिप्रमूतयो३ं
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः । पुरं न शूर दर्षसो३ं
यदि मे रारणः सुत उक्थे वा दधसे चनः । आरादुप स्वधा गहो३ं
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । त्वं नो जिन्व सोमपो३म्
उत नः पितुमा भर संरराणो अविक्षितम् । मघवन् भूरि ते वसो३म्
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः । इळाभिः सं रभेमहो३म्
बृबदुक्थं हवामहे सृप्रकरस्नमूतये । साधु कृण्वन्तमवसो३ं
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा । जरितृभ्यः पुरूवसो३ं
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः । इन्द्रो विश्वाभिरूतिभो३ं
यो रायोवनिर्महान्त्सुपारः सुन्वतः सखा । तमिन्द्रमभि गायतो३म्
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् । भूरेरीशानमोजसो३ं
नकिरस्य शचीनां नियन्ता सूनृतानाम् । नकिर्वक्ता न दादितो३ं
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् । न सोमो अप्रता पपो३म्
पन्य इदुप गायत पन्य उक्थानि शंसत । ब्रह्मा कृणोत पन्य ओ३म्
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः । इन्द्रो यो यज्वनो वृधो३ं (८ । ३२ । ४-१८)
दिवश्चिदस्य वरिमा वि पप्रथे । इन्द्रं न मह्ना पृथिवी चन प्रतो३म्
भीमस्तुविष्माञ्चर्षणिभ्य आतपः । शिशीते वज्रं तेजसे न वंसगो३ं
सो अर्णवो न नद्यः समुद्रियः । प्रति गृभ्णाति विश्रिता वरीमभो३म्
इन्द्रः सोमस्य पीतये वृषायते । सनात्स युध्म ओजसा पनस्यतो३ं
त्वं तमिन्द्र पर्वतं न भोजसे । महो नृम्णस्य धर्मणामिरज्यसो३म्
प्र वीर्येण देवताति चेकिते । विश्वस्मा उग्रः कर्मणे पुरोहितो३ं
स इद्वने नमस्युभिर्वचस्यते । चारु जनेषु प्रब्रुवाण इन्द्रियो३ं
वृषा च्छन्दुर्भवति हर्यतो वृषा । क्षेमेण धेनां मघवा यदिन्वतो३ं
स इन्महानि समिथानि मज्मना । कृणोति युध्म ओजसा जनेभ्यो३म्
अधा चन श्रद्दधति त्विषीमते । इन्द्राय वज्रं निघनिघ्नते वधो३ं
स हि श्रवस्युः सदनानि कृत्रिमा । क्ष्मया वृधान ओजसा विनाशयो३ं
[[१९६]]
ज्योतींषि कृण्वन्नवृकाणि यज्यवे । अव सुक्रतुः सर्तवा अपः सृजो३ं
दानाय मनः सोमपावन्नस्तु ते । अर्वाञ्चा हरी वन्दनश्रुदा कृधो३ं
यमिष्ठासः सारथयो य इन्द्र ते । न त्वा केता आ दभ्नुवन्ति भूर्णयो३म्
अप्रक्षितं वसु बिभर्षि हस्तयोः । अषाळ्हं सहस्तन्वि श्रुतो दधो३म्
आवृतासोऽवतासो न कर्तृभिः । तनूषु ते क्रतव इन्द्र भूरयो३ं (१ । ५५ । १-८)
शो३ंसावो३ं स नो नव्येभिर्वृषकर्मन्नुक्थैः । पुरां दर्तः पायुभिः पाहि शग्मो३ं
दिवोदासेभिरिन्द्र स्तवानः । वावृधीथा अहोभिरिव द्यो३म् ॥ (१-१३०-१०) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहेऽस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान ।
तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्या३इ वौ३षट् ॥ (६ । ४४ । १४)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । प्रातःसवनेन समो भक्षविधिः ।
ब्राह्मणाच्छंसीशस्त्रम् ।
काण्वस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३ं
वयमु त्वा तदिदर्था वयमु त्वा तदिदर्थाः ।
इन्द्र त्वायन्तः सखायः कण्वा उक्थेभिर्जरन्तो३ं इति त्रिः
न घेमन्यदा पपन न घेमन्यदा पपन ।
वज्रिन्नपसो नविष्टौ तवेदु स्तोमं चिकेतो३म्
इच्छन्ति देवाः सुन्वन्तमिच्छन्ति देवाः सुन्वन्तम् ।
न स्वप्नाय स्पृहयन्ति यन्ति प्रमादमतन्द्रो३ं (८ । २ । १६-१८)
शो३ंसावो३ं वयमिन्द्र त्वायवो वयमिन्द्र त्वायवः ।
अभि प्र णोनुमो वृषन् विद्धी त्वस्य नो वसो३म्
मा नो निदे च वक्तवे मा नो निदे च वक्तवे ।
अर्यो रन्धीरराव्णे त्वे अपि क्रतुर्ममो३ं
त्वं वर्मासि सप्रथस्त्वं वर्मासि सप्रथः ।
पुरोयोधश्च वृत्रहन् त्वया प्रति ब्रुवे युजो३ं (७ । ३१ । ४-६)
शो३ंसावो३ं वार्त्रहत्याय शवसे पृतनाषाह्याय च । इन्द्र त्वा वर्तयामसो३म्
अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो । इन्द्र कृण्वन्तु वाघतो३ं
[[१९७]]
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे । इन्द्राभिमातिषाह्यो३म्
पुरुष्टुतस्य धामभिः शतेन महयामसि । इन्द्रस्य चर्षणीधतो३म्
इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे । भरेषु वाजसातयो३ं
वाजेषु सासहिर्भव त्वामीमहे शतक्रतो । इन्द्र वृत्राय हन्तवो३ं
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च । इन्द्र साक्ष्वाभिमातिषो३ं
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । इन्द्र सोमं शतक्रतो३म्
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणो३म्
अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् । उत्ते शुष्मं तिरामसो३म् (३ । ३७ । १-१०)
इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् । स हि स्थिरो विचर्षणो३म्
इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् । भद्रं भवाति नः पुरो३म्
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् । जेता शत्रून् विचर्षणो३ं (२ । ४१ । १०-१२)
न्यू षु वाचं प्र महे भरामहे । गिर इन्द्राय सदने विवस्वतो३ं
नू चिद्धि रत्नं ससतामिवाविदत् । न दुष्टुतिर्द्रविणोदेषु शस्यतो३ं
दुरो अश्वस्य दुर इन्द्र गोरसि । दुरो यवस्य वसुन इनस्पतो३ं
शिक्षानरः प्रदिवो अकामकर्शनः । सखा सखिभ्यस्तमिदं गृणीमसो३ं
शचीव इन्द्र पुरुकृद्द्युमत्तम । तवेदिदमभितश्चेकिते वसो३म्
अतः सङ्गृभ्याभिभूत आ भर । मा त्वायतो जरितुः काममूनयो३म्
एभिर्द्युभिः सुमना एभिरिन्दुभिः । निरुन्धानो अमतिं गोभिरश्विनो३म्
इन्द्रेण दस्युं दरयन्त इन्दुभिः । युतद्वेषसः समिषा रभेमहो३ं
समिन्द्र राया समिषा रभेमहि । सं वाजेभिः पुरुश्चन्द्रैरभिद्युभो३ं
सं देव्या प्रमत्या वीरशुष्मया । गो अग्रयाश्वावत्या रभेमहो३ं
ते त्वा मदा अमदन् तानि वृष्ण्या । ते सोमासो वृत्रहत्येषु सत्पतो३ं
यत्कारवे दश वृत्राण्यप्रति । बर्हिष्मते नि सहस्राणि बर्हयो३ं
युधा युधमुप घेदेषि धृष्णुया । पुरा पुरं समिदं हंस्योजसो३ं
नम्या यदिन्द्र सख्या परावति । निबर्हयो नमुचिं नाम मायिनो३ं
त्वं करञ्जमुत पर्णयं वधीः । तेजिष्ठयातिथिग्वस्य वर्तनो३ं
त्वं शता वङ्गृदस्याभिनत्पुरः । अनानुदः परिषूता ऋजिश्वनो३ं
त्वमेताञ्जनराज्ञो द्विर्दश । अबन्धुना सुश्रवसोपजग्मुषो३ं
षष्टिं सहस्रा नवतिं नव श्रुतः । नि चक्रेण रथ्या दुष्पदावृणो३ं
[[१९८]]
त्वमाविथ सुश्रवसं तवोतिभिः । तव त्रामभिरिन्द्र तूर्वयाणो३ं
त्वमस्मै कुत्समतिथिग्वमायुम् । महे राज्ञे यूने अरन्धनायो३ं
शो३ंसावो३ं य उदृचीन्द्र देवगोपाः । सखायस्ते शिवतमा असामो३ं
त्वां स्तोषाम त्वया सुवीराः । द्राघीय आयुः प्रतरं दधानो३म् ॥ (१ । ५३ । १-११) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहेऽप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहा३ वौ३षट् ॥ (१० । १०४ । २)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । प्रातःसवनेन समो भक्षविधिः ।
अच्छावाकशस्त्रम् ।
श्रौतकक्षस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
इन्द्राय मद्वने सुतमिन्द्राय मद्वने सुतम् ।
परि ष्टोभन्तु नो गिरोऽर्कमर्चन्तु कारवो३ं
यस्मिन् विश्वा अधि श्रियो यस्मिन् विश्वा अधि श्रियः ।
रणन्ति सप्त संसद इन्द्रं सुते हवामहो३ं
त्रिकद्रुकेषु चेतनं त्रिकद्रुकेषु चेतनम् ।
देवासो यज्ञमत्नत तमिद्वर्धन्तु नो गिरो३ं (८ । ९२ । १९-२१)
शो३ंसावो३म् इन्द्रमिद्गाथिनो बृहदिन्द्रमिद्गाथिनो बृहत् ।
इन्द्रमर्केभिरर्किण इन्द्रं वाणीरनूषतो३म्
इन्द्र इद्धर्योः सचेन्द्र इद्धर्योः सचा ।
सम्मिश्ल आ वचोयुजेन्द्रो वज्री हिरण्ययो३म्
इन्द्रो दीर्घाय चक्षस इन्द्रो दीर्घाय चक्षसे ।
आ सूर्यं रोहयद्दिवि वि गोभिरद्रिमैरयो३ं (१ । ७ । १-३)
शो३ंसावो३म् एन्द्र सानसिं रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भरो३ं
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै । त्वोतासो न्यर्वतो३म्
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि । जयेम सं युधि स्पृधो३ं
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् । सासह्याम पृतन्यतो३म्
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे । द्यौर्न प्रथिना शवो३ं
[[१९९]]
समोहे वा य आशत नरस्तोकस्य सनितौ । विप्रासो वा धियायवो३ं
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । उर्वीरापो न काकुदो३म्
एवा ह्यस्य सूनृता विरप्शी गोमती मही । पक्वा शाखा न दाशषो३म्
एवा हि ते विभूतय ऊतय इन्द्र मावते । सद्यश्चित्सन्ति दाशुषो३म्
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । इन्द्राय सोमपीतयो३म् [१ । ८ । १-१०]
एतोन्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । न राधसा मर्धिषन्नो३म्
प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् । अभि राधसा जुगुरो३म्
आ नो भर दक्षिणेनाभि सव्येन प्र मृश । इन्द्र मा नो वसोर्निर्भो३म्
मा नो अस्मिन् मघवन् पृत्स्वंहसि । नहि ते अन्तः शवसः परीणशो३म्
अक्रन्दयो नद्यो रोरुवद्वना । कथा न क्षोणी र्भियसा समारतो३म्
अर्चा शक्राय शाकिने शचीवते । शृण्वन्तमिन्द्रं महयन्नभि ष्टुहो३ं
यो धृष्णुना शवसा रोदसी उभे । वृषा वृषत्वा वृषभो न्यृञ्जतो३म्
अर्चा दिवे बृहते शूष्यं वचः । स्वक्षत्रं यस्य धृषतो धृषन्मनो३म्
बृहच्च्छ्रवा असुरो बर्हणा कृतः । पुरो हरिभ्यां वृषभो रथो हि षो३ं
त्वं दिवो बृहतः सानु कोपयः । अव त्मना धृषता शम्बरं भिनो३ं
यन्मायिनो व्रन्दिनो मन्दिना धृषत् । शितां गभस्तिमशनिं पृतन्यसो३ं
नि यद्वृणक्षि श्वसनस्य मूर्धनि । शुष्णस्य चिद्व्रन्दिनो रोरुवद्वनो३म्
प्राचीनेन मनसा बर्हणावता । यदद्या चित्कृणवः कस्त्वा परो३ं
त्वमाविथ नर्यं तुर्वशं यदुम् । त्वं तुर्वीतिं वय्यं शतक्रतो३ं
त्वं रथमेतशं कृत्व्ये धने । त्वं पुरो नवतिं दम्भयो नवो३ं
स घा राजा सत्पतिः शूशुवज्जनः । रातहव्यः प्रति यः शासमिन्वतो३म्
उक्था वा यो अभिगृणाति राधसा । दानुरस्मा उपरा पिन्वते दिवो३म्
असमं क्षत्रमसमा मनीषा । प्र सोमपा अपसा सन्तु नेमो३ं
ये त इन्द्र ददुषो वर्धयन्ति । महि क्षत्रं स्थविरं वृष्ण्यं चो३ं
तुभ्येदेते बहुला अद्रिदुग्धाः । चमूषदश्चमसा इन्द्रपानो३ं
व्यश्नुहि तर्पया काममेषाम् । अथा मनो वसुदेयाय कृष्वो३म्
अपामतिष्ठद्धरुणह्वरं तमः । अन्तर्वृत्रस्य जठरेषु पर्वतो३म्
अभीमिन्द्रो नद्यो वव्रिणा हिता । विश्वा अनुष्ठाः प्रवणेषु जिघ्नतो३ं
शो३ंसावो३ं स शेवृधमधि धा द्युम्नमस्मे । महि क्षत्रं जनाषाळिन्द्र तव्यो३ं
[[२००]]
रक्षा च नो मघोनः पाहि सूरीन् । राये च नः स्वपत्या इषे धो३म् ॥ (१ । ५४ । १-११) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामह इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया ।
उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धा३ वौ३षट् ॥ (६ । ४० । १)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । प्रातःसवनेन समो भक्षविधिः । इति प्रथमः पर्यायः ।
मध्यमपर्यायः
अथ मध्यमपर्यायः ।
होतृशस्त्रम् ।
दैवोदासस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
निपूतो अधि बर्हिष्येहीमस्य द्रवा पिबो३ं इति त्रिः
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
अयं रणाय ते सुत आखण्डल प्र हूयसो३ं
यस्ते शृङ्गवृषो नपात्प्रणपात् कुण्डपाय्यः ।
प्रणपात् कुण्डपाय्यो न्यस्मिन् दध्र आ मनो३ं (८ । १७ । ११-१३)
शो३ंसावो३म् अयं ते मानुषे जने सोमः पूरुषु सूयते ।
सोमः पूरुषु सूयते तस्येहि प्र द्रवा पिबो३म्
अयं ते शर्यणावति सुषोमायामधि प्रियः ।
सुषोमायामधि प्रिय आर्जीकीये मदिन्तमो३ं
तमद्य राधसे महे चारुं मदाय घृष्वये ।
चारुं मदाय घृष्वय एहीमिन्द्र द्रवा पिबो३ं (८ । ६४ । १०-१२)
शो३ंसावो३म् उद् घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्यो३ं
नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधो३ं
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । उरुधारेव दोहतो३ं
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशो३ं
यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे । उतो तत्सत्यमित् तवो३ं
ये सोमासः परावति ये अर्वावति सुन्विरे । सर्वांस्ताँ इन्द्र गच्छसो३ं
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवो३म्
[[२०१]]
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । द्युम्नी श्लोकी स सोम्यो३ं
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ववक्ष ऋष्वो अस्तृतो३ं
दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः । त्वं च मघवन् वशो३ं
यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् । न देवो नाध्रिगुर्जनो३म्
अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । उभे सुशिप्र रोदसो३ं
त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयो३ं
वि यदहेरध त्विषो विश्वे देवासो अक्रमुः । विदन् मृगस्य ताँ अमो३म्
आदु मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् । अजातशत्रुरस्तृतो३ं
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । आ शुषे राधसे महो३म्
अया धिया च गव्यया पुरुणामन् पुरुष्टुत । यत् सोमेसोम आभवो३म्
बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषो३ं
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भरो३ं
कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतयो३म्
अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् । प्रयन्ता बोधि दाशुषो३म्
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । अपां जग्मिर्निचुम्पुणो३म्
इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । अच्छावभृथमोज्सो३म्
इह त्या सधमाद्या हरी हिरण्यकेश्या । वोह्ळामभि प्रयो हितो३ं
तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो । स्तोतृभ्य इन्द्रमा वहो३म्
आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे । स्तोतृभ्य इन्द्रमर्चतो३म्
आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो । स्तोतृभ्य इन्द्र मृळयो३म्
भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो । यदिन्द्र मृळयासि नो३ं
स नो विश्वान्या भर सुवितानि शतक्रतो । यदिन्द्र मृळयासि नो३ं
त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे । यदिन्द्र मृळयासि नो३म्
उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतो३ं
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतो३ं
त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतो३म् [८ । ९३ । १-३३]
अहं भुवं वसुनः पूर्व्यस्पतिः । अहं धनानि सं जयामि शश्वतो३म्
मां हवन्ते पितरं न जन्तवः । अहं दाशुषे वि भजामि भोजनो३म्
अहमिन्द्रो रोधो वक्षो अथर्वणः । त्रिताय गा अजनयमहेरधो३म्
[[२०२]]
अहं दस्युभ्यः परि नृम्णमा ददे । गोत्रा शिक्षन् दधीचे मातरिश्वनो३म्
मह्यं त्वष्टा वज्रमतक्षदायसम् । मयि देवासोऽवृजन्नपि क्रतो३म्
ममानीकं सूर्यस्येव दुष्टरम् । मामार्यन्ति कृतेन कर्त्वेन चो३म्
अहमेतं गव्ययमश्व्यं पशुम् । पुरीषिणं सायकेना हिरण्ययो३म्
पुरू सहस्रा नि शिशामि दाशुषे । यन्मा सोमास उक्थिनो अमन्दिषो३म्
अहमिन्द्रो न परा जिग्य इद्धनम् । न मृत्यवेऽव तस्थे कदा चनो३ं
सोममिन्मा सुन्वन्तो याचता वसु । न मे पूरवः सख्ये रिषाथनो३म्
अहमेताञ्छाश्वसतो द्वा द्वा । इन्द्रं ये वज्रं युधयेऽकृण्वतो३म्
आह्वयमानाँ अव हन्मनाहनम् । दृळ्हा वदन्ननमस्युर्नमस्विनो३म्
अभीदमेकमेको अस्मि निष्षाट् । अभी द्वा किमु त्रयः करन्तो३ं
खले न पर्षान् प्रति हन्मि भूरि । किं मा निन्दन्ति शत्रवोऽनिन्द्रो३म्
अहं गुङ्गुभ्यो अतिथिग्वमिष्करम् । इषं न वृत्रतुरं विक्षु धारयो३ं
यत् पर्णयघ्न उत वा करञ्जहे । प्राहं महे वृत्रहत्ये अशुश्रवो३म्
प्र मे नमी साप्य इषे भुजे भूत् । गवामेषे सख्या कृणुत द्वितो३ं
दिद्युं यदस्य समिथेषु मंहयम् । आदिदेनं शंस्यमुक्थ्यं करो३म्
प्र नेमस्मिन् ददृशे सोमो अन्तः । गोपा नेममाविरस्था कृणोतो३ं
स तिग्मशृङ्गं वृषभं युयुत्सन् । द्रुहस्तस्थौ बहुले बद्धो अन्तो३ं
शो३ंसावो३म् आदित्यानां वसूनां रुद्रियाणाम् । देवो देवानां न मिनामि धामो३ं
ते मा भद्राय शवसे ततक्षुः । अपराजितमस्तृतमषाह्ळो३म् ॥ (१० । ४८ । १-११) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहेऽपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरा३ वौ३षट् ॥ (२ । १९ । १)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
मैत्रावरुणशस्त्रम् ।
आकूपारस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
चित्रं ग्राभं सं गृभाय महाहस्ती दक्षिणेनो३ं इति त्रिः
[[२०३]]
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
तुविदेष्णं तुवीमघं तुविमात्रमवोभो३ं
नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
न मर्तासो दित्सन्तम् भीमं न गां वारयन्तो३ं [८ । ८१ । १-३]
शो३ंसावो३म् आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
अर्वावतश्च वृत्रहन् मध्वः प्रति प्रभर्मणो३ं
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
सुतासो मादयिष्णवः पिबा दधृग्यथोचिषो३म्
इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
अरं वराय मन्यवे भुवत्त इन्द्र शं हृदो३ं (८ । ८२ । १-३)
शो३ंसावो३म् नह्यन्यं बळाकरं मर्डितारं शतक्रतो । त्वं न इन्द्र मृळयो३ं
यो नः शश्वत् पुराविथामृध्रो वाजसातये । स त्वं न इन्द्र मृळयो३ं
किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि । कुवित् स्विन्द्र णः शको३म्
इन्द्र प्र णो रथमव पश्चाच्चित् सन्तमद्रिवः । पुरस्तादेनं मे कृधो३ं
हन्तो नु किमाससे प्रथमं नो रथं कृधि । उपमं वाजयु श्रवो३म्
अवा नो वाजयुं रथं सुकरं ते किमित् परि । अस्मान्त्सु जिग्युषस्कृधो३म्
इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् । इयं धीर्ऋत्वियावतो३म्
मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् । अपावृक्ता अरत्नयो३म् (८ । ८० । १-८)
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । भेजानासः सुवीर्यो३ं
त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं वृषन्वृषेदसो३ं
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । उद् द्यामस्तभ्ना ओजसो३ं
त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । वज्रं शिशान ओजसो३ं
त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा । स विश्वा भुव आभवो३म् [१० । १५३ । १-५]
अहं दां गृणते पूर्व्यं वसु । अहं ब्रह्म कृणवं मह्यं वर्धनो३म्
अहं भुवं यजमानस्य चोदिता । अयज्वनः साक्षि विश्वस्मिन् भरो३म्
मां धुरिन्द्रं नाम देवता । दिवश्च ग्मश्चापां च जन्तवो३म्
अहं हरी वृषणा विव्रता रघू । अहं वज्रं शवसे धृष्ण्वा ददो३म्
अहमत्कं कवये शिश्नथं हथैः । अहं कुत्समावमाभिरूतिभो३म्
अहं शुष्णस्य श्नथिता वधर्यमम् । न यो रर आर्यं नाम दस्यवो३म्
[[२०४]]
अहं पितेव वेतसूँरभिष्टये । तुग्रं कुत्साय स्मदिभं च रन्धयो३म्
अहं भुवं यजमानस्य राजनि । प्र यद्भरे तुजये न प्रियाधृषो३म्
अहं रन्धयं मृगयं श्रुतर्वणे । यन्माजिहीत वयुना चनानुषो३म्
अहं वेशं नम्रमायवेऽकरम् । अहं सव्याय पड्गृभिमरन्धयो३म्
अहं स यो नववास्त्वं बृहद्रथम् । सं वृत्रेव दासं वृत्रहारुजो३ं
यद्वर्धयन्तं प्रथयन्तमानुषक् । दूरे पारे रजसो रोचनाकरो३म्
अहं सूर्यस्य परि याम्याशुभिः । प्रैतशेभिर्वहमान ओजसो३ं
यन्मा सावो मनुष आह निर्णिजे । ऋधक् कृषे दासं कृत्व्यं हथो३म्
अहं सप्तहा नहुषो नहुष्टरः । प्राश्रावयं शवसा तुर्वशं यदो३म्
अहं न्यन्यं सहसा सहस्करम् । नव व्राधतो नवतिं च वक्षयो३म्
अहं सप्त स्रवतो धारयं वृषा । द्रवित्न्वः पृथिव्यां सीरा अधो३म्
अहमर्णांसि वि तिरामि सुक्रतुः । युधा विदं मनवे गातुमिष्टयो३म्
अहं तदासु धारयं यदासु न । देवश्चन त्वष्टाधारयद्रुशो३ं
स्पार्हं गवामूधःसु वक्षणास्वा । मधोर्मधु श्वात्र्यं सोममाशिरो३ं
शो३ंसावो३म् एवा देवाँ इन्द्रो विव्ये नॄन् । प्र च्यौत्नेन मघवा सत्यराधो३ं
विश्वेत्ता ते हरिवः शचीवः । अभि तुरासः स्वयशो गृणन्तो३म् ॥ (१० । ४९ । १-११) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहे पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः ।
गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधाया३ वौ३षट् ॥ (६ । ४४ । १५)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
ब्राह्मणाच्छंसिशस्त्रम् ।
आर्षभस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
सुतं सृजामि पीतये तृम्पा व्यश्नुही मदो३म् इति त्रिः
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
मोपहस्वान आ दभन् माकीं ब्रह्मद्विषो वनो३म्
इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
[[२०५]]
महे मन्दन्तु राधसे सरो गौरो यथा पिबो३ं (८४५ । २२-२४)
शो३ंसावो३म् अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
इन्द्रमर्च यथा विदे सूनुं सत्यस्य सत्पतो३म्
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
अरुषीरधि बर्हिषि यत्राभि संनवामहो३म्
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
दुदुह्रे वज्रिणे मधु यत्सीमुपह्वरे विदो३ं (८ । ६९ । ४-६)
शो३ंसावो३म् आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये । हरिभ्यां याह्यद्रिवो३ं
सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् । अयुज्रन् प्रातरद्रयो३म्
इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद । वीहि शूर पुरोळशो३ं
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् । उक्थेष्विन्द्र गिर्वणो३म्
मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् । इन्द्रं वत्सं न मातरो३ं
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे । न स्तोतारं निदे करो३ं
वयमिन्द्र त्वायवो हविष्मन्तो जरामहे । उत त्वमस्मयुर्वसो३म्
मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ् याहि । इन्द्र स्वधावो मत्स्वेहो३म्
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना । घृतस्नू बर्हिरासदो३म् (३ । ४१ । १-९)
उप नः सुतमा गहि सोममिन्द्र गवाशिरम् । हरिभ्यां यस्ते अस्मयो३ं
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् । कुविन्वस्य तृप्णवो३म्
इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः । आवृते सोमपीतयो३म्
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे । उक्थेभिः कुविदागमो३म्
इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो । जठरे वाजिनीवसो३ं
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे । अधा ते सुम्नमीमहो३म्
इममिन्द्र गवाशिरं यवाशिरं च नः पिब । आगत्या वृषभिः सुतो३ं
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । एष रारन्तु ते हृदो३ं
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे । कुशिकासो अवस्यवो३म् (३ । ४२ । १-९)
अश्वावति प्रथमो गोषु गच्छति । सुप्रावीरिन्द्र मर्त्यस्तवोतिभो३ं
तमित् पृणक्षि वसुना भवीयसा । सिन्धुमापो यथाभितो विचेतसो३म्
आपो न देवीरुप यन्ति होत्रिम् । अवः पश्यन्ति विततं यथा रजो३म्
प्राचैर्देवासः प्र णयन्ति देवयुम् । ब्रह्मप्रियं जोषयन्ते वरा इवो३म्
[[२०६]]
अधि द्वयोरदधा उक्थ्यं वचः । यतस्रुचा मिथुना या सपर्यतो३म्
असंयत्तो व्रते ते क्षेति पुष्यति । भद्रा शक्तिर्यजमानाय सुन्वतो३म्
आदङ्गिराः प्रथमं दधिरे वयः । इद्धाग्नयः शम्या ये सुकृत्ययो३ं
सर्वं पणेः समविन्दन्त भोजनम् । अश्वावन्तं गोमन्तमा पशुं नरो३ं
यज्ञैरथर्वा प्रथमः पथस्तते । ततः सूर्यो व्रतपा वेन आजनो३म्
आ गा आजदुशना काव्यः सचा । यमस्य जातममृतं यजामहो३ं
शो३ंसावो३म् बर्हिर्वा यत्स्वपत्याय वृज्यते । अर्को वा श्लोकमाघोषते दिवो३ं
ग्रावा यत्र वदति कारुरुक्थ्यः । तस्येदिन्द्रो अभिपित्वेषु रण्यतो३म् (१ । ८३ । १-६) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहे प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणाना३ वौ३षट् ॥ (१० । १०४ । ३)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
अच्छावाकशस्त्रम् ।
गारस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
पिबा सुपूर्णमुदरमनाभयिन् ररिमा तो३ं इति त्रिः
नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
अव्यो वारैः परिपूतोऽश्वो न निक्तो नदीषो३ं
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
स्वादुमकर्म श्रीणन्त इन्द्र त्वास्मिन्त्सधमादे ॥ (८ । २ । १-३)
शो३सावो३म् इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
विश्वेभिः सोमपर्वभिर्महाँ अभिष्टिरोजसो३म्
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
मन्दिमिन्द्राय मन्दिने चक्रिं विश्वानि चक्रयो३म्
मत्स्वा सुशिप्र मन्दिभिः स्तोमेभिर्विश्वचर्षणे ।
स्तोमेभिर्विश्वचर्षणे सचैषु सवनेष्वो३ं (१ । ९ । १-३)
शो३ंसावो३म् प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । नरं नृषाहं मंहिष्ठो३ं
[[२०७]]
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या । अपामवो न समुद्रो३ं
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । महो वाजिनं सनिभ्यो३ं
यस्यानूना गभीरा मदा उरवस्तरुत्राः । हर्षुमन्तः शूरसातो३ं
तमिद्धनेषु हितेष्वधिवाकाय हवन्ते । येषामिन्द्रस्ते जयन्तो३ं
तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः । एष इन्द्रो वरिवस्को३म्
इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः । महान् महीभिः शचीभो३ं
स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । एकश्चित्सन्नभिभूतो३ं
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः । इन्द्रं वर्धन्ति क्षितयो३म्
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । सासह्वांसं युधामित्रो३ं
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । इन्द्रो विश्वा अति द्विषो३ं
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च । अच्छा च नः सुम्नं नेषो३म् [८ । १६ । १-९]
उप क्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशूष्टरस्य वेदो३म्
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । अस्माभिः सु तं सनुहो३ं
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः । वशैश्च मक्षू जरन्तो३ं (८ । ८१ । ७-९)
तदस्मै नव्यमङ्गिरस्वदर्चत । शुष्मा यदस्य प्रत्नथोदीरतो३ं
विश्वा यद्गोत्रा सहसा परीवृता । मदे सोमस्य दृंहितान्यैरयो३ं
स भूतु यो ह प्रथमाय धायसे । ओजो मिमानो महिमानमातिरो३ं
शूरो यो युत्सु तन्वं परिव्यत । शीर्षणि द्यां महिना प्रत्यमुञ्चतो३म्
अधाकृणोः प्रथमं वीर्यं महत् । यदस्याग्रे ब्रह्मणा शुष्ममैरयो३ं
रथेष्ठेन हर्यश्वेन विच्युताः । प्र जीरयः सिस्रते सध्र्यक् पृथो३म्
अधा यो विश्वा भुवनाभि मज्मना । ईशानकृत् प्रवया अभ्यवर्धतो३म्
आद्रोदसी ज्योतिषा वह्निरातनोत् । सीव्यन्तमांसि दुधिता समव्ययो३ं
स प्राचीनान् पर्वतान् दृंहदोजसा । अधराचीनमकृणोदपामपो३म्
अधारयत् पृथिवीं विश्वधायसम् । अस्तभ्नान् मायया द्यामवस्रसो३ं
सास्मा अरं बाहुभ्यां यं पिताकृणोत् । विश्वस्मादा जनुषो वेदसस्परो३ं
येना पृथिव्यां नि क्रिविं शयध्यै । वज्रेण हत्व्यवृणक् तुविष्वणो३म्
अमाजूरिव पित्रोः सचा सती । समानादा सदसस्त्वामिये भगो३ं
कृधि प्रकेतमुप मास्या भर । दद्धि भागं तन्वो येन मामहो३म्
भोजं त्वामिन्द्र वयं हुवेम । ददिष्ट्वमिन्द्रापांसि वाजो३म्
[[२०८]]
अविड्ढीन्द्र चित्रया न ऊती । कृधि वृषन्निन्द्र वस्यसो नो३ं
शो३ंसावो३ं नूनं सा ते प्रति वरं जरित्रे । दुहीयदिन्द्र दक्षिणा मघोनो३ं
शिक्षा स्तोतृभ्यो माति धग्भगो नः । बृहद्वदेम विदथे सुवीरो३म् ॥ (२ । १७ । -९) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहेऽस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् ।
तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन् पीतये समस्मा३इ वौ३षट् ॥ (६ । ४० । २)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
उत्तमपर्यायः ।
होतृशस्त्रम् ।
घृतश्चुन्निधनस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वस्य गिर्वणः पिबा त्वस्य गिर्वणो३ं इति त्रिः
यस्ते अनु स्वधामसत् सुते नि यच्छ तन्वम् ।
स त्वा ममत्तु सोम्यं स त्वा ममत्तु सोम्यो३म्
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसे प्र बाहू शूर राधसो३ं
शो३ंसावो३म् महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
स्तोमैर्वत्सस्य वावृधे स्तोमैर्वत्सस्य वावृधो३म्
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा विप्रा ऋतस्य वाहसो३ं
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधं जामि ब्रुवत आयुधो३ं
शो३ंसावो३ं समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवो३म्
ओजस्तदस्य तित्विष उभे यत् समवर्तयत् । इन्द्रश्चर्मेव रोदसो३ं
वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा । शिरो बिभेद वृष्णिनो३म्
इमा अभि प्र णोनुमो विपामग्रेषु धीतयः । अग्नेः शोचिर्न दिद्युतो३ं
गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः । कण्वा ऋतस्य धारयो३म्
[[२०९]]
प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् । प्र ब्रह्म पूर्वचित्तयो३म्
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं सूर्य इवाजनो३म्
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शुष्ममिद्दधो३ं
ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः । ममेद्वर्धस्व सुष्टुतो३ं
यदस्य मन्युरध्वनीद् वि वृत्रं पर्वशो रुजन् । अपः समुद्रमैरयो३ं
नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि । वृषा ह्युग्र शृण्विषो३ं
न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् । न विव्यचन्त भूमयो३ं
यस्त इन्द्र महीरपः स्तभूयमान आशयत् । नि तं पद्यासु शिश्नथो३ं
य इमे रोदसी मही समीची समजग्रभीत् । तमोभिरिन्द्र तं गुहो३ं
य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः । ममेदुग्र श्रुधी हवो३म्
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् । एनामृतस्य पिप्युषो३ं
या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् । परि धर्मेव सूर्यो३ं
त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः । त्वां सुतास इन्दवो३ं
तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः । यज्ञो वितन्तसाय्यो३म्
आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् । उत प्रजां सुवीर्यो३म्
उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा । अग्रे विक्षु प्रदीदयो३म्
अभि व्रजं न तत्निषे सूर उपाकचक्षसम् । यदिन्द्र मृळयासि नो३ं
यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । महाँ अपार ओजसो३ं
तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये । उॣज्रयसमिन्दुभो३म्
उपह्वरे गिरीणां सङ्गथे च नदीनाम् । धिया विप्रो अजायतो३म्
अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति । यतो विपान एजतो३म्
आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवो३ं
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । उतो शविष्ठ वृष्ण्यो३म्
इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव । उत प्र वर्धया मतो३म्
उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः । विप्रा अतक्ष्म जीवसो३म्
अभि कण्वा अनूषतापो न प्रवता यतीः । इन्द्रं वनन्वती मतो३म्
इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः । अनुत्तमन्युमजरो३म्
आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् । इममिन्द्र सुतं पिबो३ं
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः । हवन्ते वाजसातयो३म्
[[२१०]]
अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् । अनु सुवानास इन्दवो३म्
मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । मत्स्वा विवस्वतो मतो३ं
वावृधान उप द्यवि वृषा वज्र्यरोरवीत् । वृत्रहा सोमपातमो३म्
ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा । इन्द्र चोष्कूयसे वसो३म्
अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः । शतं वहन्तु हरयो३म्
इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् । कण्वा उक्थेन वावृधो३म्
इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः । इन्द्रं सनिष्युरूतयो३म्
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी । सोमपेयाय वक्षतो३ं [८ । ६ । ४-४५]
विश्वजिते धनजिते स्वर्जिते । सत्राजिते नृजित उर्वराजितो३म्
अश्वजिते गोजिते अब्जिते भर । इन्द्राय सोमं यजताय हर्यतो३म्
अभिभुवेऽभिभङ्गाय वन्वते । अषाह्ळाय सहमानाय वेधसो३ं
तुविग्रये वह्नये दुष्टरीतवे । सत्रासाहे नम इन्द्राय वोचतो३ं
सत्रासाहो जनभक्षो जनंसहः । च्यवनो युध्मो अनु जोषमुक्षितो३ं
वृतंचयः सहुरिर्विक्ष्वारितः । इन्द्रस्य वोचं प्र कृतानि वीर्यो३म्
अनानुदो वृषभो दोधतो वधः । गम्भीर ऋष्वो असमष्टकाव्यो३ं
रध्रचोदः श्नथनो वीळितस्पृथुः । इन्द्रः सुयज्ञ उषसः स्वर्जनो३ं
यज्ञेन गातुमप्तुरो विविद्रिरे । धियो हिन्वाना उशिजो मनीषिणो३म्
अभिस्वरा निषदा गा अवस्यवः । इन्द्रे हिन्वाना द्रविणान्याशतो३म्
शो३ंसावो३म् इन्द्र श्रेष्ठानि द्रविणानि धेहि । चित्तिं दक्षस्य सुभगत्वमस्मो३म्
पोषं रयीणामरिष्टिं तनूनाम् । स्वाद्मानं वाचः सुदिनत्वमह्नो३म् ॥ (२ । २१ । १-६) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहे तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाया३ वौ३षट् ॥ (३ । ३५ । १)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
मैत्रावरुणशस्त्रम् ।
दैवातिथिस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
[[२११]]
सखायः स्तोमवाहसः सखायः स्तोमवाहसो३म्
पुरूतमं पुरूणामीशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुत इन्द्रं सोमे सचा सुतो३ं
स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
गमद्वाजेभिरा स नो गमद्वाजेभिरा स नो३ं [१ । ५ । १-३]
शो३ंसावो३म् आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
उपमे रोचने दिव उपमे रोचने दिवो३ं
तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
प्र सोम इन्द्र हूयते प्र सोम इन्द्र हूयतो३म्
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
वि पीतिं तृप्तिमश्नुहि वि पीतिं तृप्तिमश्नुहो३ं [८ । ८२ । ४-६]
शो३ंसावो३ं नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् । नकिरेवा यथा त्वो३ं
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । सत्रा महाँ असि श्रुतो३ं
विश्वे चनेदना त्वा देवास इन्द्र युयुधुः । यदहा नक्तमातिरो३ं
यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते । मुषाय इन्द्र सूर्यो३ं
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् । त्वमिन्द्र वनूँरहो३ं
यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् । प्रावः शचीभिरेतशो३ं
किमादुतासि वृत्रहन् मघवन् मन्युमत्तमः । अत्राह दानुमातिरो३म्
एतद् घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
स्त्रियं यद् दुर्हणायुवं वधीर्दुहितरं दिवो३ं
दिवश्चिद् घा दुहितरं महान् महीयमानाम् । उषासमिन्द्र सं पिणो३म्
अपोषा अनसः सरत् सम्पिष्टादह बिभ्युषी । नि यत्सीं शिश्नथद् वृषो३म्
एतदस्या अनः शये सुसम्पिष्टं विपाश्या । ससार सीं परावतो३म्
उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि । परि ष्ठा इन्द्र माययो३म्
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । पुरो यदस्य सम्पिणो३म्
उत दासं कौलितरं बृहतः पर्वतादधि । अवाहन्निन्द्र शम्बरो३म्
उत दासस्य वर्चिनः सहस्राणि शतावधीः । अधि पञ्च प्रधीँरिवो३म्
उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः । उक्थेष्विन्द्र आभजो३म्
उत त्या तुर्वशायदू अस्नातारा शचीपतिः । इन्द्रो विद्वाँ अपारयो३म्
[[२१२]]
उत त्या सद्य आर्या सरयोरिन्द्र पारतः । अर्णाचित्रव्थावधो३म्
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् । न तत्ते सुम्नमष्टवो३ं
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् । दिवोदासाय दाशुषो३म्
अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः । दासानामिन्द्रो माययो३ं
स घेदुतासि वृत्रहन्त्समान इन्द्र गोपतिः । यस्ता विश्वानि चिच्युषो३म्
उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् । अद्या नकिष्टदा मिनो३ं (४ । ३० । १-२३)
श्रत्ते दधामि प्रथमाय मन्यवे । अहन् यद्वृत्रं नर्यं विवेरपो३म्
उभे यत्त्वा भवतो रोदसी अनु । रेजते शुष्मात् पृथिवी चिदद्रिवो३ं
त्वं मायाभिरनवद्य मायिनम् । श्रवस्यता मनसा वृत्रमर्दयो३ं
त्वामिन्नरो वृणते गविष्टिषु । त्वां विश्वासु हव्यास्विष्टिषो३म्
ऐषु चाकन्धि पुरुहूत सूरिषु । वृधासो ये मघवन्नानशुर्मघो३म्
अर्चन्ति तोके तनये परिष्टिषु । मेधसाता वाजिनमह्रये धनो३ं
स इन्नु रायः सुभृतस्य चाकनत् । मदं यो अस्य रंह्यं चिकेततो३ं
त्वावृधो मघवन् दाश्वध्वरः । मक्षू स वाजं भरते धना नृभो३ं
शो३ंसावो३ं त्वं शर्धाय महिना गृणानः । उरु कृधि मघवञ्छग्धि रायो३ं
त्वं नो मित्रो वरुणो न मायी । पित्वो न दस्म दयसे विभक्तो३म् ॥ (१० । १४७ । १-५) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामह इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि ।
मत्सद् यथा सौमनसाय देवं व्यस्मद् द्वेषो युयवद् व्यंहा३ वौ३षट् ॥ (६ । ४४ । १६)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
ब्राह्मणाच्छंसिशस्त्रम् ।
सौमेधस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३ं
योगे योगे तवस्तरं वाजे वाजे हवामहे ।
सखाय इन्द्रमूतये सखाय इन्द्रमूतयो३म्
आ घा गमद्यदि श्रवत् सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवं वाजेभिरुप नो हवो३म्
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
[[२१३]]
यं ते पूर्वं पिता हुवे यं ते पूर्वं पिता हुवो३ं (१ । ३० । ७-९)
शो३ंसावो३म् युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि रोचन्ते रोचना दिवो३ं
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा शोणा धृष्णू नृवाहसो३ं
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः समुषद्भिरजायथो३ं (१ । ६ । १-३)
शो३ंसावो३म् यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोषखा स्यो३ं
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । यदहं गोपतिः स्यो३ं
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । गामश्वं पिप्युषी दुहो३ं
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । यद् दित्ससि स्तुतो मघो३ं
यज्ञ इन्द्रमवर्धयद् यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवो३ं
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः । ऊतिमिन्द्रा वृणीमहो३ं
व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना । इन्द्रो यदभिनद्वलो३म्
उद् गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलो३म्
इन्द्रेण रोचना दिवो दृह्ळानि दृंहितानि च । स्थिराणि न पराणुदो३म्
अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते । वि ते मदा अराजिषो३ं
त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः । स्तोतॄणामुत भद्रको३म्
इन्द्रमित् केशिना हरी सोमपेयाय वक्षतः । उप यज्ञं सुराधसो३म्
अपाम् फेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजयः स्पृधो३म्
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । अव दस्यूँरधूनुथो३म्
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः । सोमपा उत्तरो भवो३म् (८ । १४ । १-१५)
प्र ते महे विदथे शंसिषं हरी । प्र ते वन्वे वनुषो हर्यतं मदो३ं
घृतं न यो हरिभिश्चारु सेचते । आ त्वा विशन्तु हरिवर्पसं गिरो३ं
हरिं हि योनिमभि ये समस्वरन् । हिन्वन्तो हरी दिव्यं यथा सदो३म्
आ यं पृणन्ति हरिभिर्न धेनवः । इन्द्राय शूषं हरिवन्तमर्चतो३ं
सो अस्य वज्रो हरितो य अ्यसः । हरिर्निकामो हरिरा गभस्त्यो३ं
द्युम्नी सुशिप्रो हरिमन्युसायकः । इन्द्रे नि रूपा हरिता मिमिक्षिरो३ं
दिवि न केतुरधि धायि हर्यतः । विव्यचद्वज्रो हरितो न रंह्यो३ं
[[२१४]]
तुददहिं हरिशिप्रो य आयसः । सहस्रशोका अभवद्धरिम्भरो३ं
त्वं त्वमहर्यथा उपस्तुतः । पूर्वेभिरिन्द्र हरिकेश यज्वभो३ं
त्वं हर्यसि तव विश्वमुक्थ्यम् । असामि राधो हरिजात हर्यतो३ं
ता वज्रिणं मन्दिनं स्तोम्यं मदे । इन्द्रं रथे वहतो हर्यता हरो३म्
पुरूण्यस्मै सवनानि हर्यते । इन्द्राय सोमा हरयो दधन्विरो३म्
अरं कामाय हरयो दधन्विरे । स्थिराय हिन्वन् हरयो हरी तुरो३म्
अर्वद्भिर्यो हरिभिर्जोषमीयते । सो अस्य कामं हरिवन्तमानशो३ं
हरिश्मशारुर्हरिकेश आयसः । तुरस्पेये यो हरिपा अवर्धतो३म्
अर्वद्भिर्यो हरिभिर्वाजिनीवसुः । अति विश्वा दुरिता पारिषद्धरो३ं
स्रुवेव यस्य हरिणी विपेततुः । शिप्रे वाजाय हरिणी द्रवध्वतो३म्
प्र यत्कृते चमसे मर्मृजद्धरी । पीत्वा मदस्य हर्यतस्यान्धसो३म्
उत स्म सद्म हर्यतस्य पस्त्योः । अत्यो न वाजं हरिवाँ अचिक्रदो३म्
मही चिद्धि धिषणाहर्यदोजसा । बृहद्वयो दधिषे हर्यतश्चिदो३म्
आ रोदसी हर्यमाणो महित्वा । नव्यं नव्यं हर्यसि मन्म नु प्रियो३म्
प्र पस्त्यमसुर हर्यतं गोः । आविष्कृधि हरये सूर्यायो३म्
आ त्वा हर्यन्तं प्रयुजो जनानाम् । रथे वहन्तु हरिशिप्रमिन्द्रो३म्
पिबा यथा प्रतिभृतस्य मध्वः । हर्यन् यज्ञं सधमादे दशोणो३ं
शो३ंसावो३म् अपाः पूर्वेषां हरिवः सुतानाम् । अथो इदं सवनं केवलं तो३म्
ममद्धि सोमं मधुमन्तमिन्द्र । सत्रा वृषञ्जठर आ वृषस्वो३म् ॥ (१० । ९६ । १-१३) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामह ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासा३ वौ३षट् ॥ (१० । १०४ । ४)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
मैत्रावरुणशस्त्रम् ।
कौत्सस्तोत्रं पञ्चदशस्तोमम् । प्रस्तोत्रा एष इति प्रोक्ते प्रतिहारे-
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
विदे वृधस्य दक्षसो महान् हि षो महान् हि षो३ं
[[२१५]]
स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः समप्सुजित् समप्सुजो३ं
तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
भवा नः सुम्ने अन्तमः सखा वृधे सखा वृधो३ं (८ । १३ । १-३)
शो३ंसावो३ं य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्यत्रिणं तमीमहे तमीमहो३ं
येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रमाविथा तमीमहे तमीमहो३ं
येन सिन्धुं महीरपो रथाँ इव प्रचोदयः ।
पन्थामृतस्य यातवे तमीमहे तमीमहो३ं [८ । १२ । १-३]
शो३ंसावो३म् आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखो३म्
बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः । येषामिन्द्रो युवा सखो३म्
अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः । येषामिन्द्रो युवा सखो३म्
आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् । क उग्राः के ह शृण्विरो३म्
प्रति त्वा शवसी वदद् गिरावप्सो न योधिषत् । यस्ते शत्रँत्वमाचको३म्
उत त्वं मघवञ्च्छृणु यस्ते वष्टि ववक्षि तत् । यद् वीळयासि वीळु तो३ं
यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप । रथीतमो रथीनो३ं
वि षु विश्वा अभियुजो वज्रिन् विष्वग्यथा वृह । भवा नः सुश्रवस्तमो३म्
अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये । न यं धूर्वन्ति धूर्तयो३ं
वृज्याम ते परि द्विषोऽरं ते शक्र दावने । गमेमेदिन्द्र गोमतो३ं
शनैश्चिद् यन्तो अद्रिवोऽश्वावन्तः शतग्विनः । विवक्षणा अनेहसो३म्
ऊर्ध्वा हि ते दिवे दिवे सहस्रा सूनृता शता । जरितृभ्यो विमंहतो३ं
विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् । आदारिणं यथा गयो३ं
ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः । आ त्वा पणिं यदीमहो३ं
यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये । तस्य नो वेद आ भरो३म्
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशो३म्
उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये । दूरादिह हवामहो३ं (८ । ४५ । १-१७)
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । पिबेदस्य त्वमीशिषो३ं
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे । पिबेदस्य त्वमीशिषो३ं
[[२१६]]
यं ते श्येनः पदाभरत् तिरो रजांस्यस्पृतम् । पिबेदस्य त्वमीशिषो३ं [८ । ८२ । ७-९]
प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् । अग्नाविव समिधाने हविर्भरो३म्
इन्द्रमजुर्यं जयन्तमुक्षितम् । सनाद् युवानमवसे हवामहो३ं
यस्मादिन्द्राद् बृहतः किं चनेमृते । विश्वान्यस्मिन्त्सम्भृताधि वीर्यो३ं
जठरे सोमं तन्वी सहो महः । हस्ते वज्रं भरति शीर्षणि क्रतो३ं
न क्षोणीभ्यां परिभ्वे त इन्द्रियम् । न समुद्रैः पर्वतैरिन्द्र ते रथो३ं
न ते वज्रमन्वश्नोति कश्चन । यदाशुभिः पतसि योजना पुरो३ं
विश्वे ह्यस्मै यजताय धृष्णवे । क्रतुं भरन्ति वृषभाय सश्चतो३ं
वृषा यजस्व हविषा विदुष्टरः । पिबेन्द्र सोमं वृषभेण भानुनो३ं
वृष्णः कोशः पवते मध्व ऊर्मिः । वृषभान्नाय वृषभाय पातवो३ं
वृषणाध्वर्यू वृषभासो अद्रयः । वृषणं सोमं वृषभाय सुष्वतो३ं
वृषा ते वज्र उत ते वृषा रथः । वृषणा हरी वृषभाण्यायुधो३ं
वृष्णो मदस्य वृषभ त्वमीशिषे । इन्द्र सोमस्य वृषभस्य तृप्णुहो३म्
प्र ते नावं न समने वचस्युवम् । ब्रह्मणा यामि सवनेषु दाधृषो३ं
कुविन्नो अस्य वचसो निबोधिषत् । इन्द्रमुत्सं न वसुनः सिचामहो३म्
पुरा सम्बाधादभ्या ववृत्स्व नः । धेनुर्न वत्सं यवसस्य पिप्युषो३ं
सकृत्सु ते सुमतिभिः शतक्रतो । सं पत्नीभिर्न वृषणो नसीमहो३ं
शो३ंसावो३म् नूनं सा ते प्रति वरं जरित्रे । दुहीयदिन्द्र दक्षिणा मघोनो३ं
शिक्षा स्तोतृभ्यो माति धग्भगो नः । बृहद्वदेम विदथे सुवीरो३म् ॥ (२ । १६ । १-९) इ्रति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपः ।
ये३ यजामहे प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् ।
इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य राजा३ वौ३षट् ॥ (६ । ३७ । २)
सोमस्याग्ने वीही३ वौ३षट् ॥ द्विर्वागोजः । पूर्ववद् भक्षविधिः ।
आश्विनशस्त्रम् ।
अथ संस्थितेषु पर्यायेषु छन्दोगा आश्विनाय स्तुवते सन्धिस्तोत्रं त्रिवृत्स्तोमम् । होताश्विनं शस्त्रं शंसिष्यन् विसंस्थितसञ्चरेण निष्क्रम्याग्नीध्रीये जान्वाच्याहुतीर्जुहुयात्-
अग्निरज्वी गायत्रेण च्छन्दसा तमश्यां तमन्वारभे तस्मै मामवतु तस्मै स्वाहा ॥ अग्नय इदं न मम ॥
उषा अज्विनी त्रैष्टुभेन च्छन्दसा तामश्यां तामन्वारभे तस्यै मामवतु तस्यै स्वाहा ॥ उषस इदं..॥
[[२१७]]
अश्विनावज्विनौ जागतेन च्छन्दसा तावश्यां तावन्वारभे ताभ्यां मामवतु ताभ्यां स्वाहा ॥ अश्विभ्यामिदं..॥
बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्य॒तेऽद्धा दे॑व म॒हाँ अ॑सि॒ स्वाहा ॥ सूर्यायेदं न मम ॥
बट्सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यं॒ स्वाहा ॥ सूर्यायेदं न मम ॥ (८ । १०१ । ११-१२)
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः॒ स्वाहा ॥ इन्द्रायेदं न मम ॥ (१ । ७ । १०)
इति स्थाल्या स्रुवेणादाय षडाहुतीर्हुत्वा आज्यशेषं प्राश्य अनाचम्यैव सदः प्रविश्य पश्चात् स्वस्य धिष्णियस्य तृणान्निव्स्याप उपस्पृश्य समस्तजङ्घोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा शकुनिरिवोत्पतिष्यन्नुपविष्टः आश्विनं शस्त्रं शंसेत् ।
हिम् भूर्भुवःस्वरो३म् । शो३ंसावो३म्
अग्निर्होता गृहपतिः स राजा । विश्वा वेद जनिमा जातवेदो३ं
देवानामुत यो मर्त्यानाम् । यजिष्ठः स प्र यजतामृतावो३म् (६ । १५ । १३) इति त्रिः
गायत्रम्
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वतो३ं
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षद् दाशुषे गयो३म्
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणो३ं
यस्य दूतो असि क्षये वेषि हव्यानि वीतये । दस्मत् कृणोष्यध्वरो३ं
तमित् सुहव्यमङ्गिरः सुदेवं सहसो यहो । जना आहुः सुबर्हिषो३म्
आ च वहासि ताँ इह देवाँ उप प्रशस्तये । हव्या सुश्चन्द्र वीतयो३ं
न योरुपब्दिरश्वः शृण्वे रथस्य कच्चन । यदग्ने यासि दूत्यो३ं
त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः । प्र दाश्वाँ अग्ने अस्थो३म्
उत द्युमत् सुवीर्यं बृहदग्ने विवाससि । देवेभ्यो देव दाशुषो३ं [१ । ७४ । १-९] [९]
जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् । हव्या जुह्वान आसनो३म्
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् । वोचेम ब्रह्म सानसो३ं
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । को ह कस्मिन्नसि श्रितो३ं
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यो३ं
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् । अग्ने यक्षि स्वं दमो३म् [१ । ७५ । १-५] [१४]
अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि । विश्वासु धीषु वन्द्यो३म्
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरो३म्
[[२१८]]
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसो३ं
प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये । भरस्व सुम्नयुर्गिरो३ं
यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः । अस्माकमिद् वृधे भवो३ं
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति । होता गृणीत उक्थ्यो३म् [१ । ७९ । ७-१२] [२०]
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमो३म्
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षतो३म्
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमो३म्
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छतो३म्
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरागमो३ं
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरो३म्
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसो३ं
राजन्तामध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमो३ं
स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तयो३म् [१ । १ । १-९] [२९]
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतो३म्
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियो३म्
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यो३ं
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् । देवैरा सत्सि बर्हिषो३ं
घृताहवन दीदिवः प्रति ष्म रिषतो दह । अग्ने त्वं रक्षस्विनो३म्
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यो३ं
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनो३ं
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भवो३ं
यो अग्निं देववीतये हविष्माँ आविवासति । तस्मै पावक मृळयो३ं
स नः पावक दीदिवोऽग्ने देवाँ इहा वह । उप यज्ञं हविश्च नो३ं
स नः स्तवान आ भर गायत्रेण नवीयसा । रयिं वीरवतीमिषो३म्
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः । इमं स्तोमं जुषस्व नो३ं [१ । १२ । १-१२] [४१]
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते । सेमं नो अध्वरं यजो३ं
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचो३म्
आ हि ष्मा सूनवे पितापिर्यजत्यापये । सखा सख्ये वरेण्यो३म्
आ नो बर्ही रिशादसो वरेण्यो मित्रो अर्यमा । सीदन्तु मनुषो यथो३ं
[[२१९]]
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च । इमा उ षु श्रुधी गिरो३ं
यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हवो३ं
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयो३ं
स्वग्नयो हि वार्यं देवासो दधिरे च नः । स्वग्नयो मनामहो३म्
अथा न उभयेषाममृत मर्त्यानाम् । मिथः सन्तु प्रशस्तयो३ं
विश्विभिरग्ने अग्निभिर्रिमं यज्ञमिदं वचः । चनो धाः सहसो यहो३म् [१ । २६ । १-१०] [५१]
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणो३ं
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मीढ्वाँ अस्माकं बभूयो३ं
स नो दूराच्चासाच्च नि मर्त्यादघायोः । पाहि सदमिद् विश्वायो३म्
इममू षु त्वमस्माकं सनिं गायत्रेण नव्यांसम् । अग्ने देवेषु प्र वोचो३म्
आ नो भज परमेष्वा वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्यो३ं
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । सद्यो दाशुषे क्षरसो३ं
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषो३ं
नकिरस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यो३ं
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनितो३ं
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीको३ं
स नो महाँ असि अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतो३ं
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानो३ं [१ । २७ । १-१२] [६३]
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्व् ईड्यः ॥ (८-११-१)
त्वमसि प्रशस्यो विदथेषु सहन्त्य । अग्ने रथीरध्वराणाम् ॥ (८-११-२)
स त्वमस्मदप द्विषो युयोधि जातवेदः । अदेवीरग्ने अरातीः ॥ (८-११-३)
अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । नोप वेषि जातवेदः ॥ (८-११-४)
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः ॥ (८-११-५)
विप्रं विप्रासोऽवसे देवं मर्तास ऊतये । अग्न्गिीर्भिर्हवामहे ॥ (८-११-६)
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वांकामया गिरा ॥ (८-११-७)
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥ (८-११-८)
समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥ (८-११-९)
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥ (८-७१-१)
नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । त्वमिदसि क्षपावान् ॥ (८-७१-२)
[[२२०]]
स नो विश्वेभिर्दवेभिरूर्जो नपाद्भद्रशोचे । रयिं देहि विश्ववारम् ॥ (८-७१-३)
न तमग्ने अरातयो मर्तं युवन्त रायः । यं त्रायसे दाश्वांसम् ॥ (८-७१-४)
यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय । स तवोती गोषु गन्ता ॥ (८-७१-५)
त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय । प्र णो नय वस्यो अच्छ ॥ (८-७१-६)
उरुष्या णो मा परा दा अघायते जातवेदः । दुराध्ये मर्ताय ॥ (८-७१-७)
अग्ने माकिष्टे देवस्य रातिमदेवो युयोत । त्वमीशिषे वसूनाम् ॥ (८-७१-८)
स नो वस्व उप मास्यूर्जो नपान्माहिनस्य । सखे वसो जरितृभ्यः ॥ (८-७१-९)
इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिर स्तोमास ईरते ॥ (८-४३-१)
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥ (८-४३-२)
आरोका इव घेदह तिग्मा अग्ने तव त्विषः । दद्भिर्वनानि बप्सति ॥ (८-४३-३)
हरयो धूमकेतवो वातजूता उप द्यवि । यतन्ते वृथगग्नयः ॥ (८-४३-४)
एते त्ये वृथगग्नय इद्धासः समदृक्षत । उषसामिव केतवः ॥ (८-४३-५)
कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ॥ (८-४३-६)
धासिं कृण्वान ओषधीर्टाप्सदग्निर्न वायति । पुनर्यन्तरुणीरपि ॥ (८-४३-७)
जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् । अग्निर्वनेषु रोचते ॥ (८-४३-८)
अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुनः ॥ (८-४३-९)
उदग्ने तव तद् घृतादर्ची रोचत आहुतम् । निंसानुाुह्वो मुखे ॥ (८-४३-१०)
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नये ॥ (८-४३-११)
उत त्वा नमसा वयं होतर्वरेण्यक्रतो । अग्ने समिद्भिरीमहे ॥ (८-४३-१२)
उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत । अङ्गिरस्वद्धवामहे ॥ (८-४३-१३)
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । सखा सख्या समिध्यसे ॥ (८-४३-१४)
स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् । अग्ने वीरवतीमिषम् ॥ (८-४३-१५)
अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । इमं स्तोमं जुषस्व मे ॥ (८-४३-१६)
उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । गोष्ठं गाव इवाशत ॥ (८-४३-१७)
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥ (८-४३-१८)
अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः । अद्मसद्याय हिन्विरे ॥ (८-४३-१९)
तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । वह्निं होतारमीळते ॥ (८-४३-२०)
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥ (८-४३-२१)
तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः । इमं नः शृणवद्धवम् ॥ (८-४३-२२)
[[२२१]]
तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । अग्ने घ्नन्तमप द्विषः ॥ (८-४३-२३)
विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् । अग्निमीळे स उ श्रवत् ॥ (८-४३-२४)
अग्निं विश्वायुवेपसं मर्येा वाजिनं हितम् । सप्तिं न वाजयामसि ॥ (८-४३-२५)
घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा । अग्ने तिग्मेन दीदिहि ॥ (८-४३-२६)
यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम । अग्ने स बोधि मे वचः ॥ (८-४३-२७)
यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत । तं त्वा गीर्भिर्हवामहे ॥ (८-४३-२८)
तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् । धासिं हिन्वन्त्यत्तवे ॥ (८-४३-२९)
ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः । तरन्तः स्याम दुर्गहा ॥ (८-४३-३०) अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् । हृद्भिर्मन्द्रेभिरीमहे ॥ (८-४३-३१)
स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः । शर्धन्तमांसि जिघ्नसे ॥ (८-४३-३२)
तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति । त्वदग्ने वार्यं वसु ॥ (८-४३-३३)
समिधाग्निं दुवस्यत घृतैर्टोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥ (८-४४-१)
अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । प्रति सूक्तानि हर्य नः ॥ (८-४४-२)
अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ आ सादयादिह ॥ (८-४४-३)
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥ (८-४४-४)
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः ॥ (८-४४-५)
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् । अग्निमीळे स उ श्रवत् ॥ (८-४४-६)
प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् । अध्वराणामभिश्रियम् ॥ (८-४४-७)
जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् । अग्ने यज्ञं नय ऋतुथा ॥ (८-४४-८)
समिधान उ सन्त्य शुक्रशोच इहा वह । चिकित्वान्दैव्युानम् ॥ (८-४४-९)
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् । यज्ञानां केतुमीमहे ॥ (८-४४-१०)
अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः । भिन्धि द्वेषः सहस्कृत ॥ (८-४४-११)
अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् । कविर्विप्रेण वावृधे ॥ (८-४४-१२)
ऊर्जो नपातमा हुवेऽग्न्पिवकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥ (८-४४-१३)
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरा सत्सि बर्हिषि ॥ (८-४४-१४)
यो अग्निं तन्वो दमे देवं मर्तः सपर्यति । तस्मा इद्दीदयद्वसु ॥ (८-४४-१५)
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥ (८-४४-१६)
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतींष्यर्चयः ॥ (८-४४-१७)
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । स्तोता स्यां तव शर्मणि ॥ (८-४४-१८)
[[२२२]]
त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः । त्वां वर्धन्तु नो गिरः ॥ (८-४४-१९)
अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । अग्नेः सख्यं वृणीमहे ॥ (८-४४-२०)
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः । शुची रोचत आहुतः ॥ (८-४४-२१)
उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । अग्ने सख्यस्य बोधि नः ॥ (८-४४-२२)
यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिषः ॥ (८-४४-२३)
वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः । स्याम ते सुमतावपि ॥ (८-४४-२४)
अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । गिरो वाश्रास ईरते ॥ (८-४४-२५)
युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् । अग्निं शुम्भामि मन्मभिः ॥ (८-४४-२६)
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । स्तोमैरिषेमाग्नये ॥ (८-४४-२७)
अयमग्ने त्वे अपि जरिता भूतु सन्त्य । तस्मै पावक मृळय ॥ (८-४४-२८)
धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा । अग्ने दीदयसि द्यवि ॥ (८-४४-२९)
पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । प्र ण आयुर्वसो तिर ॥ (८-४४-३०)
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥ (८-७५-१)
उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ॥ (८-७५-२)
त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुवः ॥ (८-७५-३)
अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम् ॥ (८-७५-४)
तं नेमिमृभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञमङ्गिरः ॥ (८-७५-५)
तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ॥ (८-७५-६)
कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे ॥ (८-७५-७)
मा नो देवानां विशः प्रस्नातीरिवोस्राः । कृशं न हासुरघ्न्याः ॥ (८-७५-८)
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः । ऊर्मिर्न नावमा वधीत् ॥ (८-७५-९)
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ॥ (८-७५-१०)
कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ॥ (८-७५-११)
मा नो अस्मिन्महाधने परा वर्ग भारभृद्यथा । संवर्गं सं रयिुाय ॥ (८-७५-१२)
अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच्छवः ॥ (८-७५-१३)
यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा । तं घेदग्निर्वृधावति ॥ (८-७५-१४)
परस्या अधि संवतोऽवराँ अभ्या तर । यत्राहमस्मि ताँ अव ॥ (८-७५-१५)
विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः । अधा ते सुम्नमीमहे ॥ (८-७५-१६)
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् । अग्निं रथं न वेद्यम् ॥ (८-८४-१)
[[२२३]]
कविमिव प्रचेतसं यं देवासो अध द्विता । नि मर्त्येष्वादधुः ॥ (८-८४-२)
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ॥ (८-८४-३)
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥ (८-८४-४)
दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कदु वोच इदं नमः ॥ (८-८४-५)
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः । वाजद्रविणसो गिरः ॥ (८-८४-६)
कस्य नून्परीणसो धियो जिन्वसि दम्पते । गोषाता यस्य ते गिरः ॥ (८-८४-७)
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनम् ॥ (८-८४-८)
क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः । अग्ने सुवीर एधते ॥ (८-८४-९)
त्वमग्ने बृहद्वयो दधासि देव दाशुषे । कविर्गृहपतिर्युवा ॥ (८-१०२-१)
स न ईळानया सह देवाँ अग्ने दुवस्युवा । चिकिद्विभानवा वह ॥ (८-१०२-२)
त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य । अभि ष्मो वाजसातये ॥ (८-१०२-३)
और्वभृगुवच्छुचिमप्नवानवदा हुवे । अग्निं समुद्रवाससम् ॥ (८-१०२-४)
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः । अग्निं समुद्रवाससम् ॥ (८-१०२-५)
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥ (८-१०२-६)
अग्निं वो वृधन्तमध्वराणां पुरूतमम् । अच्छा नप्त्रे सहस्वते ॥ (८-१०२-७)
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥ (८-१०२-८)
अयं विश्वा अभि श्रियोऽग्निर्दवेषु पत्यते । आ वाजैरुप नो गमत् ॥ (८-१०२-९)
विश्वेषामिह स्तुहि होतॄणां यशस्तमम् । अग्न्यिज्ञेषु पूर्व्यम् ॥ (८-१०२-१०)
शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा । दीदाय दीर्घश्रुत्तमः ॥ (८-१०२-११)
तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् । मित्रं न यातयज्जनम् ॥ (८-१०२-१२)
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । वायोरनीके अस्थिरन् ॥ (८-१०२-१३)
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् । आपश्चिन्नि दधा पदम् ॥ (८-१०२-१४)
पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥ (८-१०२-१५)
अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा । आ देवान्वक्षि यक्षि च ॥ (८-१०२-१६)
तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । हव्यवाहममर्त्यम् ॥ (८-१०२-१७)
प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् । हव्यवाहं नि षेदिरे ॥ (८-१०२-१८)
अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि । अग्ने अर्चन्त ऊतये ॥ (५-१३-१)
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥ (५-१३-२)
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्षद्दैव्युानम् ॥ (५-१३-३)
[[२२४]]
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते ॥ (५-१३-४)
त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥ (५-१३-५)
अग्ने नेमिरराँ इव देवांस्त्वं परिभूरसि । आ राधश्चित्रमृञ्जसे ॥ (५-१३-६)
अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥ (५-१४-१)
तमध्वरेष्व् ईळते देवं मर्ता अमर्त्यम् । यजिष्ठं मानुषे जने ॥ (५-१४-२)
तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । अग्निं हव्याय वोळ्हवे ॥ (५-१४-३)
अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः । अविन्दद्गा अपः स्वः ॥ (५-१४-४)
अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत । वेतु मे शृणवद्धवम् ॥ (५-१४-५)
अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम् । स्वाधीभिर्वचस्युभिः ॥ (५-१४-६)
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्वक्षि यक्षि च ॥ (५-२६-१)
तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । देवाँ आ वीतये वह ॥ (५-२६-२)
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरे ॥ (५-२६-३)
अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये । होतारं त्वा वृणीमहे ॥ (५-२६-४)
यजमानाय सुन्वत आग्ने सुवीर्यं वह । देवैरा सत्सि बर्हिषि ॥ (५-२६-५)
समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि । देवानां दूत उक्थ्यः ॥ (५-२६-६)
न्यग्निुाातवेदसं होत्रवाहं यविष्ठ्यम् । दधाता देवमृत्विजम् ॥ (५-२६-७)
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः । स्तृणीत बर्हिरासदे ॥ (५-२६-८)
एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः । देवासः सर्वया विशा ॥ (५-२६-९)
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा ॥ (४-८-१)
स हि वेदा वसुधितिं महाँ आरोधनं दिवः । स देवाँ एह वक्षति ॥ (४-८-२)
स वेद देव आनमं देवाँ ऋतायते दमे । दाति प्रियाणि चिद्वसु ॥ (४-८-३)
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते । विद्वाँ आरोधनं दिवः ॥ (४-८-४)
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः । य ईं पुष्यन्त इन्धते ॥ (४-८-५)
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । ये अग्ना दधिरे दुवः ॥ (४-८-६)
अस्मे रायो दिवे दिवे सं चरन्तु पुरुस्पृहः । अस्मे वाजास ईरताम् ॥ (४-८-७)
स विप्रश्चर्षणीनां शवसा मानुषाणाम् । अति क्षिप्रेव विध्यति ॥ (४-८-८)
अग्ने मृळ महाँ असि य ईमा देवयुं जनम् । इयेथ बर्हिरासदम् ॥ (४-९-१)
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः । दूतो विश्वेषां भुवत् ॥ (४-९-२)
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति ॥ (४-९-३)
[[२२५]]
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे । उत ब्रह्मा नि षीदति ॥ (४-९-४)
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् । हव्या च मानुषाणाम् ॥ (४-९-५)
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् । हव्यं मर्तस्य वोळ्हवे ॥ (४-९-६)
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः । अस्माकं शृणुधी हवम् ॥ (४-९-७)
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः ॥ (४-९-८)
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । देवो देवेषु यज्ञियः ॥ (४-१५-१)
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् ॥ (४-१५-२)
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ (४-१५-३)
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः । स वेद यज्ञमानुषक् ॥ (३-११-१)
स हव्यवाळमर्त्य उशिग् दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥ (३-११-२)
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः । अर्थं ह्यस्य तरणि ॥ (३-११-३)
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । वह्निं देवा अकृण्वत ॥ (३-११-४)
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । तूर्णी रथः सदा नवः ॥ (३-११-५)
साह्वान्विश्वा अभियुजः क्रतुर्दवानाममृक्तः । अग्निस्तुविश्रवस्तमः ॥ (३-११-६)
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः । क्षयं पावकशोचिषः ॥ (३-११-७)
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः । विप्रासो जातवेदसः ॥ (३-११-८)
अग्ने विश्वानि वार्या वाजेषु सनिषामहे । त्वे देवास एरिरे ॥ (३-११-९)
अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः । जुषस्व सू नो अध्वरम् ॥ (३-२४-२)
अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत । एदं बर्हिः सदो मम ॥ (३-२४-३)
अग्ने विश्वेभिरग्निभिर्दवेभिर्महया गिरः । यज्ञेषु य उ चायवः ॥ (३-२४-४)
अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । शिशीहि नः सूनुमतः ॥ (३-२४-५)
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ् जिगाति सुम्नयुः ॥ (३-२७-१)
ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । श्रुष्टीवानं धितावानम् ॥ (३-२७-२)
अग्ने शकेम ते वयं यमं देवस्य वाजिनः । अति द्वेषांसि तरेम ॥ (३-२७-३)
समिध्यमानो अध्वरेऽग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे ॥ (३-२७-४)
पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः । अग्निर्यज्ञस्य हव्यवाट् ॥ (३-२७-५)
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः । आ चक्रुरग्निमूतये ॥ (३-२७-६)
होता देवो अमर्त्यः पुरस्ताद्येति मायया । विदथानि प्रचोदयन् ॥ (३-२७-७)
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते । विप्रो यज्ञस्य साधनः ॥ (३-२७-८)
[[२२६]]
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । दक्षस्य पितरं तना ॥ (३-२७-९)
नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत । अग्ने सुदीतिमुशिजम् ॥ (३-२७-१०)
अग्न्यिन्तुरमप्तुरमृतस्य योगे वनुषः । विप्रा वाजैः समिन्धते ॥ (३-२७-११)
ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि । अग्निमीळे कविक्रतुम् ॥ (३-२७-१२)
ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः । समग्निरिध्यते वृषा ॥ (३-२७-१३)
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । तं हविष्मन्त ईळते ॥ (३-२७-१४)
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । अग्ने दीद्यतं बृहत् ॥ (३-२७-१५)
उपसद्याय मीळ्हुष आस्ये जुहुता हविः । यो नो नेदिष्ठमाप्यम् ॥ (७-१५-१)
यः पञ्च चर्षणीरभि निषसाद दमे दमे । कविर्गृहपतिर्युवा ॥ (७-१५-२)
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः । उतास्मान्पात्वंहसः ॥ (७-१५-३)
नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् । वस्वः कुविद्वनाति नः ॥ (७-१५-४)
स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा । अग्रे यज्ञस्य शोचतः ॥ (७-१५-५)
सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः । यजिष्ठो हव्यवाहनः ॥ (७-१५-६)
नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि । सुवीरमग्न आहुत ॥ (७-१५-७)
क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् । सुवीरस्त्वमस्मयुः ॥ (७-१५-८)
उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः । उपाक्षरा सहस्रिणी ॥ (७-१५-९)
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः ॥ (७-१५-१०)
स नो राधांस्या भरेशानः सहसो यहो । भगश्च दातु वार्यम् ॥ (७-१५-११)
त्वमग्ने वीरवद्यशो देवश्च सविता भगः । दितिश्च दाति वार्यम् ॥ (७-१५-१२)
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः । तपिष्ठैरजरो दह ॥ (७-१५-१३)
अधा मही न आयस्यनाधृष्टो नृपीतये । पूर्भवा शतभुजिः ॥ (७-१५-१४)
त्वं नः पाह्यंहसो दोषावस्तरघायतः । दिवा नक्तमदाभ्य ॥ (७-१५-१५)
त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने ॥ (६-१६-१)
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च ॥ (६-१६-२)
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो ॥ (६-१६-३)
त्वामीळे अध द्विता भरतो वाजिभिः शुनम् । ईजे यज्ञेषु यज्ञियम् ॥ (६-१६-४)
त्वमिमा वार्या पुरु दिवोदासाय सुन्वते । भरद्वाजाय दाशुषे ॥ (६-१६-५)
त्वं दूतो अमर्त्य आ वहा दैव्युानम् । शृण्वन्विप्रस्य सुष्टुतिम् ॥ (६-१६-६)
त्वामग्ने स्वाध्यो मर्तासो देववीतये । यज्ञेषु देवमीळते ॥ (६-१६-७)
[[२२७]]
तव प्र यक्षि संदृशमुत क्रतुं सुदानवः । विश्वे जुषन्त कामिनः ॥ (६-१६-८)
त्वं होता मनुर्हितो वह्निरासा विदुष्टरः । अग्ने यक्षि दिवो विशः ॥ (६-१६-९)
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥ (६-१६-१०)
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥ (६-१६-११)
स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥ (६-१६-१२)
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ (६-१६-१३)
तमु त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥ (६-१६-१४)
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणे रणे ॥ (६-१६-१५)
एह्य् ऊ षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥ (६-१६-१६)
यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्रा सदः कृणवसे ॥ (६-१६-१७)
नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो । अथा दुवो वनवसे ॥ (६-१६-१८)
आग्निरगामि भारतो वृत्रहा पुरुचेतनः । दिवोदासस्य सत्पतिः ॥ (६-१६-१९)
स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना । वन्वन्न अवातो अस्तृतः ॥ (६-१६-२०)
स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता । बृहत्ततन्थ भानुना ॥ (६-१६-२१)
प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । अर्च गाय च वेधसे ॥ (६-१६-२२)
स हि यो मानुषा युगा सीदद्धोता कविक्रतुः । दूतश्च हव्यवाहनः ॥ (६-१६-२३)
ता राजाना शुचिव्रतादित्यान्मारुतं गणम् । वसो यक्षीह रोदसी ॥ (६-१६-२४)
वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय । ऊर्जो नपादमृतस्य ॥ (६-१६-२५)
क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः । मर्त आनाश सुवृक्तिम् ॥ (६-१६-२६)
ते ते अग्ने त्वोता इषयन्तो विश्वमायुः ।
तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ॥ (६-१६-२७)
अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् । अग्निर्नो वनते रयिम् ॥ (६-१६-२८)
सुवीरं रयिमा भर जातवेदो विचर्षणे । जहि रक्षांसि सुक्रतो ॥ (६-१६-२९)
त्वं नः पाह्यंहसो जातवेदो अघायतः । रक्षा णो ब्रह्मणस्कवे ॥ (६-१६-३०)
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति । तस्मान्नः पाह्यंहसः ॥ (६-१६-३१)
त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् । मर्तो यो नो जिघांसति ॥ (६-१६-३२)
भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य । अग्ने वरेण्यं वसु ॥ (६-१६-३३)
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥ (६-१६-३४)
गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे । सीदन्न ऋतस्य योनिमा ॥ (६-१६-३५)
[[२२८]]
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे । अग्ने यद्दीदयद्दिवि ॥ (६-१६-३६)
उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत । अग्ने ससृज्महे गिरः ॥ (६-१६-३७)
उप च्छायामिव घृणेरगन्म शर्म ते वयम् । अग्ने हिरण्यसंदृशः ॥ (६-१६-३८)
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः । अग्ने पुरो रुरोजिथ ॥ (६-१६-३९)
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । विशामग्निं स्वध्वरम् ॥ (६-१६-४०)
प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु ॥ (६-१६-४१)
आ जातं जातवेदसि प्रियं शिशीतातिथिम् । स्योन आ गृहपतिम् ॥ (६-१६-४२)
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे ॥ (६-१६-४३)
अच्छा नो याह्या वहाभि प्रयांसि वीतये । आ देवान्सोमपीतये ॥ (६-१६-४४)
उदग्ने भारत द्युमदजस्रेण दविद्युतत् । शोचा वि भाह्यजर ॥ (६-१६-४५)
अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा । स्वे क्षये शुचिव्रत ॥ (१०-११८-१)
उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे । यत्त्वा स्रुचः समस्थिरन् ॥ (१०-११८-२)
स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा । स्रुचा प्रतीकमज्यते ॥ (१०-११८-३)
घृतेनाग्निः समज्यते मधुप्रतीक आहुतः । रोचमानो विभावसुः ॥ (१०-११८-४)
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन । तं त्वा हवन्त मर्त्याः ॥ (१०-११८-५)
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत । अदाभ्यं गृहपतिम् ॥ (१०-११८-६)
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह । गोपा ऋतस्य दीदिहि ॥ (१०-११८-७)
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः । उरुक्षयेषु दीद्यत् ॥ (१०-११८-८)
तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे । यजिष्ठं मानुषे जने ॥ (१०-११८-९)
अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । तेन जेष्म धनं धनम् ॥ (१०-१५६-१)
यया गा आकरामहे सेनयाग्ने तवोत्या । तां नो हिन्व मघत्तये ॥ (१०-१५६-२)
आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् । अङ्धि खं वर्तया पणिम् ॥ (१०-१५६-३)
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ॥ (१०-१५६-४)
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥ (१०-१५६-५)
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । स नः पर्षदति द्विषः ॥ (१०-१८७-१)
यः परस्याः परावतस्तिरो धन्वातिरोचते । स नः पर्षदति द्विषः ॥ (१०-१८७-२)
यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । स नः पर्षदति द्विषः ॥ (१०-१८७-३)
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पर्षदति द्विषः ॥ (१०-१८७-४)
यो अस्य पारे रजसः शुक्रो अग्निरजायत । स नः पर्षदति द्विषः ॥ (१०-१८७-५)
[[२२९]]
प्र नूनुाातवेदसमश्वं हिनोत वाजिनम् । इदं नो बर्हिरासदे ॥ (१०-१८८-१)
अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः । महीमियर्मि सुष्टुतिम् ॥ (१०-१८८-२)
या रुचो जातवेदसो देवत्रा हव्यवाहनीः । ताभिर्नो यज्ञमिन्वतु ॥ (१०-१८८-३)
इमां मे अग्ने समिधमिमामुपसदं वनेः । इमा उ षु श्रुधी गिरः ॥ (२-६-१)
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे । एना सूक्तेन सुजात ॥ (२-६-२)
तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः । सपर्येम सपर्यवः ॥ (२-६-३)
स बोधि सूरिर्मघवा वसुपते वसुदावन् । युयोध्यस्मद् द्वेषांसि ॥ (२-६-४)
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् । स नः सहस्रिणीरिषः ॥ (२-६-५)
ईळानायावस्यवे यविष्ठ दूत नो गिरा । यजिष्ठ होतरा गहि ॥ (२-६-६)
अन्तर् ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे । दूतो जन्येव मित्र्यः ॥ (२-६-७)
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् । आ चास्मिन्सत्सि बर्हिषि ॥ (२-६-८)
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर । वसो पुरुस्पृहं रयिम् ॥ (२-७-१)
मा नो अरातिरीशत देवस्य मर्त्यस्य च । पर्षि तस्या उत द्विषः ॥ (२-७-२)
विश्वा उत त्वया वयं धारा उदन्या इव । अति गाहेमहि द्विषः ॥ (२-७-३)
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे । त्वं घृतेभिराहुतः ॥ (२-७-४)
त्वं नो असि भारताग्ने वशाभिरुक्षभिः । अष्टापदीभिराहुतः ॥ (२-७-५)
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रो अद्भुतः ॥ (२-७-६)
वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि । यशस्तमस्य मीळ्हुषः ॥ (२-८-१)
यः सुनीथो ददाशुषेऽजुर्यो जरयन्न अरिम् । चारुप्रतीक आहुतः ॥ (२-८-२)
य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते । यस्य व्रतं न मीयते ॥ (२-८-३)
आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा । अञ्जानो अजरैरभि ॥ (२-८-४)
अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः । विश्वा अधि श्रियो दधे ॥ (२-८-५)
आनुष्टुभम्
त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषो३ं
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान् रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वहो३ं
प्रियमेधवदत्रिवज् जातवेदो विरूपवत् । अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवो३ं
महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तमध्वराणामग्निं शुक्रेण शोचिषो३ं
घृताहवन सन्त्येमा उ षु श्रुधी गिरः । याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वो३ं
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोह्ळवो३ं
[[२३०]]
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् । श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषो३म्
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः । बृहद् भा बिभ्रतो हविरग्ने मर्ताय दाशुषो३ं
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य । इहाद्य दैव्यं जनं बर्हिरा सादया वसो३म् [१ । ४५ । १-९] [७२]
त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।
त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ (६-२-१)
त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते ।
त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥ (६-२-२)
सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते ।
यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥ (६-२-३)
ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।
ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥ (६-२-४)
समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् ।
वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥ (६-२-५)
त्वेषस्ते धूम ऋण्वति दिवि षञ् च्छुक्र आततः ।
सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ (६-२-६)
अधा हि विक्ष्व् ईड्योऽसि प्रियो नो अतिथिः ।
रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥ (६-२-७)
क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।
परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥ (६-२-८)
त्वं त्या चिदच्युताग्ने पशुर्न यवसे ।
धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥ (६-२-९)
वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् ।
समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः ॥ (६-२-१०)
अग्ना यो मर्त्यो दुवो धियुाुजोष धीतिभिः ।
भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥ (६-१४-१)
अग्निरिद्धि प्रचेता अग्निर्वधस्तम ऋषिः ।
अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥ (६-१४-२)
नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः ।
तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥ (६-१४-३)
[[२३१]]
अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् ।
यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥ (६-१४-४)
अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।
सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥ (६-१४-५)
होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥ (२-५-१)
आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥ (२-५-२)
दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥ (२-५-३)
साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥ (२-५-४)
ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥ (२-५-५)
यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥ (२-५-६)
स्वः स्वाय धायसे कृणुतामृत्विग् ऋत्विजम् ।
स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥ (२-५-७)
यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।
अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥ (२-५-८)
प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥ (३-१३-१)
ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥ (३-१३-२)
स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥ (३-१३-३)
स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा ।
यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥ (३-१३-४)
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
[[२३२]]
ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥ (३-१३-५)
उत नो ब्रह्मन्न अविष उक्थेषु देवहूतमः ।
शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥ (३-१३-६)
नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥ (३-१३-७)
अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् ।
अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् ॥ (४-७-२)
ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः ।
विश्वेषामध्वराणां हस्कर्तारं दमे दमे ॥ (४-७-३)
आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
आ जभ्रुः केतुमायवो भृगवाणं विशे विशे ॥ (४-७-४)
तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।
रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥ (४-७-५)
त्खश्वतीषु मातृषु वन आ वीतमश्रितम् ।
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥ (४-७-६)
सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥ (५-७-१)
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।
अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥ (५-७-२)
सं यदिषो वनामहे सं हव्या मानुषाणाम् ।
उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥ (५-७-३)
स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते ।
पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥ (५-७-४)
अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति ।
अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥ (५-७-५)
यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे ।
प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥ (५-७-६)
स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ।
हिरिश्मश्रुः शुचिदन्न ऋभुरनिभृष्टतविषिः ॥ (५-७-७)
[[२३३]]
शुचिः ष्मा यस्मा अत्रिवत्प्र स्वधितीव रीयते ।
सुषूरसूत माता क्राणा यदानशे भगम् ॥ (५-७-८)
आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे ।
ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥ (५-७-९)
इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे ।
आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥ (५-७-१०)
त्वामग्ने हविष्मन्तो देवं मर्तास ईळते ।
मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥ (५-९-१)
अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥ (५-९-२)
उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥ (५-९-३)
उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥ (५-९-४)
अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः ।
यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥ (५-९-५)
तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः ।
द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥ (५-९-६)
तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥ (५-९-७)
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥ (५-१०-१)
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
त्वे असुर्यमारुहत् क्राणा मित्रो न यज्ञियः ॥ (५-१०-२)
त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।
ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥ (५-१०-३)
ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः ।
शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्टोधति त्मना ॥ (५-१०-४)
तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
[[२३४]]
परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥ (५-१०-५)
नू नो अग्न ऊतये सबाधसश्च रातये ।
अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥ (५-१०-६)
त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर ।
होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥ (५-१०-७)
बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥ (५-१६-१)
स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।
वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥ (५-१६-२)
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥ (५-१६-३)
अधा ह्यग्न एषां सुवीर्यस्य मंहना ।
तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥ (५-१६-४)
नू न एहि वार्यमग्ने गृणान आ भर ।
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥ (५-१६-५)
आ यज्ञैर्दव मर्त्य इत्था तव्यांसमूतये ।
अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥ (५-१७-१)
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।
तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥ (५-१७-२)
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः ॥ (५-१७-३)
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥ (५-१७-४)
नू न इद्धि वार्यमासा सचन्त सूरयः ।
ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥ (५-१७-५)
प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः ।
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥ (५-१८-१)
द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
इन्दुं स धत्त आनुषक् स्तोता चित्ते अमर्त्य ॥ (५-१८-२)
[[२३५]]
तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
अरिष्टो येषां रथो व्यश्वदावन्न ईयते ॥ (५-१८-३)
चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये ।
स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥ (५-१८-४)
ये मे पञ्चाशतं ददुरश्वानां सधस्तुति ।
द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥ (५-१८-५)
यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् ।
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥ (५-२०-१)
ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः ।
अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥ (५-२०-२)
होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् ।
यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥ (५-२०-३)
इत्था यथा त ऊतये सहसावन् दिवे दिवे ।
राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥ (५-२०-४)
मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥ (५-२१-१)
त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे ।
स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥ (५-२१-२)
त्वां विश्वे सजोषसो देवासो दूतमक्रत ।
सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥ (५-२१-३)
देवं वो देवयज्ययाग्निमीळीत मर्त्यः ।
समिद्धः शुक्र दीदिह्य् ऋतस्य योनिमासदः ससस्य योनिमासदः ॥ (५-२१-४)
प्र विश्वसामन्न अत्रिवदर्चा पावकशोचिषे ।
यो अध्वरेष्व् ईड्यो होता मन्द्रतमो विशि ॥ (५-२२-१)
न्यग्निुाातवेदसं दधाता देवमृत्विजम् ।
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥ (५-२२-२)
चिकित्विन्मनसं त्वा देवं मर्तास ऊतये ।
वरेण्यस्य तेऽवस इयानासो अमन्महि ॥ (५-२२-३)
अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य ।
[[२३६]]
तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥ (५-२२-४)
अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् ।
विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥ (५-२३-१)
तमग्ने पृतनाषहं रयिं सहस्व आ भर ।
त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥ (५-२३-२)
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥ (५-२३-३)
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे ।
अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥ (५-२३-४)
अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।
रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥ (५-२५-१)
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।
होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥ (५-२५-२)
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥ (५-२५-३)
अग्निर्दवेषु राजत्यग्निर्मर्तेष्वाविशन् ।
अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥ (५-२५-४)
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।
अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥ (५-२५-५)
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥ (५-२५-६)
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥ (५-२५-७)
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥ (५-२५-८)
एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।
स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥ (५-२५-९)
त्रैष्टुभम्
[[२३७]]
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छो३म्
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
समिद्धस्य रुशददर्शि पाजो महान् देवस्तमसो निरमोचो३ं
यदीं गणस्य रशनामजीगः शुचिरड्क्ते शुचिभिर्गोभिरग्निः ।
आद् दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभो३म्
अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।
यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नो३ं
जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।
दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयो३म्
अग्निर्होता न्यसीदद् यजीयानुपस्थे मातुः सुरभा उ लोके ।
युवा कविः पुरुनिःष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धो३ं
प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।
आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घतेनो३ं
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यो३ं
प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।
ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणो३ं
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रो३म्
आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् ।
विद्वान् पथीनामुर्व१न्तरिक्षमेह देवान् हविरद्याय वक्षो३म्
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रो३म् [५ । १ । १-१२] [८४]
कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥ (५-२-१)
कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान ।
पूर्वीर्हि गर्भः शरदो ववर्धापश्युाातं यदसूत माता ॥ (५-२-२)
हिरण्यदन्त्खुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् ।
[[२३८]]
ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्न अनुक्थाः ॥ (५-२-३)
क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् ।
न ता अगृभ्रन्न अजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥ (५-२-४)
के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास ।
य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥ (५-२-५)
वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु ।
ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥ (५-२-६)
शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः ।
एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥ (५-२-७) हृणीयमानो अप हि मद्येयेः प्र मे देवानां व्रतपा उवाच ।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥ (५-२-८)
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ (५-२-९)
उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ (५-२-१०)
एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् ।
यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥ (५-२-११)
तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः ।
इतीममग्निममृता अवोचन् बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥ (५-२-१२)
त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः ।
त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥ (५-३-१)
त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि ।
अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥ (५-३-२)
तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥ (५-३-३)
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त ।
होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥ (५-३-४)
न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः ।
विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥ (५-३-५)
[[२३९]]
वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥ (५-३-६)
यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात ।
जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥ (५-३-७)
त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः ।
संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥ (५-३-८)
अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे ।
कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे ॥ (५-३-९)
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे ।
कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥ (५-३-१०)
त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि ।
स्तेना अदृश्रन् रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥ (५-३-११)
इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि ।
नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥ (५-३-१२)
त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् ।
त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥ (५-४-१)
हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥ (५-४-२)
विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् ।
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥ (५-४-३)
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥ (५-४-४)
जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥ (५-४-५)
वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै ।
पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥ (५-४-६)
वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे ।
अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥ (५-४-७)
अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् ।
[[२४०]]
वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥ (५-४-८)
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि ।
अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ (५-४-९) यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।
जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥ (५-४-१०)
यस्मै त्वं सुकृते जातवेद उलोकमग्ने कृणवः स्योनम् ।
अश्विनं स पुतृणं वीरवन्तं गोमन्तं रयिोशते स्वस्ति ॥ (५-४-११)
प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥ (५-१२-१)
ऋतं चिकित्व ऋतमिच्चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः ।
नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥ (५-१२-२)
कया नो अग्न ऋतयन्न ऋतेन भुवो नवेदा उचथस्य नव्यः ।
वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥ (५-१२-३)
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥ (५-१२-४)
सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
अधूर्षत स्वयमेते वचोभिर्ऋजूयते वृजिनानि ब्रुवन्तः ॥ (५-१२-५)
यस्ते अग्ने नमसा यज्ञमीड्ढ ऋतं स पात्यरुषस्य वृष्णः ।
तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥ (५-१२-६)
प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय ।
घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥ (५-१५-१)
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् ।
दिवो धर्मन् धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥ (५-१५-२)
अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय ।
स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥ (५-१५-३)
मातेव यद्भरसे पप्रथानो जनुानं धायसे चक्षसे च ।
वयो वयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥ (५-१५-४)
वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः ।
पदं न तायुर्गुहा दधानो महो राये चितयन्न अत्रिमस्पः ॥ (५-१५-५)
[[२४१]]
त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥ (४-१-४)
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥ (४-१-५)
अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा मर्त्येषु ।
शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥ (४-१-६)
त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।
अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥ (४-१-७)
स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥ (४-१-८)
स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति
स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥ (४-१-९)
स तू नो अग्निर्नयतु प्रजानन्न अच्छा रत्नं देवभक्तं यदस्य ।
धिया यद्विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यमुक्षन् ॥ (४-१-१०)
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥ (४-१-११)
प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे ।
स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥ (४-१-१२)
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुर्ऋतमाशुषाणाः ।
अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥ (४-१-१३)
ते मर्मृजत ददृवांसो अद्रिं तद्येषामन्ये अभितो वि वोचन् ।
पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥ (४-१-१४)
ते गव्यता मनसा दृध्रमुब्धं गा येमान्परि षन्तमद्रिम् ।
दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥ (४-१-१५)
ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् ।
तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥ (४-१-१६)
नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।
आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥ (४-१-१७)
आदित्पश्चा बुबुधाना व्यख्यन्न आदिद्रत्नं धारयन्त द्युभक्तम् ।
[[२४२]]
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥ (४-१-१८)
अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् ।
शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥ (४-१-१९)
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्दवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥ (४-१-२०)
यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि ।
होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥ (४-२-१)
इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तरग्ने ।
दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्रांश्च ॥ (४-२-२)
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।
अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥ (४-२-३)
अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत ।
स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥ (४-२-४)
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥ (४-२-५)
यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया ।
भुवस्तस्य स्वतवाँः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥ (४-२-६)
यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् ।
आ देवयुरिनधते दुरोणे तस्मिन्रयिर्धरुवो अस्तु दास्वान् ॥ (४-२-७)
यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् ।
अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥ (४-२-८)
यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।
न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥ (४-२-९)
यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।
प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥ (४-२-१०)
चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् ।
राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥ (४-२-११)
कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः ।
अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥ (४-२-१२)
[[२४३]]
त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।
रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥ (४-२-१३)
अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः ।
रथं न क्रन्तो अपसा भुरिजोर्ऋतं येमुः सुध्य आशुषाणाः ॥ (४-२-१४)
अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।
दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥ (४-२-१५)
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः ।
शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥ (४-२-१६)
सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वाव्यं परिषदन्तो अग्मन् ॥ (४-२-१७)
आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र ।
मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥ (४-२-१८)
अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः ।
अनूनमग्न्पिुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥ (४-२-१९)
एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व ।
उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥ (४-२-२०)
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्न्पिुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥ (४-३-१)
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥ (४-३-२)
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥ (४-३-३)
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित्स्वाधीः ।
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥ (४-३-४)
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥ (४-३-५)
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥ (४-३-६)
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
[[२४४]]
कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥ (४-३-७)
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥ (४-३-८)
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ (४-३-९)
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥ (४-३-१०)
ऋतेनाद्रिं व्यसन् भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥ (४-३-११)
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥ (४-३-१२)
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोर्ऋणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥ (४-३-१३)
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥ (४-३-१४)
एभिर्भव सुमना अग्ने अर्कैरिमान् स्पृश मन्मभिः शूर वाजान् ।
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्दववाता जरेत ॥ (४-३-१५)
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥ (४-३-१६)
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ (४-४-१)
तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
तपूंष्यग्ने जुह्वा पतङ्गानसंदितो वि सृज विष्वगुल्काः ॥ (४-४-२)
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥ (४-४-३)
उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥ (४-४-४)
ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥ (४-४-५)
[[२४५]]
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमेरत् ।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥ (४-४-६)
सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥ (४-४-७)
अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥ (४-४-८)
इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् ।
क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥ (४-४-९)
यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥ (४-४-१०)
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥ (४-४-११)
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥ (४-४-१२)
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ (४-४-१३)
त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥ (४-४-१४)
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमान्गृभाय ।
दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥ (४-४-१५)
ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।
त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥ (४-६-१)
अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः ।
ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥ (४-६-२)
यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।
उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥ (४-६-३)
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।
पर्यग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥ (४-६-४)
परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा ।
[[२४६]]
द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥ (४-६-५)
भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः ।
न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥ (४-६-६)
न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।
अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥ (४-६-७)
द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
उषर्बुधमथर्यो न दन्त्खुक्रं स्वासं परशुं न तिग्मम् ॥ (४-६-८)
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥ (४-६-९)
ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥ (४-६-१०)
अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।
होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥ (४-६-११)
ससस्य यद्वियुता सस्मिन्न ऊधन्न ऋतस्य धामन्रणयन्त देवाः ।
महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥ (४-७-७)
वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥ (४-७-८)
कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिद्येकम् ।
यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥ (४-७-९)
सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।
वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥ (४-७-१०)
तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥ (४-७-११)
भद्रं ते अग्ने सहसिन्न अनीकमुपाक आ रोचते सूर्यस्य । रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥ (४-११-१)
वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।
विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥ (४-११-२)
त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि ।
त्वद्येति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥ (४-११-३)
[[२४७]]
त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः ।
त्वद्रयिर्दवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥ (४-११-४)
त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् ।
द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥ (४-११-५)
आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥ (४-११-६)
यस्त्वामग्न इनधते यतस्रुक् त्रिस्ते अन्नं कृणवत्सस्मिन्न अहन् ।
स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥ (४-१२-१)
इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् ।
स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्न अमित्रान् ॥ (४-१२-२)
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।
दधाति रत्नं विधते यविष्ठो व्यानुषङ् मर्त्याय स्वधावान् ॥ (४-१२-३)
यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥ (४-१२-४)
महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् ।
मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥ (४-१२-५)
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥ (४-१२-६)
सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥ (३-१-१)
प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥ (३-१-२)
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
अविन्दन्नु दर्शतमप्स्वन्तर्दवासो अग्निमपसि स्वसॄणाम् ॥ (३-१-३)
अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
शिशुं न जातमभ्यारुरश्वा देवासो अग्निुानिमन्वपुष्यन् ॥ (३-१-४)
शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥ (३-१-५)
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
[[२४८]]
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥ (३-१-६)
स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥ (३-१-७)
बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥ (३-१-८)
पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥ (३-१-९)
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥ (३-१-१०)
उरौ महाँ अनिबाधे ववर्धापो अग्न्यिशसः सं हि पूर्वीः ।
ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥ (३-१-११)
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥ (३-१-१२)
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥ (३-१-१३)
बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥ (३-१-१४)
ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥ (३-१-१५)
उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥ (३-१-१६)
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
प्रति मर्ता अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥ (३-१-१७)
नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥ (३-१-१८)
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥ (३-१-१९)
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥ (३-१-२०)
[[२४९]]
जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥ (३-१-२१)
इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
प्र यंसि होतर्टाृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥ (३-१-२२)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-१-२३)
प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।
पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥ (३-५-१)
प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः ।
पूर्वीर्ऋतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥ (३-५-२)
अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।
आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥ (३-५-३)
मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।
मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥ (३-५-४)
पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥ (३-५-५)
ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥ (३-५-६)
आ योनिमग्निर् घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः ।
दीद्यानः शुचिर्ऋष्वः पावकः पुनः पुनर्मातरा नव्यसी कः ॥ (३-५-७)
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥ (३-५-८)
उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन् दिवो अधि नाभा पृथिव्याः ।
मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥ (३-५-९)
उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।
यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥ (३-५-१०)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-५-११)
प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
[[२५०]]
दक्षिणावाड् वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥ (३-६-१)
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥ (३-६-२)
द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
यदी विशो मानुषीर्दवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥ (३-६-३)
महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥ (३-६-४)
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥ (३-६-५)
ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व ।
अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥ (३-६-६)
दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
अपो यदग्न उशधग् वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥ (३-६-७)
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥ (३-६-८)
ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः ।
पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥ (३-६-९)
स होता यस्य रोदसी चिदुर्वी यज्ञं यज्ञमभि वृधे गृणीतः ।
प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥ (३-६-१०)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-६-११)
प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥ (३-७-१)
दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तन्गिौः ॥ (३-७-२)
आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥ (३-७-३)
महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥ (३-७-४)
[[२५१]]
जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥ (३-७-५)
उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥ (३-७-६)
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥ (३-७-७)
दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
ऋत्खंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥ (३-७-८)
वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥ (३-७-९)
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
उतो चिदग्ने महिना पृथिव्याः कृतं चिद्येनः सं महे दशस्य ॥ (३-७-१०)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-७-११)
आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥ (३-१४-१)
अयामि ते नम उक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥ (३-१४-२)
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥ (३-१४-३)
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥ (३-१४-४)
वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥ (३-१४-५)
त्वद्धि पुत्र सहसो वि पूर्वीर्दवस्य यन्त्यूतयो वि वाजाः ।
त्वं देहि सहस्रिणं रयिोोऽद्रोघेण वचसा सत्यमग्ने ॥ (३-१४-६)
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥ (३-१४-७)
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
[[२५२]]
सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥ (३-१५-१)
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
जन्मेव नित्यं तनयुाुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥ (३-१५-२)
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।
वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥ (३-१५-३)
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥ (३-१५-४)
अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः ।
रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥ (३-१५-५)
प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।
देवेभिर्दव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥ (३-१५-६)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-१५-७)
समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥ (३-१७-१)
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥ (३-१७-२)
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्दवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥ (३-१७-३)
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्न अमृतस्य नाभिम् ॥ (३-१७-४)
यस्त्वद्धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः ।
तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥ (३-१७-५)
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥ (३-१८-१)
तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य ।
तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥ (३-१८-२)
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥ (३-१८-३)
[[२५३]]
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।
रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥ (३-१८-४)
कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।
स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥ (३-१८-५)
अग्निं होतारं प्र वृणे मियेधे गृत्स्कविं विश्वविदममूरम् ।
स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥ (३-१९-१)
प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥ (३-१९-२)
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥ (३-१९-३)
भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥ (३-१९-४)
यत्त्वा होतारमनजन् मियेधे निषादयन्तो यजथाय देवाः ।
स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥ (३-१९-५)
अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।
सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥ (३-२०-१)
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥ (३-२०-२)
अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥ (३-२०-३)
अग्निर्नता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥ (३-२०-४)
दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् ।
अश्विना मित्रावरुणा भगि वसून्रुद्राँ आदित्याँ इह हुवे ॥ (३-२०-५)
अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजमत्यो सप्तिं ससवान्सन् स्तूयसे जातवेदः ॥ (३-२२-१)
अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥ (३-२२-२)
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।
[[२५४]]
या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥ (३-२२-३)
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥ (३-२२-४)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-२२-५)
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥ (३-२३-१)
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥ (३-२३-२)
दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥ (३-२३-३)
नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥ (३-२३-४)
इळामग्ने पुरुदंसं सन्गिोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥ (३-२३-५)
दिवस्परि प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणा अजस्रमिन्धान एनुारते स्वाधीः ॥ (१०-४५-१)
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमाुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥ (१०-४५-२)
समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥ (१०-४५-३)
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥ (१०-४५-४)
श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥ (१०-४५-५)
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।
वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥ (१०-४५-६)
उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥ (१०-४५-७)
[[२५५]]
दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतो अभवद्वयोभिर्यद्येनं द्यौर्जनयत्सुरेताः ॥ (१०-४५-८)
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥ (१०-४५-९)
आ तं भज सौश्रवसेष्वग्न उक्थ उक्थ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥ (१०-४५-१०)
त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥ (१०-४५-११)
प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे ।
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥ (१०-४६-१)
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् ।
गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥ (१०-४६-२)
इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः ।
स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥ (१०-४६-३)
मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् ।
विशामकृण्वन्न अरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥ (१०-४६-४)
प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् ।
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ (१०-४६-५)
नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः ।
अतः सङ्गृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥ (१०-४६-६)
अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ (१०-४६-७)
प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः ।
तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥ (१०-४६-८)
द्यावा यमग्न्पिृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः ।
ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥ (१०-४६-९)
यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् ।
स यामन्न अग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥ (१०-४६-१०)
त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
[[२५६]]
त्वं सीं वृषन्न अकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥ (६-१-१)
अधा होता न्यसीदो यजीयानिळस्पद इषयन्न ईड्यः सन् ।
तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥ (६-१-२)
वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिुाागृवांसो अनु ग्मन् ।
रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥ (६-१-३)
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न अमृक्तम् ।
नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥ (६-१-४)
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥ (६-१-५)
सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् ।
तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥ (६-१-६)
तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥ (६-१-७)
विशां कविं विश्पत्खिश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिमिषयन्तं पावकं राजन्तमग्न्यिजतं रयीणाम् ॥ (६-१-८)
सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥ (६-१-९)
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥ (६-१-१०)
आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥ (६-१-११)
नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीरिषो बृहतीरारे अघा अस्मे भद्रा सौश्रवसानि सन्तु ॥ (६-१-१२)
पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥ (६-१-१३)
अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।
यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥ (६-३-१)
ईजे यज्ञेभिः शशमे शमीभिर्ऋधद्वारायाग्नये ददाश ।
एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥ (६-३-२)
[[२५७]]
सूरो न यस्य दृशतिररेपा भीमा यद्येति शुचतस्त आ धीः ।
हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥ (६-३-३)
तिग्मं चिद्येम महि वर्पो अस्य भसदश्वो न यमसान आसा ।
विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥ (६-३-४)
स इदस्तेव प्रति धादसिष्यञ् च्छिशीत तेजोऽयसो न धाराम् ।
चित्रध्रजतिररतिर्यो अक्तोर्वर्न द्रुषद्वा रघुपत्मजंहाः ॥ (६-३-५)
स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।
नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥ (६-३-६)
दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् ।
घृणा न यो ध्रजसा पत्मना यन्न आ रोदसी वसुना दं सुपत्नी ॥ (६-३-७)
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः ।
शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥ (६-३-८)
यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।
एवा नो अद्य समना समानानुशन्न अग्न उशतो यक्षि देवान् ॥ (६-४-१)
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् ।
विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥ (६-४-२)
द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।
वि य इनोत्यजरः पावकोऽश्नस्य चिच् च्छिश्नथत्पूर्व्याणि ॥ (६-४-३)
वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् ।
स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥ (६-४-४)
नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् ।
तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥ (६-४-५)
आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा ।
चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्न औशिजो न दीयन् ॥ (६-४-६)
त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥ (६-४-७)
नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।
ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥ (६-४-८)
हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् ।
[[२५८]]
य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥ (६-५-१)
त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।
क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके ॥ (६-५-२)
त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् ।
अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥ (६-५-३)
यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् ।
तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥ (६-५-४)
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् ।
स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥ (६-५-५)
स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् ।
यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥ (६-५-६)
अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् ।
अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥ (६-५-७)
प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।
वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥ (६-६-१)
स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः ।
यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥ (६-६-२)
वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति ।
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ (६-६-३)
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः ।
अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥ (६-६-४)
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।
शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥ (६-६-५)
आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ ।
स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व ॥ (६-६-६)
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
चन्द्रं रयिं पुरुवीर्टाृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥ (६-६-७)
पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् ।
पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥ (६-१०-१)
[[२५९]]
तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः ।
स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥ (६-१०-२)
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।
चित्राभिस्तमूतिभिश्चित्रशोचिर्वर्जस्य साता गोमतो दधाति ॥ (६-१०-३)
आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥ (६-१०-४)
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि ।
ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान् ॥ (६-१०-५)
इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् ।
भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥ (६-१०-६)
वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥ (६-१०-७)
यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति ।
आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥ (६-११-१)
त्वं होता मन्द्रतमो नो अध्रुगन्तर्दवो विदथा मर्त्येषु ।
पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥ (६-११-२)
धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै ।
वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥ (६-११-३)
अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।
आयुं न योमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥ (६-११-४)
वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग् घृतवती सुवृक्तिः ।
अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥ (६-११-५)
दशस्या नः पुर्वणीक होतर्दवेभिरग्ने अग्निभिरिधानः ।
रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥ (६-११-६)
मध्ये होता दुरोणे बर्हिषो राळग्निस्तोदस्य रोदसी यजध्यै ।
अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥ (६-१२-१)
आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः ।
त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥ (६-१२-२)
तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत् ।
अद्रोघो न द्रविता चेतति त्मन्न अमर्त्योऽवर्त्र ओषधीषु ॥ (६-१२-३)
[[२६०]]
सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः ।
द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥ (६-१२-४)
अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् ।
सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुरति धन्वा राट् ॥ (६-१२-५)
स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः ।
वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥ (६-१२-६)
त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः ।
श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥ (६-१३-१)
त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥ (६-१३-२)
स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् ।
यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥ (६-१३-३)
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् ।
विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥ (६-१३-४)
ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।
कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥ (६-१३-५)
वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।
विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥ (६-१३-६)
तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम ।
स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥ (६-१५-१०)
तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम् ।
यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥ (६-१५-११)
त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्न अवद्यात् ।
सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ (६-१५-१२)
अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥ (६-१५-१३)
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥ (६-१५-१४)
अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।
[[२६१]]
अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥ (६-१५-१५)
हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥ (२-४-१)
इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥ (२-४-२)
अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥ (२-४-३)
अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥ (२-४-४)
आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
स चित्रेण चिकिते रंसु भासा जुजुर्वा यो मुहुरा युवा भूत् ॥ (२-४-५)
आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥ (२-४-६)
स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥ (२-४-७)
नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
अस्मे अग्ने संयद्वीर्टाृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥ (२-४-८)
त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः ।
सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥ (२-४-९)
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः ।
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥ (२-९-१)
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥ (२-९-२)
विधेम ते परमे जन्मन्न अग्ने विधेम स्तोमैरवरे सधस्थे ।
यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥ (२-९-३)
अग्ने यजस्व हविषा यजीयाञ् च्छ्रुष्टी देष्णमभि गृणीहि राधः ।
त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥ (२-९-४)
उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य दस्म ।
कृधि क्षुमन्तं जरितारमग्ने कृधि पत्स्विपत्यस्य रायः ॥ (२-९-५)
[[२६२]]
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥ (२-९-६)
जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥ (२-१०-१)
श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥ (२-१०-२)
उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥ (२-१०-३)
जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥ (२-१०-४)
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥ (२-१०-५)
ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
अनूनमग्निुाुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥ (२-१०-६)
त्रिमूर्धानं सप्तरश्मिृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥ (१-१४६-१)
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावित ऊतिर्ऋष्वः ।
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥ (१-१४६-२)
समानं वत्समभि संचरन्ती विष्वग् धेनू वि चरतः सुमेके ।
अनपवृज्याँ अध्वनो मिमाने विश्वान् केताँ अधि महो दधाने ॥ (१-१४६-३) धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥ (१-१४६-४)
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥ (१-१४६-५)
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥ (१-१४७-१)
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥ (१-१४७-२)
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
[[२६३]]
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ (१-१४७-३)
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन ।
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥ (१-१४७-४)
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥ (१-१४७-५)
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥ (१-१४८-१)
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥ (१-१४८-२)
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥ (१-१४८-३)
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥ (१-१४८-४)
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्न अभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥ (१-१४८-५)
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥ (१-६०-१)
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥ (१-६०-२) तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥ (१-६०-३)
उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु ।
दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम् ॥ (१-६०-४)
तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ (१-६०-५)
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्युानयः सनीळाः ।
स्वसारः श्यावीमरुषीमजुष्रञ् चित्रमुच्छन्तीमुषसं न गावः ॥ (१-७१-१)
वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्न अङ्गिरसो रवेण ।
चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥ (१-७१-२)
[[२६४]]
दधन्न ऋतं धनयन्न अस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥ (१-७१-३)
मथीद्यदीं विभृतो मातरिश्वा गृहे गृहे श्येतो जेन्यो भूत् ।
आदीं राज्ञे न सहीयसे सचा सन्न आ दूत्यं भृगवाणो विवाय ॥ (१-७१-४)
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥ (१-७१-५)
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं युाुनासि ॥ (१-७१-६)
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥ (१-७१-७)
आ यदिषे नृपतिं तेज आनट्च्छुचि रेतो निषिक्तं द्यौरभीके ।
अग्निः शर्धमनवद्यं युवानं स्वाध्युानयत्सूदयच्च ॥ (१-७१-८)
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥ (१-७१-९)
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष् कविः सन् ।
नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥ (१-७१-१०)
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥ (१-७२-१)
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः ॥ (१-७२-२)
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥ (१-७२-३)
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
विदन्मर्तो नेमधिता चिकित्वानग्न्पिदे परमे तस्थिवांसम् ॥ (१-७२-४)
संजानाना उप सीदन्न अभिज्ञु पत्नीवन्तो नमस्योमस्यन् ।
रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥ (१-७२-५)
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥ (१-७२-६)
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्च्छुरुधो जीवसे धाः ।
[[२६५]]
अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥ (१-७२-७)
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो र्व्यतज्ञा अजानन् ।
विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥ (१-७२-८)
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥ (१-७२-९)
अधि श्रियं नि दधुश्चारुमस्मिन् दिवो यदक्षी अमृता अकृण्वन् ।
अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥ (१-७२-१०)
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥ (१-७३-१)
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥ (१-७३-२)
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥ (१-७३-३)
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्न्नि दधुर्भूर्यस्मिन् भवा विश्वायुर्धरुणो रयीणाम् ॥ (१-७३-४)
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥ (१-७३-५)
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥ (१-७३-६)
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥ (१-७३-७)
यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
च्छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥ (१-७३-८)
अर्वद्भिरग्ने अर्वतो नृभिर्नन्वीरैर्वीरान्वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥ (१-७३-९) एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥ (१-७३-१०)
का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥ (१-७६-१)
[[२६६]]
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥ (१-७६-२)
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥ (१-७६-३)
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥ (१-७६-४)
यथा विप्रस्य मनुषो हविर्भिर्दवाँ अयजः कविभिः कविः सन् ।
एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥ (१-७६-५)
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥ (१-७७-१)
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥ (१-७७-२)
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥ (१-७७-३)
स नो नृणां नृतमो रिशादा अग्निर् गिरोऽवसा वेतु धीतिम् ।
तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥ (१-७७-४)
एवाग्निर्गोतमेभिर्ऋतावा विप्रेभिरस्तोष्ट जातवेदाः ।
स एषु द्युम्न्पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥ (१-७७-५)
हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥ (१-७९-१)
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥ (१-७९-२)
यदीमृतस्य पयसा पियानो नयन्न ऋतस्य पथिभी रजिष्ठैः ।
अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥ (१-७९-३)
अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।
नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥ (१०-७९-१)
गुहा शिरो निहितमृधगक्षी असिन्वन्न अत्ति जिह्वया वनानि ।
अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥ (१०-७९-२)
प्र मातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः सर्पदुर्वीः ।
[[२६७]]
ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ (१०-७९-३)
तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥ (१०-७९-४)
यो अस्मा अन्नं तृष्वादधात्याज्यैर् घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ॥ (१०-७९-५)
किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।
अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥ (१०-७९-६)
विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।
चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥ (१०-७९-७)
अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् ।
अग्नी रोदसी वि चरत्समञ्जन्न अग्निर्नारीं वीरकुक्षिं पुरंधिम् ॥ (१०-८०-१)
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश ।
अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥ (१०-८०-२)
अग्निर्ह त्युारतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् ।
अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥ (१०-८०-३)
अग्निर्दाद्द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा सनोति ।
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥ (१०-८०-४)
अग्निमुक्थैर्ऋषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः ।
अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥ (१०-८०-५)
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः ।
अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर् घृत आ निषत्ता ॥ (१०-८०-६)
अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् ।
अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥ (१०-८०-७)
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
हरिरन्यस्यां भवति स्वधावाञ् च्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥ (१-९५-१)
दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु विरोचमान्परि षीं नयन्ति ॥ (१-९५-२)
त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥ (१-९५-३)
[[२६८]]
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥ (१-९५-४)
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥ (१-९५-५)
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
स दक्षाणां दक्षपतिर्टाभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥ (१-९५-६)
उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
उच्छुक्रमत्कमजते सिमस्मान्नवा माटृभ्यो वसना जहाति ॥ (१-९५-७)
त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
कविर्टाुध्न्परि मर्मृज्यते धीः सा देवताता समितिर्टाभूव ॥ (१-९५-८)
उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥ (१-९५-९)
धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥ (१-९५-१०)
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ (१-९५-११)
स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ । आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-१)
स पू॑र्वया नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् । वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-२)
तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् ।
ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-३)
स मा॑त॒रिश्वा॑ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् ।
वि॒शां गो॒पा ज॑निता॒ रोद॑स्योर्दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-४)
नक्तो॒षासा॒ वर्ण॑मा॒मेम्या॑ने धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-५)
रा॒यो बु॒ध्नः स॒ङ्गम॑नो॒ वसू॑नां य॒ज्ञस्य॑ के॒तुर्म॑न्म॒साध॑नो॒ वेः ।
अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-६)
नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् ।
[[२६९]]
स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे॑र्दे॒वा अ॒ग्निं धार॑यन्द्रविणो॒दाम् ॥ (१-९६-७)
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् ।
द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायुः॑ ॥ (१-९६-८)
एवा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि । त्
ान्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ (१-९६-९)
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ (१-१८९-१)
अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ (१-१८९-२)
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥ (१-१८९-३)
पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
मा ते भयुारितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥ (१-१८९-४)
मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥ (१-१८९-५)
वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥ (१-१८९-६)
त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥ (१-१८९-७)
अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८९-८)
अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।
अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥ (१०-१-१)
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदत् गाः ॥ (१०-१-२)
विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्न अभि पाति तृतीयम् ।
आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥ (१०-१-३)
अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।
ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥ (१०-१-४)
[[२७०]]
होतारं चित्ररथमध्वरस्य यज्ञस्य यज्ञस्य केतुं रुशन्तम् ।
प्रत्यर्धिं देवस्य देवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥ (१०-१-५)
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥ (१०-१-६)
आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥ (१०-१-७)
पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर्ऋतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥ (१०-२-१)
वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥ (१०-२-२)
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥ (१०-२-३)
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्दवाँ ऋतुभिः कल्पयाति ॥ (१०-२-४)
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥ (१०-२-५)
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥ (१०-२-६)
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थामनु प्रविद्वान् पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥ (१०-२-७)
इनो राजन्न अरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।
चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥ (१०-३-१)
कृष्णां यद्येनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् ।
ऊर्ध्वं भानुं सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भाति ॥ (१०-३-२)
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अभ्ये॑ति प॒श्चात् ।
सु॒प्र॒के॒तैर्द्युभिर॒ग्निर्वि॒तिष्ठ॒न्रुशद्भि॒र्वर्णै॑र॒भि रा॒ममस्था॑त् ॥ (१०-३-३)
अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य ।
ईळ्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न अक्तवश्चिकित्रे ॥ (१०-३-४)
स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः ।
[[२७१]]
ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥ (१०-३-५)
अस्य शुष्मासो ददृशानपवेर्जहमानस्य स्वनयन्नियुद्भिः ।
प्रत्नेभिर्यो रुशद्भिर्दवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥ (१०-३-६)
स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः ।
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥ (१०-३-७)
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु ।
धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥ (१०-४-१)
यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ ।
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ॥ (१०-४-२)
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना ।
धनोरधि प्रवता यासि हर्यञ् जिगीषसे पशुरिवावसृष्टः ॥ (१०-४-३)
मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से ।
शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥ (१०-४-४)
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥ (१०-४-५)
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् ।
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥ (१०-४-६)
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥ (१०-४-७)
एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥ (१०-५-१)
समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥ (१०-५-२)
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती ।
विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥ (१०-५-३)
ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते ।
अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥ (१०-५-४)
सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् ।
अन्तर्यमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥ (१०-५-५)
[[२७२]]
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।
आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥ (१०-५-६)
असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्न अदितेरुपस्थे ।
अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥ (१०-५-७)
अयं स यस्य शर्मन्न अवोभिरग्नेरेधते जरिताभिष्टौ ।
ज्येष्ठेभिर्यो भानुभिर्ऋषूणां पर्येति परिवीतो विभावा ॥ (१०-६-१)
यो भानुभिर्विभावा विभात्यग्निर्दवेभिर्ऋतावाजस्रः ।
आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥ (१०-६-२)
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥ (१०-६-३)
शूषेभिर्वृधो जुषाणो अर्कैर्दवाँ अच्छा रघुपत्वा जिगाति ।
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥ (१०-६-४)
तमुस्रामिन्द्रं न रेजमानमग्न्गिीर्भिर्नमोभिरा कृणुध्वम् ।
आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥ (१०-६-५)
सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ (१०-६-६)
अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
तं ते देवासो अनु केतमायन्न अधावर्धन्त प्रथमास ऊमाः ॥ (१०-६-७)
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धहि यजथाय देव ।
सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्दव शंसैः ॥ (१०-७-१)
इमा अग्ने मतयस्तुभ्युााता गोभिरश्वैरभि गृणन्ति राधः ।
यदा ते मर्तो अनु भोगमानड् वसो दधानो मतिभिः सुजात ॥ (१०-७-२)
अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् ।
अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥ (१०-७-३)
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता ।
ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥ (१०-७-४)
द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् ।
बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥ (१०-७-५)
स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवदप्रचेताः ।
[[२७३]]
यथायज ऋतुभिर्दव देवान्वा यजस्व तन्वं सुजात ॥ (१०-७-६)
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥ (१०-७-७)
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥ (१०-८-१)
मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् ।
स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥ (१०-८-२)
आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।
अस्य पत्मन्न अरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥ (१०-८-३)
उष उषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।
ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै ॥ (१०-८-४)
भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्युाुजोषः ॥ (१०-८-५)
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥ (१०-८-६)
त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन्नर्यो वि दासीत् ॥ (७-१-२१)
मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥ (७-१-२२)
स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥ (७-१-२३)
महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥ (७-१-२४)
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥ (७-१-२५)
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
यो मर्त्येषु निध्रुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ (७-३-१)
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद् व्यस्थात् ।
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ (७-३-२)
[[२७४]]
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥ (७-३-३)
वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः ।
सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥ (७-३-४)
तमिद्दोषा तमुषसि यविष्ठमग्निमत्यो मर्जयन्त नरः ।
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥ (७-३-५)
सुसंदृक् ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥ (७-३-६)
यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश्च हव्यैः ।
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥ (७-३-७)
या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।
ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥ (७-३-८)
निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥ (७-३-९)
एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ (७-३-१०)
प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥ (७-४-१)
स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।
सं यो वना युवते शुचिदन् भूरि चिदन्ना समिदत्ति सद्यः ॥ (७-४-२)
अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।
नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥ (७-४-३)
अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।
स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥ (७-४-४)
आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् ।
तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥ (७-४-५)
ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।
मा त्वा वयं सहसावन्न अवीरा माप्सवः परि षदाम मादुवः ॥ (७-४-६)
परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
[[२७५]]
न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥ (७-४-७)
नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळ् एतु नव्यः ॥ (७-४-८)
त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्न अवद्यात् ।
सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥ (७-४-९)
एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ (७-४-१०)
प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।
भवा नो दूतो अध्वरस्य विद्वात्मना देवेषु विविदे मितद्रुः ॥ (७-७-१)
आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्युाुषाणः ।
आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग् वनानि ॥ (७-७-२)
प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।
आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥ (७-७-३)
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥ (७-७-४)
असादि वृतो वह्निराजगन्वानग्निर्टार्ह्मा नृषदने विधर्ता ।
द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥ (७-७-५)
एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न ऋतस्य ॥ (७-७-६)
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयं पात स्वस्तिभिः सदा नः ॥ (७-७-७)
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥ (७-८-१)
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥ (७-८-२)
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ (७-८-३)
प्र प्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥ (७-८-४)
[[२७६]]
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥ (७-८-५)
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥ (७-८-६)
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड् यूयं पात स्वस्तिभिः सदा नः ॥ (७-८-७)
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥ (७-९-१)
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।
होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥ (७-९-२)
अमूरः कविरदितिर्विवस्वान्सुसंसन् मित्रो अतिथिः शिवो नः ।
चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥ (७-९-३)
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।
सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥ (७-९-४)
अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥ (७-९-५)
त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम् ।
पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥ (७-९-६)
उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥ (७-१०-१)
स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।
अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥ (७-१०-२)
अच्छा गिरो मतयो देवयन्तीरग्न्यिन्ति द्रविणं भिक्षमाणाः ।
सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥ (७-१०-३)
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् ।
आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥ (७-१०-४)
मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।
स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥ (७-१०-५)
महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते ।
[[२७७]]
आ विश्वेभिः सरथं याहि देवैर् न्यग्ने होता प्रथमः सदेह ॥ (७-११-१)
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः ।
यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥ (७-११-२)
त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय ।
मनुष्वदग्न इह यक्षि देवान् भवा नो दूतो अभिशस्तिपावा ॥ (७-११-३)
अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य ।
क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥ (७-११-४)
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् ।
इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥ (७-११-५)
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ (७-१२-१)
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ (७-१२-२)
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ (७-१२-३)
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चो३ं
स मह्ना विश्वा दुरितानि सह्वानग्निः ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद् दुरितादवद्यादस्मान् गृणत उत नो मघोनो३ं
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नो३म् [७ । १२ । १-३] [८७]
बार्हतम्
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतो३ं
स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानो३म्
उदस्य शोचिरस्थादाजुह्वानस्य मीह्ळुषः ।
उद् धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरो३ं
तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।
[[२७८]]
विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहो३ं
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यो३ं
कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षतो३ं
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनो३ं
येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।
ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रो३ं
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः । अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदयो३ं
ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।
ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्यो३ं
देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् । उद् वा सिञ्चध्वमुप वा पृणध्वमादिद् वो देव ओहतो३ं
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषो३म् [७ । १६ । १-१२] [९९]
प्र वो यह्वं पुरूणां विशां देवयतीनाम् । अग्निं सूक्तेभिर्वचोभिरीमहे । यं सीमिदन्य ईळते ॥ (१-३६-१)
जनासो अग्निं दधिरे सहोवृधं । हविष्मन्तो विधेम ते । स त्वं नो अद्य सुमना इहाविता । भवा वाजेषु सन्त्य ॥ (१-३६-२)
प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् । महस्ते सतो वि चरन्त्यर्चयो । दिवि स्पृशन्ति भानवः ॥ (१-३६-३)
देवासस्त्वा वरुणो मित्रो अर्यमा । सं दूतं प्रत्नमिन्धते । विश्वं सो अग्ने जयति त्वया धनं । यस्ते ददाश मर्त्यः ॥ (१-३६-४)
मन्द्रो होता गृहपतिरग्ने दूतो विशामसि । त्वे विश्वा सङ्गतानि व्रता ध्रुवा । यानि देवा अकृण्वत ॥ (१-३६-५)
त्वे इदग्ने सुभगे यविष्ठ्य । विश्वमा हूयते हविः । स त्वं नो अद्य सुमना उतापरं । यक्षि देवान्सुवीर्या ॥ (१- ३६-६)
तं घेमित्था नमस्विन उप स्वराजमासते । होत्राभिरग्निं मनुषः समिन्धते । तितिर्वांसो अति स्रिधः ॥ (१-३६- ७)
घ्नन्तो वृत्रमतरन्रोदसी अप । उरु क्षयाय चक्रिरे । भुवत्कण्वे वृषा द्युम्न्याहुतः । क्रन्ददश्वो गविष्टिषु ॥ (१-३६- ८)
सं सीदस्व महाँ असि शोचस्व देववीतमः । वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥ (१-३६-९)
[[२७९]]
यं त्वा देवासो मनवे दधुरिह । यजिष्ठं हव्यवाहन । यं कण्वो मेध्यातिथिर्धनस्पृतं । यं वृषा यमुपस्तुतः ॥ (१- ३६-१०)
यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि । तस्य प्रेषो दीदियुस्तमिमा ऋचस् । तमग्निं वर्धयामसि ॥ (१-३६- ११)
रायस्पूर्धि स्वधावोऽस्ति हि । तेऽग्ने देवेष्वाप्यम् । त्वं वाजस्य श्रुत्यस्य राजसि । स नो मृळ महाँ असि ॥ (१- ३६-१२)
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर् । वाघद्भिर्विह्वयामहे ॥ (१- ३६-१३)
ऊर्ध्वो नः पाह्यंहसो नि केतुना । विश्वं समत्रिणं दह । कृधी न ऊर्ध्वाञ्चरथाय जीवसे । विदा देवेषु नो दुवः ॥ (१-३६-१४)
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः । पाहि रीषत उत वा जिघांसतो । बृहद्भानो यविष्ठ्य ॥ (१-३६-१५)
घनेव विष्वग् वि जह्यराव्णस् । तपुर्जम्भ यो अस्मध्रुक् । यो मर्त्यः शिशीते अत्यक्तुभिर् । मा नः स रिपुरीशत ॥ (१-३६-१६)
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् । अग्निः प्रावन् मित्रोत मेध्यातिथिम् । अग्निः साता उपस्तुतम् ॥ (१- ३६-१७)
अग्निना तुर्वशं यदुं परावत । उग्रादेवं हवामहे । अग्निर्नयन्नववास्त्वं बृहद्रथं । तुर्वीतिं दस्यवे सहः ॥ (१-३६- १८)
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो । योमस्यन्ति कृष्टयः ॥ (१-३६-१९)
त्वेषासो अग्नेरमवन्तो अर्चयो । भीमासो न प्रतीतये । रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥ (१- ३६-२०)
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवाँ उषर्बुधः ॥ (१-४४-१)
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥ (१-४४-२)
अद्या दूतं वृणीमहे वसुमग्न्पिुरुप्रियम् ।
धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥ (१-४४-३)
श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥ (१-४४-४)
स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
[[२८०]]
अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥ (१-४४-५)
सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
प्रस्कण्वस्य प्रतिरन्न आयुर्जीवसे नमस्या दैव्युानम् ॥ (१-४४-६)
होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
स आ वह पुरुहूत प्रचेतसोऽग्ने देवाँ इह द्रवत् ॥ (१-४४-७)
सवितारमुषसमश्विना भगमग्न्व्यिुष्टिषु क्षपः ।
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥ (१-४४-८)
पतिर् ह्यध्वराणामग्ने दूतो विशामसि ।
उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः ॥ (१-४४-९)
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥ (१-४४-१०)
नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥ (१-४४-११)
यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भरजन्ते अर्चयः ॥ (१-४४-१२)
श्रुधि श्रुत्कर्ण वह्निभिर्दवैरग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥ (१-४४-१३)
शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥ (१-४४-१४)
सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥ (३-९-१)
कायमानो वना त्वं यन्मातॄरजगन्न अपः ।
न तत्ते अग्ने प्रमृषे निवर्तन्यद्दूरे सन्निहाभवः ॥ (३-९-२)
अति तृष्टं ववक्षिथाथैव सुमना असि ।
प्र प्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥ (३-९-३)
ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
अन्व् ईमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥ (३-९-४)
ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥ (३-९-५)
[[२८१]]
तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥ (३-९-६)
तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥ (३-९-७)
आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥ (३-९-८)
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
औक्षन् घृतैरस्तृणन् बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥ (३-९-९)
अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥ (३-१६-१)
इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥ (३-१६-२)
स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥ (३-१६-३)
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्दवेष्वा दुवः ।
आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥ (३-१६-४)
मा नो अग्नेऽमतये मावीरतायै रीरधः ।
मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥ (३-१६-५)
शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥ (३-१६-६)
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ (८-६०-१)
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
ऊर्जो नपातं घृतकेशमीमहेऽग्न्यिज्ञेषु पूर्व्यम् ॥ (८-६०-२)
अग्ने कविर्वधा असि होता पावक यक्ष्यः ।
मन्द्रो यजिष्ठो अध्वरेष्व् ईड्यो विप्रेभिः शुक्र मन्मभिः ॥ (८-६०-३)
अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।
अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥ (८-६०-४)
त्वमित्सप्रथा अस्यग्ने त्रातर्ऋतस्कविः ।
[[२८२]]
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥ (८-६०-५)
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।
देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥ (८-६०-६)
यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश्च वेनति ॥ (८-६०-७)
मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥ (८-६०-८)
पाहि नो अग्न एकया पाह्य् उत द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ (८-६०-९)
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ (८-६०-१०)
आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥ (८-६०-११)
येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥ (८-६०-१२)
शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥ (८-६०-१३)
नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥ (८-६०-१४)
शेषे वनेषु मातूरोः सं त्वा मर्तास इन्धते ।
अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥ (८-६०-१५)
सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥ (८-६०-१६)
अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥ (८-६०-१७)
केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥ (८-६०-१८)
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥ (८-६०-१९)
[[२८३]]
मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥ (८-६०-२०)
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ (८-७१-१०)
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ (८-७१-११)
अग्निं वो देवयज्ययाग्न्प्रियत्यध्वरे ।
अग्निं धीषु प्रथममग्निमर्वत्यग्न्क्षिैत्राय साधसे ॥ (८-७१-१२)
अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥ (८-७१-१३)
अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये च्छर्दिः ॥ (८-७१-१४)
अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुर्ऋषूणाम् ॥ (८-७१-१५)
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥ (८-१०३-१)
प्र दैवोदासो अग्निर्दवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥ (८-१०३-२)
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥ (८-१०३-३)
प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ (८-१०३-४)
स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥ (८-१०३-५)
यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥ (८-१०३-६)
अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥ (८-१०३-७)
[[२८४]]
औष्णिहम्
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवो३ं
स इधानो वसुष्कविरग्निरीळेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहो३ं
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रतो३ं [१ । ७९ । ४-६] [१०२]
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥ (१-१५०-१)
व्यनिनस्य धनिनः प्रहोषे चिदररुषः । कदा चन प्रजिगतो अदेवयोः ॥ (१-१५०-२)
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । प्र प्रेत्ते अग्ने वनुषः स्याम ॥ (१-१५०-३)
त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् । देवं मर्तास इन्धते समध्वरे ॥ (३-१०-१)
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते । गोपा ऋतस्य दीदिहि स्वे दमे ॥ (३-१०-२)
स घा यस्ते ददाशति समिधा जातवेदसे । सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥ (३-१०-३)
स केतुरध्वराणामग्निर्दवेभिरा गमत् । अञ्जानः सप्त होतृभिर्हविष्मते ॥ (३-१०-४)
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । विपां ज्योतींषि बिभ्रते न वेधसे ॥ (३-१०-५)
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । महे वाजाय द्रविणाय दर्शतः ॥ (३-१०-६)
अग्ने यजिष्ठो अध्वरे देवान्देवयते यज । होता मन्द्रो वि राजस्यति स्रिधः ॥ (३-१०-७)
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् । भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥ (३-१०-८)
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते । हव्यवाहममर्त्यं सहोवृधम् ॥ (३-१०-९)
ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥ (८-२३-१)
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम् ॥ (८-२३-२)
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे । उपविदा वह्निर्विन्दते वसु ॥ (८-२३-३)
उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् । तपुर्जम्भस्य सुद्युतो गणश्रियः ॥ (८-२३-४)
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा । अभिख्या भासा बृहता शुशुक्वनिः ॥ (८-२३-५)
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् । यथा दूतो बभूथ हव्यवाहनः ॥ (८-२३-६)
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् । तमया वाचा गृणे तमु व स्तुषे ॥ (८-२३-७)
यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् । मित्रं न जने सुधितमृतावनि ॥ (८-२३-८)
ऋतावानमृतायवो यज्ञस्य साधनं गिरा । उपो एनुाुजुषुर्नमसस्पदे ॥ (८-२३-९)
अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः । होता यो अस्ति विक्ष्वा यशस्तमः ॥ (८-२३-१०)
अग्ने तव त्ये अजरेन्धानासो बृहद्भाः । अश्वा इव वृषणस्तविषीयवः ॥ (८-२३-११)
स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् । प्राव नस्तोके तनये समत्स्वा ॥ (८-२३-१२)
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । विश्वेदग्निः प्रति रक्षांसि सेधति ॥ (८-२३-१३)
[[२८५]]
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपुषा रक्षसो दह ॥ (८-२३-१४)
न तस्य मायया चन रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातिभिः ॥ (८-२३-१५)
व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः । महो राये तमु त्वा समिधीमहि ॥ (८-२३-१६)
उशना काव्यस्त्वा नि होतारमसादयत् । आयजिं त्वा मनवे जातवेदसम् ॥ (८-२३-१७)
विश्वे हि त्वा सजोषसो देवासो दूतमक्रत । श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥ (८-२३-१८)
इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः । पावकं कृष्णवर्तनिं विहायसम् ॥ (८-२३-१९)
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् । विशामग्निमजरं प्रत्नमीड्यम् ॥ (८-२३-२०)
यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् । भूरि पोषं स धत्ते वीरवद्यशः ॥ (८-२३-२१)
प्रथमं जातवेदसमग्न्यिज्ञेषु पूर्व्यम् । प्रति स्रुग् एति नमसा हविष्मती ॥ (८-२३-२२)
आभिर्विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥ (८-२३-२३)
नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् । ऋषे वैयश्व दम्यायाग्नये ॥ (८-२३-२४)
अतिथिं मानुषाणां सूनुं वनस्पतीनाम् । विप्रा अग्निमवसे प्रत्नमीळते ॥ (८-२३-२५)
महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा । अग्ने नि षत्सि नमसाधि बर्हिषि ॥ (८-२३-२६)
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः । सुवीर्यस्य प्रजावतो यशस्वतः ॥ (८-२३-२७)
त्वं वरो सुषाम्णेऽग्ने जनाय चोदय । सदा वसो रातिं यविष्ठ शश्वते ॥ (८-२३-२८)
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः । महो रायः सातिमग्ने अपा वृधि ॥ (८-२३-२९)
अग्ने त्वं यशा अस्या मित्रावरुणा वह । ऋतावाना सम्राजा पूतदक्षसा ॥ (८-२३-३०)
जागतम्
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचो३ं
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतो३म्
असंमृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः ।
घृतेन त्वावर्धन्नग्न आहुत धूमस्ते केतुरभवद् दिवि श्रितो३म्
अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे ।
अनिर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतो३ं
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति चो३ं
[[२८६]]
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत् त्वामाहुः सहसस्पुत्रमङ्गिरो३म् [५ । ११ । १-६] [१०८]
त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥ (५-८-१)
त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।
बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥ (५-८-२)
त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् ।
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥ (५-८-३)
त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम ।
स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥ (५-८-४)
त्वमग्ने पुरुरूपो विशे विशे वयो दधासि प्रत्नथा पुरुष्टुत ।
पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥ (५-८-५)
त्वामग्ने समिधान्यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् ।
उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥ (५-८-६)
त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे ।
स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ (५-८-७)
इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा ।
वेतीद्दिवो जनुषा कच्चिदा शुचिर् ज्योक्चिदत्ति गर्भो यदच्युतम् ॥ (६-१५-१)
मित्रं न यं सुधितं भृगवो दधुर्वनस्पताव् ईड्यमूर्ध्वशोचिषम् ।
स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवे दिवे ॥ (६-१५-२)
स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः ।
रायः सूनो सहसो मर्त्येष्वा च्छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥ (६-१५-३)
द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् ।
विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥ (६-१५-४)
पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना ।
तूर्वन्न यामन्न एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥ (६-१५-५)
अग्निमग्निं वः समिधा दुवस्यत प्रियं प्रियं वो अतिथिं गृणीषणि ।
उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥ (६-१५-६)
समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
[[२८७]]
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥ (६-१५-७)
त्वां दूतमग्ने अमृतं युगे युगे हव्यवाहं दधिरे पायुमीड्यम् ।
देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ (६-१५-८)
विभूषन्न अग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे ।
यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ (६-१५-९)
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ (२-१-१)
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥ (२-१-२)
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥ (२-१-३)
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥ (२-१-४)
त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥ (२-१-५)
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥ (२-१-६)
त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि ।
त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥ (२-१-७)
त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥ (२-१-८)
त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥ (२-१-९)
त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥ (२-१-१०)
त्वमग्ने अदितिर्दव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥ (२-१-११)
त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
त्वं वाजः प्रतरणो बृहन्न असि त्वं रयिर्टाहुलो विश्वतस्पृथुः ॥ (२-१-१२)
[[२८८]]
त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥ (२-१-१३)
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥ (२-१-१४)
त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥ (२-१-१५)
ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥ (२-१-१६)
यज्ञेन वर्धत जातवेदसमग्न्यिजध्वं हविषा तना गिरा ।
समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥ (२-२-१)
अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥ (२-२-२)
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥ (२-२-३)
तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥ (२-२-४)
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥ (२-२-५)
स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥ (२-२-६)
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥ (२-२-७)
स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥ (२-२-८)
एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
दुहाना धेनुर्वृजनेषु कारवे त्मना शतिन्पुरुरूपमिषणि ॥ (२-२-९)
वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति ।
अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥ (२-२-१०)
स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
[[२८९]]
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥ (२-२-११)
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥ (२-२-१२)
ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥ (२-२-१३)
त्वमग्ने प्रथमो अङ्गिरा ऋषिर्दवो देवानामभवः शिवः सखा ।
तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥ (१-३१-१)
त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्दवानां परि भूषसि व्रतम् ।
विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥ (१-३१-२)
त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥ (१-३१-३)
त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्न आपरं पुनः ॥ (१-३१-४)
त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥ (१-३१-५)
त्वमग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे ।
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥ (१-३१-६)
त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे दिवे ।
यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥ (१-३१-७)
त्वं नो अग्ने सनये धनानां यशस्कारुं कृणुहि स्तवानः ।
ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥ (१-३१-८)
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥ (१-३१-९)
त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥ (१-३१-१०)
त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥ (१-३१-११)
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥ (१-३१-१२)
[[२९०]]
त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥ (१-३१-१३)
त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥ (१-३१-१४)
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥ (१-३१-१५)
इमामग्ने शरणिं मीमृषो न इममध्वान्यमगाम दूरात् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्य् ऋषिकृन्मर्त्यानाम् ॥ (१-३१-१६)
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
अच्छ याह्या वहा दैव्युानमा सादय बर्हिषि यक्षि च प्रियम् ॥ (१-३१-१७)
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥ (१-३१-१८)
नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥ (१-५८-१)
आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्न अतसेषु तिष्ठति ।
अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्न अचिक्रदत् ॥ (१-५८-२)
क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः ।
रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग् वार्या देव ऋण्वति ॥ (१-५८-३)
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥ (१-५८-४)
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसगः ।
अभिव्रजन्न अक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥ (१-५८-५)
वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥ (१-१४०-१)
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥ (१-१४०-२)
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥ (१-१४०-३)
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
[[२९१]]
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥ (१-१४०-४)
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
यत्सीं महीमवन्प्रिभि मर्मृशदभिश्वसन् स्तनयन्न एति नानदत् ॥ (१-१४०-५)
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥ (१-१४०-६)
स संस्तिरो विष्टिरः सं गृभायति जानन्न एव जानतीर्नित्य आ शये ।
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥ (१-१४०-७)
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
तासां जरां प्रमुञ्चन्न एति नानददसुं परं जनयञ्जीवमस्तृतम् ॥ (१-१४०-८)
अधीवासं परि मातू रिहन्न अह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥ (१-१४०-९)
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥ (१-१४०-१०)
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥ (१-१४०-११)
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
अस्माकं वीराँ उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥ (१-१४०-१२)
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥ (१-१४०-१३)
बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुप ह्वरते साधते मतिर्ऋतस्य धेना अनयन्त सस्रुतः ॥ (१-१४१-१)
पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ (१-१४१-२)
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥ (१-१४१-३)
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद् घृणा शुचिः ॥ (१-१४१-४)
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥ (१-१४१-५)
[[२९२]]
आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
देवान्यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥ (१-१४१-६)
वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥ (१-१४१-७)
रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥ (१-१४१-८)
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥ (१-१४१-९)
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥ (१-१४१-१०)
अस्मे रयिो स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥ (१-१४१-११)
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥ (१-१४१-१२)
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥ (१-१४१-१३)
प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥ (१-१४३-१)
स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥ (१-१४३-२)
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥ (१-१४३-३)
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥ (१-१४३-४)
न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥ (१-१४३-५)
कुविन्नो अग्निरुचथस्य वीरसद्वसुष् कुविद्वसुभिः काममावरत् ।
चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥ (१-१४३-६)
घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
[[२९३]]
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥ (१-१४३-७)
अप्रयुच्छन्न अप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥ (१-१४३-८)
एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥ (१-१४४-१)
अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥ (१-१४४-२)
युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥ (१-१४४-३)
यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
दिवा न नक्तं पलितो युवाजनि पुरू चरन्न अजरो मानुषा युगा ॥ (१-१४४-४)
तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥ (१-१४४-५)
त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥ (१-१४४-६)
अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
यो विश्वतः प्रत्यङ्ङ् असि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥ (१-१४४-७)
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्व् ईयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥ (१-१४५-१)
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥ (१-१४५-२)
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥ (१-१४५-३)
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥ (१-१४५-४)
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥ (१-१४५-५)
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-१)
[[२९४]]
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-२)
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याँ आ वह तान् ह्य् उश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-३)
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा पर्वणा वयम् ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-४)
विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-५)
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-६)
यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित्सन्तळिदिवाति रोचसे ।
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-७)
पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-८)
वधैर्दुः शंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-९)
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-१०)
अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-११)
अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-१२)
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन् स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-१३)
तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥ (१-९४-१४)
यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥ (१-९४-१५)
स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
[[२९५]]
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ (१-९४-१६)
सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे ।
विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥ (१०-९१-१)
स दर्शतश्रीरतिथिर्गृहे गृहे वने वने शिश्रिये तक्ववीरिव ।
जनुानुान्यो नाति मन्यते विश आ क्षेति विश्यो विशं विशम् ॥ (१०-९१-२)
सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् ।
वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥ (१०-९१-३)
प्रजानन्न अग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥ (१०-९१-४)
तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः ।
यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥ (१०-९१-५)
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निुानयन्त मातरः ।
तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ (१०-९१-६)
वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पृथक् च्छर्धांस्यग्ने अजराणि धक्षतः ॥ (१०-९१-७)
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥ (१०-९१-८)
त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।
यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥ (१०-९१-९)
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥ (१०-९१-१०)
यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति ।
तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥ (१०-९१-११)
इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत ।
वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥ (१०-९१-१२)
इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः ।
भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥ (१०-९१-१३) यस्मिन्न अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥ (१०-९१-१४)
[[२९६]]
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥ (१०-९१-१५)
चित्र इच् च्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे ।
अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥ (१०-११५-१)
अग्निर्ह नाम धायि दन्न अपस्तमः सं यो वना युवते भस्मना दता ।
अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥ (१०-११५-२)
तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् ।
आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥ (१०-११५-३)
वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः ।
आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥ (१०-११५-४)
स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः ।
अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥ (१०-११५-५)
वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।
अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥ (१०-११५-६)
एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः ।
मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥ (१०-११५-७)
ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥ (१०-११५-८)
इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् ।
तांश्च पाहि गृणतश्च सूरीन्वषड् वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥ (१०-११५-९)
वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् ।
स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥ (१०-१२२-१)
जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो ।
घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्न अनु व्रतम् ॥ (१०-१२२-२)
सप्त धामानि परियन्न अमर्त्यो दाशद्दाशुषे सुकृते मामहस्व ।
सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट्समिधा तं जुषस्व ॥ (१०-१२२-३)
यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् ।
शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥ (१०-१२२-४)
त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।
[[२९७]]
त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥ (१०-१२२-५)
इषं दुहन्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।
अग्ने घृतस्नुस्त्रिर्ऋतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे ॥ (१०-१२२-६)
त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः ।
त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥ (१०-१२२-७)
नि त्वा वसिष्ठा अह्वन्त वाजिन्गृणन्तो अग्ने विदथेषु वेधसः ।
रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥ (१०-१२२-८)
पाङ्क्तम्
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भरो३ं
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भरो३म्
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरो३म्
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
यद्ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भरो३म्
आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।
सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भरो३ं
प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् ।
ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भरो३ं
तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।
ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भरो३ं
नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।
ती स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भरो३म्
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।
उतो न उत् पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भरो३म्
एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।
दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भरो३ं [५ । ६ । १-१०] [११८]
[[२९८]]
उषस्यः क्रतुः
गायत्रम्
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । दिवो अदर्शि दुहितो३म्
अश्वेव चित्रारुषी माता गवामृतावरी । सखाभूदश्विनोरुषो३म्
उत सखास्यश्विनोरुत माता गवामसि । उतोषो वस्व ईशिषो३ं
यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि । प्रति स्तोमैरभुत्स्महो३ं
प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । ओषा अप्रा उरु ज्रयो३म्
आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः । उषो अनु स्वधामहो३म्
आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् । उषः शुक्रेण शोचिषो३म् [४ । ५२ । १-७] [१२५]
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये । कं नक्षसे विभावरि ॥ (१-३०-२०)
वयं हि ते अमन्मह्यान्तादा पराकात् । अश्वे न चित्रे अरुषि ॥ (१-३०-२१)
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः । अस्मे रयिं नि धारय ॥ (१-३०-२२)
आनुष्टुभम्
उषो भद्रेभिरा गहि दिवश्चिद् रोचनादधि । वहन्त्वरुणप्सव उप त्वा सोमिनो गृहो३ं
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् । तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवो३ं
वयश्चित् ते पतत्रिणो द्विपच्चतुष्पदर्जुनि । उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परो३ं
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषतो३म्[१ । ४९ । १-४][१२९]
त्रैष्टुभम्
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारो३ं
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनानो३ं
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपो३ं
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वो३ं
जिह्मश्ये३ चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
दभ्रण् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वो३ं
[[२९९]]
क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
विसदृशा जीविताभिप्रचक्ष उषा अजेगर्भुवनानि विश्वो३म्
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छो३ं
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्तो३म्
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
यन्मानुषान् यक्ष्यमाणाँ अजीगस्तद् देवेषु चकृषे भद्रमप्नो३ं
कियात्या यत् समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेतो३म्
ईयुष्टे ये पूर्वतरामपश्यन् व्युच्छन्तीमुषसं मर्त्यासः ।
अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यो३ं
यावयद् द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छो३ं
शस्वत् पुरोगा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभो३ं
व्य१ञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेनो३म्
आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वो३म्
उदीर्ध्वं जीवो असुर्न आगादप प्रागात् तम आ ज्योतिरेति ।
आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयो३ं
स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः ।
अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावो३ं
या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
वायोरिव सूनृतानामुदर्के आ अश्वदा अश्नवत् सोमसुत्वो३ं
माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
प्रशस्तिकृद् ब्रह्मणे नो व्यु१च्छा नो जने जनय विश्ववारो३ं
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
[[३००]]
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३ं [१ । ११३ । १-२०] [१४९]
पृथू रथो दक्षिणाया अयोज्येनं देवासो अमृतासो अस्थुः ।
कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥ (१-१२३-१)
पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥ (१-१२३-२)
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥ (१-१२३-३)
गृहं गृहमहना यात्यच्छा दिवे दिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥ (१-१२३-४)
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥ (१-१२३-५)
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।
स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥ (१-१२३-६)
अपान्यद्येत्यभ्यन्यद्येति विषुरूपे अहनी सं चरेते ।
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥ (१-१२३-७)
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥ (१-१२३-८)
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥ (१-१२३-९)
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् ।
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥ (१-१२३-१०)
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥ (१-१२३-११)
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥ (१-१२३-१२)
ऋतस्य रश्मिमनुयच्छमाना भद्रं भद्रं क्रतुमस्मासु धेहि ।
उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥ (१-१२३-१३)
उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
देवो नो अत्र सविता न्वर्थं प्रासावीद् द्विपत्प्र चतुष्पदित्यै ॥ (१-१२४-१)
[[३०१]]
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥ (१-१२४-२)
एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥ (१-१२४-३)
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥ (१-१२४-४)
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥ (१-१२४-५)
एवेद्येषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥ (१-१२४-६)
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ (१-१२४-७)
स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यड्क्ते समनगा इव व्राः ॥ (१-१२४-८)
आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥ (१-१२४-९)
प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥ (१-१२४-१०)
अवेयमश्वैद्युवतिः पुरस्ताद्युड्क्ते गवामरुणानामनीकम् ।
वि नूनमुच्छादसति प्र केतुर्गृहं गृहमुप तिष्ठाते अग्निः ॥ (१-१२४-११)
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥ (१-१२४-१२)
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥ (१-१२४-१३)
प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
स्वरुं न पेशो विदथेष्वञ्जञ् चित्रं दिवो दुहिता भानुमश्रेत् ॥ (१-९२-५)
अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
श्रिये च्छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ (१-९२-६)
भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
[[३०२]]
प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् ॥ (१-९२-७)
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥ (१-९२-८)
विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥ (१-९२-९)
पुनः पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ (१-९२-१०)
व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति ।
प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ (१-९२-११)
पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् ।
अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥ (१-९२-१२)
द्युतद्यामान्बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् ।
देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥ (५-८०-१)
एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे ।
बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥ (५-८०-२)
एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे ।
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥ (५-८०-३)
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥ (५-८०-४)
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।
अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥ (५-८०-५)
एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः ।
व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर्युवतिः पूर्वथाकः ॥ (५-८०-६)
उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ॥ (३-६१-१)
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥ (३-६१-२)
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥ (३-६१-३)
[[३०३]]
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥ (३-६१-४)
अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥ (३-६१-५)
ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥ (३-६१-६)
ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥ (३-६१-७)
इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।
नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥ (४-५१-१)
अस्थुरु चित्रा उषसः पुरस्तान् मिता इव स्वरवोऽध्वरेषु ।
व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ् च्छुचयः पावकाः ॥ (४-५१-२)
उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः ।
अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥ (४-५१-३)
कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ।
येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥ (४-५१-४)
यूयं हि देवीर्ऋतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।
प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥ (४-५१-५)
क्व स्विदासां कतमा पुराणी यया विधाना विदधुर्ऋभूणाम् ।
शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥ (४-५१-६)
ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।
यास्व् ईजानः शशमान उक्थै स्तुवञ् च्छंसन्द्रविणं सद्य आप ॥ (४-५१-७)
ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः ।
ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ (४-५१-८)
ता इन्वेव समना समानीरमीतवर्णा उषसश्चरन्ति ।
गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥ (४-५१-९)
रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः ।
स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥ (४-५१-१०)
तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः ।
[[३०४]]
वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥ (४-५१-११)
उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः ।
कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥ (६-६४-१)
भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।
आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥ (६-६४-२)
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् ।
अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा ॥ (६-६४-३)
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो ।
सा न आ वह पृथुयामन्न ऋष्वे रयिं दिवो दुहितरिषयध्यै ॥ (६-६४-४)
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु ।
त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥ (६-६४-५)
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥ (६-६४-६)
एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः ।
या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥ (६-६५-१)
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः ।
अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥ (६-६५-२)
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय ।
मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥ (६-६५-३)
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।
इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥ (६-६५-४)
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
व्यर्केण बिभिदुर्टार्ह्मणा च सत्या नृणामभवद्देवहूतिः ॥ (६-६५-५)
उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।
सुवीरं रयिं गृणते रिरीह्य् उरुगायमधि धेहि श्रवो नः ॥ (६-६५-६)
व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।
अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥ (७-७५-१)
महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि ।
चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥ (७-७५-२)
[[३०५]]
एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।
जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥ (७-७५-३)
एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति ।
अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥ (७-७५-४)
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥ (७-७५-५)
प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।
याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥ (७-७५-६)
सत्या सत्येभिर्महती महद्भिर्दवी देवेभिर्यजता यजत्रैः ।
रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥ (७-७५-७)
नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावद् पुरुभोजो अस्मे ।
मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥ (७-७५-८)
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥ (७-७६-१)
प्र मे पन्था देवयाना अदृश्रन्न अमर्धन्तो वसुभिरिष्कृतासः ।
अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥ (७-७६-२)
तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।
यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥ (७-७६-३)
त इद्देवानां सधमाद आसन्न ऋतावानः कवयः पूर्व्यासः ।
गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥ (७-७६-४)
समान ऊर्वे अधि सङ्गतासः सं जानते न यतन्ते मिथस्ते ।
ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥ (७-७६-५)
प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥ (७-७६-६)
एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः ।
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥ (७-७६-७)
उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै ।
अभूदग्निः समिधे मानुषाणामकर् ज्योतिर्टााधमाना तमांसि ॥ (७-७७-१)
विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।
[[३०६]]
हिरण्यवर्णा सुदृशीकसंदृगावां माता नेत्र्यह्नामरोचि ॥ (७-७७-२)
देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥ (७-७७-३)
अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।
यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ (७-७७-४)
अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्य् उषो देवि प्रतिरन्ती न आयुः ।
इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥ (७-७७-५)
यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः ।
सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥ (७-७७-६)
प्रति केतवः प्रथमा अदृश्रन्न ऊर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥ (७-७८-१)
प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः ।
उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥ (७-७८-२)
एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः ।
अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥ (७-७८-३)
अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् ।
आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥ (७-७८-४)
प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥ (७-७८-५)
व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्टोधयन्ती ।
सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥ (७-७९-१)
व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥ (७-७९-२)
अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।
वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥ (७-७९-३)
तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।
यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥ (७-७९-४)
देवं देवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥ (७-७९-५)
[[३०७]]
प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।
विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥ (७-८०-१)
एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥ (७-८०-२)
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ (७-८०-३)
बार्हतम्
प्रत्यु अदर्श्यायत्यु१च्छन्ती दुहिता दिवः । अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरो३म्
उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहो३ं
प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि । या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयो३म्
उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवो३ं
तच्चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् । यत् ते दिवो दुहितुर्मर्तभोजनं तद् रास्व भुनजामहो३ं
श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।
चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधो३म् [७ । ८१ । १-६] [१५५]
सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥ (१-४८-१)
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥ (१-४८-२)
उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥ (१-४८-३)
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥ (१-४८-४)
आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
जरयन्ती वृजन्पद्वदीयत उत्पातयति पक्षिणः ॥ (१-४८-५)
वि या सृजति समन्व्यर्थिनः पदं न वेत्योदती ।
वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥ (१-४८-६)
[[३०८]]
एषायुक्त परावतः सूर्यस्योदयनादधि ।
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥ (१-४८-७)
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥ (१-४८-८)
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥ (१-४८-९)
विश्वस्य हि प्राणनुाीवनं त्वे वि यदुच्छसि सूनरि ।
सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥ (१-४८-१०)
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥ (१-४८-११)
विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥ (१-४८-१२)
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥ (१-४८-१३)
ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
सा न स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ (१-४८-१४)
उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥ (१-४८-१५)
सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥ (१-४८-१६)
औष्णिहम्
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहो३म्
उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावतो३ं
युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः । अथा नो विश्वा सौभगान्या वहो३म् [१ । ९२ । १३-१५] [१५८]
जागतम्
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरो३म्
उदपप्तन्नरुणा भानवो वृथा स्वायुधो अरुषीर्गा अयुक्षत ।
[[३०९]]
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयो३म्
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वतो३म्
अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्यु१षा आवर्तमो३ं [१ । ९२ । १-४] [१६२]
पाड्क्तम्
महे नो अद्य बोधयोषो राये दिवत्मती ।
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३ं
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३ं
सा नो अद्या भरद्वसुर्व्युच्छा दुहितर्दिवः ।
यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृतो३म्
अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः ।
मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृतो३ं
यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद् वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृतो३म्
ऐषु धा वीरवद् यश उषो मघोनि सूरिषु ।
ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृतो३ं
तेभ्यो द्युम्नं बृहद् यश उषो मघोन्या वह ।
ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृतो३म्
उत नो गोमतीरिष आ वहा दुहितर्दिवः ।
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृतो३ं
व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।
नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृतो३म्
एतावद् वेदुषस्त्वं भूयो वा दातुमर्हसि ।
या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृतो३ं [५ । ७९ । १-१०] [१७२]
आश्विनः क्रतुः
गायत्रम्
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहो३ं
[[३१०]]
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसुविदो३ं
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यद् वां रथो विभिष्पतो३ं
हविषा जारो अपां पिपर्ति पपुरिर्नरा । पिता कुटस्य चर्षणो३म्
आदारो वा मतीनां नासत्या मतवचसा । पातं सोमस्य धृष्णुयो३ं
य नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । तामस्मे रासाथामिषो३म्
आ नो नावा मतीनां यातं पाराय गन्तवे । युञ्जाथामश्विना रथो३म्
अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः । धिया युयुज्र इन्दवो३ं
दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे । स्वं वव्रिं कुह धित्सथो३म्
अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः । व्यख्यज्जिह्वयासितो३म्
अभूदु पारमेतवे पन्था ऋतस्य साधुया । अदर्शि वि स्रुतिर्दिवो३ं
तत्तदिदश्विनोरवो जरिता प्रति भूषति । मदे सोमस्य पिप्रतो३ं
वावसाना विवस्वति सोमस्य पीत्वा गिरा । मनुष्वच्छम्भू आ गतो३ं
युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् । ऋता वनथो अक्तुभो३म्
उभा पिबतमश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिरूतिभो३ं [१ । ४६ । १-१५] [१८७]
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् । अस्य सोमस्य पीतये ॥ (१-२२-१)
या सुरथा रथीतमोभा देवा दिविस्पृशा । अश्विना ता हवामहे ॥ (१-२२-२)
या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् ॥ (१-२२-३)
नहि वामस्ति दूरके यत्रा रथेन गच्छथः । अश्विना सोमिनो गृहम् ॥ (१-२२-४)
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतम् ॥ (१-३-१)
अश्विना पुरुदंससा नरा शवीरया धिया । धिष्ण्या वनतं गिरः ॥ (१-३-२)
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातं रुद्रवर्तनी ॥ (१-३-३)
आश्विनावश्वावत्येषा यात्खवीरया । गोमद्दस्रा हिरण्यवत् ॥ (१-३०-१७)
समानयोजनो हि वां रथो दस्रावमर्त्यः । समुद्रे अश्विनेयते ॥ (१-३०-१८)
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः । परि द्यामन्यदीयते ॥ (१-३०-१९)
गोमदू षु नासत्याश्वावद्यातमश्विना । वर्ती रुद्रा नृपाय्यम् ॥ (२-४१-७)
न यत्परो नान्तर आदधर्षद्वृषण्वसू । दुः शंसो मर्त्यो रिपुः ॥ (२-४१-८)
ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् । धिष्ण्या वरिवोविदम् ॥ (२-४१-९)
दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् । वि भानुं विश्वधातनत् ॥ (८-५-१)
नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा । सचेथे अश्विनोषसम् ॥ (८-५-२)
[[३११]]
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । वाचं दूतो यथोहिषे ॥ (८-५-३)
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । स्तुषे कण्वासो अश्विना ॥ (८-५-४)
मंहिष्ठा वाजसातमेषयन्ता शुभस्पती । गन्तारा दाशुषो गृहम् ॥ (८-५-५)
ता सुदेवाय दाशुषे सुमेधामवितारिणीम् । घृतैर्गव्यूतिमुक्षतम् ॥ (८-५-६)
आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः । यातमश्वेभिरश्विना ॥ (८-५-७)
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना । त्रीँरक्तून्परिदीयथः ॥ (८-५-८)
उत नो गोमतीरिष उत सातीरहर्विदा । वि पथः सातये सितम् ॥ (८-५-९)
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् । वोळ्हमश्वावतीरिषः ॥ (८-५-१०)
वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी । पिबतं सोम्यं मधु ॥ (८-५-११)
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः । च्छर्दिर्यन्तमदाभ्यम् ॥ (८-५-१२)
नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् । मो ष्वन्याँ उपारतम् ॥ (८-५-१३)
अस्य पिबतमश्विना युवं मदस्य चारुणः । मध्वो रातस्य धिष्ण्या ॥ (८-५-१४)
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । पुरुक्षुं विश्वधायसम् ॥ (८-५-१५)
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः । वाघद्भिरश्विना गतम् ॥ (८-५-१६)
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः । युवां हवन्ते अश्विना ॥ (८-५-१७)
अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः । युवाभ्यां भूत्वश्विना ॥ (८-५-१८)
यो ह वां मधुनो दृतिराहितो रथचर्षणे । ततः पिबतमश्विना ॥ (८-५-१९)
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । वहतं पीवरीरिषः ॥ (८-५-२०)
उत नो दिव्या इष उत सिन्धूँरहर्विदा । अप द्वारेव वर्षथः ॥ (८-५-२१)
कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा । यद्वां रथो विभिष्पतात् ॥ (८-५-२२)
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । शश्वदूतीर्दशस्यथः ॥ (८-५-२३)
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः । यद्वां वृषण्वसू हुवे ॥ (८-५-२४)
यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् । अत्रिं शिञ्जारमश्विना ॥ (८-५-२५)
यथोत कृत्व्ये धनेंऽशुं गोष्वगस्त्यम् । यथा वाजेषु सोभरिम् ॥ (८-५-२६)
एतावद्वां वृषण्वसू अतो वा भूयो अश्विना । गृणन्तः सुम्नमीमहे ॥ (८-५-२७)
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना । आ हि स्थाथो दिविस्पृशम् ॥ (८-५-२८)
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः । उभा चक्रा हिरण्यया ॥ (८-५-२९)
तेन नो वाजिनीवसू परावतश्चिदा गतम् । उपेमां सुष्टुतिं मम ॥ (८-५-३०)
आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना । इषो दासीरमर्त्या ॥ (८-५-३१)
[[३१२]]
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना । पुरुश्चन्द्रा नासत्या ॥ (८-५-३२)
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः । अच्छा स्वध्वरं जनम् ॥ (८-५-३३)
रथं वामनुगायसं य इषा वर्तते सह । न चक्रमभि बाधते ॥ (८-५-३४)
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः । धीजवना नासत्या ॥ (८-५-३५)
युवं मृगुाागृवांसं स्वदथो वा वृषण्वसू । ता नः पृड्क्तमिषा रयिम् ॥ (८-५-३६)
वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा । युवाभ्यां भूत्वश्विना ॥ (८-२६-१६)
यददो दिवो अर्णव इषो वा मदथो गृहे । श्रुतमिन्मे अमर्त्या ॥ (८-२६-१७)
उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् । सिन्धुर्हिरण्यवर्तनिः ॥ (८-२६-१८)
स्मद्येतया सुकीर्त्याश्विना श्वेतया धिया । वहेथे शुभ्रयावाना ॥ (८-२६-१९)
उदीराथामृतायते युञ्जाथामश्विना रथम् । अन्ति षद्भूतु वामवः ॥ (८-७३-१)
निमिषश्चिज्जवीयसा रथेना यातमश्विना । अन्ति षद्भूतु वामवः ॥ (८-७३-२)
उप स्तृणीतमत्रये हिमेन घर्ममश्विना । अन्ति षद्भूतु वामवः ॥ (८-७३-३)
कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । अन्ति षद्भूतु वामवः ॥ (८-७३-४)
यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् । अन्ति षद्भूतु वामवः ॥ (८-७३-५)
अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् । अन्ति षद्भूतु वामवः ॥ (८-७३-६)
अवन्तमत्रये गृहं कृणुतं युवमश्विना । अन्ति षद्भूतु वामवः ॥ (८-७३-७)
वरेथे अग्निमातपो वदते वल्ग्वत्रये । अन्ति षद्भूतु वामवः ॥ (८-७३-८)
प्र सप्तवध्रिराशसा धारामग्नेरशायत । अन्ति षद्भूतु वामवः ॥ (८-७३-९)
इहा गतं वृषण्वसू शृणुतं म इमं हवम् । अन्ति षद्भूतु वामवः ॥ (८-७३-१०)
किमिदं वां पुराणवज्जरतोरिव शस्यते । अन्ति षद्भूतु वामवः ॥ (८-७३-११)
समानं वां सजात्यं समानो बन्धुरश्विना । अन्ति षद्भूतु वामवः ॥ (८-७३-१२)
यो वां रजांस्यश्विना रथो वियाति रोदसी । अन्ति षद्भूतु वामवः ॥ (८-७३-१३)
आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् । अन्ति षद्भूतु वामवः ॥ (८-७३-१४)
मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् । अन्ति षद्भूतु वामवः ॥ (८-७३-१५)
अरुणप्सुरुषा अभूदकर् ज्योतिर्ऋतावरी । अन्ति षद्भूतु वामवः ॥ (८-७३-१६)
अश्विना सु विचाकशद्वृक्षं परशुमाँ इव । अन्ति षद्भूतु वामवः ॥ (८-७३-१७)
पुरं न धृष्णवा रुज कृष्णया बाधितो विशा । अन्ति षद्भूतु वामवः ॥ (८-७३-१८)
आ मे हवं नासत्याश्विना गच्छतं युवम् । मध्वः सोमस्य पीतये ॥ (८-८५-१)
इमं मे स्तोममश्विनेमं मे शृणुतं हवम् । मध्वः सोमस्य पीतये ॥ (८-८५-२)
[[३१३]]
अयं वां कृष्णो अश्विना हवते वाजिनीवसू । मध्वः सोमस्य पीतये ॥ (८-८५-३)
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा । मध्वः सोमस्य पीतये ॥ (८-८५-४)
च्छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा । मध्वः सोमस्य पीतये ॥ (८-८५-५)
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना । मध्वः सोमस्य पीतये ॥ (८-८५-६)
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू । मध्वः सोमस्य पीतये ॥ (८-८५-७)
त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना । मध्वः सोमस्य पीतये ॥ (८-८५-८)
नू मे गिरो नासत्याश्विना प्रावतं युवम् । मध्वः सोमस्य पीतये ॥ (८-८५-९)
आनुष्टुभम्
यदद्य स्थः परावति यदर्वावत्यश्विना । यद् वा पुरू पुरुभुजा यदन्तरिक्ष आ गतो३म्
इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता । वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजो३म्
ईर्मान्यद् वपुषे वपुश्चक्रं रथस्य येमथुः । पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथो३ं
तदू षु वामेना कृतं विश्वा यद् वामनु ष्टवे । नाना जातावरेपसा समस्मे बन्धुमेयथो३म्
आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा । परि वामरुषा वयो घृणा वरन्त आतपो३ं
युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा । घर्मं यद् वामरेपसं नासत्यास्ना भुरण्यतो३म्
उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । यद् वां दंसोभिरश्विनात्रिर्नराववर्ततो३ं
मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वो३ं
सत्यमिद् वा उ अश्विना युवामाहुर्मयोभुवा । ता यामन् यामहूतमा यामन्ना मृळयत्तमो३म्
इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा । या तक्षाम रथाँ इवावोचाम बृहन्नमो३म् [५ । ७३ । १-१०] [१९७]
कूष्ठो देवावश्विनाद्या दिवो मनावसू ।
तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥ (५-७४-१)
कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
कस्मिन्न आ यतथो जने को वां नदीनां सचा ॥ (५-७४-२)
कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् ।
कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥ (५-७४-३)
पौरं चिद् ध्युदप्रुतं पौर पौराय जिन्वथः ।
यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥ (५-७४-४)
प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः ।
युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥ (५-७४-५)
[[३१४]]
अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये ।
नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥ (५-७४-६)
को वामद्य पुरूणामा वव्ने मर्त्यानाम् ।
को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥ (५-७४-७)
आ वां रथो रथानां येष्ठो यात्वश्विना ।
पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥ (५-७४-८)
शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः ।
अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥ (५-७४-९)
अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् ।
वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥ (५-७४-१०)
आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥ (८-८-१)
आ नून्यातमश्विना रथेन सूर्यत्वचा ।
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥ (८-८-२)
आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥ (८-८-३)
आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥ (८-८-४)
आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥ (८-८-५)
यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥ (८-८-६)
दिवश्चिद्रोचनादध्या नो गन्त्स्वर्विदा ।
धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥ (८-८-७)
किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥ (८-८-८)
आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥ (८-८-९)
आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
[[३१५]]
विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥ (८-८-१०)
अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥ (८-८-११)
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥ (८-८-१२)
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥ (८-८-१३)
यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥ (८-८-१४)
यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥ (८-८-१५)
प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥ (८-८-१६)
आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥ (८-८-१७)
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
राजन्तावध्वराणामश्विना यामहूतिषु ॥ (८-८-१८)
आ नो गन्तं मयोभुवा ऋश्विना शम्भुवा युवम् ।
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥ (८-८-१९)
याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥ (८-८-२०)
याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये ॥ (८-८-२१)
प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥ (८-८-२२)
त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥ (८-८-२३)
त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे । कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥ (१०-१४३-१)
त्यं चिदश्वं न वाजिनमरेणवो यमत्नत । दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥ (१०-१४३-२)
[[३१६]]
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः । अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥ (१०-१४३-३)
चिते तद्वां सुराधसा रातिः सुमतिरश्विना । आ यन्नः सदने पृथौ समने पर्षथो नरा ॥ (१०-१४३-४)
युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥ (१०-१४३-५)
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥ (१०-१४३-६)
त्रैष्टुभम्
आ भात्यग्निरुषसामनीकमुद् विप्राणां देवया वाचो अस्थुः ।
अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छो३ं
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठो३म्
उता यातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततानो३म् ॥
इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।
आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्तो३ं
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानो३म् [५ । ७६ । १-५] [२०२]
प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।
प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥ (५-७७-१)
प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।
उतान्यो अस्मद्यजते वि चावः पूर्वः पूर्वो यजमानो वनीयान् ॥ (५-७७-२)
हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न आ रथो वर्तते वाम् ।
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥ (५-७७-३)
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।
स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥ (५-७७-४)
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥ (५-७७-५)
ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रो३म् ॥
प्रात्र्यावाणा रथ्येव वीराऽजेव यमा वरमा सवेथे
[[३१७]]
मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषो३म् ॥
शृङ्गेव नः प्रथमा गन्तमर्वाक् छफाविव जर्भुराणा तरोभि-
श्चक्रवाकेव प्रति वस्तोरुस्राऽर्वाञ्चा यातं रथ्येव शक्रो३म् ॥
नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव
श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मो३म् ॥
वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वा-
ग्घस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छो३म् ॥
ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नो
नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मो३म् ॥
हस्तेव शक्तिमभि सन्ददी नः क्षामेव नः समजतं रजांसी-
मा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणैव स्वधितिं सं शिशीतो३म् ॥
एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदो अक्रँस्तानि
नरा जुजुषाणोप यातं बृहद् वदेम विदथे सुवीरो३म् ॥
नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः ।
यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥ (१-११६-१)
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥ (१-११६-२)
तुग्रो ह भुज्युमश्विनोदमेघे रयिो कश्चिन्ममृवाँ अवाहाः ।
तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥ (१-११६-३)
तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः ।
समुद्रस्य धन्वन्न आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥ (१-११६-४)
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।
यदश्विना ऊहथुर्भुज्युमस्त्खतारित्रां नावमातस्थिवांसम् ॥ (१-११६-५)
यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥ (१-११६-६)
युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् ।
कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥ (१-११६-७)
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥ (१-११६-८)
[[३१८]]
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् ।
क्षरन्न आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥ (१-११६-९)
जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥ (१-११६-१०)
तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥ (१-११६-११)
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥ (१-११६-१२)
अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः ।
श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥ (१-११६-१३)
आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥ (१-११६-१४)
चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥ (१-११६-१५)
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥ (१-११६-१६)
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥ (१-११६-१७) यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥ (१-११६-१८)
रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्येाासत्या वहन्ता ।
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥ (१-११६-१९)
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥ (१-११६-२०)
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥ (१-११६-२१)
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥ (१-११६-२२)
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
[[३१९]]
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥ (१-११६-२३)
दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥ (१-११६-२४)
प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
उत पश्यन्न अश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥ (१-११६-२५)
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥ (१-११७-१)
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥ (१-११७-२)
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ (१-११७-३)
अश्वं न गूळ्हमश्विना दुरेवैर्ऋषिं नरा वृषणा रेभमप्सु ।
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥ (१-११७-४)
सुषुप्वांसं न निरृतेरुपस्थे सूर्येा दस्रा तमसि क्षियन्तम् ।
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥ (१-११७-५)
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥ (१-११७-६)
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥ (१-११७-७)
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥ (१-११७-८)
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥ (१-११७-९)
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥ (१-११७-१०)
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥ (१-११७-११)
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥ (१-११७-१२)
[[३२०]]
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥ (१-११७-१३)
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुर्ऋज्रेभिरश्वैः ॥ (१-११७-१४)
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥ (१-११७-१५)
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥ (१-११७-१६)
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥ (१-११७-१७)
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥ (१-११७-१८)
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥ (१-११७-१९)
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वत्खयवे अश्विना गाम् ।
युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥ (१-११७-२०)
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥ (१-११७-२१)
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्येरयतम् ।
स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥ (१-११७-२२)
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
अस्मे रयिोासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥ (१-११७-२३)
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥ (१-११७-२४)
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥ (१-११७-२५)
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।
यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥ (१-११८-१)
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
[[३२१]]
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥ (१-११८-२)
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥ (१-११८-३)
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः ।
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥ (१-११८-४)
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके ॥ (१-११८-५)
उद्वन्दनमेरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
निष्टौग्र्यं पारयथः समुद्रात्पुनश् च्यवानं चक्रथुर्युवानम् ॥ (१-११८-६)
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥ (१-११८-७)
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥ (१-११८-८)
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥ (१-११८-९)
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥ (१-११८-१०)
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥ (१-११८-११)
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥ (३-५८-१)
सुयुग् वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥ (३-५८-२)
सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥ (३-५८-३)
आ मन्येथामा गतं कच्चिद्येवैर्विश्वे जनासो अश्विना हवन्ते ।
इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥ (३-५८-४)
तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
एह यातं पथिभिर्दवयानैर्दस्राविमे वां निधयो मधूनाम् ॥ (३-५८-५)
[[३२२]]
पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥ (३-५८-६)
अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा युवाना ।
नासत्या तिरोअह्न्युाुषाणा सोमं पिबतमस्रिधा सुदानू ॥ (३-५८-७)
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥ (३-५८-८)
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥ (३-५८-९)
क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते ।
कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥ (४-४३-१) को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः ।
रथं कमाहुर्दर्वदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥ (४-४३-२)
मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् ।
दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥ (४-४३-३)
का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना ।
को वां महश्चित् त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥ (४-४३-४)
उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् ।
मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥ (४-४३-५)
सिन्धुर्ह वां रसया सिञ्चदश्वान् घृणा वयोऽरुषासः परि ग्मन् ।
तदू षु वामजिरं चेति यान्येन पती भवथः सूर्यायाः ॥ (४-४३-६)
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ (४-४३-७)
तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना सङ्गतिं गोः ।
यः सूर्यां वहति वन्धुरायुर् गिर्वाहसं पुरुतमं वसूयुम् ॥ (४-४४-१)
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥ (४-४४-२)
को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ (४-४४-३)
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
[[३२३]]
पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ (४-४४-४)
आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥ (४-४४-५)
नू नो रयिं पुरुवीर्टाृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥ (४-४४-६)
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥ (४-४४-७)
स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥ (६-६२-१)
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।
पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥ (६-६२-२)
ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः ।
मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥ (६-६२-३)
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥ (६-६२-४)
ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥ (६-६२-५)
ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः ।
अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥ (६-६२-६)
वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः ।
दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥ (६-६२-७)
यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा ।
तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥ (६-६२-८)
य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् ।
गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥ (६-६२-९)
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन ।
सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥ (६-६२-१०)
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् ।
दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥ (६-६२-११)
[[३२४]]
क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥ (६-६३-१)
अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥ (६-६३-२)
अकारि वामन्धसो वरीमन्न अस्तारि बर्हिः सुप्रायणतमम् ।
उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥ (६-६३-३)
ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची ।
प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥ (६-६३-४)
अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् ।
प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥ (६-६३-५)
युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः ।
प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥ (६-६३-६)
आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥ (६-६३-७)
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् ।
स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥ (६-६३-८)
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा ।
शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥ (६-६३-९)
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् ।
भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥ (६-६३-१०)
आ वां सुम्ने वरिमन्सूरिभिः ष्याम् ॥ (६-६३-११)
युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥ (१-१८०-१)
युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
स्वसा यद्वां विश्वगूर्ती भराति वाजायेड्ढे मधुपाविषे च ॥ (१-१८०-२)
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥ (१-१८०-३)
युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
तद्वां नरावश्विना पश्व इष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥ (१-१८०-४)
[[३२५]]
आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥ (१-१८०-५)
नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् ।
प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥ (१-१८०-६)
वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥ (१-१८०-७)
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥ (१-१८०-८)
प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
धत्तं सूरिभ्य उत वा स्वश्व्योासत्या रयिषाचः स्याम ॥ (१-१८०-९)
तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८०-१०)
कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥ (१-१८१-१)
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥ (१-१८१-२)
आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः ।
वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥ (१-१८१-३)
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥ (१-१८१-४)
प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः ।
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥ (१-१८१-५)
प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन् ।
एवैरन्यस्य पीपयन्त वाजैर्वषन्तीरूर्ध्वा नद्यो न आगुः ॥ (१-१८१-६)
असर्जि वां स्थविरा वेधसा गीर्टााळ्हे अश्विना त्रेधा क्षरन्ती ।
उपस्तुताववतं नाधमान्यामन्न अयामञ् च्छृणुतं हवं मे ॥ (१-१८१-७)
उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।
वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥ (१-१८१-८)
युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् ।
[[३२६]]
हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८१-९)
तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥ (१-१८३-१)
सुवृद्रथो वर्तते यन्न अभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥ (१-१८३-२)
आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥ (१-१८३-३)
मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् ।
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥ (१-१८३-४)
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥ (१-१८३-५)
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्दवयानैर्विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८३-६)
ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥ (१-१८४-१)
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता ।
श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥ (१-१८४-२)
श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥ (१-१८४-३)
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥ (१-१८४-४)
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥ (१-१८४-५)
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्दवयानैर्विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८४-६)
प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥ (७-६७-१)
अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः ।
अचेति केतुरुषसः पुरस्ताच् च्छ्रिये दिवो दुहितुर्जायमानः ॥ (७-६७-२)
[[३२७]]
अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
पूर्वीभिर्यातं पथ्याभिरर्वाक् स्वर्विदा वसुमता रथेन ॥ (७-६७-३)
अवोर्वां नूनमश्विना युवाकुर् हुवे यद्वां सुते माध्वी वसूयुः ।
आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥ (७-६७-४)
प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् ।
विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥ (७-६७-५)
अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयोो अस्तु ।
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥ (७-६७-६)
एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥ (७-६७-७)
एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥ (७-६७-८)
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयुाुनन्ति ।
प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥ (७-६७-९)
नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥ (७-६७-१०)
आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।
घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥ (७-६९-१)
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥ (७-६९-२)
स्वश्वा यशसा यातमर्वाग् दस्रा निधिं मधुमन्तं पिबाथः ।
वि वां रथो वध्वा यादमानोऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥ (७-६९-३)
युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥ (७-६९-४)
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥ (७-६९-५)
नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् ।
पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥ (७-६९-६)
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
[[३२८]]
पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥ (७-६९-७)
नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥ (७-६९-८)
आ विश्ववाराश्विना गतं नः प्र तत् स्थानमवाचि वां पृथिव्याम् ।
अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्धरुवसे न योनिम् ॥ (७-७०-१)
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥ (७-७०-२)
यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ (७-७०-३)
चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥ (७-७०-४)
शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥ (७-७०-५)
यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ॥ (७-७०-६)
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥ (७-७०-७)
अप स्वसुरुषसो नग् जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥ (७-७१-१)
उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥ (७-७१-२)
आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥ (७-७१-३)
यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा ।
आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥ (७-७१-४)
युवं च्यवानुारसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् ।
निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥ (७-७१-५)
इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥ (७-७१-६)
[[३२९]]
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥ (७-७२-१)
आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥ (७-७२-२)
उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥ (७-७२-३)
वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥ (७-७२-४)
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥ (७-७२-५)
अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गो३ं
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वो३म्
अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठो३म्
उप त्या वह्नी गमतो विशं नो रक्षोहणा संभृता वीळुपाणी ।
समन्धांस्यग्मग मत्सराणि मा नो मर्धिष्टमो गतं शिवेनो३म्
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नो३म् [७ । ७३ । १-५] [२०७]
बार्हतम्
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथो३ं
युवं चित्रं ददथुर्जनं नरा चोदेथां सूनृतावते ।
अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधो३म्
आ यातमुप भूषतं मध्वः पिबतमश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतो३म्
अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः
मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयो३म्
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः । ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्यो३ं
प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।
[[३३०]]
उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितो३म् [७ । ७४ । १-६] [२१३]
अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥ (१-४७-१)
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥ (१-४७-२)
अश्विना मधुमत्तमं पातं सोममृतावृधा ।
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥ (१-४७-३)
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥ (१-४७-४)
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
ताभिः ष्वस्माँ अवत्खुभस्पती पातं सोममृतावृधा ॥ (१-४७-५)
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।
रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥ (१-४७-६)
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥ (१-४७-७)
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
इष्पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥ (१-४७-८)
तेन नासत्या गतं रथेन सूर्यत्वचा ।
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥ (१-४७-९)
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥ (१-४७-१०)
ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥ (८-२२-१)
पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥ (८-२२-२)
इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥ (८-२२-३)
युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥ (८-२२-४)
[[३३१]]
रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥ (८-२२-५)
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥ (८-२२-६)
उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥ (८-२२-७)
द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥ (८-८७-१)
पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥ (८-८७-२)
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥ (८-८७-३)
पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥ (८-८७-४)
आ नून्यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥ (८-८७-५)
वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥ (८-८७-६)
यत् स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥ (८-१०-१)
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥ (८-१०-२)
त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥ (८-१०-३)
ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥ (८-१०-४)
यदद्याश्विनावपाग्यत्प्राक् स्थो वाजिनीवसू ।
यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥ (८-१०-५)
यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
[[३३२]]
यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥ (८-१०-६)
औष्णिहम्
अश्विना वर्तिरस्मदा गोमद् दस्रा हिरण्यवत् । अर्वाग्रथं समनसा नि यच्छतो३ं
यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्जं वहतमश्विना युवो३म्
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उषर्बुधो वहन्तु सोमपीतयो३म् [१ । ९२ । १६-१८] [२१६]
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । हंसाविव पततमा सुताँ उप ॥ (५-७८-१)
अश्विना हरिणाविव गौराविवानु यवसम् । हंसाविव पततमा सुताँ उप ॥ (५-७८-२)
अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये । हंसाविव पततमा सुताँ उप ॥ (५-७८-३)
युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु । अतूर्तदक्षा वृषणा वृषण्वसू ॥ (८-२६-१)
युवं वरो सुषाम्णे महे तने नासत्या । अवोभिर्याथो वृषणा वृषण्वसू ॥ (८-२६-२)
ता वामद्य हवामहे हव्येभिर्वाजिनीवसू । पूर्वीरिष इषयन्तावति क्षपः ॥ (८-२६-३)
आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । उप स्तोमान्तुरस्य दर्शथः श्रिये ॥ (८-२६-४)
जुहुराणा चिदश्विना मन्येथां वृषण्वसू । युवं हि रुद्रा पर्षथो अति द्विषः ॥ (८-२६-५)
दस्रा हि विश्वमानुषङ् मक्षूभिः परिदीयथः । धियंजिन्वा मधुवर्णा शुभस्पती ॥ (८-२६-६)
उप नो यातमश्विना राया विश्वपुषा सह । मघवाना सुवीरावनपच्युता ॥ (८-२६-७)
आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् । देवा देवेभिरद्य सचनस्तमा ॥ (८-२६-८)
वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् । सुमतिभिरुप विप्राविहा गतम् ॥ (८-२६-९)
अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् । नेदीयसः कूळयातः पणीँरुत ॥ (८-२६-१०)
वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः । सजोषसा वरुणो मित्रो अर्यमा ॥ (८-२६-११)
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । अहरहर्वृषण मह्यं शिक्षतम् ॥ (८-२६-१२)
यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव । सपर्यन्ता शुभे चक्राते अश्विना ॥ (८-२६-१३)
यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् । वर्तिरश्विना परि यातमस्मयू ॥ (८-२६-१४)
अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् । विषुद्रुहेव यज्ञमूहथुर् गिरा ॥ (८-२६-१५)
जागतम्
अबोध्यग्निर्ज्म उदेति सूर्यो व्यु१षाश्चन्द्रा मह्यावो अर्चिषा ।
आयुक्षातामश्विना यातवे रथं प्रासावीद् देवः सविता जगत् पृथो३ं
यद् युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
[[३३३]]
अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहो३म्
अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विष्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदो३म्
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवो३ं
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथो३ं
युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या३ राथ्येभिः ।
अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाशो३म् [१ । १५७ । १-६] [२२२]
एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥ (४-४५-१)
उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
अपोर्णुवन्तस्तम आ परीवृत्स्वर्ण शुक्रं तन्वन्त आ रजः ॥ (४-४५-२)
मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् ।
आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥ (४-४५-३)
हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥ (४-४५-४)
स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना ।
यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥ (४-४५-५)
आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः ।
सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥ (४-४५-६)
प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥ (४-४५-७)
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियुाीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥ (१-११९-१)
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥ (१-११९-२)
सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥ (१-११९-३)
[[३३४]]
युवं भुज्युं भुरमाणं विभिर्गत्स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥ (१-११९-४)
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥ (१-११९-५)
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥ (१-११९-६)
युवं वन्दन्निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥ (१-११९-७)
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्न अभिष्टयः ॥ (१-११९-८)
उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥ (१-११९-९)
युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥ (१-११९-१०)
अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥ (१-१८२-१)
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥ (१-१८२-२)
किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥ (१-१८२-३)
जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
वाचं वाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥ (१-१८२-४)
युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥ (१-१८२-५)
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥ (१-१८२-६)
कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥ (१-१८२-७)
तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
[[३३५]]
अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनुाीरदानुम् ॥ (१-१८२-८)
यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता ।
शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥ (१०-३९-१)
चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि ।
यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥ (१०-३९-२)
अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।
अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर् भिषजा रुतस्य चित् ॥ (१०-३९-३)
युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।
निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥ (१०-३९-४)
पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर् भिषजा मयोभुवा ।
ता वां नु नव्याववसे करामहेऽयोासत्या श्रदरिर्यथा दधत् ॥ (१०-३९-५)
इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् ।
अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥ (१०-३९-६)
युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् ।
युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥ (१०-३९-७)
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः ।
युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥ (१०-३९-८)
युवं ह रेभं वृषणा गुहा हितमुद्येरयतं ममृवांसमश्विना ।
युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥ (१०-३९-९)
युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् ।
चर्कृत्यं ददथुर्दरवयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥ (१०-३९-१०)
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् ।
यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥ (१०-३९-११)
आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना ।
यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥ (१०-३९-१२)
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वत्खयवे धेनुमश्विना ।
वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्गर्सिताममुञ्चतम् ॥ (१०-३९-१३)
एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।
न्यमृक्षाम योषणां न मर्ये नित्यो सूनुं तनयं दधानाः ॥ (१०-३९-१४)
[[३३६]]
रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।
प्रातर्यावाणं विभ्वं विशे विशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥ (१०-४०-१)
कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।
को वां शयुत्रा विधवेव देवरं मर्येा योषा कृणुते सधस्थ आ ॥ (१०-४०-२)
प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् ।
कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥ (१०-४०-३)
युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे ।
युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥ (१०-४०-४)
युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।
भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥ (१०-४०-५)
युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः ।
युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥ (१०-४०-६)
युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः ।
युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥ (१०-४०-७)
युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः ।
युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥ (१०-४०-८)
जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु ।
आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥ (१०-४०-९)
जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥ (१०-४०-१०)
न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु ।
प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥ (१०-४०-११) आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्या अशीमहि ॥ (१०-४०-१२)
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।
कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥ (१०-४०-१३)
क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती ।
क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥ (१०-४०-१४)
समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् ।
[[३३७]]
परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥ (१०-४१-१)
प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् ।
विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥ (१०-४१-२)
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् ।
विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥ (१०-४१-३)
त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥ (१-३४-१)
त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः ।
त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥ (१-३४-२)
समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥ (१-३४-३)
त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥ (१-३४-४)
त्रिर्नो रयिं वहतमश्विना युवं त्रिर्दवताता त्रिरुतावतं धियः ।
त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥ (१-३४-५)
त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः ।
ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहत्खुभस्पती ॥ (१-३४-६)
त्रिर्नो अश्विना यजता दिवे दिवे परि त्रिधातु पृथिवीमशायतम् ।
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥ (१-३४-७)
त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥ (१-३४-८)
क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः ।
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥ (१-३४-९)
आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥ (१-३४-१०)
आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥ (१-३४-११)
आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
७शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥ (१-३४-१२)
[[३३८]]
ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतो३ं
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
याभिस्त्रिमन्तुरभवद् विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतो३ं
याभी रेभं निवृतं सितमद्भ्य उद् वन्दनमैरयतं स्वर्दृशे ।
याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः शुचन्ति धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीह्ळ् आजावजिन्वतम् ।
याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
[[३३९]]
याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिरङ्गिरो मनसा निरण्यतोऽग्रं गच्छतो विवरे गो अर्णसः ।
याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षितम् ।
याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
मधु प्रियं भरथो यत् सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतो३ं
याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतो३म्
अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातो३ं
द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यो३ं
पाड्क्तम्
प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवो३म्
अत्यायातमश्विना तिरो विश्वा अहं सना ।
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवो३म्
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
रुद्रा हिरण्यवर्तनी जुषाणा वाजीनीवसू माध्वी मम श्रुतं हवो३ं
सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।
[[३४०]]
उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवो३ं
बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवो३म्
आ वाम् नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।
वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवो३म्
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवो३म्
अस्मिन् यज्ञे अदाभ्या जरितारं शुभस्पती ।
अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवो३म्
अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।
अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवो३म् [५ । ७५ । १-९]
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्नः पार्थिवेभ्यो३ं
जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति । पाहि नो दिद्युतः पतन्त्यो३ं
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नो३ं
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः । सं चेदं वि च पश्येमो३ं
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य । वि पश्येम नृचक्षसो३म् (१० । १५८ । १-५)
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यो३म्
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसो३म्
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथो३ं
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनो३म्
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वं स्वर्दृशो३ं
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसो३ं
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्यो३ं
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षणो३म्
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभो३ं (१ । ५० । १-९)
चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नो३म्
आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चो३ं
सूर्यो देवीमुषसं रोचमानाम् । मर्यो न योषामभ्येति पश्चो३ं
यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्राय भद्रो३म्
[[३४१]]
भद्रा अश्वा हरितः सूर्यस्य । चित्रा एतग्वा अनुमाद्यासो३ं
नमस्यन्तो दिव आ पृष्ठमस्थुः । परि द्यावापृथिवी यन्ति सद्यो३ं
तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततं सं जभारो३ं
यदेदयुक्त हरितः सधस्थात् । आद्रात्री वासस्तनुते सिमस्मो३ं
तन्मित्रस्य वरुणस्याभिचक्षे । सूर्यो रूपं कृणुते द्योरुपस्थो३म्
अनन्तमन्यद् रुशदस्य पाजः । कृष्णमन्यद्धरितः सं भरन्तो३म्
अद्या देवा उदिता सूर्यस्य । निरंहसः पिपृता निरवद्यो३ं
तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यो३ं (१ । ११५ । १-६)
नमो मित्रस्य वरुणस्य चक्षसे । महो देवाय तदृतं सपर्यतो३ं
दूरेदृशे देवजाताय केतवे । दिवस्पुत्राय सूर्याय शंसतो३ं
सा मा सत्योक्तिः परि पातु विश्वतः । द्यावा च यत्र ततनन्नहानि चो३ं
विश्वमन्यन्नि विशते यदेजति । विश्वाहापो विश्वाहोदेति सूर्यो३ं
न ते अदेवः प्रदिवो नि वासते । यदेतशेभिः पतरै रथर्यसो३म्
प्राचीनमन्यदनु वर्तते रजः । उदन्येन ज्योतिषा यासि सूर्यो३ं
येन सूर्य ज्योतिषा बाधसे तमः । जगच्च विश्वमुदियर्षि भानुनो३ं
तेनास्मद्विश्वामनिरामनाहुतिम् । अपामीवामप दुष्वप्न्यं सुवो३ं
विश्वस्य हि प्रेषितो रक्षसि व्रतम् । अहेळयन्नुच्चरसि स्वधा अनो३ं
यदद्य त्वा सूर्योपब्रवामहै । तं नो देवा अनु मंसीरत क्रतो३ं
तं नो द्यावापृथिवी तन्न आपः । इन्द्रः शृण्वन्तु मरुतो हवं वचो३म्
मा शूने भूम सूर्यस्य संदृशि । भद्रं जीवन्तो जरणामशीमहो३ं
विश्वाहा त्वा सुमनसः सुचक्षसः । प्रजावन्तो अनमीवा अनागसो३म्
उद्यन्तं त्वा मित्रमहो दिवे दिवे । ज्योग्जीवाः प्रति पश्येम सूर्यो३म्
महि ज्योतिर्बिभ्रतं त्वा विचक्षण । भास्वन्तं चक्षुषे चक्षुषे मयो३म्
आरोहन्तं बृहतः पाजसस्परि । वयं जीवाः प्रति पश्येम सूर्यो३ं
यस्य ते विश्वा भुवनानि केतुना । प्र चेरते नि च विशन्ते अक्तुभो३म्
अनागास्त्वेन हरिकेश सूर्य । अह्नाह्ना नो वस्यसा वस्यसोदिहो३ं
शं नो भव चक्षसा शं नो अह्ना । शं भानुना शं हिमा शं घृणेनो३ं
यथा शमध्वञ्छमसद्दुरोणे । तत्सूर्य द्रविणं धेहि चित्रो३म्
अस्माकं देवा उभयाय जन्मने । शर्म यच्छत द्विपदे चतुष्पदो३म्
[[३४२]]
अदत्पिबदूर्जयमानमाशितम् । तदस्मे शं योररपो दधातनो३ं
यद्वो देवाश्चकृम जिह्वया गुरु । मनसो वा प्रयुती देवहेळनो३म्
अरावा यो नो अभि दुच्छुनायते । तस्मिन्तदेनो वसवो नि धेतनो३म् (१० । ३७ । १-१२)
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहो३म्
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसो३म् (७ । ३२ । २६-२७)
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषो३ं
न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहो३म् (७ । ३२ । २२-२३)
बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभो३ं
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् ।
अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशतो३म् (७ । ६६ । १०-११)
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभो३ं [१ । २२ । १३]
ते हि द्यावापृथिवी विश्वशम्भुवा । ऋतावरी रजसो धारयत्कवो३ं
सुजन्मनी धिषणे अन्तरीयते । देवो देवी धर्मणा सूर्यः शुचो३ं (१ । १६० । १)
विश्वस्य देवी मृचयस्य जन्मनः । न या रोषाति न ग्रभो३ं (आ.श्रौ.६ । ५ । १८)
शो३ंसावो३म् बृहस्पते अति यदर्यो अर्षद् । द्युमद्विभाति क्रतुमज्जनेषो३ं
यद्दीदयच्छवस ऋतप्रजात । तदस्मासु द्रविणं धेहि चित्रो३म् ॥ (२ । २३ । १५) इति त्रिः परिदध्यात् ।
उक्थं वाचि इति शस्त्वा जपेत् ।
अत्राश्विनग्रहान्ते तिरोअह्नसंज्ञकः पुरोडाशः ।
प्रशास्ता- इमे सोमासस्तिरो अह्न्यासस्तीव्रास्तिष्ठन्ति पीतये युवभ्याम् ।
हविष्मता नासत्या रथेनायातमुपभूषतं पिबध्यो३म् ॥ (आ.श्रौ.६ । ५ । २४)
होता यक्षदश्विना सोमानां तिरो अह्न्यानां त्रिर्वर्तिर्यातं त्रिरिह मादयेथामुतो तुरीयं नासत्या वाजिनाय धेनुः सजूरग्नी रोहिदश्वो घृतस्नुः सजूरुषा अरुणीभिः सजूः सूर्य एतशेन सजोषावश्विना दंसोभिः करत एवाश्विना जुषेतां मदेतां वीतां पिबतां सोमं होतर्यज ॥
होता- ये३ यजामहे प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
[[३४३]]
तिरो अर्यो हवनानि श्रुतं नो (७ । ६८ । २) भा पिबतमश्विनोभा नः शर्म यच्छतम् ।
अविद्रियाभिरूतिभी३ र्वौ३षट् ॥ (१ । ४६ । १५)
यद्येतस्य पुरोडाशस्य स्विष्टकृता चरेयुस्तदा-
पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः । तं जुषस्व यविष्ठ्यो३म् ॥ (३ । २८ । २)
अग्ने वृधान आहुतिं पुरोळाशं जातवेदः । जुषस्व तिरोअह्न्या३ं वौ३षट् ॥ (३ । २८ । ६) इति संयाज्ये । नात्रादेशः । ततो मृगतीर्थसर्पणमनूयाजादिकम् । सूक्तवकप्रैषे-
अग्निमद्य होयारमवृणीतायं सुन्वन् यजमानः पचन् पक्तीः पचन् पुरोळाशान् गृह्णन्नग्नय आज्यं गृह्णन्त्सोमायाज्यं बध्नन्नग्नय इन्द्राग्नोभ्यां छागौ बध्नन्निन्द्राय सरस्वत्यै मेषौ सुन्वन्निन्द्राय सोमं भृञ्जन् हरिभ्यां धानाः सूपस्था अद्य देवो वनस्पतिरभवदग्नय आज्येन सोमायाज्येनाग्नय इन्द्राग्निभ्यां छागाभ्यामिन्द्राय सरस्वत्यै मेषाभ्यामिन्द्राय सोमेन हरिभ्यां धानाभिरद्यतं मेदस्तः प्रतिपचताग्रभीषुरवीवृधन्त पुरोळाशैरपादिन्द्रः सोमं गवाशिरं यवाशिरं तीव्रान्तं बहुदमध्यमुपोत्थामदाश्रौद्विमदाँ आनळवीवृधतां गूषैस्त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं सुन्वन् यजमानो बहुभ्य आसङ्गतेभ्यः । एष मे देवेषु वसुवार्यायक्ष्यत इति ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रू३हि ॥
होता- इदं द्यावापृथिवी इत्यदि अग्निरिदं…, सोम इदं…, अग्निरिदं…, इन्द्राग्नी इदं…, इन्द्र इदं…, सरस्वतीदं…, वनस्पतिरिदं…, इन्द्रो वसुमानिदं…, इन्द्रो रुद्रवानिदं…, इन्द्र आदित्यवानृभुमान् विभुमान् बृहस्पतिवान् विश्वदेव्यावानिदं…, देवा आज्यपा इत्यादि । शंयुवाकादि यज्ञपुच्छं समानमान्तम् ।
सन्तिष्ठतेऽतिरात्रः ॥